Sutraya

Bodhapañcadaśikā

Fifteen Verses on Consciousness · बोधपञ्चदशिका

Bodhapañcadaśikā

Fifteen Verses on Consciousness

बोधपञ्चदशिका

SK
अनस्तमितभारूपस् तेजसां तमसाम् अपि | य एको ऽन्तर् यदन्तश् च तेजांसि च तमांसि च ||
SK
स एव सर्वभूतानां स्वभावः परमेश्वरः | भावजातं हि तस्यैव शक्तिर् ईश्वरतामयी ||
SK
शक्तिश् च शक्तिमद्रूपाद् व्यतिरेकम् न वाञ्छति | तादात्म्यम् अनयोर् नित्यं वह्निदाहिकयोर् इव ||
SK
स एव भैरवो देवो जगद्भरणलक्षणः | स्वात्मादृषे समग्रं हि यच्छक्त्या प्रतिबिम्बितम् ||
SK
तस्यैवैषा परा देवी स्वरूपामर्शनोत्सुका | पूर्णत्वं सर्वभवेषु यस्या नाल्पं न चाधिकम् ||
SK
एष देवो ऽनया देव्या नित्यं क्रीडारसोत्सुकः | विचित्रान् सृष्टिसंहारान् विधत्ते युगपद् विभुः ||
SK
अतिदुर्घटकारित्वम् अस्यानुत्तरम् एव यत् | एतद् एव स्वतन्त्रत्वम् ऐस्वर्यं बोधरूपता ||
SK
परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् | जडाद् विलक्षणो बोधो यतो न परिमीयते ||
SK
एवम् अस्य स्वतन्त्रस्य निजशक्त्युपभेदिनः | स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस्थिताः ||
SK
तेषु वैचित्र्यम् अत्यन्तम् ऊर्ध्वाधस् तिर्यग् एव यत् | भुवनानि तदंशाश् च सुखदुःखमतिश् च या ||
SK
यद् एतस्यापरिज्ञानं तत्स्वातन्त्र्यं हि वर्णितम् | स एव खलु संसारो मूडानां यो विभीषकः ||
SK
तत्प्रसादरसाद् एव गुर्वागमत एव वा | शास्त्राद् वा परमेशस्य यस्मात् कस्माद् उपागतम् ||
SK
यत् तत्त्वस्य परिज्ञानं स मोक्षः परमेशतः | तत् पूर्णत्वं प्रबुद्धानां जीवन्मुक्तिश् च सा स्मृता ||
SK
एतौ बन्धविमोक्षौ च परमेशस्वरूपतः | न भिद्येते न भेदो हि तत्त्वतः परमेश्वरे ||
SK
इत्थम् इच्छाकलाज्ञानशक्तिशूलाम्बुजाश्रितः | भैरवः सर्वभावानां स्वभावः परिशील्यते ||
SK
सुकुमारमतीन् शिष्यान् प्रबोधयितुम् अञ्जसा |
SK
इमे ऽभिनवगुप्तेन श्लोकाः पञ्चदशोदिताः ||

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Bodhapañcadaśikā: Encoded by Marino Faliero (Gandharva-nagaram / DSO).

Source