Bodhavilāsa
The Play of Awareness
बोधविलासः
SKॐ नमो नेत्राय॥ नमः शिवाय सततं पञ्चकृत्यविधायिने। चिदानन्दघनस्वात्मपरमार्थावभासिने॥ १॥
SKचितिः स्वतन्त्रा विश्वस्य हेतुर् इत्य् अभिधीयते। स्वातन्त्र्यरूपा ज्ञाता च सिद्धीर् वा संप्रयच्छते॥ २॥
SKसा स्वभित्तौ स्वेच्छयैव विश्वस्योन्मीलनाय च। नानानुरूपवैचित्र्याद् ग्राह्यग्राहकभेदतः॥ ३॥
SKविश्वस्य तस्य वैचित्र्यं ग्राह्यभेदेन संस्थितम्। नानावैचित्र्ययोगेन चोत्तमाधमसङ्ख्यया॥ ४॥
SKचितिसङ्कोचनाच् चित्तं चेतनो ऽपि महेश्वरः। वटधनिकावत् तत्र विश्वरूपं च तद् विदुः॥ ५॥
SKचैतन्यम् आत्मनो रूपं शुद्धम् अत्यन्तनिर्मलम्। तद् एव नियमासक्तं चित्तं चिद् अभिधीयते॥ ६॥
SKअर्थोन्मुखतया संविच् चित्ते विश्रान्तिम् आगता। सङ्कोचात्मप्रधानत्वाच् चितिश् चित्तं विदुर् बुधाः॥ ७॥
SKमायाप्रमाता चिद्रूपस् तन्मयत्वेन देहिनाम्। वर्तते विषयासक्तः सद्विवेकविवर्जितः॥ ८॥
SKसदैकः प्रतिथश् चित्तं कलासत्त्वगुणादिभिः। सप्तप्रमतृकत्वेन षट्त्रिंशत्तत्त्वसङ्ख्यया॥ ९॥
SKएकः सर्वगतः शुद्धः सम्बोधात्मा महेश्वरः। सैवाहन्तापरिज्ञानान् मुक्तिः करतले स्थिता॥ १०॥
SKप्रमातृसप्तकत्वेन षट्त्रिंशत्तत्त्वसङ्ख्यया। भावितः स महेशानो मोक्षलक्ष्मीः प्रवर्तते॥ ११॥
SKतद्भूमिका दर्शनाद्यास् सर्वा एव न संशयः। भूमिकाः कृत्रिमा यद्वन् नटो गृह्णाति स्वेच्छया॥ १२॥
SKतद्वद् एव चिदानन्दस्वेच्छोच्छलितबृंहितः। आत्मा गृह्णाति विपुला दर्शनाद्या विभूतयः॥ १२॥
SKचिदानन्दसमुल्लासोल्लसितात्मा विराजते। चिद्वत्स्वशक्तिसङ्कोचात् संसारे मलिनायते॥ १३॥
SKअपूर्णो ऽस्मीति विविधैर् मलैः स मलिनीकृतः। मायीयाणवकार्माख्यैर् व्यापको ऽपि जगद्विभुः॥ १५॥
SKव्यापी यद्वन् महादेवः क्रोति पञ्चकृत्यताम्। तद्वद् एवायम् आत्मापि कुरुते शक्तिमोहितः॥ १६॥
SKशक्तो विकासाच् छक्तीशो गीयते तत्त्ववादिभिः। सङ्कोचनात् सङ्कोचितः संसारीत्य् अभिधीयते॥ १७॥
SKमाया रूपं हि यत् किंचिद् आलोकयितुम् उद्यता। साध्यसृष्टिं विजानीयाद् अन्या शक्तिः स्थितिर् मता॥ १८॥
SKसंहारात् संहृता देवी चिदैक्ये ऽनुग्रहो मतः। तदेकसाराप्रथनात् तिरोधानाभिधीयते॥ १९॥
SKइत्थं सदा संनिहितः पञ्चवाहविधिः क्रमात्। ज्ञातश् चिन्तामणिर् असाव् अज्ञानात् काष्टलोष्टवत्॥ २०॥
SKसद्विमर्शबलेनैवं नित्यं यः परिशीलते। स मुक्तः सर्वबन्धेभ्यो नित्यानन्दमयो भवेत्॥ २१॥
SKचिद्वह्निर् ग्रसते सो ऽयं सुप्रबुद्धो ऽस्त्य् असौ यदा। तदासौ विमलो ज्ञेयश् चिद्वह्निः सर्वभक्षकः॥ २२॥
SKएतद्बलेन संयुक्तो योगी निर्वाणलक्षणः। पदं प्राप्नोति विमलं सो ऽचिरान् नात्र संशयः॥ २३॥
SKचिद्वह्निर् बललाभे ऽपि विश्वम् आभाति चिन्मयम्। स्वानन्दामृतकल्लोलम् एतद् उच्छलितं बहिः॥ २४॥
SKतद् एव श्यानतां यातं भावरूपैर् विभाव्यते। स्वात्मा महेश्वरो देवः क्रीडते परमेश्वरः॥ २५॥
SKइति यः सततं वेत्ति स मुक्तो मोचयत्य् अपि। सत्त्वव्रातं क्षणेनैव घोरात् संसारबन्धनात्॥ २६॥
SKयः कश्चित् आनन्दबलः स स्वरूपपदस्थितः। इति यस्य समुल्लासोल्लासितोदयशालिनः॥ २७॥
SKतस्य स्वरूपनिष्ठस्य व्युत्थाने ऽपि तद् अर्थ्यते। एतत् प्रयत्नसामार्थ्याज् जनैर् एवाधिगम्यते॥ २८॥
SKमध्यधामविकासाच् च चिदानन्दात् प्रकाशते। तत्प्रकाशाद् दिव्यदृष्टिर् ज्ञानरूपा विभाव्यते॥ २९॥
SKनिर्मला सुप्रभा शुद्धा नित्यानन्दमयी परा। निर्देहच्छेदजालापि ज्ञानदृष्टिर् विजृम्भते॥ ३०॥
SKमध्यधामविकासे तु उपायो बलवत्स्थितिः। विकल्पक्षयसङ्कोचविकासाद्या अनेकशः॥ ३१॥
SKअकिञ्चिच्चिन्तनाद् एव विकल्पानां क्षयो भवेत्। चिद्बोधाद् विलसच्छक्ती रक्तासौ भावमण्डले॥ ३२॥
SKतत्रानुरक्ता दिव्यौघं पश्यते विमलात्मकम्। शक्तिसङ्कोचम् एतद् धि प्रोच्यते ब्रह्मवादिभिः॥ ३३॥
SKआद्यन्तकोटिविश्रामबिन्दुनादलयास् तथा। अशङ्कितभयक्रोधबीभत्सादिपरिग्रहाः॥ ३४॥
SKइत्य् एतत् कथितं देवि मध्यधामविकासकम्। तत्र शक्तो दिनैर् एवं प्रप्नोति परसम्पदम्॥ ३५॥
SKयो ऽन्तःसमाधिसंस्कारं भ्रमते विमलत्विषाम्। स विसर्गबलाद् एव विमृश्य च पुनः पुनः॥ ३६॥
SKव्युत्थाने ऽपि यतस् तस्य स्वरूपं सम्प्रकाशते। योगिनो बोधनिष्ठस्य नित्यानन्दरसस्य च॥ ३७॥
SKतत् प्रकाशानन्दमयी मन्त्रवीर्योपबृंहिता। पूऋनाहन्ताचिद् इत्य् अन्तःसमुल्लासाभियोगिनः॥ ३८॥
SKतत्रासौ विलसन् योगी मन्त्रेश्वरपदे स्थितः। तत्र शक्तो विभुर् यद्वत् क्रीडते शक्तिबृंहितः॥ ३९॥
SKएवं स्वतन्त्रता तस्य व्यापकस्य जगद्विभोः। नानाभेदजुषश् चित्रपदस्थितस्याखण्डिता॥ ४०॥
SKएतद् अद्वयम् इत्य् उक्तं ज्ञानामृतम् अनुत्तमम्। यः पिबेच् छाम्यते तस्य संसारविषमूर्छनम्॥ ४१॥
SKबोधोल्लासविधानेयं शिवप्राप्यै महात्मनाम्। राज्ञः क्षेमाभिधानस्य शास्त्रम् अत्यन्तनिर्मलम्॥ ४२॥