Bhairavastava
Hymn to Bhairava
भैरवस्तवः
SKव्याप्तचराचरभावविशेषं चिन्मयम् एकम् अनन्तम् अनादिम् | भैरवनाथम् अनाथशरण्यं त्वन्मयचित्ततया हृदि वन्दे ||
SKत्वन्मयम् एतद् अशेषम् इदानीं भाति मम त्वदनुग्रहशक्त्या | त्वं च महेश सदैव ममात्मा स्वात्ममयं मम तेन समस्तम् ||
SKस्वात्मनि विश्वगये त्वयि नाथे तेन न संसृतिभीतिकथास्ति | सत्स्व् अपि दुर्धरदुःखविमोहत्रासविधायिषु कर्मगणेषु ||
SKअन्तक मां प्रति मा दृशम् एनां क्रोधकरालतमां विनिधेहि | शङ्करसेवनचिन्तनधीरो भीषणभैरवशक्तिमयो ऽस्मि ||
SKइत्थं उपोढभवन्मयसंविद्दीधितिदारितभूरितमिस्रः | मृत्युयमान्तककर्मपिशाचैर् नाथ नमो ऽस्तु न जातु बिभेमि ||
SKप्रोदितसत्यविबोधमरीचिप्रेक्षितविश्वपदार्थसतत्त्वः | भावपरामृतनिर्भरपूर्णे त्वय्य् अहम् आत्मनि निर्वृतिम् एमि ||
SKमानसगोचरम् एति यदैव क्लेशदशा ऽतनुतापविधात्री [१] | नाथ तदैव मम त्वदभेदस्तोत्रपरामृतवृष्टिर् उदेति ||
SKशङ्कर सत्यम् इदं व्रतदानस्नानतपो भवतापविदारि | तावकशास्त्रपरामृतचिन्ता स्यन्दति चेतसि निर्वृतिधाराम् ||
SKनृत्यति गायति हृष्यति गाढं संविद् इयं मम भैरवनाथ | त्वां प्रियम् आप्य सुदर्शनम् एकं दुर्लभम् अन्यजनैः समयज्ञम् ||
SKवसुरसपौषे कृष्णदशम्याम् अभिनवगुप्तः स्तवम् इमम् अकरोत् | येन विभुर् भवमरुसन्तापं शमयति जनस्य झटिति दयालुः ||
SKसमाप्तम् स्तवम् इदम् अभिनवाख्यम् पद्यनवकम् ||