Sutraya

Īśvarapratyabhijñāvimarśinī

The Reflection on Recognition of the Lord · ईश्वरप्रत्यभिज्ञाविमर्शिनी

Full text

The Reflection on Recognition of the Lord

ईश्वरप्रत्यभिज्ञाविमर्शिनी

SK
ॐ नमः संविद्वपुषे शिवाय /
SK
अथ ईश्वरप्रत्यभिज्ञाविमर्शिनी /
SK
निराभासात्पूर्णादहमिति पुरा भासयति य द्विशाखामाशास्ते तदनु च विभङ्क्तुं निजकलाम् / स्वरूपादुन्मेषप्रसरणनिमेषस्थितिजुषस्- तदद्वैतं वन्दे परमशिवशक्त्यात्म निखिलम् //
SK
श्रोत्रैयम्बकसद्वंशमध्यमुक्तामयस्थितेः / श्रोसोमानन्दनाथस्य विज्ञानप्रतिबिम्बकम् //
SK
अनुत्तरानन्यसाक्षिपुमर्थोपायमभ्यधात् / ईश्वरप्रत्यभिज्ञाख्यं यः शास्त्रं यत्सुनिर्मलम् //
SK
तत्प्रशिष्यः करोम्येतां तत्सूत्रविवृतिं लघुम् / बुद्ध्वाभिनवगुप्तो ऽहं श्रीमल्लक्ष्मणगुप्ततः //
SK
वृत्त्या तात्पर्यं टीकया तद्विचारः सूत्रेष्वेतेषु ग्रन्थकारेण दृब्धम् / तस्मात्सूत्रार्थं मन्दबुद्धीन्प्रतीत्थं सम्यग्व्याख्यास्ये प्रत्यभिज्ञाविविक्त्यै //
SK
सर्वत्राल्पमतौ यद्वा कुत्रापि सुमहाधियि / न वान्यत्रापि तु स्वात्मन्येषा स्यादुपकारिणी //
SK
ग्रन्थकारः अपरोक्षमात्मदृष्टशक्तिकां परमेश्वरतन्मयतां परत्र संचिक्रमयिषुः, स्वतादात्म्यसमर्पणपूर्वम् अविघ्नेन तत्सम्पत्तिं मन्यमानः, परमेश्वरोत्कर्षप्रह्वतापरामर्शशेषतया परमेश्वरतादात्म्ययोग्यतापादनबुद्ध्याप्रयोजनम् आसूत्रयतिः ----
SK
कथंचिदासाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन् / समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि //
SK
इह प्रमेश्वरं प्रति या इयं कायवाङ्मनसां तदेकविषयतानियोजनालक्षणा प्रह्वता सा नमस्कारस्य अर्थः / सा च तथा कर्तुम् उचिता प्रामाणिकस्य भवति , यदि सर्वतो नमस्करणीयस्य उत्कर्षं पश्येत् / अन्यथा युक्तिम् अपरामृशतः अपरमार्थे ऽपि नमस्कारोद्यतस्य सांसारिकजनमध्यपातित्वमेव / यथोक्तम्
SK
{न विन्दन्ति परं देवं विद्यारागेण रञ्जिताः /}
SK
इति / तावति हि मायीयाशुद्धविद्यारागकलासंचार्यमाणस्य पशुत्वमेव / इतरापेक्षया तु कतिपयाध्वोत्तीर्णतया समुत्कर्षो ऽपि स्यात् / तदुक्तम्
SK
{कस्य नाम करणैरकृत्रिमैः पश्यतस्तव विभूतिमक्षताम् / विभ्रमादवरतो ऽपि जायते त्वां व्युदस्य वरदस्तुतिस्पृहा //}
SK
इति श्रीमद्विद्याधिपतिना / एतश्च आगमकाण्डे निरूपयिष्यामः / तस्मात् निखिलोत्कर्षपरामर्शनमपि तत्र स्वीकार्यम् / यद्यपि आयातदृढेश्वरशक्तिपातस्य स्वयमेवेयमियती परमशिवभूमिरभ्येति हृदयगोचरम्, न तु अत्र स्वात्मीयः पुरुषकारः को ऽपि निर्वहति, सर्वस्य तस्य मायामयत्वेनान्धतमसप्रख्यस्यामायीयं शुद्धप्रकाशं स्वप्रतिद्वन्द्विनं प्रति उपायत्|अनुपपत्तेः, वजिगमिषया निःशेषोत्कर्षविशेषाभिधीयि-जयत्यादिशब्दानुवेधेन परामर्शनीयम्, इति नमस्कारे आक्षेप्यः / जयपदोदीरणे ऽपि तादृशसमुत्कर्षातिशयशालिनि स्वात्मानमप्रह्वीकुर्वाणस्य तटस्थस्य परमनात्मोपकारित्वम् इति समुत्कर्षविशेषाक्षिप्त एव नमस्कारो ऽवश्यमभ्यन्तरीकार्यः, इत्यनया युक्त्या जय-नमस्कारैकतरप्रक्रमे अन्यतरस्य अर्थाक्षिप्तता अवश्यमङ्गीकर्तव्या / वन्दन-नमन-स्मरण-प्रध्यानप्रभृतीनामपि नमस्कार-जयत्यर्थमात्रपरमार्थत्वाद् इयमेव वर्तनी / अत्रायं पुनर्ग्रन्थकृता तादृक् प्रक्रम आश्रितः, यत्र द्वयमपि इदं स्वशब्दपरामृष्टमेव / एतच्च पदार्थव्याख्यानावसर एव प्रकटीभविष्यति / स्वशब्दपरामर्शश्च सर्वजनहितत्वाद्युक्तियुक्तः, स हि सर्वस्यैव झटिति हृदयंगमः, अर्थाक्षिप्तस्तु कतिचिदेव प्रति स्वप्रतिभोदितवाक्तत्त्वावमर्शासंभवात्, वाक्तत्त्वावमर्शशून्यस्य च प्रकाशस्याप्रकाशकल्पत्वात् / एतच्च स्फुटीभविष्यति / अभिप्रायेण प्रसिद्धजय-नमः प्रभृतिशब्दशट्यानाश्लेषेण इमां सरणिम् अनुसरसि स्म ग्रन्थकारः /
SK
इह यद्यत्किं चन(KSS: किंचित्) स्फुरति तत्तद्वक्ष्यमाणेश्वररूपस्वात्मप्रथामात्रम्, तत्र तु उपायोपेयभावप्रभृतिः कार्यकारणभावो ऽपि यथाप्रकाशं परमार्थभूत एव, प्रकाशस्य अनपह्नवनीयत्वात् / यदाह भट्टतिवाकरवत्सो विवेकाञ्जने
SK
{प्रकाशश्वैव भावानाम् ................................ /}
SK
इत्यादि
SK
{............................................ न शापोक्त्या विलीयते /}
SK
इत्यन्तम् / तत्र तु कार्यकारणभावे ऽपि क्वचित् परिपूर्णस्वातन्त्र्यलक्षणमाहेश्वर्यनान्तरीयकताक्रोडीकृतानन्तशक्तिचक्रचुम्बितभावभावितप्रथान्तरव्यचधानं चकास्ति ; स तु मायीयत्वेन स्थापयिष्यते , जडचेतनाद्यवान्तरभेदशतसंभिन्नश्च असौ , तत्कृतश्च सर्वो ऽयं निष्पाद्य ---- निष्पादकभावज्ञाप्य-ज्ञापकभावांवभासो लोकव्यवहाररूपः / यत्र तु शुद्धस्वात्मरूपप्रथात्मकानुत्तरशक्तिशालिनिरर्गलस्वात्मप्रकाश एव मायीयप्रथान्तरव्यवधानवन्ध्यो निबन्धनम्, तत्र तस्यैव भगवतः कारणत्वम् / एष च अनुग्रहलक्षणो ऽन्त्यः पञ्चमः पारमेश्वरः कृत्यविशेषः परपुरुषार्थप्रापकः, तन्निबन्धनत्वात् परमार्थमोक्षस्य / अन्यत्रत्यो हि अपवर्गः कुतश्चिन्मुक्तिः, न सर्वत इति निःश्रेयसाभास इति वक्ष्यामः / स चायं द्वितीयः कार्यकारणभावो लौकिकान्वयव्यतिरेकसिद्धप्रसिद्धकार्यकारणभावविलक्षणत्वात् स्फुटेन रूपेणासंचेत्यमानः कादाचित्कवस्तुसद्भावोन्नेयपरमार्थः अतिदुर्घटकारित्वलक्षणैश्वर्यविजृम्भाभाविताद्भुतभावः प्रथमकोटिसंभावनाशून्यकालिकाकारस्वप्रकाशावरणनिराकरणमनोरथशतदुष्प्राप इत्येवंप्रकारः कथमा द्योतकनिपातसहितेन निरूपितः ऽकथंचित्ऽ; इति, केनचिच्च प्रकारेण परमेश्वराभिन्नगुरुचरणसमाराधनेन परमेश्वरघटितेनैव / यथोक्तम्
SK
{संबन्धो ऽतीव दुर्घटः .............................. /}
SK
इति / ‘आसाद्यऽ; इति आ समन्तात् परिपूर्णरूपतया सादयित्वा , स्वात्मोपभोगयोग्यतां निरर्गलां गमयित्वा ; इयता विदितवेद्यत्वेन परार्थे शास्त्रकरणे अधिकारो दर्शितः ; अन्यथा प्रतारकतामात्रमेव स्यात् / पौर्वकाल्येन सामनन्तर्यम् अत्र विवक्षितम् / अन्यथा तु आसादनतारतम्यप्राप्तौ मायीयमलकलापसंस्कारप्रक्षये कथं परोपदेशः शक्यक्रियः / संभवन्ति हि मायागर्भाधिकारिणो विष्णुविरिंचाद्याः , तदुत्तीर्णा अपि महामायाधिकृताः शुद्धाशुद्धा मन्त्र-तदीश-तन्महेशात्मानः ; शुद्धा अपि श्रीसदाशिवप्रभृतयः / ते तु यदीयैश्वर्यविप्रुड्भिरीश्वरीभूताः स भगवान् अनवच्छिन्नप्रकाशानन्दरूपस्वातन्त्र्यपरमार्थो महेश्वरः , तस्य ऽदास्यम्ऽ; इत्यनेन तत्प्रत्यभिज्ञोपपादनस्य महाफलत्वम् आसूत्रयति / दीयते अस्मै स्वामिना सर्वं यथाभिलषितम् इति दासः , तस्य भाव इत्यनेन परमेश्वररूपस्वातन्त्र्यपात्रता उक्ता / ‘जनस्यऽ; इति , यः कश्चित् जायमानः तस्य , इत्यनेन अधिकारिविषयो नात्र कश्चिन्नियम इति दर्शयति , यस्य यस्य हि इदं स्वरूपप्रथनं तस्य तस्य महाफलम् , प्रथनस्यैव परमार्थफलत्वात् , तस्य च प्रतिबन्धकसंमतैरप्रतिबन्धनीयत्वात् , न हि प्रथितमप्रथितमिति न्यायात् / तदुक्तम्
SK
{नेहाभिक्रमनाशो ऽस्ति प्रत्यवायो न विद्यते / स्वल्पमप्यस्य दर्मस्य त्राय्ते महतो भयात् //}
SK
इति / परमगुरुपादैरपि शिवदृष्टौ
SK
{एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः / ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना //
SK
करणेन नास्ति कृत्यं क्वापि भावनयापि वा / सकृज्झाते सुवर्णे किं सत्यता करणादिना //
SK
सर्वदा पितृमात्रादितुल्यदार्ड्येन सत्यता /}
SK
इति / जनस्य अनवरतजननमरणपीडितस्य इत्यनेन कृपास्पदतया उपकरणीयत्वमाह / अपिशब्दः स्वात्मनः तदभिन्नताम् आविष्कुर्वन् पूर्णत्वेन स्वात्मनि परार्थसंपत्त्यतिरिक्तप्रयोजनान्तरावकाशं पराकरोति / परार्थश्च प्रयोजनं भवत्येव तल्लक्षणत्वात् , न हि अयं दैवशापः स्वार्थ एव प्रयोजनं न परार्थ इति ; तस्यापि अतल्लक्षणत्वे सति अप्रयोजनत्वात् ; संपाद्यत्वेन अभिसंहितं यत् मुख्यतया तत एव क्रियासु प्रयोजकं तत्प्रयोजनम् / अत एव भेदादे ऽपि ईश्वरस्य सृष्ट्यादिकरणे परार्थ एव प्रयोजनम् इति दर्शयितुं न्यायनिर्माणवेधसा निरूपितम्
SK
{यमर्थमधिकृत्य पुरुषः प्रवर्तते तत् प्रयोजनम्}
SK
इति / इच्छन् इति इच्छाविषयीकृतस्य फलस्य प्रवृत्तो हेतुत्वं शत्रा दर्शयति / इच्छाशक्तिश्च उत्तरोत्तरम् उच्छूनस्वभावतया क्रियाशक्तिपर्यन्तीभवति ---- इति दर्शयिष्यामः / उपशब्दः समीपार्थः , तेन जनस्य परमेश्वरधर्मसमीपताकरणम् अत्र फलम् / अत एवाह समस्त इति / परमेश्वरतालाभे हि समस्ताः संपदः तन्निःष्यन्दमय्यः संपन्ना एव , रोहणलाभे रत्नसंपद इव / प्रमुषितस्वात्मपरमार्थस्य हि किम् अन्येन लब्धेन , लब्धतत्परमार्थस्यापि तदन्यत् नास्ति यद् वाञ्छनीयम् / यदुक्तं ग्रन्थकृतैवः
SK
{भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् / एनया वा दरिद्राणां किमन्यदुपयाचितम् //}
SK
इत्येवं षष्ठीसमासेन प्रयोजनमुक्तम् , बहुब्रीहिणा तु उपायः सूच्यते / समस्तस्य भावाभावरूपस्य बाह्याभ्यन्तरस्य नीलसुखादेः या संपत् संपत्तिः सिद्धिः तथात्वप्रकाशः , तस्याः सम्यक् अवाप्तिः विमर्शरूढिः , सैव हेतुः यस्यां तत्प्रत्यभिज्ञायाम् , तथा हि ---- स्फुटतरभाससमाननीलसुखादिप्रमान्वेषणद्वारेणैव पारमार्थिकप्रमातृलाभ इह उपदिश्यते / यदाह अन्यत्रः
SK
{इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता / या स्वस्वरूपे विश्रान्तिर्विमर्शः सो ऽहमित्ययम् //}
SK
इति / तथा तत्रैव
SK
{प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः / उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः //
SK
स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च /}
SK
इति / इयता च उपाये अतिदुर्घटत्वाशङ्का पराकृता / यदन्ते निरूपयिष्यति
SK
{सुघट एष मार्गो नवः}(Iप्व्_४,१.१६)
SK
इति / तम्य महेश्वरस्य प्रत्यभिज्ञा प्रतीपमात्माभिमुख्येन ज्ञानं प्रकाशः प्रत्यभिज्ञा / प्रतीपम् इति ---- स्वात्मावभासो हि न अननुभूतपूर्वोऽविच्छिन्नप्रकाशत्वात् तस्य , स तु तच्छक्त्यैव विच्छिन्न इव विकल्पित इव लक्ष्यते ---- इति वक्ष्यते / प्रत्यभिज्ञा च ---- भातभासमानरूपानुसंधानात्मिका , स एवायं चैत्र ---- इति प्रतिसंधानेन अभिमुखीभूते वस्तुनि ज्ञानम् ; लोकेऽपि एतत्पुत्र एवंगुण एवंरूपक इत्येवं वा , अन्ततोऽपि सामान्यात्मना वा ज्ञातस्य पुनरभिमुखीभावावसरे प्रतिसंधिप्राणितमेव ज्ञानं प्रत्यभिज्ञा ---- इति व्यवह्रियते ; नृपं प्रति प्रत्यभिज्ञापितोऽयम् ---- इत्यादौ / इहापि प्रसिद्धपुराणसिद्धान्तागमानुमानादिविदितपूर्णशक्तिस्वभावे ईश्वरे सति स्वात्मन्यभिमुखीभूते तत्प्रतिसंधानेन ज्ञानम् उदेति , नूनं स एव ईश्वरोऽहम् ---- इति / तामेनाम् उपपादयामि इति / उपपत्तिः संभवः , तां संभवन्तीं तत्समर्थाचरणेन प्रयोजकव्यापारेण संपादयामि / तथा हि ---- संभवति तावद् असौ , अविच्छिन्नप्रकाशत्वात् ; निरोधकाभिमतमायाशक्तिसमपसारणमात्रमेव तु तत्र उपपादनम् / प्रत्यभिज्ञोपपत्तौ स्वपरविभागाभावे तदपेक्षं कर्त्रभिप्रायादि असंभाव्यम् इति परस्मैपदप्रयोगः / इत्थं च अत्र श्लोके योजना , ---- महेश्वरस्य दास्यं समस्तसंपल्लाभहेतुं कथंचित् आसाद्य , जनस्यापि कथंचित् तत्प्रत्यभिज्ञाम् आसाद्य प्रापय्य , उपकारं समस्तसंपल्लाभहेतुभूतं महेश्वरदास्यात्मकम् इच्छन् , तामेव समस्तसंपत्समवाप्तिहेतुकां तत्प्रत्यभिज्ञाम् उपपादयामि / आसाद्य इति आवृत्तियोजने द्वौ णिचौ / इयति च व्याख्याने वृत्तिकृता भरो न कृतः , तात्पर्यव्याख्यानात् / यदुक्तम्
SK
{संवृतसौत्रनिर्देशविवृतिमात्रव्यापारायाम् /}
SK
इति / टीकाकारेणापि वृत्तिमात्रं व्याख्यातुमुद्यतेन नेदं स्पृष्टम् , अस्माकं तु सूत्रव्याख्यान एव उद्यम -- इति विभज्य व्याख्यातम् / एवं सर्वत्र / एवमनेन श्लोकेन अभिधेयम् , प्रयोजनम् , तत्प्रयोजनम् , तत्प्रयोजनम् , अधिकारिनिरूपणम् , गुरुपर्वक्रमः संबन्ध -- इति दर्शितम् / तथा हि ---- समस्तसंपल्लक्षणो व्याख्यातो योऽर्थः पूर्वं पुण्यपापादौ संसारमूलकारणे हेतुः , स एव प्रत्यभिज्ञायते अनया ---- इति करणव्युत्पत्त्या उपायः इह लोकोत्तरमार्गं प्रति निर्णीतः , इति अतिदुर्घटकारित्वलक्षणमैश्वर्यम्
SK
{मार्गो नव}(Iप्व्_४,१.१६.)
SK
इति शाखान्ते निरूपयिष्यमाणं सूचयता उपायः दर्शितः अभिधेयत्वेन / अत एव
SK
{तथा हि जडभूतानाम्}(Iप्व्_१,१.४.)
SK
इत्युपक्रमपूर्वकं श्लोकान्तरं भविष्यति / प्रयोजनं च प्रत्यभिज्ञोपायज्ञानम् , तस्य प्रयोजनम् प्रत्यभिज्ञानम् , तस्यापि प्रयोजनं समस्तसंपल्लक्षणपारमैश्वर्यैकरूपरथनम् , ततः परं नास्त्येव , तस्य सर्वपर्यन्तफलत्वादंशांशिकयापि / यदुक्तं मयैव स्तोत्रे
SK
{फलं क्रियाणामथवा विधीनां पर्यन्ततस्त्वन्मयतैव देव / पह्लेप्सवो ये पुनरत्र तेषां मूढा स्थितिः स्यादनवस्थयैव //}
SK
इति / एतद् वक्ष्यति
SK
{तदत्र निदधत्पदम्}(Iप्व्_४,१.१६.)
SK
इति पादद्वयेन / जनस्य इत्यनेन अधिकारी दर्शितः / यत् निगमयिष्यति
SK
{अनिशमाविशन्}(Iप्व्_४,१.१६.)
SK
इति / कथंचित् इत्यनेन गुरुपर्वक्रमः / वक्ष्यति
SK
{महागुरुभिरुच्यते स्म शिवदृष्टिशास्त्रे यथा}(Iप्व्_४,१.१६.)
SK
इति / एवं प्रत्यभिज्ञातव्यसमस्तवस्तुसंग्रहणेन इदं वाक्यमुद्देशरूपं प्रतिज्ञापिण्डात्मकं च , मध्यग्रन्थस्तु हेत्वादिनिरूपकः ,
SK
{इति प्रकटितो मया}(Iप्व्_४,१.१६.)
SK
इति च अन्त्यश्लोको निगमनग्रन्थः -- इत्येवं पञ्चावयवात्मकमिदं शास्त्रं परव्युत्पत्तिफलम् / नैयायिकक्रमस्यैव मायापदे पारमार्थिकत्वम् ---- इति ग्रन्थकाराभिप्रायः
SK
{क्रियासंबन्धसामान्य}(Iप्व्_२,२.१.)
SK
इत्यादिषु उद्देशेषु प्रकटीभविष्यति -- इति तावद् ग्रन्थस्य तात्पर्यम् सुजनश्च लौकिकेश्वरपरिचित ईश्वरविषये जनम् अनुजीविगुणसंपन्नं प्रकाशयति , जनविषये च अभिगामिकादिगुणसंपन्नम् ईश्वरं प्रकाशयति - इति इयानर्थः सामान्येन षष्ठोसमासेन दर्शितः तस्य प्रत्यभिज्ञा इति / एतच्छ्लोकाकर्णनसमये च शिष्याणाम् एतदर्थसंक्रमणक्रमेण परमेश्वरतादात्म्यमेव उपजायते तावत् / तथा हि ---- जनस्य इत्याकर्णनात् वयं ते जननमरणपीडिता अपर्युपस्तवृत्तयश्च , अस्माकमयम् उपकारम् इच्छन् , महेश्वरस्य दास्यम् आसाद्य , समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञाम् उपपादयति ; ततश्च तत्प्रत्यभिज्ञामेवंभूतां वयं प्राप्ता एव , इतीत्थमेव हि अधिकारिणि शास्त्रार्थस्य बिम्बप्रतिबिम्बवत् संक्रान्तिः लोड्लिङादीनां विषयीभवति प्रथमपुरुषार्थ उत्तमपुरुषार्थे पर्यस्यति , न तु ताटस्थ्येन ; अधिकार्यनधिकारिणोः प्रतिपत्तौ विशेषाभावप्रसङ्गात् / आरोग्यकामाः शिवां सेवन्तां सेवध्वम् ---- इति वा वाक्यार्थस्य सेवामहै -- इत्येवंरूपेण अधिकारिणि द्वितीया कक्ष्या संक्रान्तौ , तृटीयकक्ष्यामेव भाविकोटिपतितामपि पुरुषार्थसंपत्तिम् अकालकलितस्वरूपानुप्रवेशेन स्वात्मीकृताम् अभिमन्यमाने , तत एव विततसंवित्सुन्दरपरामर्शो पूर्णताभिमानप्रतिलम्भात् , अन्यस्य तु अनेवंरूपत्वेनैव अनधिकारिता ताटस्थ्यप्राणा ---- इति / तदास्ताम् अवान्तरमेतत् अतिगहनं च ---- इति स्थितमेतत् / एतेन श्लोकेन ईश्वरसांमुख्यं विनेयानां प्रयोजनादिप्रतिपादनं च क्रियते ---- इति /
SK
{अनन्तभावसंभारभासने स्पन्दनं परम् / उपोद्धातायते यस्य तं स्तुमः सर्वदा शिवम् //}
SK
//१//
SK
ननु ईश्वरस्य सिद्धिरेव कर्तव्या / केयं सिद्धिः ? न तावत् उत्पत्तिः , नित्यत्वात् / नापि ईश्वरसिद्धिकारादयस्तस्योपपत्तिं विदधते / ज्ञप्तिः सिद्धिरिति चेत् , अनवच्छिन्नप्रकाशस्य प्रमाणव्यापारोपाधेयप्रकाशात्मकसिद्ध्यनुपयोग एव / ननु अनवच्छिन्नस्तदीयः प्रकाश -- इति कथमेतत् ; नीलसुखादिप्रकाशे हि तत्प्रकाशः कुतः ? तदप्रकाशेऽपि सुप्तमूर्छादौ नितराम् , स्वप्रकाशेऽपि वा ईश्वरे प्रमात्ःणां किं वृत्तं येन तेषां प्रमाणव्यापारानुपयोग इत्याशङ्क्याह
SK
कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे / अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः //
SK
इह क ईश्वरे कीदृशे कीदृशेन प्रमाणेन अस्ति इति ज्ञानलक्षणां सिद्धिम् , नास्तीति ज्ञानलक्षणं वा निषेधं कुर्यात् ? प्रमाता इति चेत् , स एव कः ? देहादिर्जडः उत तदन्यो वा कश्चित् आत्मादिशब्दवाच्यः ? सोऽपि स्वप्रकाशस्वभावो वा न वा ? देहादिर्जडः इति चेत् , स एव स्वात्मनि असिद्धः परत्र कां सिद्धिं कुर्यात् ? आत्मापि अस्वप्रकाशो जड एव तत्तुल्ययोगक्षेमः / स्वप्रकाशस्वभावः इति चेत् , कीदृशेन स्वेन रूपेण भाति ? यदि परिनिष्ठितसंविन्मात्ररूपेण , तदा संविदां भेदनम् , भेदितानां च अन्तरनुसंधानेन अभेदनं न स्यात् ; तेन स्वतन्त्रस्वप्रकाशात्मतया तावत् स भासते , भेदितानां च अन्तरनुसंधानेन अभेदनं न स्यात् ; तेन स्वतन्त्रस्वप्रकाशात्मतया तावत् स भासते , तथाभासमानश्च कीदृशमीश्वरं साधयेत् निषेधेत् वा ? कर्तृज्ञातृस्वभावम् इति चेत् ननु स प्रमातैव तथाभूतः इति कोऽन्यः सः ? ननु सर्वकर्तृत्वसर्वज्ञत्वे प्रमातुर्न स्तः ; न खलु सर्वशब्दार्थो ज्ञातृकर्तृत्वयोः स्वरूपं भिनत्ति , भेददर्शनेऽपि ईश्वरज्ञानचिकीर्षायज्ञादेर्नित्यस्य विषयेण अकारणभूतेन अनाधेयातिशयत्वात् / प्रकाशमानतानयनमेव विषयत्वम् इति चेत् , अप्रकाशस्वभावस्य तथात्वमनुचितम् ---- इति वक्ष्यामः / प्रकाशमानस्वभावत्वे विषयोऽपि सर्वात्मना प्रकाश एव निमग्न इति प्रकाशः प्रकाशते ---- इत्येतावन्मात्रपरमार्थत्वे कः सर्वज्ञासर्वज्ञविभागः ? , प्रमाणमपि एवं सिद्धत्वासिद्धत्वाभ्यां पर्यनुयोज्यम् ; एवं सिद्धिरपि / तस्मात् विषयाभिमतं वस्तु शरीरतया गृहीत्वा तावत् निर्भासमान आत्मैव प्रकाशते विच्छेदशून्यः , सुषुप्तमपि प्रति प्रकाशत एव , अन्यथा स्मृत्ययोगात् ; प्रकाशस्य च नित्यत्वात् विच्छेदहेतोरभावेन , अन्यप्रमात्रपेक्षया च प्रकाशमानत्वात् , स्वपरप्रमातृविभागस्य तत्सृष्टस्य मायीयत्वेन वक्ष्यमाणत्वात् / स चायं स्वतन्त्रः / स्वातन्त्र्यं च अस्य अभेदे भेदनम् , भेदिते च अन्तरनुसंधानेन अभेदनम् ---- इति बहुप्रकारं वक्ष्यामः / एतदेव अस्य पारमेश्वर्यं मुख्यमानन्दमयं रूपम् ---- इति पूर्वमुपात्तं कर्तरि इति / तदेव तु स्वातन्त्र्यं विभज्य वक्तुं ज्ञातरि इति पञ्चान्निर्दिष्टम् / ज्ञानपल्लवस्वभावैव हि क्रिया ---- इति वक्ष्यते / तेन सर्वक्रियास्वतन्त्रे सर्वशक्तिके ---- इति यावद् उक्तं भवेत् तावदेव कर्तरि ज्ञातरि इति / इयमेव च संवित्स्वभावता / संविदिति तु उच्यमाना विकल्प्यत्वेन प्रमेयतां स्पृशन्तो सृष्टत्वात् न परमार्थसंवित् ---- इति वक्ष्यामः / कर्ता ज्ञाता च महेश्वर ---- इत्यभिधानेऽपि स एव प्रकार आपतेत् , इति यथा यथा प्रमेयभूमिकापादनन्यक्कारकलङ्कपरिहारः शक्यः तथा तथा यावद्गति यतितव्यम् , इति भूतविभक्त्या निर्देशः कृतः / उपदेशावसरे हि सर्वात्मना तावत् सा प्रमेयता अस्य परिहर्तुम् अशक्या / स्वात्मनि इति , स्वस्मिन् अनपायिरूपे स्वभावे इत्यनेन , वैशेषिकाद्यभिमतजडात्मवादनिरासः / आदिसिद्धे इति , अविच्छिन्नप्रकाशे इत्यर्थः / महेश्वरे इति , एतदेव माहेश्वर्य यद् अनवच्छिन्नपर्काशत्वेन ज्ञातृकर्तृत्वधारोपारोहः / अजडात्मा इति , यस्य तु वैशेषिकादेर्जड आत्मा स सिद्धिं करोतु ईश्वरविषयाम् ; अन्यस्तु सांख्यादिनिषेधम् ; सांख्योऽपि विषयावभासनरूपं ज्ञानं बुद्धिधर्ममिच्छन् आत्मानं वस्तुतो जडमेव उपैति ; न च जडात्मा स्वात्मन्यपि दुर्लभप्रकाशस्वातन्त्र्यलेशः किंचित् साधयितुं निषेद्धुं वा प्रभविष्णुः पाषाण इव ; न च अजडात्मनोऽपि एतद् उचितम् , तथा हि ---- स स्वात्मनि सिद्धिमित्थं कुर्यात् ---- यदि अस्य सोऽभिनवत्वेन भासमानः पूर्वं न भासते , न भासनं चेत् जडतैव / निषेधं च इत्थं विदध्यात् ---- यदि स न प्रकाशते तथा च जडः , न च जडस्य एतत् युक्तम् इत्युक्तम् , नापि अजडस्य ; तस्मात् संवित्प्रकाश एव घटादिप्रकाशः , न त्वसौ स्वतन्त्रः कश्चित् वास्तवः ; प्रकाश एव च आत्माः ; तत् न तत्र कारकव्यापारवत् प्रमाणव्यापारोऽपि नित्यत्ववत् स्वप्रकाशत्वस्यापि तत्र भावात् //२//
SK
ननु कारकव्यापारः प्रमाणव्यापारश्च यदि ईश्वरे न संभवति , तर्हि प्रत्यभिज्ञापयामि ---- इति यो व्यापार उक्तः स कतमो व्यापारः
SK
इत्याशङ्क्याह
SK
किंतु मोहवशादस्मिन्दृष्टे ऽप्यनुपलक्षिते / शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते //
SK
स ईश्वरस्वभाव आत्मा प्रकाशते तावत् , तत्र च अस्य स्वातन्त्र्यम् इति न केनचिद्वपुषा न प्रकाशते , तत्र अप्रकाशात्मनापि प्रकाशते प्रकाशात्मनापि , तत्रापि प्रकाशात्मनि सर्वथा प्रकाशात्मना प्रकाशो भागशो वा ; भागशः प्रकाशने सर्वस्य व्यतिरेकेण अव्यतिरेकेण वा , कतिपयस्य व्यतिरेकेण अव्यतिरेकेण वा , उक्तप्रकारपूर्णतया वा ; तदमी सप्त प्रकाराः / तत्र प्रथमः प्रकारो जडोल्लासः , अन्त्यः परमशिवात्मा , मध्यमा जीवा भासाः , सैव भगवतो माया विमोहिनी नाम शक्तिः , तद्वशात् प्रकाशात्मतया सततम् अवभासमानेऽपि आत्मनि भागेन अप्रकाशनवशाद् अनुपलक्षिते सर्वथा हृदयंगमीभावमप्राप्ते अत एव पूर्णतावभासनसाध्याम् अर्थक्रियाम् अकुर्वति , तत्पूर्णतावभासनात्मकाभिमानविशेषसिद्धये
SK
प्रत्यभिज्ञा व्याख्यातपूर्वा प्रदर्श्यते , कथम् ? शक्तेः ईश्वरनिष्ठत्वेन प्रसिद्धाया दृक्क्रियात्मिकायाः , आविष्करणेन प्रदर्शनेन , अभिमानसाध्यार्थक्रियाणां तदभिमानसिद्ध्या विना असिद्धेः ; तथा च दृष्टान्तं दर्शयति
SK
{तैस्तैरप्युपयाचितैः /}(Iप्व्_४,१.१७.)
SK
इति / एतदुक्तं भवति ---- न कारकव्यापारो भगवति , नापि ज्ञापकव्यापारोऽयम् , अपि तु मोहापसारणमात्रमेतत् , व्यवहारसाधनानां प्रमाणानां तावत्येव विश्रान्तेः / घटोऽयमग्रगः प्रत्यक्षत्वात् ---- इत्यनेन हि घटो न ज्ञाप्यते प्रत्यक्षेणैव प्रकाशमानत्वात् , अन्यथा पक्षे हेत्वसिद्धेः , केवलं मोहमात्रमपसार्यते / यश्चायं मोहस्तदपसारणं च यत् , तदुभयमपि भगवत एव विजृम्भामात्रम् , न तु अधिकं किंचित् ---- इत्युक्तं वक्ष्यते च //३//
SK
ननु परिदृश्यमाने भावराशौ किमीया शक्तिराविष्क्रियते कं च प्रति इति / जडानां तावत् न ज्ञानात्मिका शक्तिरस्ति , क्रियात्मिकापि स्वातन्त्र्यप्रांआ स्वातन्त्र्यव्यपगमाद् असंभावनाभूमिरेव ; तथा च रथो गच्छति ---- इत्यादौ उपचारं केचन प्रतिपन्नाः , न च जडान्प्रति व्यवहारसाधनम् उचितम् ; अथ अजडजीवज्जनताधिकारेण उभयमपि , तर्हि सर्वस्य स्वात्मा महेश्वर ---- इति दूरतरं विप्रकर्षिता प्रत्याशा , तदेतद् आश्ङ्क्य निरूपयति
SK
तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया / ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् //
SK
तथा हि इति युक्त्युपक्रमं द्योतयति , दृश्यतां किल इत्यर्थः / तथा इत्यनेन साध्यं सूच्यते , हिना हेतुरित्यन्ये , प्रकृतं साध्यं हेतुसिद्ध्यायत्तमुपक्रम्यते इत्यर्थः / तेन इति बुद्धिवर्तिना , तत एव स्मर्यमाणेन ग्रन्थेन वर्णयिष्यमाणेन प्रकारेण यस्मात् सर्वमेतद् युक्तम् इति तथा हि इति शब्दस्य वार्थः / इह तावत् भावराशिर्यथा विमृश्यते तथा अस्ति , अस्तित्वस्य प्रकाशं शरणीकुर्वतः प्रकाशप्राणितदेशीयं आश्रित्य समुन्मेवात् , अविमृष्टं हि यदि वस्तु तन्न नीलं न पीतं न सत् न असदिति कुत इति पर्यनुयोगे किमुत्तरं स्यात् / तेन यद् यथा यावत् अवाधितं विमृश्यते तत् तथा तावत् अस्ति , तत् एव देशकालाकारविततात्मानो ऽपि द्रव्यक्रियासंबन्धादयः एकत्वेन परमार्थसन्त इति वक्ष्यते
SK
{क्रियासंबन्धसामान्य}(Iप्व्_२,२.१)
SK
इत्यादिना , ततश्च विततमपि इदं विश्वं संक्षेपविमर्शदशाधिरोहे जडं जीवच्च ---- इत्येतावता द्वयरूपेण अस्ति / तत्र जडा विमृश्यमाना न स्वतन्त्रा भवन्ति , विमृश्यमानता हि तेषां न स्वशरीरविश्रान्तः को ऽपि धर्मः जडत्वाभावप्रसंगात् , मम नीलं भाति मया नीलं ज्ञायते इति / तेषाम् जडभूतानां चिन्मयत्वे ऽपि मायाख्यया ईश्वरशक्त्या जाड्यं प्रापितानाम् , जीवन्तं प्रमातारमाश्रित्य प्रतिष्ठा तत्प्रमात्राभिमुख्येन अवस्थानम् , ततो जडा नाम न पृथक् सन्ति / यथोक्तं ग्रन्थकृतैवः
SK
{एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी / जडाः प्रकाश एवैकः स्वात्मनः स्वपरात्मभिः //}
SK
इति / स एव हि स्वात्मना सन् वक्तव्यो यस्य अन्यानुपहितं रूपं चकास्ति ; न च भारूपानुपहितं जडं नाम किञ्चित् , तेन जडानां हि शक्तिराविष्क्रियते जडान्प्रति ---- इत्येतत् तावत् निरुत्थानमेव / ये तु अन्ये जडेभ्यो जीवन्त ---- इति नाम प्रसिद्धाः तेषामपि शरीरप्राणपुर्यष्टकशून्याकाराः तावत् जडा एव इति तेषामपि किमुच्यते / अत एव घटशरीरप्राणसुखतद्भ्|अवरूपं यल्लग्नं भाति तदेव जीवरूपभूतं सत्यम् ; तस्य च आपाते यद्यपि बहुत्वं भाति तथापि तत् जडात्मकवेद्यशरीराद्युपाधेः / ततस्तत् अपारभार्थिकम् अन्योन्याश्रयात् , जीवा हि जडभेदात् भेदभागिनः जडाश्च जीवभेदात् , एतद्देहो ऽयम् एतद्वेद्यो ऽयम् ---- इति भेदम् उपेयुः , नीलपीतादिभावभेदास्तु प्रमातृसंलग्नतया भेदभूमिमेव परमधिरूढा इति / किम् तेन / तदयं जीवानामभेद एव संपन्न इति जीवन् प्रमाता ---- इति जातम् / जीवनं च जीवनकर्तृत्वं तच्च ज्ञानक्रियात्मकम् , यो हि जानाति च करोति च स जीवति ---- इत्युच्यते / तदयं प्रमाता ज्ञानक्रियाशक्तियोगाद् ईश्वर ---- इति व्यवहर्तवयः पुराणागमादिप्रसिद्धेश्वरवत् ; तद्प्रसिद्धावपि सर्वविषयज्ञानक्रियाशक्तिमत्त्वस्वभावमेव ऐश्वर्यं तन्मात्रानुबन्धित्वादेव सिद्धम् ; तदपि च कल्पितेश्वरे राजादौ तथा व्याप्तिग्रहणात् , यो यावति ज्ञाता कर्ता च स तावति ईश्वर्प् राजेव , अनीश्वरस्य ज्ञातृत्वकर्तृत्वे स्वभावविरुद्धे यतः ; आत्मा च विश्वत्र ज्ञाता कर्ता च ---- इति सिद्धा प्रत्यभिज्ञा / ज्ञानक्रियाशक्तो एव स्वाभाविक्यौ अप्ररूढभेदोन्मेषे सदाशिवेश्वरौ , भेदस्य सामान्यतः प्ररोहे विद्याकले , विशोषतः प्ररोहे बुद्धिकर्मेन्द्रियगण इव भविष्यति / जडा इति अजीवन्तः , अन्ये च जीवन्त ---- इत्यापाते तावद् भाति न तु संविदापाते भातीति जीवतामिति जङ्गमा एव अमी इत्थं निर्दिष्टाः //४//
SK
ननु ज्ञानक्रिये एव कथं सिद्धे यत ऐश्वर्यव्यवहारः प्रसाध्यते ---- इति शङ्कां शमयितुमाह
SK
तत्र ज्ञानं स्वतः सिद्धं क्रिया कायाश्रिता सती / परैरप्युपलक्ष्येत तयान्यज्ञानमूह्यते //
SK
अहं जानामि , मया ज्ञातं ज्ञास्यते च ---- इत्येवं स्वप्रकाशाहंपरामर्शपरिनिष्ठितमेव इदं ज्ञानं नाम , किं तत्र अन्यत् विचार्यते , तदप्रकाशे हि विश्वम् अन्धतमसं स्यात् , तदपि वा न स्यात् , बालो ऽपि हि प्रकाशविश्रान्तिमेव संवेदयते / तदुक्तम्
SK
{विज्ञातारमरे केन बोजानीयात् /}(बृ. २,५.१९)
SK
इति / तन्निह्नवे हि कः प्रश्नः , किम् उत्तरं च स्यात् ---- इति / तत्र च जानामि ---- इत्यन्तःसंरम्भयोगो ऽपि भाति , येन शुक्लादेर्गुणात् अत्यन्तजडात् जानामि ---- इति ---- वपुः चित्स्वभावताम् अभ्येतिः ; स च संरम्भो विमर्शः क्रियाशक्तिर्भवति / यदुक्तम् अस्मत्परमेष्ठिश्रोस्रोमानन्दपादैः ----
SK
{घटादिग्रहकाले ऽपि घटं जानाति सा क्रिया /}
SK
इति / तेन आन्तरी क्रियाशक्तिः ज्ञानवदेव स्वतः सिद्धा स्वप्रकाशा , सैव तु स्वशक्त्या / प्राणपुर्यष्टकक्रमेण शरीरमपि संचरमाणा स्पन्दनरूपा सती व्यापारात्मिका माथापदे ऽपि प्रमाणस्य प्रत्यक्षादेर्विषयः / सा च परशरीरादिसाहित्येन अवगता स्वं स्वभावं ज्ञात्मकमवगमयति , न च ज्ञानम् इदन्तथा भाति , इदन्ता हि अज्ञानत्वम् , न च अन्यद्वस्तु अन्येन वपुषा भातं भातं भवेत् , तत् ज्ञानं भात्येव परम् , भाति च यत् तदेव अहमित्यस्य वपुः इति परज्ञानमपि स्वात्मैवः ; परत्वं केवलम् उपाधेर्देहादेः , स चापि विचारितो यावत् न अन्य इति विश्वः प्रमातृवर्गः परमार्थत एकः प्रमाता स एव च अस्ति / तदुक्तम्
SK
{........... प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः /}
SK
इति / ततश्च भगवान् सदाशिवो जानाति इत्यतः प्रभृति क्रिमिरपि जानाति ---- इत्यन्तम् एक एव प्रमाता इति फलतः सर्वज्ञत्वं प्रमातुः / एवं कर्तृत्वे ऽपि वाच्यम् / यदुक्तम् अस्मत्परमेष्ठिभिः शिवदृष्टौ
SK
{घटो मदात्मना वेत्ति वेद्म्यहं च घटात्मना / सदाशिवात्मना वेद्मि स वा वेत्ति मदात्मना //
SK
नानाभावैः स्वमात्मानं जानन्नास्ते स्वयं शिवः /}
SK
इत्यादि / ऊह्यते इत्यनेन ज्ञानेन ज्ञानस्य प्रमेयत्वं न निर्वहति ---- इति दर्शयति , अन्यथा हि अनुमीयते ---- इति ब्रूयात् /
SK
तदेवं येषां तार्किकप्रवादपांसुपातधूसरीभावो न वृत्तो ऽस्मिन् संवेदनपथे , ते इयतैव आत्मानमीश्वरं विद्वांसो घटशरीरप्राणसुखतदभावान् तत्रैव निमज्जयन्त ईश्वरसमाविष्टा एव भवन्ति / ततो ऽयम् उपोद्धातः / उप इति आत्मनः समीपे टङ्कवत् ईश्वरप्रत्यभिज्ञानलक्षण उत्कर्षो हन्यते विश्राम्यते येन ; एतावदेव च अस्य ग्रन्थस्य तात्पर्यम् ---- इति / ततो ऽपि अयम् उपोद्धातः / उपांशु अविततं कृत्वा उदिति शास्त्रस्य ऊर्ध्व एव हन्यते अपसार्यते प्रमेयविषयो व्यामोहो येन ---- इति / गत्यर्थत्वाद्वा हन्तेर्ज्ञानमर्थः , ज्ञायते प्रमेयं येन इति / केचित्तु गतिं स्त्रियं गच्छति ---- इत्येतद्विषयमेव हन्त्यर्थमाहुः / एवं श्लोकचतुष्टयार्थभावनादार्ढ्य्|अदेव लभ्यते परमशिवः / इति शिवम् //५//
SK
इति श्रीमदाचार्योत्पलदेवशिष्य ---- श्रीमदाचार्यलक्ष्मणगुप्तदत्तोपदेश ---- श्रीमदाचार्याभिनवगुप्तविरचितायां श्रीप्रत्यभिज्ञाविमर्शिन्यां ज्ञानाधिकारे उपोद्धातः / इति प्रथमाह्निकम् // १ //
SK
अथ द्वितीयमाह्निकम् /
SK
{पूर्वपक्षतया येन विश्वमाभास्य भेदतः / अभेदोत्तरपक्षान्तं नीयते तं स्तुमः शिवः //}
SK
इह यत् परमार्थरूपं आशङ्क्यमानप्रतिपक्षप्रतिक्षेपेण निरूपयिष्यमाणं सुष्ठुतमां स्पष्टोकृतं भवति / यदाह भट्टनारायणः
SK
{नमस्ते भवसंभ्रान्तभ्रान्तिमुद्भाव्य भिन्दते / ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते //}
SK
तत्रेह अनात्मानीश्वरवादिनां भ्रान्तिभेदनपूर्वकं परमार्थं विवरीष्यन् तदुद्भावनं तावत् एकादशभिः श्लोकैः करोति
SK
{ननु स्वलक्षणाभासम् ................................................................... /}
SK
इत्यादिभिः
SK
{......................................................................... तेन कर्तापि कल्पितः //}
SK
इत्यन्तैः / तत्र श्लोकद्वयेन आत्मनो ध्रुवस्य दृश्यानुपलब्ध्या अभाव उक्तः प्रत्यक्षात्मवादिनः प्रति / तत्र श्लोकत्रयेण स्मृत्यनुसंधानं संस्कारात् सिद्धम् इति अन्यबासिद्धत्वात् आत्मानुमानाय न पर्याप्तम् ---- इति प्रोक्तम् अनुमेयात्मवादिनः प्रति / तत्र श्लोकेन ज्ञानादि गुणैर्गुणिनि प्रतिपत्तिः ---- इति अनुमानं निरस्तम् / एवम् आत्मानं निराकृत्य , ततो ज्ञानक्रियाशक्तिसंबन्धरूपमैश्वर्य निराकर्तुं ज्ञानस्य स्वरूपमेव व्यतिरिक्तं वाद्यन्तरमते , सांख्यमते च अयुज्यमानम् ---- इति निरूपितं श्लोकद्वयेन / तत एकेन क्रिया नाम न काचित् क्वचिदपि अस्ति ---- इति कथितम् / तत्र साधकं प्रतिक्षिप्य बाधकं च उपन्यस्यति / ततः संबन्धस्य श्लोकेन नास्तित्वं प्रतिपादितं प्रमाणाभावं वदता / श्लोकेनैव तत्र बाधकं प्रमाणमुक्त्वा , न आत्मा स्थिरो नापि ज्ञातृत्वकर्तृत्वलक्षणम् अस्य ऐश्वर्यम् ---- इति स्वपक्ष उपसंहृतः ---- इति पूर्वपक्षस्य पिण्डार्थः /
SK
अथ ग्रन्थार्थो व्याख्यायते /
SK
ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः / साभिलापं विकल्पाख्यं बहुधा नापि तद् द्वयम् //
SK
नित्यस्य कस्यचिद् द्रष्टुस्तस्यात्रानवभासतः / अहंप्रतीतिरप्येषा शरीराद्यवसायिनी //
SK
ननु इति आक्षेपे ; इह आत्मा संवित्स्वभावः स्थिरः इति तावदयुक्तम् , स्थिरस्यापि स्वप्रकाशस्य अप्रकाशनात् / तथा हि ---- घटप्रकाशो घटविकल्पो घटप्रत्यभिज्ञा घटस्मृतिः घटोत्प्रेक्षा ---- इत्यादिरूपेण ज्ञानान्येव प्रकाशन्ते भिन्नकान्तानि भिन्नविषयाणि भिन्नकाराणि च / तत्र नीलस्य प्रकाशः स्वलक्षणाभासं ज्ञानम् स्वम् अन्याननुयायि स्वरूपसंकोचभाजि , लक्षणम् देशकालाकाररूपं यस्य आभासः प्रकाशनम् अन्तर्मुखं यस्मिन् बहिर्मुखीनस्वरूपधारिणि ज्ञाने तत् अविकल्पकम् विषयभेदे ऽपि एकजातीयम् , स्वरूपवैचित्र्ये ऽपि कारणाभावात् / विकल्पे हि वैचित्र्यकारणम् अभिलापः , स च अत नास्ति ; न हि अभिलापो नीलस्य धर्मः , न च चक्षुर्ग्राह्यः , ततो ऽसौ प्राच्यः स्मर्तव्यः , अप्रबुद्धे च संस्कारे न स्मृतिः , तत्प्रबोधश्च वस्तुदर्शनोत्थितः इति वस्तुदर्शनसमये ऽभिलापस्मृतिर्नास्ति /
SK
ततः परं विकल्पकं ज्ञानम् , सर्वस्य विकल्पस्य साक्षात् पारम्पर्येण वा निर्विकल्पकमूलत्वात् / परम् इति च अन्यरूपं सामान्यलक्षणं तस्य विषयः , स्वलक्षणे ऽतिसंकोचिनि विततविकल्पसाध्यस्य व्र्ड्धव्यावहारिकस्य , औपदेशिकस्य वा संकेतस्य कर्तुम् अशक्यत्वात् , कृतस्यापि वैयर्थ्यात् , तेन हि अननुयायिना न पुनर्व्यवहारः / तच्च बहुभेदम् , यतस्तत् अभिलापेन संजल्पात्मना शब्दरूपेण सह वर्तते / शब्दनं च इदम् ---- इति , तत् ---- इति , तदिदम् ---- इति , भवेदिदम् ---- इति , इदं वा इदम् ---- इत्यादि बहुधा भिद्यते / तच्च न विषयपक्षो वर्तते , अपि तु तस्य विकल्पस्य स्वरूपमेव विचित्रोकुर्वत् प्रतिभाति इति विकल्पो बहुभेदः / एवम् अनुभवविकल्पपरम्परा तावत् स्वप्रकाशत्वेन भाति /
SK
स्यादेतत् , यल्लग्नासौ परम्परा सोऽपि आभाति ---- इति ; तत्र , यतो द्वयमपि एतद् अविकल्पेतररूपं न अन्यस्य कस्यचित् एतदतिरिक्तस्य द्रष्टुः अनुभवितुः संबन्धि , दृश्यस्य तु भवतु बाह्यार्थवादे / अत्र हेतुः ---- यतः तस्य द्रष्टुः , अत एव संवित्स्वभावतोपगमात् स्वप्रकाशतायोग्यत्वात् आपन्नोपलब्धिलक्षणप्राप्तेः , अत्र एतद्बोधद्वयमध्ये नास्ति अवभासः / ननु अस्त्येव अवभासः ---- इति असिद्धा दृश्यानुपलब्धिः / तथा हि ---- अहं वेद्मि , निश्चिनोमि , स्मरामि इदम् ---- इति विदादिप्रकृत्यर्थरूपात् ज्ञानस्मृत्यादेः इदम् ---- इति च कर्मरूपात् विषयात् अतिरिक्तमेव अहम् ---- इति अनुयायिनि प्रकाशे अनुयायिरूपं भाति / क एवमाह भाति ---- इति ? भानं हि अविकल्पकम् , अहम् ---- इति शब्दानुविद्धो विकल्पप्रत्ययः / ननु तथापि किम् अनेन विकल्प्यते , शरीरसन्तानो वा कृशोऽहम् ---- इत्यादिप्रत्ययात् , ज्ञानसन्तानो वा सुख्यहम् ---- इति प्रतीतेः ? मत्वर्थीयश्च सन्तानमेव स्पृशति नातिरिक्तम् / तदेतदुक्तम् ---- अहंप्रतीतिरपि शरीरम् , आदिग्रहणात् ज्ञानम् , अवस्यति , संतानरूपतया विकल्पयति अवश्यम् ; सदृशापरभावभेदग्रहणसामर्थ्यवासनाविष्टत्वात् ---- इति / एषा इति न अस्माभिर्निह्नुता , साभिलापं विकल्पाख्यम् इत्यनेन संगृहीतत्वात् / एतदुक्तं भवति ---- अहंप्रतीतिरेव तावत् न आत्मा , तस्या अपि विकल्परूपत्वात् अस्थैर्याच्च / एतत्प्रतीतिप्रत्ययो ऽपि नास्ति अन्यः शरीरादेः , भवन्नपि वा वेद्यपक्षपतितः स्यात् ---- इति / तथापि संवित्संवेद्यव्यतिरिक्तस्य आत्मनो न सिद्धिः ---- इत्येतत् अपिशब्देन द्योतितम् / एवं नास्ति आत्मा संवित्संवेद्यत्र्यतिरिक्तो दृश्यस्य तस्यानुपलब्धेः ---- इति //१// //२//
SK
अत्र आत्मवाद्यनुमानमुत्थापयति
SK
अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी / कथं भवेन्न नित्यः स्यादात्मा यद्यनुभावकः //
SK
इह स्मृतिकाले सुस्मूर्षितो ऽर्थो भवतु , ध्वंसतां वा ---- इति किन्तेन(KSS: किमनेन) , अनुभवस्तावत् ध्वस्तः ---- इत्यत्र सर्वस्य अविवादः , तमेव च अनुरुन्धाना स्मृतिर्जायते / तथा हि ---- स्मृतौ न अर्थस्य प्रकाशः , न अध्यवसायः , नापि अनुभवस्य अर्थस्य च अङ्गुलिद्वयवत् , नापि अनुभवविशिष्टस्य अर्थस्य दण्डिवत् , सर्वत्र अयम् ---- इति प्रत्ययप्रसङ्गात् ; किंतु अनुभवप्रकाश एव स्मृतौ प्रधानम् , अनुभवस्य तु अर्थप्रकाशात्मकत्वात् अनुभवप्रकाशनान्तरीयको ऽर्थावभासः इति / सर्वथा यदि अनुभवो ध्वस्तः , तदा तत्प्रकाशरूपा कथं स्मृतिस्तद्द्वारेण अर्थविषया स्यात् , तया च सर्वो व्यवहारः क्रियमाणो दृष्टः इत्यसौ स्वरूपेण अनपह्नवनीया सती अनुभवस्य नाशे किंचित् अविनष्टम् आवेदयति / तदेव च अनुभवकर्तृ ---- अनुभवितृरूपम् , आत्मा अनुभावको नित्यः ---- इति / इयदेव च आत्मसिद्धेर्जीवितम् / तत्तु न अधिकम् इहैव उन्मीलितम् आचार्येण , वक्तव्यशेषविवक्षया पूर्वपक्षो मा तावत् समापत् इत्याशयेन / कथं भवेत् इति / अर्ह्तस्तावत् तस्याम् अकिंचित्करः , अनुभवश्च ध्वस्तः इति न केनचित्प्रकारेण स्मृतिः स्यात् , तदभावे च संकेतशब्दस्मृत्यायत्ता अपि अस्तङ्गताः सर्वे विकल्पाः , निर्विकल्पं च अन्धबधिरमूकप्रायम् इति हन्त निराक्रन्दम् अवसीदेत् विश्वम् ---- इति //३//
SK
इह कार्यातिरेकेण तादृक् कल्पनीयं यत् कार्यसिद्धये पर्याप्नोति , न चैवम् आत्मा , अर्थो हि तावत् स्मर्यते , स च अनुभवप्रकाशमुखेन , अनुभवश्च ध्वस्तः ---- इत्युक्तम् ; यदि आत्मा कश्चिदस्ति , किं तेन / एतदपि हि वक्तव्यम् ---- आकाशमपि अस्ति ---- इति / अथ उच्यते ---- न केवलेन आत्मना एतत् सिद्ध्यति , अपि तु अनुभवसंस्कारो ऽपि अत्र उपयोगी ---- इति , तर्हि स एवास्तु , किम् अनेन ? ---- तदेतत् दर्शयति
SK
सत्याप्यात्मनि दृङ्नाशात्तद्द्वारा दृष्टवस्तुषु / स्मृतिः केनाथ यत्रैवानुभवस्तत्पदैव सा //
SK
दृष्टेषु अनुभूतेषु वस्तुषु या स्मृतिः तस्याम् अनुभवो दृगात्मा द्वारम् अर्थाशस्पर्शे , स च सत्यप्य् आत्मनि नष्टोऽनुभवः , तस्य हि अनाशे इदम् ---- इत्येष एव अत्रुटितः प्रकाशः इति का स्मृतिः , तदनुभविता किं स्मृतेः कुर्यात् ---- इति /
SK
यत्रैव विषये अनुभवो वृत्तः तदेव तस्याः स्मृतेः पदं स्मर्यमाणम् / तत्पदा ---- इति बहुव्रीहिः , सा इति स्मृतिः //४//
SK
ननु ज्ञानान्तरस्य विषयेण कथं तस्याः विषयित्वाभिमानः ---- इत्याशङ्क्याह
SK
यतो हि पूर्वानुभवसंस्कारात्स्मृतिसंभवः / यद्येवमन्तर्गडुना कोऽर्थः स्यात्स्थायिनात्मना //
SK
अनुभवेन हि संस्कारो जन्यते स्वोचितः , संस्कारश्च प्रातनरूपां स्थितिं स्थापयति , आकृष्टशाखादेश्चिरसंवर्तितस्य विवर्त्यमानस्य भूर्जादेः / तेन अत्रापि संस्कारः तां स्मृतिं पूर्वानुभवानुकारिणीं करोति ---- इति तद्विषय एव स्मृतेर्विषयः /
SK
एवं तर्हि अन्तर्गडुः यथा आयासाय परम् , तद्वत् आत्मा स्थिरः कल्पनायासमात्रफलः इति किं तेन , सर्वं हि संस्कारेण जगद्व्यवहारकुटुम्बकं कृतकरावलम्बम् ---- इति //५//
SK
ननु तस्मैव संस्कारस्य आश्रयो वक्तव्यः , स हि गुणत्वाद् आश्रयमपेक्षते , य आश्रयः स आत्मा स्यात् ---- इत्याशङ्क्याह
SK
ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतह् / संस्कारात्स्मृइतिसिद्धौ स्यात्स्मर्ता द्रष्टेव कल्पितः //
SK
इह संस्कारे जायमाने , यदि आत्मनो विशेषः , स तर्हि अव्यतिरिक्तः इति न नित्यः स्यात् ; अथ न कश्चित् अस्य विशेषः , तेन तर्हि किम् / अथ संस्कार एव अस्य विशेषः , तर्हि न व्यतिरिक्तो ऽसौ इति पुनरपि अनित्ये ज्ञाने संस्कारः ---- इत्यायातम् / अनुभवाद्विशिष्टं विशिष्टस्म्र्ट्याख्यकार्यकारि ज्ञानं परम्परया जायते ---- इति इयानेव संस्कारार्थः / अथ संस्कारात्मा व्यतिरिक्तो विशेषः , तस्य तर्हि किमसौ / संबन्धश्च व्यतिरिक्तो निराकरिष्यते / एवं ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा अपि विकल्पनीयाः / एतदाह ---- ततः इति आत्मनो भिन्नेषु धर्मेषु अङ्गीक्रियमाणेषु तेषु सत्स्वपि , आत्मनः स्वरूपे विशेषाभावात् स तावत् आत्मा स्म्र्टौ न व्याप्रियेत , अस्मतृरूपासंस्कृतरूपादिप्राच्यरूप्|अनपायात् , इति संस्कारादेव स्मृतेः सिद्धिः ---- इति / अहं स्मरामि ---- इति यः स्मर्ता सोऽपि शरीरसंतानो ज्ञानसंतानश्च अध्यावसीयते , यथा द्रष्टा / पूर्वं हि उक्तम्
SK
{अहंप्रतीतिरप्येषा शरीराद्यवसायिनी /}(Iप्व्_१,२.२)
SK
इति / एवम् आत्मनि साधकं प्रमाणं प्रत्यक्षमनुमानं च पराकृतम् , बाधकं च सूचितं ---- धर्मयोगे नित्यताहानि , अन्यथा किं तेन / तदुक्तम्
SK
{चर्मोपमश्चेत्सोऽनित्यः स्वतुक्यश्चेदसत्समः / वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति हि तत्फलम् //}
SK
इति //६//
SK
इत्थम् आत्मानं निराकृत्य , तस्य ऐश्वर्यमपि निराकर्तुं ज्ञानशक्तिमेव परीक्षितुमाह
SK
ज्ञानं च चित्स्वरूपं चेत् तद् अनित्यं किमात्मवत् / अथापि जडमेतस्य कथमर्थप्रकाशता //
SK
पराभ्युपगमेन प्रसङ्गापादनम् एतत् पूर्वपक्षवादी करोति ---- प्रसङ्गविपर्ययलाभो मे भविष्यति ---- इति / तत्र आत्मवादी नित्यत्वम् आत्मन इत्थं ब्रूते ---- इह कालो नाम इदंभावविशिष्टस्य विशेषणताम् अवलम्बमानः तं विशिष्टीकुर्वन् तत्संकोचात् अनित्यं संपादयति / आत्मनश्च चित्स्वभावत्वात् इदम् ---- इति प्रथनाभावेन विशेष्यत्वं नास्ति , विशेषणविशेष्यभावो हि योजकायत्तः , न च स्वप्रकाशे योजकान्तरम् अस्ति / स इत्थं ब्रुवाणः पर्यनुयुज्यते ---- ज्ञानमपि तर्हि स्वप्रकाशम् इति तत्रापि एषैव वार्ता इति तदपि कस्मात् न नित्यम् ? न च द्वयोर्नित्ययोः कश्चित् संबन्धः , कार्यकारणभावो हि असौ नान्यः , तत आत्मनो ज्ञानं शक्तिः इति अवसन्नम् अदः / अथ न स्वप्रकाशं ज्ञानं तर्हि परस्यापि अदो न प्रकाशः , स्वप्रकाशरूपावेशनं हि असौ परस्य विदधत् बोधः प्रकाशो भवति परस्यापि , ततः स्वप्रकाशताशून्यो न असौ अर्थस्य प्रकाशः स्यात् , भावान्तरवत् //७//
SK
जडोऽप्यसौ इत्थम् अर्थस्य प्रकाशो भविष्यति ---- इति सांख्यमतम् आशङ्कते
SK
अथार्थस्य यथा रूपं धत्ते बुद्धिस्तथात्मनः / चैतन्यम् .............................................................. //
SK
इह तावत् अर्थं जानामि ----इत्यस्ति व्यवहारः / तत्र अर्थस्य प्रकाशः ---- इत्येतावानेव परमार्थः / तत् न अर्थस्य स्वं रूपम् , सर्वं प्रति तथात्वप्रसङ्गात् , न कंचित्प्रति वा इति सर्वज्ञम् अज्ञं वा जगत् स्यात् / नापि अर्थे अन्यत एतद्रूपम् उपनिपतितम् , एष एव हि दोषः स्यात् / तत् नूनम् अन्यत्रैव अयं धर्मः तत्त्वान्तरे , तत्रापि कथम् अर्थस्य प्रकाशः स्यात् इति नूनं तत्र तत्त्वान्तरे सोऽर्थः प्रतिबिम्बत्वेन उपसंक्रामति / तत् तत्त्वान्तरं सत्त्वप्राधान्यात् प्रतिबिम्बग्रहयोग्यं तमसाऽऽच्छादितत्वात् सकलप्रतिबिम्बनतो व्यावर्तितम् , भागे रजसा तमसोऽपसारणात् किंचिदेव प्रतिबिम्बकं गृह्याति , तदेव बुद्धितत्त्वम् उच्यते / अर्थप्रतिबिम्बग्रहश्च ज्ञानम् अस्य वृत्तिरूपं पूर्वव्यपदेशतिरोधायकदध्यादिपरिणामविलक्षणपरिणतिविशेषात्मकम् / एवम् अर्थस्य तावत् रूपं बुद्धिः धारयति / इयश्च सत्त्वादीनां सुखदुःखमोहरूपतयां भोग्यत्वात् जडम् इति दर्पक्षवत् अप्रकाशम् / न च भोग्यस्य अप्रकाशस्य तद्विरुद्धभोक्तृतारूपप्रकाशात्मकस्वभावसंभवो युक्त्यनुपाती इति तद्विलक्षणेन भोक्त्रा भवितव्यम् / स च प्रकाशः ---- इत्येतावत्स्वभावः , स्वभावान्तरं हि अप्रकाशरूपं भोग्यं कथं भोक्तुः स्वभावतया संभाव्येत / स च प्रकाशमात्रस्वभावत्वेनैव यदि विश्वस्य प्रकाशः , तर्हि युगपदेव प्रकाशेत , घटप्रकाशोऽपि पटप्रकाशः स्यात् इति विश्वं संकीर्येत / स च अर्थात् अर्थप्रतिबिम्बात् तदाधाराच्च बुद्धितत्त्वात् अन्यः कथम् अर्थस्य प्रकाशः स्यात् , असंबन्धात् / तस्मात् बुद्धिरेव स्वच्छत्वात् प्रकाशप्रतिबिम्बमपि गृह्णाति / ततः प्रकाशप्रतिबिम्बपरिग्रहमहिमोपनतप्रकाशावेशबुद्धितत्त्वावेशितप्रतिबिम्बकनीलाद्यर्थपर्यन्तसंक्रान्तेः प्रकाशावेशस्य अर्थः प्रकाशते इति सिद्धो व्यवहारः / तदेवं ज्ञानं जडबुद्धितत्त्वाव्यतिरेकात् जडमपि चित्प्रतिबिम्बयोगात् विषयस्य प्रकाशः ---- इति /
SK
एतदेव तावत् अनुचितम् ---- यत् प्रकाशात्मा पुमान् बुद्धौ प्रतिबिम्बम् अर्पयति , समानगुणे बिम्बकापेक्षया च विमले प्रतिबिम्बसंक्रान्तिदर्शनात् , रूपवति आदर्शे घटरूपप्रतिबिम्बवत् ; आत्मबुद्ध्योश्च अतिवैलक्षण्यम् , आत्मापेक्षया च न बुद्धिर्विमला तत् बह्वतु तावत् एतत् ---- इति अथ शब्देन सूचयति /
SK
किंतु प्रतिबिम्बवादेनापि न किंचित् प्रतिसमाहितं भवेत् ---- इति दर्शयति
SK
.............. अजडा सैवं जाड्ये नार्थप्रकासता // Iप्क्_१,२.८ //
SK
चैतन्यप्रतिबिम्बयोगे यदि तावत् तत्प्रतिबिम्बकमपि मुख्यं प्रकाशरूपमेव न भवति , तेनापि न किंचित् कृतं स्यात् , न हि प्रतिबिम्बतवह्निपुञ्ज आदर्शो दाह्यं दहेत् / अथ मुख्यप्रकाशरूपमेव तत्प्रतिबिम्बकम् , तत् तर्हि बुद्धेरव्यतिरिक्तम् इति मुख्यप्रकाशरूपैव बुद्धिर्जाता इति / यतो विरुद्धधर्माध्यासात् भीरुभिः एतत् कल्पितम् / स एव पुनः जाज्वल्यमानं निजम् ओजो जृम्भयति , ततश्च सा बुद्धिरेव चिन्मयी स्यात् , किं पुरुषेण / एवम् अर्थप्रतिबिम्बकद्वारेण अर्थमयी ---- इत्यपि आयातो विज्ञानवादः / कुत एतस्याः तद्रूपत्वम् ---- इति , पूर्वकारणपरम्परातः ---- इति उतरं वाच्यम् / एवं सैव चेत् चिद्रूपा , प्राग्वत् नित्यताप्रसङ्गः ; न चेत चिद्रूपस्यापि नित्यता , तर्हि आत्मा न नित्यः कश्चिदस्ति , यस्य ज्ञानं नाम शक्तिः स्यात् इति ज्ञानमात्रमेव अस्ति / यो ऽर्थप्रकाशरूपो बोधो यश्च विकल्पस्मृत्यादिरूपः तावता अर्थव्यवहारसिद्धेः ---- इति प्रसङ्गविपर्ययलाभः ज्ञानं च चित्स्वरूपं चेत् इत्यादेः श्लोकद्वयस्य तात्पर्यम् //८//
SK
एवं ज्ञानं परीक्ष्य क्रियां परीक्षते
SK
क्रियाप्यर्थस्य कायादेस्तत्तद्देशादिजातता / नान्यादृष्टेः ............................................. //
SK
इह परिस्पन्दरूपं तावत् गव्च्छति , चलति, पतति ---- इत्यादि यत् प्रतिभासगोचरम् , तत्र गृहसेशगतदेवदत्तस्वरूपात् अनन्तरं बाह्यदेशवर्तिदेवदत्तस्वरूपम् ---- इत्येतावत् उपलभ्यते , न तु तत्स्वरूपातिरिक्तां कांचित् अन्यां क्रियां प्रतीमः / देवदत्तो दिनं तिष्ठति इत्यत्र तु प्रभातकालाविष्टदेवदत्तस्वरूपं ततः प्रहरकालालिङ्गिततत्स्वरूपम् ---- इत्यादि भाति , दुग्धं परिणमते इत्यत्र मधुरवस्तुरूपम् अम्लवस्तुरूपम् द्रवरूपं कठिनरूपम् ---- इत्यादि / एवं सादृश्याच्च तत्र प्रत्यभिज्ञा भिन्नेऽपि कायकेशनस्वादाविव / देशाकारान्यत्वे तु कालान्यत्वम् अवश्यंभाविदेशकालान्यत्वे ऽपि , स्वरूपस्यैव देशत्वात् , कालभेदे च स्वरूपभेदात् , देशकालाकारा आकार एव यद्यपि पर्यवस्मन्ति , तथापि स्थूलदृष्ट्या अस्ति भेदः इति ते हि भेदेन बौद्धैरुच्यन्ते ---- इति तात्पर्यम् / एवं प्रत्यक्षेण न दृश्यते कचित् क्रिया , तद्भावात् न तत्पूर्वकेण अनुमानेन , कार्यं च प्रामप्राप्त्याद्युत्तरक्षणरूपं तद्देशवस्तुरूपादि इति कार्यान्यथानुपपत्त्यापि न सा कल्प्या / एवं प्रत्यक्षानुमानाभ्यां तस्या अदृष्टिः ---- इति साधकप्रमाणाभाव उक्तः /
SK
बाधकमपि आह
SK
................... न साप्येका क्रमिकैकस्य चोचिता // Iप्क्_१,२.९ //
SK
तत्र पूर्वापररूपता क्षणानां विकल्पबुद्व्यानुसंधानात् , न तु स्वात्मनि किंचित् पूर्वम् अपरं वा , वस्तुमात्रं हि तत् / अतो विकल्पप्राणितं पूर्वापरीभूतत्वं क्रमरूपता क्रियायाः किंचित् क्षणं न वस्तु स्पृशति , ते हि क्षणा न अन्योन्यस्वरूपाविष्टाः इति कथम् एका क्रिया , क्रमो हि भेदेन व्याप्तः अभिश्ने तदभावात् , भेदस्य विरुद्धम् एक्यम् इति कथं क्रमिका एका च इति स्यात् ? अथ एकत्र आश्रयेऽवस्थानात् एका , तत्रापि तत्क्षणातिरिक्तो न कश्चित् आश्रयोऽनुभूयते , क्षणा एव हि प्रबन्धवृत्तयो भान्ति / किं च तथाभूतैर्भिन्नदेशकालाकारैः क्रियाक्षणैराविष्ट आश्रयः कथमेकः स्यात् ? अत एव देवदत्तोऽयम्, स एव ग्रामं प्राप्तः इति सादृश्यात् भवन्ती प्रत्यभिज्ञा न ऐक्यं वास्तवं गमयितुमलम् //९//
SK
एवं ज्ञानं क्रियां च परीक्ष्य , यस्मिन् सति ते संबद्धे सर्वज्ञत्वसर्वकर्तृतारूपैश्वर्यप्रसाधनाय प्रभवतः , तं संबन्धं ध्वंसयितुं तद्विषयं प्रमाणाभावं तावदाह
SK
तत्र तत्र स्थिते तत्तद्भवतीत्येव दृश्यते / नान्यन्नान्योऽस्ति संबन्धः कार्यकारणभावतः //
SK
मृत्प्पिण्डे सति स्तूपकः , तत्र सति शिविको यावत् घटः इत्येवं भावक्षणा एव उपलभ्यन्ते , न अधिकं किंचित् प्रत्यक्षेण अवभासते , नापि अनुमानेन ---- इति क्रियायामिव वाच्यम् / सर्वत्र आधाराधेयभावादौ अयमेव पन्थाः ---- पृथग्रूपकुण्डवदरक्षणानन्तरं निरन्तरात्मकविशिष्टकुण्डवदरोदयः ---- इति / अयमेव च भावो भावान्तरेण सह नियतपूर्वापरतया विकल्पेन व्यवहियमाणः कार्यकारणभावः ---- इति अभिधीयते / न च ज्ञानक्रियाभ्यां सह आत्मनः कार्यकारणभावः आत्मनस्तत्कार्यत्वाभावात् , ज्ञानस्य च स्वसामग्रोकार्यत्वात् , क्रियायाश्च अभावात् इति न ज्ञानक्रियासंबन्धो यतो ज्ञातृत्वकर्तृत्वे स्याताम् //१०//
SK
एवं प्रमाणं पराकृत्य , संबन्धे बाधकं सामान्यविशेषमुखेन निरूपयति
SK
द्विष्ठस्यानेकरूपत्वात् सिद्धस्यान्यानपेक्षणात् / पारतन्त्र्याद्ययोगाच्च तेन कर्तापि कल्पितः //
SK
संबन्धस्तावत् परस्परप्राप्तिरूपो द्वयोः प्राप्तिभाजोरेकस्तिष्ठति ---- इति सामान्यलक्षणम् / तच्च कथम् ? न हि एकत्र विश्रमिताशेषशरीरसारोऽन्यत्र विश्रमितुम् अलम् स्वरूपभेदप्रसङ्गात् / एतेन संयोगसमवायौ तन्मूलाश्च अन्येऽपि संबन्धा बाधविधुरां धुरम् अध्यारोपिता मन्तव्याः / योऽपि चेतनेषु तत्कल्पनया च अचेतनेषु पारतन्त्र्यात्मा संबन्धो व्यवहियते , तत्र सिद्धस्य न पारतन्त्र्यम् अस्ति सिद्धत्वादेव , असिद्धस्य नतरां निःस्वरूपस्य ताद्धर्म्यायोगात् / एवमपेक्षायामपि वाच्यम् / द्वे च रूपे कथं श्लिष्यतः ? द्वयोरेकत्वानुपपत्तेः ; एकत्वे वा कः श्लेषः ? तस्मात् ज्ञानसंबन्धात् ज्ञाता इति यथा विकल्पकल्पितो ऽर्थो न वस्तु तथा क्रियासंबन्धात् कर्ता इत्यपि कल्पनामात्रम् ---- इति पूर्वपक्षस्य संक्षेपः / इति शिवम् //११// आदितः १६ //
SK
इति श्रीमदाचार्याभिनवगुप्तविरचितायां प्रत्यभिज्ञासूत्रविमर्शिन्यां ज्ञानाधिकारे पूर्वपक्षविवृतिर्नाम द्वितीयमाह्निकम् // २ //
SK
अथ तृतीयमाह्निकम् /
SK
{विना येन न किंचित्स्यात्समस्ता अपि दृष्टयः / अनस्तमितसंबोधस्वरूपं तं स्तुमः शिवम् //}
SK
एतस्मिन् पूर्वपक्षे यदुक्तं स्मृतेः संस्कारमात्रादेव सिद्धिः ---- इति , तदेव दूषयितुं
SK
{सत्यं ....................................................... /}
SK
इत्यादि
SK
{................ ज्ञानस्मृत्यपोहनशक्तिमान् //}
SK
इत्यन्तं श्लोकसप्तकम् / क्रियायां संबन्धे च दूषणोद्धरणं द्वितीये क्रियाधिकारे भविष्यति / यत्तु परेण व्यतिरिक्तं ज्ञानं काशादसांख्यादिदृष्टौ निराकृतं तदभिमतमेव ग्रन्थकृत इति तत् दूषणान्तरमेव / तत्र श्लोकद्वयेन ज्ञानस्य स्वसंवेदनरूपतया अनुभवस्य स्मृतौ अप्रकाशत्वं दर्शितं संस्कारजत्वे ऽपि / ततः श्लोकद्वयेन स्मृतेः भ्रान्तित्वम् आशङ्कापूर्वकं पराकृत्य तृतीयेन प्रसङ्गात् सर्वाध्यवसायानामपि भ्रान्तित्वाशङ्का शमिता / ततः सत्यपि संस्कारे स्मृत्यनुपपत्तौ व्यवहारोच्छेदः ---- इति श्लोकेनोक्त्वा स्वपक्षे तदुपपत्तिः ---- इति श्लोकेनोक्तम् ---- इति तात्पर्यम् / ग्रन्थार्थस्तु निरूप्यते /
SK
सत्यं किंतु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः / जातमप्यात्मनिष्ठं तन्नाद्यानुभववेदकम् //
SK
पूर्वपक्षमध्यात् मया तावत् बहु अङ्गीकर्तव्यम् ---- इति सत्यम् इत्यनेन दर्शितम् / यत्तु न अङ्गीकर्तव्यं तत् दूष्यते ---- इत्येतदुक्तं किंतु इत्यनेन विशेषाभिधायिना / इह स्मृतौ विषयमात्रस्य प्रकाशो न समर्थनीयो वर्तते यः संस्कारादेव सिद्ध्येत् , किंतु अनुभवप्रकाशेन विना तत् इत्येवंरूपा कथं स्मृतिः स्यात् , कथं च तया विना अभिलाषेण व्यवहारः स्यात् ? अनुभवेन हि अस्य सुखसाधनता निश्चिता , तत उपादानम् ; तत्र पूर्वानुभवजनितात् संस्कारात् एतावत् जातम् / यद्यपि तज्ज्ञानं विषयेण न जनितम् , तथापि तद्विषयम् ---- इति / न च एतावता किंचित् , आत्मनिष्ठे स्वप्रकाशज्ञाने विषयस्येव अनुभवस्य प्राच्यस्य अप्रकाशात् //१//
SK
ननु संस्क्|अरजत्वादेव प्राच्यमनुभवमपि विषयीकुरुतां स्मृतिः ---- इत्याशङ्क्याह
SK
दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक् / रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः //
SK
दृक् ज्ञानम् , तच्च जडात् विभिद्यते स्वप्रकाशैकरूपतया , जडो हि प्रकाशात् पृथग्भूतो वक्तव्यः , तेन दृक् स्वाभासा , आभासः प्रकाशमानता सा स्वं रूपमव्यव्हिचारि यस्याः , स्वस्य च आभासनं रूपं यस्याः / सत्यपि बाह्ये तच्छरीरसंक्रान्तं न प्रकाशनं ज्ञानस्य रूपं भवितुमर्हति , परप्रकाशनात्मकनिजरूपप्रकाशनमेव हि स्वप्रकाशत्वं ज्ञानस्य भण्यते / ननु स्वाभासमेव सत् तत् अनुभवज्ञानं स्मरणे भासिष्यते , न ---- इत्याह नान्येन वेद्या / परत्र यदि दृक् भासेत तर्हि न सा स्वाभासा , इदमेव हि स्वप्रकाशस्य लक्षणम् ---- स्वयं हि यदि प्रकाशेत तदा परेण सह असंबन्धात् संबन्धप्राणा कथं परत्र इति सप्तमी संगच्छताम् ; तथा च रूपज्ञानेन रसे दृक् रसविषयं ज्ञानं न वेद्यते , एवं हि चक्षुषैव रसः फलतो गृहीत एव स्यात् / ननु यदि न आभाति स्मरणे ऽनुभवः किं तर्हि संस्कारेण कृतं स्यात् , रूपज्ञानं न रसज्ञानजात् संस्कारात् जातम् , तत् कथम् अयं प्रसङ्गः , तस्मात् संस्कार एव भवत्संभावितदोषभङ्गाय प्रभवेत् / नैतत् , यतो हि असौ तत्संस्कारसंस्कृतात् समनन्तरप्रत्ययात् उत्थितः स्मृतिबोधः , तेन तत्सदृशो भवतु शास्वासंनिवेश इव पूर्वसंनिवेशतुल्यः , न तु यो यत्संस्कारात् जातः स तस्य वेदनस्वभावो भवति ---- इति युक्तम् / सदृशत्वस्यापि गतिरवगमः कथम् ? न हि अनुभवज्ञानं सादृश्यं गमयति , नापि स्मृतिज्ञानम् , परस्परम् असंवेदने द्वयनिष्ठसादृश्याध्यवसायायोगात् , अभ्यस्य च तदुभयवेदनरूपस्य अभावात् इति संस्कारात् परं सविषयतामात्रं स्मृतेः सिद्धम् , न तु अनुभवविषयत्वम् , नापि अस्य विषयस्य पूर्वानुभवविषयीकृतत्वम् ---- इति निश्चयः एषः //२//
SK
ननु यदि स्मृतिज्ञाने अनुभवस्य सत्यतः प्रकाशः स्यात् , तन्मुखेन च तद्विषयस्य , तदा भवेत् भवदुक्तेरवकाशः , यावता स्मृतिर्विकल्परूपत्वात् केवलमपरकाशमानमेव अनुभवं तद्विषयं च अध्यवस्यति , तत् इयं भ्रान्तिस्वभावा , तत्र कोऽयं निर्बन्धः ? तदेतत् दर्शयति शङ्क्यमानत्वेन
SK
अथातद्विषयत्वेऽपि स्मृतेस्तदवसायतः / दृष्टालम्बनता भ्रान्त्या ................................. //
SK
न तद्दर्शनं नापि तद्विषयः स्मृतेर्विषयः , तथापि तु उभयम् अध्यवसीयते , भ्रमरूपतया स्मृतेः / एतत् निराकरोति
SK
..................................... तदेतदसमञ्जसम् // Iप्क्_१,३.३ //
SK
अत्र कारिकया उपपत्तिम् आह
SK
स्मृतितैव कथं तावद्भ्रान्तेश्चार्थस्थितिः कथम् / पूर्वानुभवसंकारापेक्षा च किमितीष्यते //
SK
अनुभूतस्य अनुभवप्रकाशितस्य विषयस्य अप्रमोषोऽनपहारः तथैव प्रकाशनं यत् एतत् स्मृतेः आत्मीयं रूपं तत् तथाप्रकाशनाभावे विघटेतमाम् / किं च भ्रान्तौ असद्वा आत्माकारो वा प्रख्याति , न तु तया अर्थः स्वीक्रियते तस्य अप्रकाशनात् इति तया अर्थो न व्यवस्थापित एव / प्रकाशनात्मा हि व्यवस्थापना , ततश्च स्मरणादभिलाषेण कथम् अर्थविषयो व्यवहारः ? न च तदप्रकाशने संस्कारजत्वेन किंचित् कृत्यम् , तद्धि सादृश्यं लब्धुम् अवलम्ब्यते ; न च अनुभवेन विषयप्रकाशनात्मना स्मृत्यभिधानाया भ्रान्तेः किचिदपि सादृश्यम् अस्ति , सर्वथा विषयमस्पृशन्त्या //४//
SK
ननु योऽनुभवो यश्च तद्विषयः स यतः तया अध्यवसीयते , ततः अंशात् सादृश्यम् अनुभवेन स्मृतेः , तत्सिद्धये च संस्कारपरिग्रहः / अध्यवसीयते इति किम् उच्यते ? प्रकाश्यते इति चेत् न भ्रान्तित्वम् ; न प्रकाश्यते इति चेत् पुनरपि विषयो न स्पृष्ट एव अनया इति सादृश्यमिति शब्दगडुमात्रम् , तदेतत् दर्शयितुमाह
SK
भ्रान्तित्वे चावसायस्य न जडाद्विषयस्थितिः / ततोऽजाड्ये निजोल्लेखनिष्ठान्नार्थस्थितिस्ततः //
SK
इह स्मृतेः अन्यस्य वा भ्रान्तिबोधस्य स्वसंवेदनांशे प्रकाशमाने न भ्रान्तिता , तत्र वैपरीत्याभावात् ; यस्तु तत्र अध्यवसीयते स्वाकारः स विपरीततया अस्वाकारत्वेन अर्थतया इति तत्रांशे भ्रान्तिता / स चांशोऽर्थलक्षणो न स्मृत्या अन्यया वा भ्रान्त्या स्पृश्यते इति तत्र असौ तूष्णीका इति बलादेव तत्रांशे जडत्वम् अस्या आयातं घटज्ञानस्येव पटे / न च जडेन विषयस्य किंचित् कृत्यम् , ततश्च अर्थविषयो व्यवहारो विलुप्येत /
SK
अथ तु तम् अवसायरूपं स्वसंवेदनांशं स्वाकारं वा अवलम्ब्य अजडत्वम् अस्याः , एवमपि अजाड्ये निजं स्वसंवेदनम् उल्लेखश्च स्वाकारः ---- इतीयति एषा परिनिष्ठिता स्मृतिः इति विषयस्य नामापि प्रहीतुम् अशक्नुवतः ततः स्मृत्यध्यवसायात् कथं विषयस्य व्यवस्थापनं व्यवहार्यत्वसंपादनसामर्थ्यम् ? //५//
SK
संस्कारे सत्यपि स्मृतिः न कथंचन घटते , ततश्च परस्परसङ्गतिहीनानि सकलानि ज्ञानानि ---- इति यदुक्तं श्लोकपञ्चकेन तत् इदानीं प्रकृते योजयति
SK
एवमन्योन्यभिन्नानामपरस्परवेदिनाम् / ज्ञानानामनुसंधानजन्मा नश्येज्जनस्थितिः //
SK
जनस्य लोकस्य या काचन स्थितिः व्यवहारः सा सर्वज्ञानानां यत् अनुसंधानम् एकविषयभावोपपन्नस्मृतिताप्राप्तिरूपम् , तत्र आयत्ता / तथा हि ---- स्मरणनिबन्धनाः सर्वे व्यवहाराः / प्रथममपि हि प्रत्यक्षज्ञानम् अहमितिपूर्वापररूपानुसंधानेन स्मरणानुप्राणितेन विना न घटते , प्रमातरि विश्रान्त्यभावात् अप्रत्यक्षत्वप्रसङ्गात् / एवं सुखादौ मन्तव्यम् / हानादानप्रेरणाभ्युपगमादवस्तु व्यवहाराः स्मरणमया एव / एवं ज्ञानानाम् यत् अनुसंधानम् ततो जायमाना जनस्थितिः एवम् इति पराभ्युपगमे सति , नश्येत् नश्यति ---- इति संभाव्यते , कुत इति चेत् , विशेषणद्वारेण हेतुमाह / अन्योन्यम् तावत् भिन्नानि ज्ञानानि ---- अन्यत् अनुभवज्ञानम् , अन्यत् इदानीन्तनं ज्ञानं विकल्पाभिमतम् , अन्यत् स्मरणसंमतं ज्ञानम् / तदेतानि स्वविषयप्रकाशमात्ररूपाणि परविषये जडान्धानेडमूककल्पानि , न च अन्योन्यस्य प्रकाशरूपाणि //६//
SK
एवं न स्वरूपतो न वेद्ययो वा एकीभावरूपम् अनुसंधानम् अस्ति / अन्योन्यं च विषयविषयिभावो नास्ति / न च तुर्यं ज्ञातेयनिबन्धनम् अनुसन्धानाधायि संभाव्यते इति ध्वंसेरन् व्यवहाराः / न च ध्वंसन्ताम् इति भवदभीष्टशापमात्रात् ते ध्वंसन्ते , प्रकाशन्ते यतः तत एतत् आपद्यते ---- एतदेव समर्थयितुम् उद्यन्तव्यम् ---- इति / तच्च अस्मदभिमतप्रकारेण विना विधेरपि अशक्यसमर्थनम् ---- इति दर्शयति
SK
न चेदन्तःकृतानन्तविश्वरूपो महेश्वरः / स्यादेकश्चिद्वपुर्ज्ञानस्मृत्यपोहनशक्तिमान् //
SK
संवित् तावत् प्रकाशते इति तावत् न केचित् अपह्नुवते / सा तु संवित् यदि स्वात्ममात्रविश्रान्ता अर्थस्य सा कथं प्रकाशः ? स हि अर्थधर्म एव तथा स्यात् ; ततश्च अर्थप्रकाशः तावत्येव पर्यवसित इति गलितो ग्राह्यग्राहकभावः / अतो ऽर्थप्रकाशरूपं संविदम् इच्छता बलादेव अर्थोऽपि तद्रूपान्तर्गत एव अङ्गीक्रतव्यः ; स च अर्थप्रकाशो यदि अन्यश्च अन्यश्च , तत् न स्मरणम् उपपन्नमित्यत एक एव असौ ---- इति / एकत्वात् सर्वो वेद्यराशिः तेन क्रोडीकृतः ---- इत्येतदपि अनिच्छता अङ्गीकार्यम् / एवमपि सततमेव उन्मग्नेन निमग्नेन वा विश्वात्मना प्रकाशेत , तथा स्वभावत्वात् / न चैवम् , अतः स्वरूपान्तर्ब्रुडितम् अर्थराशिम् अपरमपि भिन्नाकारम् आत्मनि परिगृह्य , कंचिदेव अर्थं स्वरूपात् उन्मग्नम् आभासयति ---- इति आपतितम् / सैषा ज्ञानशक्तिः / उन्मग्नाभासभिन्नं च चित्स्वरूपं वहिर्मुखत्वात् तच्छायानुरागात् नवं नवं ज्ञानमुक्तम् / एवमपि नवनवाभासाः प्रतिक्षणम् उदयव्ययभाज इति सैव व्यवहारनिवहहानिः / तेन क्वचित् आभासे गृहीतपूर्वे यत् संवेदनं बहिर्मुखम् अभूत् , तस्य यत् अन्तर्मुखं चित्स्वरूपत्वं तत् कालान्तरे ऽपि अवस्थास्नु स्वात्मगतं तद्विषयविशेषे बहिर्मुखत्वं परामृशति इति एशा स्मृतिशक्तिः / यच्च तत् नवं भासयति स्मरति वा तत् वस्तुतः संविदा विश्वमय्या तादात्म्यवृत्ति इति विश्वमयं पूर्णमेव इति नवं न किंचित् आभासितं स्मृतं वा स्यात् / इदमपि प्रवाहपतितम् उरीकार्यम् ---- यत् किल तत् आभास्यते तत् संविदो विच्छिइद्यते , संविच्च ततः , संविच्च संविदन्तरात् , संवेद्यं च संवेद्यान्तरआत् ; न च विच्छेदनं वस्तुतः संभवति , इति विच्छेदनस्य अवभासमात्रम् उच्यते / न च तत् इयता पारमार्थिकम् , निर्मीयमाणस्य सर्वस्य अयमेव परमार्थः / यतः एष एव परितश्छेदनात् परिच्छेद उच्यते , तदवभासनसामर्थ्यम् अपोहनशक्तिः / अनेन शक्तित्रयेण विश्वे व्यवहाराः / तच्च भगवत एव शक्तित्रयम् ---- यत् तथाभूतानुभवितृ-स्मर्तृ-विकल्पयितृस्वभावचैत्रमैत्राद्यवभासनम् / स एव हि तेन तेन वपुषा जानाति , स्मरति विकल्पयति च / यथोक्तम् आचार्येणैव
SK
{यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते / जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता //}
SK
इत्यादि / एतासां च ज्ञानादिशक्तीनाम् असंख्यप्रकारो वैचित्र्यविकल्प इति तत्सामर्थ्यं स्वातन्त्र्यम् अपराधीनं पूर्णं महदैश्वर्यं तन्निर्मितब्रह्मविष्णुरुद्राद्यैश्वर्यापेक्षया उच्यते / तदेवं चिद्वपुः इत्येकं कृत्वा इयदायातम् विश्वरूपः इति / तत एव च परिनिष्ठितैकरूपजडभाववैलक्षण्यात् ज्ञानादिशक्तियुक्ततामाहेश्वर्यम् उपसंप्राप्तः / एतदनुपगमे न किंचित् इदं भासेत ---- इति प्रसङ्गः / भासते तु , तस्मात् एतत् अवश्याङ्गीकर्तव्यम् ---- इति प्रसङ्गविपर्ययः / नश्येज्जनस्थितिः , यद्येवं न स्यात् ---- इति प्राक्तनेन श्लोकेन सह संबन्धः / चेत् इत्यनेन तद्विपर्ययः सूचितः //७//
SK
इति शिवम् / आदितः २३ //
SK
इति श्रीमदाचार्याभिनवगुप्तविरचितायां ईश्वरप्रत्यभिज्ञासूत्रविमर्शिन्यां ज्ञानाधिकारे परदर्शनानुपपत्तिर्नाम तृतीयमाह्निकम् // ३ //
SK
अथ चतुर्थमाह्निकम् /
SK
{पदार्थरत्ननिकरं निजहृद्गञ्जपुञ्जितम् / ग्रथ्नन्तं स्मृतिसूत्रान्तः संतत्यैव स्तुमः शिवम् //
SK
एवं ज्ञानपूर्विका स्मृतिः , तदुभयानुग्राहिणी अपोहनशक्तिः ---- इति तावत् वस्तुसंभवक्रमेण प्रदर्शितम् / उपक्रमानुसारेण स्मृतिरेव सूचितप्रसङ्गविपर्ययसमर्थनदृशा विवेच्या /
SK
{सत्यं किंतु स्मृतिज्ञानम् ....................... /}
SK
इति हि उपक्रान्तम् / तत्र संस्कारमात्रात् तावत् मा नाम उदपादि स्मृतिः , इदं तु वक्तव्यम् ---- तथाभूतभवदभ्युपगतभगवत्प्रभावोऽपि कथम् एनां कुर्यात् ---- इति शङ्कां शमयितुं स्मृतितत्त्वनिरूपणाय
SK
{स हि पूर्वानुभूतार्थोपलब्धा .................... /}
SK
इत्यादि
SK
{................................. अर्थौ भातः प्रमातरि /}
SK
इत्यन्तं श्लोकाष्टकम् / तत्र श्लोकेन स्वपक्षे स्मृतिरुपपन्ना ---- इति कथितम् / द्वितीयेन स्मृतेः पूर्वानुभवविषयीकृतस्वलक्षणप्रकाशनसामर्थ्यमुक्तम् / तृतीयेन अनुभवेन तद्विषयेण च एकीभावपर्यन्त आवेशः स्मरणस्य उक्तः / तुर्येण अनुभवस्य न विषयतया स्मृत्या प्रकाशनम् ---- इति निरूपितम् / पञ्चमेन योगिज्ञानमपि अनुभवं पृथग्भावेन न विषयीकरोति ---- इति बडता तुर्यश्लोकार्थ एव उपोद्वलितः / षष्ठेनाशङ्क्यमानम् अनुभवस्य स्मृत्या पृथग्विषयीकरणं काक्पनिकम् ---- इत्यवास्तवीकृतम् / सप्तमेन स्मृतिप्रसङ्गात् विकल्पेऽपि पूर्वानुभवेन ऐक्यात्मावेशो दर्शितः / अष्टमेन स्मर्तव्यस्य स्मृतेः स्मर्तुश्च एकचित्तत्त्वविश्रान्तिः उक्ता , प्रसङ्गाच्च दृश्यस्य दर्शनस्य द्रष्टुश्च ---- इति तात्पर्यार्थः / अथ क्रमेण श्लोकार्थ उच्यते /
SK
स हि पूर्वानुभूतार्थोपलब्धा परतोऽपि सन् / विमृशन्स इति स्वैरी स्मरतीत्यपदिश्यते //
SK
पूर्वमनुभूतस्य अर्थस्य य उपलन्धा अन्तर्मुखो बोधः स तावत् अद्यापि परतः स्मृतिकालेऽपि अस्त्येव , संविन्मात्रस्वरूपस्य कालकृतसंकोचरूपविशेषात्मकावच्छेदायोगात् / अनुभवस्य च अन्तः अर्थोऽपि अपृथग्भावेन अवस्थितः ---- इत्येतदपि अयत्नसिद्धम् / इयत् तु चिन्त्यम् ---- अकालकलिते संवेदने तदन्तर्वर्तिनि च विश्वत्र भावजाते यदि तावत् चिन्मयतापरामर्शः , तत् अहम् इति एतावतैव पूर्णेन विमर्शेन भाव्यम् ; अथ इदम्तया पृथग्भावावभासनेन , तथापि तत्र द्वयी गतिः / अहम् इत्यंशे यदि विश्रान्यति इदन्ता , तदा अहमिदमितिसदाशिवादिदशया भाव्यम् / अथ न रोहति , तत् इदम् इत्येव आभासनेन भवितव्यम् ; अपूर्वताभासनाच्च तत् अनुभवनमेव स्यात् न स्मरणम् ---- इत्याशङ्ग्याह स्वैरी इति / स्वम् आत्मीयम् उपकरणम् ईरयति स्वकर्तव्येषु अवश्यं तच्छीलश्च ; स्वं च आत्मानम् ईरयति न पुनः स्वकर्तव्ये प्रेरकमपेक्षते ---- इति स्वैरी स्वतन्त्रः / तेन स्वतन्त्रत्वात् स इति विमृशति / स इति विमर्शनस्य च इयद्रूपम् ---- यत् सर्वथा अकालकलितस्वरूपपरामर्शनमेव न , नापि अत्यन्तं भेदेन विमर्शनमेव अपि तु यो भावः पूर्वमनुभवकाले तद्देशकालप्रमात्रन्तरसाचिव्येन पृथक्कृतो न च अहन्तायामेव लीनीकृतः , स तादृगेव तमसेव आच्छाद्य अवस्थापितः संस्कारशब्दवाच्यः , तस्य तमाच्छादकम् अपहस्तयति ; तत्र अपहस्तिते स पूर्ववत् पृथक्कृते एवावभाति / ननु च इदन्तया अवभासेत् पूर्ववदेव , नैवम् / तदानीन्तनावभासनपृथक्कृतशरीरादिसंबन्धमनवधूयैव हि तत्प्रकाशः ; ततश्च इदानीन्तनावभासनस्मरणकालपरामर्शोऽपि न निमीलति इति तत्परामर्शभित्तिप्राधान्येन पूर्वकालपरामर्शः इति विरुद्धपूर्वापरपरामर्शस्वभाव एव स इति परामर्श उच्यते / एवं च स एव परमेश्वरः स्मरति / एतदेव हि तस्य स्मर्तृत्वम् ---- यत् एवंप्रकारपरामर्शोचितकालकलादिस्पर्शसहिष्णुमायाप्रमातृभावपरिग्रहः इति मायाविद्याद्वयाद्वयमयम् / तत एव सकलसिद्धिवितरणचतुरचिन्तामणिप्रख्यम् आगमिकाः स्मरणमेव मन्त्रादिप्राणितं मन्यन्ते / तथा च
SK
{ध्यानादिभावं स्मृतिरेव लब्ध्वा चिन्तामणिस्त्वद्विभवं व्यनक्ति /}
SK
इति / अलं तावत् / अनेन तृन्नन्तसमासेन यत्नतो ऽनुभवस्यार्थमुखेन कालस्पर्शम् अर्थविश्रान्ततां द्वयोरपि प्रमातरि निरूढिं भेदाभेदाभ्यां दर्शयति , वृत्तो एकार्थीभावात् / तस्य च भेदाभेदमयत्वम् ---- इति वक्ष्यामः //१//
SK
एतदेव स्मृतितत्त्वमुपपादयितुं श्लोकान्तराणि / तत्र यदि कश्चिद् ब्रूयात् ---- इह स्मृतिर्विकल्पः , न च अनेनार्थः प्रकाश्यते , अर्थासंस्पर्शिनो हि विकल्पाः , अनुभवेन च येन सोऽर्थः प्रकाशतां नीतः स इदानीं कीर्तिमात्रमूर्तिर्जातः , न च सोऽपि स्मृत्या प्रकाश्यते ---- ज्ञानस्य ज्ञानान्तरेणासंवेद्यत्वात् असत्त्वाच्चेति अर्थस्य प्रकाशनाभावात् इदं स्मरामि इति ज्ञानं भ्रान्तिमात्रमेव ---- इति पुनरपि आपतितम् ---- इति , तदा तं प्रति उच्यते
SK
भासयेच्च स्वकालेऽर्थात्पूर्वाभासितमामृशन् / स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना //
SK
इह स्मृतिविकल्पे तावत् अर्थो ऽवसीयते , अन्यथा सुप्तमूर्च्छितकल्पतापत्तेः / एवं च यावत् अध्यवसायोऽर्थस्य तावत् अर्थात् इति सामर्थ्यात् इयत् अभ्युपगन्तव्यम् ---- यत् सोऽर्थः प्रकाशते , अप्रकाशमाने ऽध्यवसातव्ये ऽध्यवसायोऽन्धप्रायः स्यात् / प्रकाशनं च न तदानीन्तनकालस्य त्यागेन , नापि द्वीकारेण , इदम् इत्येवावभासनप्रसङ्गात् / तस्मात् अतीतानुभवकालः पूर्वानुभूतभावस्वालक्षण्याक्षेपकत्वेनापेक्षणीयो वेद्यभागे प्रकाशात्मकावभासाभिनिवेशितया , स्मर्तृदेहप्राणाद्यवभासकालश्चावलम्बनीयो वेदकभागे विमर्शांशाभिनिवेशित्वेन / आभासमात्रं हि भावस्य स्वरूपम् , प्रत्याभासं प्रमाणस्य व्यापारात् / तदेव आभासान्तरव्यामिश्रणया दिपसहस्रप्रभासंमूर्च्छनवत् स्फुटीभवति / आभासान्तरव्यामिश्रणाभावे ऽपि तु कालाभाससंभेदेनैव स्वालक्षण्यं तस्य आभासस्य करोति , कालशक्तेरेव भेदकत्वात् इति वक्ष्यते / एवं तावत् स्वलक्षणीभावः प्राक्तनदेहाभाससाचिव्याभ्युदितकालाभासया घटाभासस्य इति / तावत्येव वा स्मृतिः आभासान्तरैरपि व्यामिश्रा अतिस्फुटेति / अत्यन्तस्फुटीभावे ऽपि तदानीन्तनकालता न त्रुट्यति अन्यसाधारण्यानवभावात् / तथावभासे तु योगिनस्तन्निर्माणमेव / ब्रह्मभाषितादौ तु नवमेव अवभासनम् इति / अत्र तु आगमादिमानान्तरानुभूतब्रह्मादिस्वरूपस्मरणपरम्परा अभ्युपायः / भासयेत् इति विधिरूपेण नियोगेन नियमो लक्ष्यते , न भासयति इत्येतत् न , अपि तु भासयत्येव इति / स्वकाले इति स्मरणकाले / आमृशन् इति वेदकभागनिवेशी वर्तमानकाल उक्तः / पूर्वाभासितं स्वलक्षणम् इति वेद्यांशस्पर्शी भूतकालो घटाभासस्यापि केवलस्य स्वालक्षण्यापत्तिहेतुर्दर्शितः / इयदेव स्मृतेः अव्यव्हिचारि वपुः , अर्थितातिशयात् तु स्फुटत्वम् इति अथ शब्दो द्योतयति / तदेवाह अस्विलात्मना इति / सर्वाभासमिश्रेण वपुषा इत्यर्थः //२//
SK
ननु एवं स्वलक्षणस्य प्रकाशने भेदेन बहिस्तदवभासेत / एतदेव हि बहिरवभासनम् ---- यत् स्वलक्षणप्रकाशनम् इति शङ्काशमनाय निरूपयति
SK
न च युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम् / तेनैक्यं भिन्नकालानां संविदां वेदितैष सः //
SK
स्मरणज्ञानात् भिन्नत्वेन बहीरूपतया यदि सो ऽर्थो भासेत स्मर्यमाणस्य च यत् भासनं तदेव न स्यात् स्मर्यमाणमेव तत् न स्यात् , अनुभूयमानमेव तत् भवेत् इति यावत् / ननु चैवं कथं स्वलक्षणस्य प्रकाशनम् उक्तम् ? एतत् न इदाणीं प्रकाशनम् अपि तु पूर्वकाले एव , तदा चासौ बहिरवभासत एव / ननु चेदानीं तर्हि किम् ? विमर्शनम् इति ब्रूमः / ननु प्रकाशनविमर्शनयोः भिन्नकालत्वम् आपतितम् / ततः किम् ? उभयमपि न किंचित् स्यात् , अन्योन्यजीवितत्वात् अस्य / मैवम् , यस्य हि संवेदनान्येव भिन्नानि तत्त्वम् , तस्य इदम् अप्रतिसमाधेयमेव , अस्मद्दर्शने तु भिन्नकाला अपि संविदः तत्कालात्यागेनैव एकतावभासनेन स्वतन्त्रः प्रमाता यावदन्तर्मुखतया तावत्यंशे विमृशति तावत् प्रकाशस्य तात्कालिकबहिर्भावाभासो विमर्शस्य इदानीन्तनान्तर्मुखा स्थितिरिति / एतदेव वेदनाधिकं वेदितृत्वं ---- वेदनेषु संयोजनवियोजनयोः यथारुचि करणं स्वातन्त्र्यम् , कर्तृत्वं च एतदेव उच्यते / घटमहमन्वभूवम् इति वा स घटः इति वा ऐक्यम् अनुसंधानम् अनुसंधातुरभिन्नम् इति दर्शयितुं यदेव ऐक्यं स एव वेदिता इति सामानाधिकरण्येन दर्शितम् / एष स इति आच्छादितस्येव प्रमातृतत्त्वस्य स्फुटावभासनं कृतम् , इदम् इति , विस्मयगर्भयानया उक्त्या प्रत्यभिज्ञा एव सूचिता / यदाह ग्रन्थकार एव
SK
{इत्थं स्वसंवित्तिमपह्नुवानैर्यत्तद्वदद्भिः कलुषीकृतं यत् / प्रमातृतत्त्वं स्फुटयुक्तिभिस्तान्मूकान्विधाय प्रकटीकृतं तत् //}
SK
इति //३//
SK
ननु च प्राच्य एव अनुभवो यदि स्मर्यमाणस्य बहिरवभासनरूपः प्रकाशः तर्हि इयत् उच्यताम् ---- सोऽनुभव इदानीं स्मरणेन विषयीक्रियते ---- इति , ऐक्येन तु अलौकिकेन कोऽर्थः इति व्यामोहं विहन्तुमाह
SK
नैव ह्यनुभवो भाति स्मृतौ पूर्वोऽर्थवत्पृथक् / प्रागन्वभूवमहमित्यात्मारोहणभासनात् //
SK
पूर्वो घटादिः अर्थः पृथक् इति इदन्तया भाति स्म नैवं स्मरणकाले स्मृतिज्ञानात् पृथक्त्वेन इदं पूर्वमनुभवनम् इति भाति / यथा च स्मृतिकाले तस्मात् स्मृतिज्ञानात् सोऽर्थः प्राक् इति पूर्वस्वभावो न भेदेन आभाति , स्मृतिकाले बहिरवभासाभावात् एवं तत एव हेतोः पूर्वो ऽपि अनुभवो न भेदेन आभाति , कथं तर्हि उभयं भाति ? अन्वभूवम् इत्येवम् / एतत् किमुच्यते इति चेत् , अहम् ---- इत्येवंस्वभावो य आत्मा पूर्वापरसंविदन्तर्मुखस्वभावः तत्र यत् आरोहणम् विश्रमः तेन हेतुना पूर्वसंविद्रूपतायाः स्वप्रकाशाया भासनात् तल्लोनस्यापि घटस्य स्वप्रकाशदेशीयत्वेन भासनम् / आत्मनि च आरोहणम् विश्रमणा अनुभवस्य अर्थस्य च / प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः ---- इति न्यायात् संख्याक्षिप्ते तद्वति वा कर्तृभूते ऽस्मदर्थे ऽनुभवो ब्रुडितः तद्द्वारेण अर्थोऽपि च , न तु स्वातन्त्र्येणैव असौ , तदर्थमेव कर्म न निर्दिष्टम् / घटादिः पुनः अनुभवकाले न अस्मदर्थमारोहति , हि यस्मात् नैव भाति पूर्वो ऽनुभवः पृथक् अपरार्धोक्तात् हेतोः , तस्मात् संविदामैक्यम् इति पूर्वेण संबन्धः / लुङा भूतकालस्य द्योतितत्वात् प्राक् इति भिन्नक्रमः , उत्तमपुरुषेण अस्मदर्थस्य अहम् इत्यपि / आरोहणम् इति , रुहिरिति अणिजन्तः णिजन्तोपि //४//
SK
ननु क एवमाह ---- अनुभवः पृथक् न भाति इति , घटवत् न भाति इति चेत् किं ततः ? घटोऽपि हि न अनुभवसख्यः भाति इति किं न भाति ? स्वभावेन भाति इति तु उभयत्रापि समानम् / तथा हि ---- अतीतानागतसूक्ष्मादि यथा योगिज्ञाने विषयीभवति इति अभ्युपगतम् , तथा परचित्तमपि
SK
{प्रत्ययस्य परचित्तज्ञानम् /} (योगद्. ३ पा. १९ सू.)
SK
इत्यादौ / तत्र ज्ञानवृत्तिपरिणतमेव सत्त्वं चित्तशब्देनोक्तम् , अन्यथा प्रत्ययस्य संयमविषयीकार्यत्वं कथमुच्येत , आलम्बनयोगश्च कथं शङ्कयेत न च सालम्बनम् इति / तस्मात् परकीयमनुभवनमिव निजमपि विषयीक्रियताम् इत्याशङ्क्य दृष्टान्त एवासिद्धः इति भान्ति इत्यन्तेन , अभ्युपगमेन वा सिद्धत्वे ऽपि प्रकृते ऽर्थे विषमः इति शेषेण दर्शयति
SK
योगिनामपि भासन्ते न दृशो दर्शनान्तरे / स्वसंविदेकमानास्ता भान्ति मेयपदेऽपि वा //
SK
योगिनाम् यत् एतत् दर्शनान्तरम् भावनाद्युद्भवः परचित्तविषयो ज्ञानविशेषः , तत्र दृशः इति उपलब्धयो न भान्ति / तथा हि ---- सौगतानां तावत् स्वप्रकाशैकरूपं ज्ञानम् , तत् चेत् ज्ञानान्तरेण वेद्यम् , तर्हि यद् अस्य निजं वपुः अनन्यवेद्यतया प्रकाशनं नाम , न तत्प्रकाशितं स्यात् / सांख्यानामपि पुरुषच्छायैव उपलब्धिः , पुरुषश्च असंवेद्य पर्वा इति कथं वेद्या स्यात् / वैशेषिकाणामपि आत्मनि अभेदेन समवायि संवेदनं परगतं मनसा कथं गृह्येत अन्तःशरीरवृत्तिना , तच्छरीरान्तरनुप्रवेशे तु तस्यैव अहम् इति शरीरीकरणात् अहन्तावभासितत्वात् आत्मनो भेदो विगलेत् , नित्यानुमेयत्वं तु न आत्मन उपपद्यते , ज्ञानस्य च ज्ञानान्तरवेद्यत्वे ऽनवस्थानादि उक्तम् /
SK
तस्मात् योगिनः परचित्तवेदनावसरे इयान् प्रकाशः ---- एतद्देहप्रकाशसहचारी घटसुखादिप्रकाशः ---- इति / तत्र घटसुखादि इदन्तया भाति , तद्गतस्तु प्रकाशो ऽहम् ---- इत्येव स्वप्रकाशतया प्रकाशते / प्रमात्रीकृतपरदेहप्राणादिसमवभाससंस्कारात् तु तन्निष्ठाम् इदन्ताम् एव प्रकाशभागे ऽपि मन्यमान इदं परज्ञानम् इति अभिमन्यते अविगलितस्वपरविभागो योगी / प्राप्तप्रकर्षस्तु सर्वम् आत्मत्वेन पश्यन् स्वसृष्टमेव स्वपरविभागं मन्यते इति ज्ञानस्य न योगिज्ञानेन प्रकाश्यता / भवतु वा तथापि प्रकृतं न एतत्समम् / तथा हि ---- अयमनुभवति इति परनिष्ठ एव असौ अनुभवे योगिनः प्रकाशः , न तु अहमनुभवामि इति आत्मारोहेण वर्तमानः , इह तु अन्वभूवम् इति अहमंशविश्रान्तिः अनालीढेदंभावैव अनुभवस्य इति युक्तमुक्तम् ---- यस्मात् अनुभवः पृथक् न भाति तस्मात् ऐक्यं भिन्नकालानां संविदां वेदिता इति //५//
SK
यद्यहंअभावविश्रान्तिवशात् अनुभवः स्मृतौ पृथक् न भाति इति उच्यते , तदा परामर्शान्तरं साक्षादेव इदन्तया अनुभवं परामृशत् यदि वा इदंभावोचितघटादिविश्रान्तताम् अनुभवस्य प्रथयत् उपलब्धम् , इति तदनुसारेणापि किं न व्यवह्रियते इति पराभिप्रायं प्रतिक्षिपति
SK
स्मर्यते यद्दृगासीन्मे सैवमित्यपि भेदतः / तद्व्याकरणमेवास्या मया दृष्टमिति स्मृतेः //
SK
लोकस्य तावत् एवं न संवेदनम् , स हि न पृथग्भूतां दृशं कांचित् मन्यते ---- सा दृक् मे आसीत् इत्येवम् / एवमपि तु यत् स्मर्यते एवंभूतमपि यत् स्मरणं कस्यचित् विवेचकंमन्यस्य , तत् स्मृतेर्व्याकरणम् , पदस्येव प्रकृतिप्रत्ययार्थनिरूपंअं काल्पनिकं विभज्य आकरणं परत्र प्रतिपादनमात्रम् / सो ऽपि यदि मूलप्रतीति वेदयते पूर्वोक्तक्रमेण , तदा अनुभवं पृथग्भूतं न वेद , यत एव तत् राहोः शिरः इतिवत् कल्पितं भेदं मन्यते / अन्यथा स घटः इतिवत् सा दृक् इत्यत्रापि प्राक्तनं दृगन्तरम् अपेक्षणीयं स्यात् / तत् इत्यनेन हि घटस्य वा दृशो वा पूर्वानुभवविषयापत्तिः उच्यते , अन्यथा दृक् इत्येव स्यात् / ततश्च दृक् मया दृगन्तरेण अनुभूता इति आपतेत् / तत्रापि तथात्वे ऽनवस्था / ननु स्मृतेः मौलिकं किं रूपम् ? उच्यते ---- मया दृष्टम् इति / ननु अत्र दयितावदननलिनादिविश्रान्तं दर्शनम् उक्तम् न तु आत्मारूढम् , कर्मणि निष्ठोत्पत्तेः / स एष स्ववाचमेव न चेतयति / कर्तुः क्रियया हि आप्यं कर्म इति दृशिक्रियायाः कर्तृनिष्ठतैव / तथा च कर्तृस्थामेव दृशिक्रियामाहुः दर्शयते भृत्यान् राजा इत्यादौ / जैमिनीयैरपि ज्ञानरूपा दृशिः भावनात्मिका प्रमातृविश्रान्तैव उक्ता , केवलं प्रकटता विषयधर्मो दृष्टताख्या , अन्या संवित् वाऽस्वतन्त्रा इति अन्यत् एतत् / प्रमातृविश्रान्तत्वमेव कथयितुं मया इत्युक्तम् / तेन अन्वभूवमहम् , मयानुभूतम् इति शब्दवैचित्र्यमात्रमिदम् , न तु अर्थभेदः / अन्ये तु भिन्नक्रमत्वेन योजयन्ति ---- दृक् आसीत् सा मे इत्येवम् , मया दृष्टम् इति च यत् स्मरणं तत् व्याकरणमस्याः इति अनन्तरोक्तान्वभूवमित्युचितपरामर्शायाः स्मृतेः इति / अपिः चार्थे //६//
SK
ननु दृष्टमपि निर्विकल्पकेन यावत् न परामृष्टं विमर्शविशेषविश्रान्त्या तावत् न स्मर्यते मार्गदृष्टमिव तृणपर्णादि विशेषेण रूपेण , तदिदमेव विचारणीयम् , समनन्तरभाविविकल्पकाले तद्दर्शनम् इदन्तया अवभातपूर्वं वा न वा इति , तदेतत् आशङ्क्याह
SK
या च पश्याम्यहमिमं घटोऽयमिति वावसा / मन्यते समवेतं साप्यवसातरि दर्शनम् //
SK
इह दर्शनं यादृशं निजेन वपुषा तादृशेनैव तेन भातव्यं सर्वदा , तच्च स्वकालेऽनन्यप्रकाशम् अहम् इत्येतावता स्वरूपेण उचितप्रकाशम् , तद्विकल्पांशविचारः तावत् न कुत्रचित् अङ्गम् , भवतु वाङ्गम् , किं तु अवसायो ऽपि एवंभूतः इति अपिशब्देन सूचयति / तत्र समनन्तरभाविना विकल्पेन वस्तु परामृश्यमानम् अनुभवपरामर्शमुखेन वा परामृश्यते अहमिमं पश्यामि इति वर्तमानतया , इमम् इत्यनेन च प्रत्यक्षव्यापारत्वं प्रत्यक्षायमाणत्वेन दर्शितम् / एवमेव वा परामृश्यते ---- घटोऽयम् इति / अत्र अयंशब्देन प्रत्यक्षायमाणत्वमुक्तम् / तत्र अन्त्ये विकल्पे दर्शनस्य पृथक् परामर्श एव नास्ति इति का तत्र इदन्ताशङ्का / ततश्च पारिशेष्यात् अहन्तया तस्य अत्रास्ति परामर्शः , तदभावे विकल्पस्य निमीलिताक्षे ऽपि भावात् स्वयमर्थस्पर्शे सति स्फुटमविषयपर्यवसितः कथमध्यवसायो भवेत् / आद्ये तु दर्शनं परामृष्टमपि अस्मदर्थे ऽन्तर्भूतम् अहंभावास्पदम् अवसातरि विश्रान्तं स्वप्रकाशमेव परामृष्टम् इति विकल्पोऽपि न बोधान्तरबोध्यतां बोधयति बोधस्य / अवसायः अवसा , समवेतम् इति अपृथग्भावमाह / अवसातरि इति , स्वतन्त्रेऽन्तर्मुखे बोधात्मनि अहन्तास्पदे इत्यर्थः / दर्शनम् इति निर्विकल्पकमनुभवनम् / उपलक्षणं चैतत् विकल्पस्मृत्यादेरपि , ज्ञानस्य ज्ञानान्तरेण परामर्शे हि अयमेव न्यायः / विकल्पयाम्यहम् , स्मराम्यहम् , विकल्पितं मया , स्मृतं मया इति अहन्तारूढ्यैव विकल्पादेः अवभासात् / अत एव आत्मनोऽमी विकल्पाद्याः शक्तिविशेषाः तद्विश्रान्तशरीरत्वात् इति दर्शितम् ज्ञानस्मृत्यपोहनशक्तिमान् इत्यत्र //७//
SK
एवमियतः प्रमेयस्य यत्फलं तदुपसंहर्तुमाह
SK
तन्मया दृश्यते दृष्टोऽयं स इत्यामृशत्यपि / ग्राह्यग्राहकताभिन्नावर्थौ भातः पमातरि //
SK
तत् इति तस्मादर्थे पूर्वोक्तस्य प्रमेयस्य हेतुभावेन उपजीवनम् इह सूचयति / यत एवमुक्तम् ---- अनुभवस्य अर्थस्येव स्मरणात् न भेदेन अवभासः स्म्र्टिशक्तिश्च परमेश्वरस्यैव , तत इदमत्र परिनिष्ठितं तत्त्वम् इति / इह स्मृतिः अनुभवं क्रोडीकरोति इत्युक्तम् / अनुभवश्च द्विधा , ---- परामर्शभेदात् कदाचित् स्वात्मपरामर्शपूर्वकम् अनुभाव्यम् परामृशति यत्र अस्य अभिसंधिप्रधानता मया दृश्यते इति , कदाचित् अनुभवनीयमेव प्रधानतया परामृशति यत्र अनभिसंधेरेव सहसा वस्तूपनिपातः , अर्थक्रियां प्रति आग्रहविशेषो वा अयम् इति , तत्रापि च प्रकाशपरामर्शो ऽस्त्येव , अन्यथा प्रकाशायोगात् / एवमुभयथानुभवे प्रत्येकं स्मृतिरपि द्वयपरामर्शमयी उदेति इति चत्वारः स्मरणभेदाः , द्वौ अनुभवभेदौ / अनुसंधानं प्रत्यभिज्ञानमपि एतदुभयमेलनात्मकम् अत्रैवान्तर्भूतम् / तच्च एतद्भेदात् अष्टधा , पूर्वापरविश्रान्तिकृतात् प्रत्येकं द्विधाभेदाच्च षोडशधा / तदेते द्वाविंशतिः संवेदनभेदाः / तेषु च ग्राह्यं तावत् प्रकाशात् अबहिर्भूतम् , अन्यथा प्रकाशनायोगात् , बहिर्भूतं च तत् , अन्यथार्थत्वासंभवात् , न च तत एव , तदैव , तदेवापृथग्भूतं अत्र पृथग्भूतं च भवति इति नूनमन्यः कल्पितप्रकाशात्मा कश्चित् अत्र अर्थो ऽस्ति , यतो ऽयम् अर्थराशिः पृथग्भवन् अन्योन्यमपि पृथक्ताम् अधिगच्छेत् , अन्यथा प्रकाशाभिन्नानां परस्परमपि कथङ्कारं पृथग्भावो भवेत् / सो ऽयं वेद्यैकदेश एव , विच्छिन्न एव , अनुज्झितवेद्यभाव एव , अहम् इति विच्छेदशूम्यप्रकाशोचितेन परामर्शेन परामृश्यमानो मायाप्रमाता इति वक्ष्यते {देहे बुद्धौ ...................... /}(Iप्व्_१,६.४) इत्यत्र / स च ग्राहक इति उच्यते / एवं सममेव स्वात्मनि निर्मलमकुरस्थानीये यत् युगलकं स्वस्मात् प्रकाशरूपात् अव्यतिरिक्तम् अवभासयति परमेश्वरः तदेव एतत् भगवतो ज्ञानकर्तृत्वं स्मरणकर्तृत्वं ज्ञानशक्तिस्मृतिशक्तिरूपम् उच्यते इति तात्पर्यार्थः /
SK
अक्षरार्थस्तु ---- मया दृश्यते इति , अयम् इति च यत् आमृशति प्रमाता प्रकाशरूपो येन अनुभवति इति उच्यते , तत आमर्शनात् एतत् लक्ष्यते , ग्राह्यरूपेण ग्राहकरूपेण योजितौ घटादिदेहादिस्वभावौ अर्थौ वेद्यौ प्रमातरि विशुद्धप्रकाशरूपे भातः प्रकाशेते / एवं दृष्टः इति स इति च यत् परामृशति प्रकाशरूपः प्रमाता , यतो ऽसौ स्मरति इति व्यपदेश्यः / ततो ऽपि एतदेव लक्ष्यते / अनुभवरूपोपजीवित्वं पूर्वोक्तं द्रढयितुं प्रसङ्गात् अत्र ज्ञानशक्तेरपि उन्मीलनं कृतम् / लक्षणे शत्रादेशः / अपिशब्दश्चार्थे / अर्थशब्दो विच्छिन्नवेद्यवाची / ग्राहको मायीयः कल्पितः प्रमाता अशुद्धप्रकाशस्वभावः इति शिवम् / आदितः श्लो. ३१//
SK
इति श्रीमदाचार्याभिनवगुप्तविरचितायांईश्वरप्रत्यभिज्ञासूत्रविमर्शिन्यां प्रथमे ज्ञानाधिकारे स्मृतिशक्तिनिरूपणं नाम चतुर्थमाह्निकम् // ४ //
SK
अथ पञ्चममाह्निकम् /
SK
{महागुहान्तर्निर्मग्नभावजातप्रकाशकः / ज्ञानशक्तिप्रदीपेन यः सदा तं स्तुमः शिवम् //}
SK
एवं तावत् स्मृतिशक्तेः स्वरूपं प्रतिपादितम् , अधुना तदुपजीवनीयज्ञानशक्तिपरमार्थनिर्णयं वितत्य , वर्तमानावभास्ञाम् इत्यादिकया , सक्रमं प्रतिभासते इत्यन्तया श्लोकैकविंशत्या निरूपयति / तत्राद्येव श्लोकेन वस्तुनि प्रतिज्ञां करोति एवंभूता ज्ञानशक्तिः इति / ततः श्लोकद्वयेन प्रकाश एवार्थानां स्वरूप, इत्याह / ततो द्वयेन प्रकाशबाह्यानामर्थानां सद्भावं विज्ञानवाद्युपगतवासनादूषणेन दृढीकृतम् आशङ्क्य , तृतीयेन तदनभ्युपगमे ऽपि तावत् न किञ्चित् उपरुध्यत इति दर्शयति / अथ श्लोकेन स्वदर्शने ऽर्थतत्त्वम् उपदर्शयन् बाह्यार्थसद्भावे प्रत्यक्षं पराकरोति प्रमाणत्वेन / ततो द्वयेन अनुमेयतामपि बाह्यस्य निरस्यति / अनन्तरं श्लोकेन चिदात्मनि अर्थानाम् अवश्यं सद्भावः परामर्शात्मना इति प्रकटयति / ततो ऽपि प्रकाशस्य प्रमातृरूपस्य प्रत्यवमर्श एव जीवतम् इति श्लोकचतुष्टयेन अनुभवागमन्यायस्वरूपनिरूपणाभिः अभिधत्ते / अनन्तरं ज्ञानपरामर्श एव ज्ञेयं शुद्धं प्रमातृरूपतानुज्झितं च प्रक्षयति इति तस्यैव प्रधानत्वे न्यायं श्लोकत्रयेणाह / प्रकाशैकरूपत्वे च ज्ञानज्ञात्रादि भिन्नम् इति श्लोकेनाह / ततो ज्ञातरि इव विशुद्धे ज्ञाने ऽपि अविकल्पकसविकल्पकरूपे विमर्श एव प्राणितम् इति श्लोकद्वयेनाह / ततो ज्ञातुर्ज्ञानस्य च पूर्वपक्षे दूषि / यत् भिन्नत्वं तत् उपसंहारदिशा श्लोकेन समर्थयते , इति तात्पर्यम् आह्निकस्य / श्लोकार्थस्तु निरूप्यते /
SK
ननु स्मरणविकल्पादीनाम् अनुभव एव जीवितम् , तत्र यदि भेदेन आभासान्ते ऽर्थाः तत् तेष्वपि तथैव अवभास उचितः , नो चेत् अन्यथा , तदनुभव एव तावत् ज्ञानशक्तिरूपो विचारणीय इत्याशयेनाह
SK
वर्तमानावभासानां भावानामवभासनम् / अन्तःस्थितवतामेव घटते बहिरात्मना //
SK
वर्तमानत्वेन स्फुटतया अवभासनम् इदमित्येवमाकारं येषां तेषाम् , यदेतत् बहिरात्मना कल्पितमायीयशून्यादिशरीरान्तप्रमातृपृथग्भावेन हेतुना , भिन्नानाम् ततो मायाप्रमातुः विच्छिन्नानाम् अवभासनम् तत् परमार्थप्रमातरि शुद्धचिन्मये अन्तःस्थितवताम् तेन सह ऐकात्म्यम् अनुज्झितवतामेव घटते प्रमाणेन उपपद्यते , तेन अनुज्झितसंविदभेदस्य भावस्य कल्पितप्रमात्रपेक्षया भेदेन प्रकाशनं भगवतो ज्ञानशक्तिरित्युक्तं भवति //१//
SK
प्रमाणेनोपपद्यते इत्युक्तं तत् प्रमाणं दर्शयति
SK
प्रागिवार्थोऽप्रकाशः स्यात्प्रकाशात्मतया विना / न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता //
SK
अर्थो नीलादिः , तस्य नीलादिरूपतैव यदि प्रकाशमानता न पुनः सापरा काचित् अर्थशरीरोत्तीर्णा प्रकाशात्मता तर्हि यथा सर्वान् प्रति नीलमेव तत्संभावनया भण्यते , न कंचित् वा प्रति , वस्तुतो वा स्वात्मन्येव तत् नीलं परस्य परनिष्ठत्वानुपपत्तेः , स्वात्मनि वा न नीलं न अनीलम् प्रकाशानुग्रहेण विना व्यवस्थानायोगात् / तथा प्रकाशमानतापि अस्य सर्वान् प्रति न कंचित् वा प्रति अपि तु स्वात्मन्येव , स्वात्मन्यपि वा न स्यात् इति अन्धता जगतः /
SK
अथ इन्द्रियालोकादिक्षणवर्गात् प्रकाशरूपो ऽसौ नीलक्षणो विशिष्ट एव जातः , एवमपि स एव प्रसङ्गः , प्रकटतावादे ऽपि अयमेव दोषः , सर्वथा अर्थशरीरविश्रान्तः चेत् प्रकाशो मम अवभासते इति प्रमातृलग्नतया प्रकाशस्थितिः दुरुपपादा / प्रमाता हि तदानीम् इन्द्रियादिमयो ऽर्थरूपप्रकाशस्य कारणं भवेत् बीजमिवाङ्कुरस्य / न च अङ्कुरो बीजापेक्षो ऽङ्कुरात्मा , ततो यदि न प्रकाशात्मा स स्यात् प्रागिव ज्ञानोदयात् पूर्वं यथाऽसावप्रकाशः तथा ज्ञानोदये ऽपि स्यात् / ननु ज्ञानम् अर्थप्रकाशरूपमेव , तत् कथं ज्ञानस्य उदयानुदययोः अर्थस्य तुल्यता स्यात् / स्यात् एतत् यदि उपपद्येत् , यावता अर्थात् भिन्नं यत् ज्ञानं प्रकाशरूपम् , तत् अर्थस्य संबन्धितया कथं स्यात् / यदि तावत् अर्थः प्रकाशते इत्येवंभूतं ज्ञानस्य स्वरूपं तत् अर्थज्ञानयोः अभेद एवायातः , अर्थस्वभावस्य ज्ञानत्वेन उक्तत्वात् , अर्थस्वभावत्वे च सति प्रकाशस्य अर्थात्मतायाम् उक्तं दूषणम् / अथ अर्थं प्रकाशयति इति ज्ञानस्य स्वरूपम् , तर्हि प्रकाशमानमर्थं करोति ज्ञानम् इति आपतिते पुनरपि स एव दोषः / कृतप्रतानश्च अयं प्रकृत्यर्थण्यर्थविवेको मयैव भेदविदारणे इति तत एव अन्वेष्यः / तस्मात् भिन्नः प्रकाशो ऽर्थस्य संबन्धी भवति इति संभावनैव नास्ति / तच्च इदम् उपपत्त्या आयातम् ---- अर्थस्य स्वरूपं प्रकाशमानता प्रकाशाभिन्नत्वम् इति / प्रकाशश्च यदि घटे ऽन्यः पटे ऽन्यः तदा अनुसंधानस्य अयोगः , द्वयोः प्रकाशयोः स्वात्ममात्रपर्यवसानाद् इति वितत्य उपपादितं नश्येत् जनस्थितिः इत्यत्र / तस्मात् एक एव प्रकाशः / एतदेव आवृत्त्या दर्शितं न च प्रकाशो भिन्नः स्यात् इति //२//
SK
व्यतिरिक्तस्य ज्ञानस्य अर्थप्रकाशरूपताम् अभ्युपगम्यापि बाधकान्तरमाह
SK
भिन्ने प्रकाशे चाभिन्ने संकरो विषयस्य तत् / प्रकाशात्मा प्रकाश्योऽर्थो नाप्रकाशश्च सिद्ध्यति //
SK
यदि अर्थात् अन्य एव ज्ञानात्मा प्रकाशः अत एव भिन्नो ऽर्थतः तर्हि स्वात्मनि तस्य प्रकाशमात्ररूपत्वात् अभेद एव / तथा हि नीलस्य प्रकाशः , पीतस्य प्रकाशः इति यो नीलांशः पीतांशश्च , स न तावत् ज्ञानस्य स्वरूपम् भेदवादत्यागापत्तेः / अथ विषयः , तदेवेदं विचार्यते ---- इह प्रकाशबलात् नीलपीतयोः भेदो ऽभ्युपगन्तव्यः , येनैव च प्रकाशेन नीलो नील एव इति उपगम्यते , तेनैव च प्रकाशेन पीतः पीत इति कथं संगच्छताम् , नीलेन जनितः , पीतेन जनितः , तेन वा सह समानसामग्रीक इत्यादि यत् उच्यते तत् सिद्धे नीलपीतयोर्भेदे स्यात् , स एव विचार्यः / अथ नीलाकारो ऽसौ तत् यदि प्रतिबिम्बबलात् तद्द्वितीयबिम्बानवभासात् अयुक्तम् / अथ अभेदः , तर्हि त्यक्तो भेदवादः , तथा करणतादिवादे शिखरस्थज्ञानं बहुतरनीलादिजन्यम् एकत्र पटु अन्यत्र मन्दम् इति कथं भेदः प्रकाशशरीरस्य अभेदात् / तथाभूते च अन्यतरदर्शनोद्भूते ऽपि संस्कारे बलादेव अशेषस्मरणप्रसङ्ग इति भूयान् सङ्करः / स्यादेतत् , अर्थ एवास्तु , किमनेन दोषापादकेन प्रकाशेन इति / अत्राह ---- अप्रकाशस्य प्रसिद्धिरेव न काचित् , स्वात्मनि हि नीलं यदि पूतं न किंचित् वा , तत् किं दुष्येत् , अत एव ग्रन्थकृतैव अन्यत्र उक्तम्
SK
{एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी / जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः //}
SK
इति / तत् यदि प्रकाशः तदा भवति अर्थः , प्रकाशश्च असौ कथम् / यदि प्रकाशतैव घटस्य वपुः सैव पटस्य इत्यादि विश्ववपुः प्रकाशः सिद्धः //३//
SK
एकस्यैव प्रकाशस्य एवंभूतक्रमाक्रमकार्यकारणभावादिविचित्रवैश्वरूप्यप्रदर्शनसामर्थ्यरूपम् ऐश्वर्यम् इत्येतावत् पर्यवसाययितव्यम् / तच्चैवं पर्यवस्यति , यदि प्रकाशस्य विचित्रभावे हेत्वन्तरम् अपाकृतम् / तत्र प्रकाशस्य अविचित्रस्य क्रमेण विचित्रताकारणं प्रतिबिम्बात्मकं तत्प्रतिबिम्बसजातीयं यत् तदेव नीलादिरूपं बाह्यम् , तच्च यद्यप्यनुमेयम् , तथापि इदं नीलमिति प्रत्यक्षेण अध्यवसायात् अध्यवसायप्राणितत्वाच्च प्रमाणस्थितेः प्रत्यक्षव्यपदेश्यं भविष्यति / बाह्यार्थवादोकथितमिति हेत्वन्तरम् अनुमीयमानबाह्यरूपम् आशङ्क्यमानत्वेन दर्शयति
SK
तत्तदाकस्मिकाभासो बाह्यं चेदनुमापयेत् / न ह्यभिन्नस्य बोधस्य विचित्राभासहेतुता //
SK
न वासनाप्रबोधोऽत्र विचित्रो हेतुतामियात् / तस्यापि तत्प्रबोधस्य वैचित्र्ये किं निबन्धनम् //
SK
इह बोधः तावत् अभिन्नः , प्रकाशमात्रमेव हि अस्य परमार्थः , प्रकाशाधिकं यदि नीलस्य रूपम् , तर्हि तत् अप्रकाशरूपम् इति न प्रकाशेत / अथ तथा प्रकाशत्वमेव अस्य रूपम् , पीतप्रकाशः कथं स्यात् / अथापि क्रमिकनीलपीतादिप्रकाशरूपमेव तस्य स्वरूपम् , नीलाद्याभासशून्यो ऽहमिति प्रकाशः स्वापाद्यवस्थासु न स्यात् / तस्मात् प्रकाशः प्रकाश एव , अणुमात्रमपि न रूपान्तरम् अस्य अस्ति इति अभिन्नो बोधः , तस्य च अभिन्नस्य कदाचित् नीलाभासता कदाचित् पीताभासता इति ये विचित्राभासाः तत्र कारणत्वम् हि यस्य्मात् न उपपन्नम् हेतौ अभिन्ने कार्यभेदस्य असंभवात् , तस्मात् स स विचित्रनीलपीतादिरूप आकास्मिको ऽज्ञातप्रत्यक्षसिद्धहेतुकः सन् बाह्यं विज्ञानगतप्रतिबिम्बात्मकस्वस्वभावसंपादकम् औचित्यात् निजरूपसदृशं क्रमोपनिपतद्रूपबहुतरभेदात्मकं ज्ञानात् सर्वथा पृथग्भूतम् अनुमापयति इति संभावयते बाह्यार्थवादी //४//
SK
न च अस्य इदं संभावनामात्रम् , अपि तु निश्चयपर्यवसायि एव भवति / तथा हि विज्ञानवादिना यो हेतुः वैचित्र्ये वासनाप्रबोधलक्षण उक्तः स न उपपद्यते / स्मृतिजनकः संस्कारो वासना इति तावत् प्रसिद्धम् , इह तु अनुभववैचित्र्यहेतुः पर्येषणीयो वर्तते / अस्तु वा नीलाद्याभाससंपादनसामर्थ्यरूपा ज्ञानस्य योग्यतात्मिका शक्तिः वासना , तस्याश्च स्वकार्यसंपादनोन्मुख्यं प्रबोधः , ततो बोधेषु आभासवैचित्र्यम् इति / तत्रापि तु ब्रूमः ---- इह यद्यापि आभासानां ज्ञानान्तर्वर्तिनाम् अपारमार्थिकत्वं संवृतिसत्त्वम् उच्येतापि , तथापि यदेषां तद् वस्तुसदेव अङ्गीकार्यम् अवस्तुनः सर्वसामर्थ्यविरहितालक्षणस्य कार्यसंपादनप्राणितसामार्त्थ्यात्मकस्वभावानुपपत्तेः / एवंस्थिते या एता वासना आभासकारणत्वेन इष्यन्ते , तासां बोधात् यदि भिन्नं रूपम् , तच्च परमार्थसत् , तदयं शब्दान्तरप्रच्छन्नो बाह्यार्थवादप्रकार एव / अथ संवृतिसत् , तर्हि तेन रूपेण कारणतानुपपत्तिः / तथा येन रूपेण आसां पारमार्थिकता तेन कारणता , तत् तर्हि ज्ञानमात्रं तच्च अभिन्नम् इति नीलाद्याभासरूपस्य कार्यभेदस्य असिद्धिः / एवं वासनानाम् अबिचित्रत्वे तत्प्रबोधो विचित्र इति का प्रत्याशा / भवन्तु वा वासना भिन्नाः , तथापि बोधमात्रातिरिक्तस्य देशकालभावादेः प्रबोधकाभिमतस्य विचित्रस्य कारणस्य अभावात् प्रबोधोऽविचित्र इति एक एव प्रबोधः इति सममेव नीलादिवैचित्र्यं भासेत / अथ स्वसंतानवर्तीनि ज्ञानान्तराणि विचित्राणि प्रबोधकारणानि इति , तदसत् , सुखदुःखनीकपीलादिपूर्वापरादिदेशकालभेदस्य विज्ञानमात्ररूपत्वे विज्ञानस्य च प्रकाशमात्रप्रमार्थतायां स्वरूपभेदासंभवे तथा बोधवैलक्षण्यानुपपत्तेः / परप्रमातृरूपेषु बोधान्तरिषु संतानान्तरशब्दवाच्येष्वपि तुल्योऽयम् अवैलक्षण्यप्रकारः / तत्रापि परकीयाभिमतस्य कृशस्थूलादेः कायस्य , श्वासप्रश्वासादेः प्राणस्य , सुखदुःखादेः धीगुणस्य ; अनुमात्रभिमतसंबिन्मात्ररूपाभेदे परत्वं कस्य भवेत् इति न विद्मः / बोधस्य तन्निष्ठस्य इति चेत् , सो ऽपि प्रमाणेन यदि न सिद्धः तत् असत् एव , सिद्धो ऽपि प्रमेयतया चेत् तत् जड एव , तथापि च कायादिवत् एव ज्ञानमात्रस्वभावः स्वसंविन्मात्ररूपत्वे परं प्रति अस्य असिद्धेः / ननु व्याहारादिक्रिया स्वात्मनि इच्छया व्याहरेयम् इत्येवंरूपया हेतुभावेन व्याप्ता दृष्टा तत् चैत्रकायेऽपि तया तद्धेतुकया भाव्यम् / न च मत्संततिपतिता समीहा अस्ति इति स्वसंवेदनेन निश्चितम् , ततश्च परसमीहा सिद्ध्यति , तदेव संतानान्तरम् इति / अत्रोच्यते ---- इह अनुमातुः व्याहाराभासो द्विधा भवति ---- व्याप्तिग्रहणकाले ऽविच्छेदप्राणो ऽहं व्याहरामि इत्येवंरूपः / अनुमानावसरे च व्याहरति अयम् इति विच्छेदजीवित इति अन्यस्य व्याप्तिः गृहीता अन्यश्च आभासः कथम् इदानीं हेतुः स्यात् ? व्याहरति इति आभासस्य हेतुः अविदित एव इति कथं ततो हेतोः समीहा अनुमीयेत ? किं च व्याहरति अयम् इति यः प्रमात्रन्तरे ऽनुमातृसंमते विच्छिन्नतया अवभासः सोऽनुमेयसंमतायाः परमीहायाः कथं कार्यः स्यात् ? तस्या हि व्याहरामीत्याभासः कार्यो योऽसौ अविच्छेदजीवितः / न च अविच्छेदमयस्य विच्छेदमयः कार्यम् इति युक्तं तथाभूतकार्यकारणभावग्रहणोपायाभावात् , न हि स्वात्मनि योऽयम् अविच्छिन्नाभासः स परत्र विच्छिन्नं व्याहरति इत्येवंरूपम् आभासं जनयति इति केनचित् प्रमाणेन सिद्धम् , परसिद्धिपूर्वकत्वात् अस्य अर्थस्य , परप्रमातृसिद्धश्च एवंभूतार्थाधीनत्वेन इतरेतराश्रयात् / न च अवश्यन् अविच्छिन्नात् विच्छिन्नेन भाव्यम् इति नियमो ऽस्ति व्यव्हिचारात् / न च विच्छिन्नो ऽपि आभास उपद्यताम् इति तदनुसंधानात् तदुत्पत्तिः नियता तत्सद्भावे ऽप्यस्यानुत्पत्तेः तदभावे च उत्पत्तेः , विच्छिन्न आभासः परत्र उत्पद्यताम् इति या समीहा तया सह प्रत्र उत्पन्नस्य विच्छिन्नाभासस्य कार्यकारणभावग्रहणमेव परासिद्धौ न युक्त, इति व्याप्तेरेव असिद्धिः /
SK
प्रमात्रन्तराणि च यदि भिन्नानि तदा तन्निष्ठानाम् अवभासानां भेद एव ज्ञानादव्यतिरिक्तं च इति न्यायात् / ततश्च एकाभासनिष्ठत्वाभावात् एकाभासविश्रान्तः संभूय प्रमात्ःणां व्यवहारो न स्यात् इति अन्योसंभवः ---- यत् प्रमेयं बोधात् भिन्नं भवति इति / सहोपलम्भनियमादेः अनैकान्तिकत्वात् नीलपीतादिनापि प्रमेयराशिना किम् अपकृतम् , येन अस्य स्वरूपविश्रान्तिः न सह्यते , तस्मात् प्रमात्रन्तराणामपि असिद्धिरेव , सिद्धौ वा सर्वप्रमात्रन्तर्गता आभासा एकैकत्र परत्र आभासवैचित्र्यहेतुं वासनोद्वोधवैचित्र्यं जनयेयुः नियमे हेत्वन्तराभावात् इति तथापि न नीलादिवैचित्र्यसिद्धिः / एवं वासनानां तदुद्बोधहेतूनां च विचित्राणाम् अनुपपत्तिरेव / ततश्च स्थितमेतत् , अभिन्नो बोधः तस्य आकस्मिकाभासभेदहेतुत्वानुपपत्तेः बाह्योऽर्थोऽनुमेयः संभाव्यते इति यदि बाह्यार्थवादिना उच्यते इति श्लोकद्वयार्थः / चेच्छब्दः श्लोकद्वयवाक्यार्थशङ्काद्योतकः / एवम् आशङ्क्यमानत्वेन परसंभावना दृढा दर्शिता //५//
SK
अधुना तु एनां संभावनां शिथिलयितुं तावदाह
SK
स्यादेतदवभासेषु तेष्वेवावसिते सति / व्यवहारे किमन्येन बाह्येनानुपपत्तिना //
SK
स्यादेतत् इति पूर्वोक्तसंभावनाभ्युपगमे यदा व्याख्यायते तदा किं तु इति वाक्यशेषेण तच्छैथिल्यविषयं संभावनान्तरं शेषश्लोकेन दर्शयते इति व्याख्येयम् / यदि तु अध्याहारो न सह्यते तदा स्यादेतदिति इदमपि संभावनान्तरं स्यात् , यदनेन श्लोकेन उच्यते इति एकवाक्यतया योज्यम् / अनयापि कष्टकल्पनया बाह्यान् अर्थान् प्रसाधयता भवता तैः न किंचित् कर्तव्यम् , आभासैरेव तैः भवता अभ्युपगतैः व्यवहारसिद्धेः , न हि नित्यानुमेयेन कश्चित् व्यवहार इति किं बाह्येन , यत्र साधकं च नास्ति प्रमाणम् , बाधकं च प्रकाशात् भेदे अनुमेयतयापि प्रकाशनाभाव इति तावत् मुख्यम् / अभ्युश्चयबाधकस्तु अवयविनो वृत्त्यनुपपत्तिः , समवायासिद्धिः , कम्पाकम्पावरणानावरणरक्तारक्तदिग्भागभेदादिविरुद्धधर्मयोगः /
SK
अणुसंचयबाह्यवादे ऽपि संचयस्य अन्यस्य अभावे परमाणव एव , ते च यदि संयुज्यन्ते निरन्तरतया तत् अवश्यं दिग्भागभेदः , एवनाक्षे षट्सु दिक्षु संचीयमानेषु षट्सु अणुषु मध्यमस्य परमाणोः यत्रैव धाम्नि एको लग्नः तत्रैव यदि अपरः तत् एकपरमाणुमात्रता / अथ अन्यत्र एकः अन्यतर् अपरः तत् अवश्यं भागभेदापत्तिः , इति भाग एव सन् , तस्यापि एषैव सरणिः इति न किंचित् अवशिष्यते बाह्यं तत्त्वतः /
SK
न चैतत् वाच्यम् ---- मूर्तानाम् एकदेशत्वायोगात् , संयोगे भिन्नदेशत्वाव्यावृत्तेः तन्निष्टं द्व्यणुकं नाम कार्यद्रव्यम् अणुपरिमाणम् , तेभ्यः त्रिभ्यो महत्कार्यम् इति / अवयवीवादो हि अयम् , स च पूर्वमेव अपबाधितः / यच्च अव्याप्यवृत्तित्वं संयोगस्य उच्यते तन्निरंशे कथं संगच्छताम् / स्वाश्रये हि यदि असौ समवैति किम् अन्यात् अस्य अवशिष्यते यत् न व्याप्नुयात् इति / अभ्युश्चयबाधकं च इदम् इति न अत्र अस्माभिः भरः कृतः / विस्तरेण च प्रज्ञालङ्कारे दर्शितम् आचार्यशङ्करनन्दनेन //६//
SK
ननु बाधकं नाम प्रमाणसिद्धे वस्तुनि न किंचित् कर्तुं समर्थम् , तेनैव दृढेन प्रमाणेन बाधकाभिमतस्य बाधितस्य अप्रमाणत्वसंपादनात् / दर्शितं च इह साधकं प्रमाणं कार्यहेतुः तत्तदाकस्मिकाभास इति कारिकया इत्याशङ्क्य आह
SK
चिदात्मैव हि देवोऽन्तःस्थितमिच्छावशाद्बहिः / योगीव निरुपादानमर्थजातं प्रकाशयेत् //
SK
इह तावत् स्वप्न -- स्मरण -- मनोराज्य -- संकल्पादिषु नीलाद्याभासवैचित्र्यं बाह्यसमर्पकह्तुव्यतिरेकेणैव निर्भासते इति यद्यपि अस्ति संभवः , तथापि तदाभासवैचित्र्यम् अस्थैर्यात् सर्वप्रमात्रसाधारण्यात् पूर्वानुभवसंस्कारजत्वसंभावनात् अवस्तु इति शङ्क्येत / यत् पुनरिदं योगिनाम् इच्छामात्रेण पुरसेनादिवैचित्र्यनिर्माणं दृष्टम् , तत्र उपादानं प्रसिद्धमृत्काष्ठ-शुक्र -- शोणि -- तादिवैचित्र्यमयं न संभवत्येव , न हि एवं वक्तुं शक्यम् ---- सर्वगताः परमाणवो योगीच्छया झटिति संघटिताः कार्यम् आरप्स्यन्ते इति / यत् एतत् लोकप्रसिद्धकारणभावानतिक्रमसिद्धये निरूप्यते / न च एतत् प्रसिद्धम् ---- प्रमाणुभ्य एव स्थूलं घटादि जायते इति , किं तु कपालादिव्यवधानेन , तथापि नियतसहकारिसमवलम्बनम् करचरणादिव्यापारे विशिष्टदेशकालधर्माधिपत्ययोगः शिक्षाभ्यासप्रकर्ष इति , इयति च आंश्रीयमाणे योगी कुम्भं निर्मिमाणः कुम्भकारप्रसिद्धसनस्तसामग्रीसनर्जनपुरःसरंघटं घटयन् कुम्भकार एव स्यात् , तस्मात् प्रसिद्धकारणोल्लङ्घने किम् असंचेत्यमानपरमाण्वाद्युपादानकारणान्तरचिन्तया इति / तत्र योगिसंविद एव सा तादृशी शक्तिः ---- यत् आभासवैचित्र्यरूपम् अर्थजातं प्रकाशयति इति / तदस्ति संभवः ---- यत् संवित् एव अभ्युपगतस्वातन्त्र्या अप्रतीधातलक्षणात् इच्छाविशेषवशात् संविदो ऽनिधिकात्मताया अनपायात् अन्तःस्थितमेव सत् भावजातम् इदमित्येवं प्राणबुद्धिदेहादेः वितीर्णकियन्मात्रसंविदूपात् स्वातन्त्र्यं किं न अभ्युपगम्यते स्वसंवेदनसिद्धम् , किमिति हेत्वन्तरपर्येषणाप्रयासेन खिद्यते / एवकारेण इदमाह ---- सर्वेण तावत् वादिना विषयव्यवस्थापनं संविद्रूपम् अनपह्नवनीयम् आदिसिद्धं हि तत् इति उक्तम् / तस्य च स्वातन्त्र्यमेव देवशब्दनिर्दिष्टं चिद्रूपत्वम् इति किम् अपरकारणान्वेषणव्यसनितया / हि यस्मात् एवं प्रकाशयति देव इति संभाव्यते , तस्मात् किं बाह्येन अनुपपत्तिना इति पूर्वेण संबन्धः //७//
SK
ननु एवम् उभयथापि संभावनानुमानम् उन्मिषति , तत्र किं मकुरप्रतिबिम्बितघटादिदृष्टान्तेन ज्ञानप्रतिबिम्बताभासवैचित्र्ये विज्ञानदर्पणातिरिक्तं तत एव बाह्याभिमतं हेतुं कल्पयेम ? किं वा योगिदृष्टान्तेन संवित्स्वातन्त्र्यमेव हेतुभावेन ब्रूयाम ? तदिदं सांशयिकं वर्तते इति आशङ्क्य बाह्यार्थानुमानसंभावनां सूत्रद्वयेन अपाकर्तुमाह
SK
अनुमानमनाभातपूर्वे नैवेष्टमिन्द्रियम् / आभातमेव बीजादेराभासाद्धेतुवस्तुनः //
SK
आभासः पुनराभासद्बाह्यस्यासीत्कथंचन / अर्थस्य नैव तेनास्य सिद्धिर्नाप्यनुमानतः //
SK
न केवलम् अनन्तरश्लोकनिर्दिष्टाभिः युक्तभिः प्रत्यक्षेण बाह्योऽर्थो न भासते , इयदेव हि प्रत्यक्षं तच्च नीलं भाति इति स्वप्रकाशसंविद्रूपं नाधिकं किंचित् इति , यावत् अनुमानेनापि न अस्य बाह्यास्य सिद्धिः इति अपिशब्दस्याभिप्रायः / तत्र अनुमानम् अत्र नैव प्रवर्तितुम् उत्सहते / प्रवृत्तमपि न प्रकृतसिद्धिम् आदव्यात् इति अनेन सूत्रद्वयेन उपदर्श्यते / तत्र अनुमानं विकल्पः , सर्वश्च अयं विकल्पोऽनुभवमूल इति प्रसिद्धम् / तेन यत् सर्वथा अनाभातपूर्वम् अननुभूतचरं तत्र अनुमानम् अनुमितिव्यापारो विकल्पात्मा नैव केनचित् वादिना इष्यते / ननु भवतु प्रत्यक्षतो दृष्टे ऽनुमाने संकथा इयम् , सामान्यतो दृष्टे तु किं वक्ष्यसि यथा अर्थोपलब्ध्या इन्द्रियानुमाने ? उच्यते ---- तत्रापि विकल्पेन यथा सोऽर्थः स्पृश्यते तथा अनुमेय इति स्थितिः / विकल्पश्च न इन्द्रियादिकम् अर्थं केनचित् संनिवेशविशेषादिना विशेषात्मना स्पृशति , अपि तु किंचिदुपलब्धेः कारणम् इति अमुना स्वभावेन , स च स्वभावः कारणतालक्षणः प्रत्यक्षगृहीत एव / तथा च बीजात् अङ्कुरः तन्तुभ्यः पट इत्यादौ कार्यकारणभावः प्रत्यक्षानुपलम्भबलेन तावत् निश्चेयः / तत्र च प्रत्यक्षं प्रत्याभासं प्रामाण्यं भजते , विमर्शलक्षणस्य प्रमितिव्यापारस्य एकैकशब्दवाच्येऽर्थे प्रवृत्तेः तदनुसारित्वाच्च प्रमाणस्य इति वक्ष्यते /
SK
{एकाभिधानविषये मितिर्वस्तुन्यबाधिता /}
SK
इति / आभासमात्रं च सामान्यम् इति निर्.एषुअते / अनुपलम्भोऽपि अन्योपलम्भरूप आभासमात्रविश्रान्त एव इति कारणाभासो विशेषशून्यः परिगृहीत एव बीजात् अङ्कुर इति प्रतीतौ / यत् यस्य नियमम् अनुविधत्ते अव्यतिरिक्तम् तत् तस्य कार्यम् इति प्रतिघटं मृत्तिकादिरूपहेतुतद्वन्मात्रस्य आमासात् //८//
SK
आभासात् बाह्यः पुनर्नाभासरूपः , स च आभासते इति विप्रतिषिद्धम् / अनाभासे च नास्ति विकल्परूपस्य अनुमानस्य व्यापारः / ग्रामगृहादेस्तु यत् बाह्यं तत् अग्रामादिरूपं न उच्यते प्रत्येकं वाटानूपकुण्यतुलादेः बाह्यत्वप्रसङ्गात् , अपि तु तत्संनिकटम् , तस्मात् ग्रामबाह्यम् आभासबाह्यम् इति च शब्दसाम्यमात्रम् एतत् न वस्तुसाम्यम् / एवं ये विकल्पे वस्तु न आभाति इति मन्यन्ते तेषामपि तावत् अनुमानविकल्पो न बाह्ये उपपन्नः / अस्माभिस्तु उपपादितम् ---- अध्यवसायस्यापि आभासमानविषयत्वम् भ्रान्तित्वे चावसायस्य इति सूत्रे / तेन अनुमानविकल्पात्मनापि प्रकाशेन यदि अनाविष्टो नीलादिः अर्थः तत् न अनुमित एव स्यात् / अथ आविष्ट एव , तर्हि प्रागिवार्थो ऽप्रकाशः स्यात् इति न्यायेन प्रकाशमात्रस्वभाव एव , न बाह्यः / तेन बाह्ये साध्ये यत् किंचित् प्रमाणम् आनीयते , तदबाह्यतामेव प्रत्युत साधयति इति विरुद्धमेव , अत एव आह कथंचन इति , केनापि प्रकारेण प्रत्यक्षात्मना अनुमेयात्मना वा आभासनम् आभासो बाह्यस्य अनाभासस्य न कदाचित् अभूत् इति , तस्मात् सिद्धम् चिदात्मैव हि देव इति //९//
SK
ननु अन्तःस्थितं बहिः प्रकाशयेदित्युक्तं तत् अन्तःस्थितत्वम् उपपादनीयम् इति आशङ्क्य आह
SK
स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् / अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते //
SK
बहीरूपतया आभासने ऽपि अहन्तारूपता न त्रुट्यति ,
SK
{प्रमात्रैकात्म्यमान्तर्यम्}
SK
इति हि वक्ष्यते , तच्च सदैव , प्रकाशस्य प्रमातृत्वात् , तदात्मतया च विना ऽप्रकाशमानस्य अवस्तुत्वात् , किं तु तत्र अहम् इति उचिते परामर्शे यो ऽयम् इदन्तापरामर्शः सैव बाह्यता , तच्च इह अन्तःस्थितत्वम् अहमित्येतावता चित्समुचितेनैव बपुषा परामर्शनमेव , तच्च इह नीलादीनामस्त्येव , न तु नास्ति इति , यदि हि न स्यात् कुम्भकृतो घटं करवाणि इति य उत्तरक्रियामपेक्ष्य इच्छाशब्दवाच्यः परामर्शः , एषणीयेन स परामृश्येन अनियन्त्रितः चेत् ततः पटेच्छापि सा न कस्मात् इति संकीर्येरन् व्यवहाराः / अथ तत्रापि च एषणीयः तदानीमेव निर्मितः सन् तथा जातः , तर्हि तन्निर्माणं चिदात्मनि विनेच्छया नोपपन्नम् इति तिष्ठासोरेवमिच्छैव हेतुता इत्यत्र वर्णयिष्यते / तच्च इच्छान्तरमपि विषयनियन्त्रितं न वा इति विकल्पे ऽनवस्था / विषयनियन्त्रितं चेत् स्यात् आत्मतैव जाता , न चेत् घटे पटेच्छा स्यात् / अथ तत्रापि तदानीमेव इति कृत्वा अनवस्था / तस्मात् सर्वो ऽयं भावराशिः चिदात्मनि अहम् इत्येव वपुषा सततावभासुरवपुः ऐश्वर्यरूपाच्च स्वातन्त्र्यलक्षणात् स्वामिभावात् विचित्रेण वपुषा क्रमाक्रमादिना संवित् एनं बहिःकरोति प्रमातृप्रथनपूर्वकम् , तत्रापि क्वचित् आभासे प्रमात्ःन् एकीकरोति नितम्बनीनृत्त इव प्रेक्षकान् / तावति हि तेषाम् आभासे ऐक्यम् / शरीरप्राणबुद्धिसुखाद्याभासांशेषु तु भेदस्य अविगलनात् न सर्वथा ऐक्यम् / अत एव प्रतिक्षणं प्रमातृसंयोजनवियोजनवैचित्र्येण परमेश्वरो विश्वं सृष्टिसंहारादिना प्रपञ्चयति / तदुक्तमाचार्येण
SK
{सदा सृष्टिविनोदाय सदा स्थितिसुखासिने / सदा त्रिभुवनाहारतृप्ताय भवते नमः //}
SK
इत्यादि / श्रीभट्टनारायणेनापि
SK
{मुहुर्मुहुरविश्रान्तस्त्रैलोक्यं कल्पनाशतैः / कल्पयन्नपि को ऽप्येको निर्विकल्पो जयत्यजः //}
SK
इति / तस्मात् स्थितम् अन्तःस्थितं भावजातं तेन विना तद्विषयस्य परामर्शायोगात् इति //१०//
SK
ननु परामर्शो नाम विकल्पः , स च अविकल्पशुद्धसंविद्वपुषि भगवति कथं स्यात् इत्याशङ्क्याह
SK
स्वभावमवभासस्य विमर्शं विदुरन्यथा / प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः //
SK
इह अवभावस्य प्रकाशस्य , अनवभासस्य च अप्रकाशस्य घटादेः परस्परपरिहारेण द्वयोः स्वात्मनि चेत् व्यवस्थानम् , तत् घटपटयोः इव इदम्जडम् इदं जडम् इति दुरुपपादं वैलक्षण्यम् / अथ अवभासो यतो ऽर्थस्य संबम्धी , ततो न जडः , तर्हि संबन्धमात्रेण मृत् अपि घटस्य इति अजडा स्यात् / अथ न स्वसंबन्धमात्रम् अपि तु अवभासो ऽर्थस्य प्रकाशः , तर्हि अर्थात्मना स प्रकाश इति समापतितम् / न च अन्यात्मना अन्यस्य प्रकाश उपपन्नः / अथ अन्यस्वभावो ऽपि घटोऽवभासस्य कारणम् , तर्हि अवभासोऽपि घटस्य कारणम् इति घटोऽपि अजडः स्यात् / अथ अन्येन सतापि घटेन यतो ऽवभासस्य प्रतिबिम्बरूपा च्छाया दत्ता , ताम् असौ अदभासो बिभ्रत् घटस्य इति उच्यते , ततश्च अजडः , तर्हि स्फटिकसलिलमकुरादिः अपि एवंभूत एव इति अजड एव स्यात् / अथ तथाभूतमपि आत्मानं तं च घटादिकं स्फटिकादिः न पराम्रष्टुं समर्थ इति जद्.अः , तथापरामर्शनमेव अजाड्यजीवितम् अन्तर्बहिष्करणस्वातन्त्र्यरूपं स्वाभाविकम् अवभासस्य स्वात्मविश्रान्तिलक्षणम् अनन्यमुखप्रेक्षित्वं नाम / अहमेवं प्रकाशात्मा प्रकाशे इति हि विमर्शोदये स्वसंविदेव प्रमातृप्रमेयप्रमाणादि कृतार्थम् अभिमन्यते न तु अतिरिक्तं काङ्क्षति , स्फटिकादि हि गृहीतप्रतिबिम्बमपि तथाभावेन सिद्धौ प्रमात्रन्तरम् अपेक्षते इति निर्विमर्शत्वात् जडम् / सर्वत्र वस्तुतो विमर्शात्मकप्रमातृस्वभावतादात्म्याहंपरामर्शविश्रान्तेः अजडत्वमेव पूर्वापरकोट्योः / यदुक्तम्
SK
{इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता / या स्वस्वरूपे विश्रान्तिर्विमर्शः सो ऽहमित्ययम् //}
SK
इति / मध्यावस्थैव तु इदन्ता विमृश्यमानऊर्वापरकोटिः विमूढानां मायापदं संसारः इति विमर्श एव प्रधानं भगवत इति स्थितम् //११//
SK
न केवलं संवित्तत्त्वस्य अस्माभिः एव विमर्शप्राधान्यम् उक्तम् यावत् आगमान्तरैरपि इति दर्शयति
SK
आत्मात एव चैतन्यं चित्क्रियाचितिकर्तृता / तात्पर्येणोदितस्तेन जडात्स हि विलक्षणः //
SK
यतो विमर्श एव प्रधानम् आत्मनो रूपम् अमुमेव हेतुं प्रयोजनरूपम् उद्दिश्य आत्मा धर्मिस्वभावो द्रव्यभूतो ऽपि , चैतन्त्यम् इति धर्मवाचिना शब्देन सामानाधिकरण्यम् आश्रित्य उदितः कथितः , भगवता शिवसूत्रेषु
SK
{चैतन्यमात्मा}(१-१)
SK
इति पठितम् / चैतन्यम् इति हि धर्मवाचकोपलक्षणम् ,
SK
{चितिशक्तिरपरिणामिनी}
SK
{............ तद्दृशेः कैवल्यम् /}(यो. सू. २-२५)
SK
{द्रष्टा दृशिमात्रः .............. }(यो. सू. २-२०)
SK
इत्यादौ अपि हि धर्मशब्देन सामानाधिकरण्यम् आत्मनो दर्शितं गुरुणा अनन्तेन / द्रव्यं हि तत् उच्यते यद्विश्रान्तः पदार्थवर्गः सर्वो भाति च अर्थ्यते च अर्थक्रियायै , तद् यदि न तत् सकलो ऽयं तत्त्वभूतभावभुवनसंभारः संविदि विश्रान्तः तथा भवति इति स एव गुणकर्मादिधर्माश्रयभूतपदार्थान्तरस्वभावः तामेव मुख्यद्रव्यस्वरूपम् आश्रयते इति सैव द्रव्यम् / तत् अनन्तधर्मराशिविश्रमभित्तिभूतायाः तस्याः स एव धर्मः चैतन्यम् इति कर्तृकृदन्तात् उत्पन्नेन भावप्रत्ययेन संबन्धाभिधायिनापि प्राधान्येन दर्शितः / तथा हि संबन्धविश्रान्तस्य प्रतीतेः , द्रव्य्तरूपस्य च संबन्धिनः प्रकृत्या उक्तत्वात् चितिक्रियारूपं ध्रमं संबद्धम् अवगमयता ष्यञा निष्कृष्टांशः प्रत्यायितो भवति / चितिक्रिया च चित्तौ कर्तृता , स्वातंत्र्यं संयोजनवियोजनानुसंधानादिरूपम् आत्ममात्रतायामेव जडवत् अविश्रान्तत्वम् अपरिच्छिन्नप्रकाशसारत्वम् अनन्यमुखप्रेक्षित्वम् इति / तदेव अनात्मरूपात् जडात् संयोजनवियोजनादिस्वातंत्र्यविकलात् वैलक्षण्यादायि इति / तदेवं परत्वेन प्रधानतया अभिसंधाय आत्मा चेतन इति वक्तव्ये धर्मान्तराधरीकरणाय विमर्शधर्मोद्धुरीकरणाय च आत्मा चैतन्यम् इत्युक्तम् / चित्क्रियाचितिकर्तृतातात्पर्येण इति समासः / अर्धयुक् पादविश्रान्तिः इति हि काव्ये समयः , न शास्त्रे / यदि वा चित्क्रिया आत्मा उचितः चितिकर्तृता च इति पृथगेव / एवं तु न क्वचित् पठितम् //१२//
SK
ननु यथा प्रकाशो ऽप्रकाशश्च इति य्भयमपि स्वात्मनि , ततश्च प्रकाश इति उक्ते जडात् न वैलक्षण्यम् उदितं स्यात् , तद्वत् विमर्शो ऽपि अविमर्शो ऽपि च स्वात्मनि, इति तेनापि कथं वैलक्षण्यं जडाजडयोः इत्याशङ्क्याह
SK
चितिः प्रत्यवमर्शात्मा परा वाक्स्वरसोदिता / स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः //
SK
चेतयति इत्यत्र या चितिः चितिक्रिया तस्याः प्रत्यवमर्शः स्वात्मचमत्कारलक्षण आत्मा स्वभावः / तथा हि ---- घटेन स्वात्मनि न चमत्क्रियते , स्वात्मा न परामृश्यते , न स्वात्मनि तेन प्रकाश्यते , न अपरिच्छिन्नतया भास्यते , ततो च चेत्यत इति उच्यते / चैत्रेण तु स्वात्मनि अहमिति संरम्भोद्योयोल्लासविभूतियोगात् चमत्क्रियते , स्वात्मा परामृश्यते , स्वात्मन्येव प्रकाश्यते , इदमिति यः परिच्छेद एतावद्रूपतया तद्विलक्षणीभावेन नीलपीतसुखदुःखतच्छून्यताद्यसंख्यावभासयोगेन अवभास्यते , ततः चैत्रेण चेत्यते इति उच्यते / एवं च विमर्शः स्वात्मनि अविमर्शो ऽपि स्वात्मनि इत्यसिद्दमेतत् / विमर्शो हि सर्वंसहः परमपि आत्मीकरोति , आत्मानं च परीकरोति , उभयम् एकीकरोति , एकीकृतं द्वयमपि न्यग्भावयति इत्येवंस्वभावः / प्रत्यवमर्शाश्च आन्तराभिलापात्मकशब्दनस्वभावः , तच्च शब्दनं सङ्केतनिरपेक्षमेव अविच्छिन्नचमत्कारात्मकम् अन्तर्मुखशिरोनिर्देशप्रख्यम् अकारादिमायीयसाङ्केतिकशब्दजीवितभूत ---- नीलमिदंचैत्रो ऽहमित्यादिप्रत्यवमर्शान्तरभित्तिभूतत्वात् , पूर्णत्वात् परा , वक्ति विश्वम् अभिलपति प्रत्यवमर्शेन इति च वाक् , अत एव सा स्वरसेन चिद्रूपतया स्वात्मविश्रान्तिवपुषा उदिता सदानस्तमिता नित्या अहमित्येव / एतदेव परमात्मनो मुख्यं स्वातन्त्र्यम् ऐश्वर्यम् ईशितृत्वम् अनन्यापेक्षित्वम् उच्यते / परापरं तु इदंभावरूपस्य प्रत्यवमर्शस्य अख्यातिप्राणस्य उद्बोधमात्रे ऽपि अहंभाव एव विश्रान्तेः श्रीसदाशिवादिभूमौ पश्यन्तीदशायाम् / अपरं तु इदंभावस्यैव निरूढौ मायागर्भाधिकृतानामेव विष्णुविरिञ्चेन्द्रादीनाम् , तत्तु तेषां परमेश्वरप्रसादजमेव / इति अन्यनिरपेक्षतैव परमार्थत आनन्दः , ऐश्वर्यम् , स्वातन्र्यम् , चैतन्यम् / तस्मात् युक्तमुक्तम्
SK
{.......................... तेन जडात्स हि विलक्षणः /}
SK
इति //१३//
SK
प्रधानागमेष्वपि एतत् प्रदर्शितमेव इति निरूपयति
SK
सा स्फुरत्ता महासत्ता देशकालाविशेषिनी / सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः //
SK
इह घटः कस्मात् अस्ति , स्वपुष्पं कस्मात् नास्ति इत्युक्त इतिवक्तारो भवन्ति घटो हि स्फुरति मम न तु इतरत् इति / तदेतत् घटत्वमेव यदि स्फुरत्त्वं स्फुरणसंबन्धः , तत् सर्वदा सर्वस्य स्फुरेत् न कस्यचिद्वा , तस्मात् मम स्फुरति इति कोऽर्थः , मदीयं स्फुरणं स्पन्दनम् आदिष्टम् इति / स्पन्दनञ्च किञ्चिच्चलनम् , एषैव च किञ्चिद्रूपता यत् अचलमपि चलमाभासते इति , प्रकाशस्वरूपं हि मनागपि नातिरिच्यते , अतिरिच्यते इव इति तत् अचलमेव आभासभेदयुक्तमिव च भाति / तत उक्तम्
SK
{आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्वपुः / अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः //}
SK
इति / यथा
SK
{अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् / धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः //} (स्प. २२)
SK
इति /
SK
{.......................................... स्पन्दतत्त्वविविक्तये /} (स्प. २१)
SK
इति /
SK
{गुणादिस्पन्दनिःष्यन्दाः ............................... /} (स्प. १९)
SK
इति च / लोके ऽपि विविधवैचित्र्ययोगेन स्पन्दवत्त्वम् / सत्ता च भवनकर्तृता सर्वक्रियाषु स्वातन्त्र्यम् / सा च स्वपुष्पादिकमपि व्याप्नोति इति महती , देशकालौ नीलादिवत् सैव सृजति इति ताभ्यां विशेषणीया न भवति , यत् किल येन तुल्यकक्ष्यतया भाति तत् तस्य विशेषणं कटक इव चैत्रस्य / न च देशकालौ विमर्शेन तुल्यकक्ष्यौ भातः तयोः इदन्तया तस्य च अहन्तया प्रकाशे तुल्यकक्ष्यत्वानुपपत्तेः / एवं देशकालास्पर्शात् विभुत्वं नित्यत्वं च , सकलदेशकालस्पर्शो ऽ; पि तन्निर्माणयोगात् इति ततो ऽपि व्यापकत्वनित्यत्वे / तदुक्तम्
SK
{महासत्ता महादेवी विश्वजीवनमुच्यते /}
SK
इति / सारम् इति यत् अतुच्छं रूपं तत् इयमेव विमर्शशक्तिः , ग्राह्यग्राहकाणां यत् प्रकाशात्मकं रूपं तस्यापि अप्रकाशवैलक्षण्याक्षेपिका इयमेव इति श्रीसारशास्त्रेऽपि निरूपितम्
SK
{यत्सारमस्य जगतः सा शक्तिर्मालिनी परा /}
SK
इति / सैषा इति शक्तिप्रत्यभिज्ञानं दर्शितम् / हृदयं च नाम प्रतिष्ठास्थानमुच्यते , तच्च उक्तनीत्या जडानां चेतनम् , तस्यापि प्रकाशात्प्रकत्वम् , तस्यापि विमर्शशक्तिः इति विश्वस्य परमे पदे तिष्ठतो विश्रान्तस्य तस्य इदमेव हृदयं विमर्शरूपं परमन्त्रात्मकं यत्र तत्र अभिधीयते / सर्वस्य हि मन्त्र एव हृदयम् , मन्त्रश्च विमर्शनात्मा , विमर्शनं च परावाक्छक्तिमयम् / तत एवोक्तम्
SK
{न तैर्विना भवेच्छब्दो नार्थो नापि चितेर्गतिः /}
SK
इति /
SK
{तत्र तावत्समापन्ना मातृभावम् ................ /}
SK
इत्यादि च , इत्यागमेषु / तत्रभवद्भर्तृहरिणापि
SK
{न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते / अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते //
SK
वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती / न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी // }
SK
इति /
SK
{सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते /
SK
यदुत्क्रान्तौ विसंज्ञो ऽयं दृश्यते काष्ठकुङ्यवत् //}
SK
इत्यादि च / तत् एतेन विदुः इत्येतत् निर्वाहितम् / बौद्धैरपि अध्यवसायापेक्षं प्रकाशस्य प्रामाण्यं वदद्भिः उपगतप्राय एव अयम् अर्थः , अभिलापात्मकत्वात् अध्यवसायस्य इति //१४//
SK
ननु असंख्यशक्तिश्रेणोशोभितवपुषि परमशिवे विमर्शशक्तिरेव इयम् इत्थंकारम् अभिषिच्यते कस्मात् इत्याशङ्क्याह
SK
आत्मानमत एवायं ज्ञेयीकुर्यात्पृथक्स्थिति / ज्ञेयं न तु तदौन्मुख्यात्खण्ड्येतास्य स्वतन्त्रता //
SK
स्वातन्त्र्यामुक्तात्मानं स्वातन्त्र्यादद्वयात्मनः / प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् //
SK
सर्वाः शक्तोः कर्तृत्वशक्तिः ऐश्वर्यात्मा समाक्षिपति / सा च विमर्शरूपा इति युक्तम् अस्या एव प्राधान्यम् इति तात्पर्येण उत्तरमुक्तम् / शब्दार्थस्य अयम् , प्रकाशात्मा परमेश्वरः स्वात्मानं ज्ञात्रेकरूपत्वात् अज्ञेयमपि ज्ञेयीकरोति इति यत् संभाव्यते कारणान्तरस्य अनुपपत्तेः दर्शितत्वात् दृढेन संभावनानुमानेन , तदत एव विमर्शशक्तिलक्षणात् कर्तृत्वात् हेतोः भवति , यतो हि अयम् आत्मानं परामृशति ततो विश्वनिर्भरत्वात् तथा नीलादित्वेन चकास्ति / ननु एषैव कुतः संभावना , आत्मानं ज्ञेयीकरोति इति ? आह, पृथक् प्रकाशात् बहिर्भूता स्थितिः यस्य तादृक् ज्ञेयं नैव भवति / तुः अवधारेण / तत्र च उक्ता युक्तयः / अभ्युच्चययुक्तिमपि आह , यदि व्यतिरिक्तं ज्ञेयं स्यात् तत् ज्ञातृरूपस्य आत्मनो यत् एतत् ज्ञेयविषयम् औन्मुख्यं स्वसंवेदनसिद्धं दृश्यते तत् न अस्य स्यात् , तेन व्यतिरिक्तविषयौन्मुख्येन अन्याधीनत्वं नाम पारतन्त्र्यम् अस्य आनीयते / पारतन्त्र्यं च स्वातन्त्र्यस्य विरुद्धम् / स्वातन्त्र्यमेव च अनन्यमुखप्रेक्षित्वम् आत्मनः स्वरूपम् , इति व्यतिरिक्तोन्मुख आत्मा अनात्मैव स्यात् / अनात्मा च जडो ज्ञेयं प्रति न उन्मुखीभवति इति प्रसङ्गः / ततः प्रसङ्गविपर्ययात् इदमायातम् ---- अव्यतिरिक्तोन्मुखः स्वतन्त्रः सन् आत्मानमेव ज्ञेयीकरोति इति //१५//
SK
न च केवलं नीलादिरूपमेव ज्ञेयम् , यावत् अत्यक्तकर्तृस्वभावं स्वातन्त्र्येण अपरित्यक्तमेव सन्तम् आत्मानं निर्माय व्यवहारेण ध्यानोपासनार्चनोपदेशादिना योजयति इति यत् संभाव्यते तदपि अत एव इति संबन्धः / ननु स्वातन्त्र्ययुक्तं च निर्मीयते च इति विरुद्धम् इदम् ? अत्राह , अद्वयात्मनः संविदेकरूपस्य स्वातन्त्र्यात् हेतोः इदं न न युज्यते , यत् किल मायापदे अतिदुर्घटं प्रतिभाति , तत्संपादने यत् अप्रतिहतं स्वातन्त्र्यं तदेव पुनः स्वातन्त्र्यशब्देन दर्शितम् / अत एव इत्यनेन तु विमर्शशक्तिरूपम् इति अपुनरुक्तम् / अथ वा अत एव स्वातन्त्र्यात् इति सामानाधिकरण्येन श्लोकद्वयेन संबन्धनीयम् / उदाहरणम् अत्रार्थे दर्शयति , नीलादिनिर्माणवत् अस्य स्वत्रन्त्रनिर्माणस्य अप्रसिद्धत्वात् , ईश्वरो भगवान् आत्मा नित्यो विभुः स्वतन्त्रः इत्येवमादौ हि प्रमातुः , पूजयितुः , ध्यातुः वा ऽपृथग्भूतं तत् प्रमेयम् , पूज्यम् , ध्येयं च भाति इति तत् तावत् निर्मितम् , न च अनीश्वरम् / एवं हि ईश्वर इति , अनीश्वर इति संकल्पध्यानादेः तुल्यत्वं स्यात् , न च एवम् फलभेदस्य उपलब्धेः इति , तस्मात् स्वातन्त्र्यशून्यताभासनेन स्वातन्त्र्ययुक्तताभासनेन च यत् इदम् उभयं ज्ञेयम् आत्मरूपमेव परमेश्वरो भासयति तत् विमर्शशक्तिबलात् एव , इति सैव प्रधानम् इति //१६//
SK
ननु प्रकाशबलात् भावव्यवस्था , स च प्रकाशो विमर्शसार इति विमर्शाभेदे तदेव तत् इति वक्तुं युक्तम् , ईश्वर आत्मा इत्यादिसंकल्पेषु च निर्मितस्य इदन्तया परामर्शः , स्वातन्त्र्यं तु अहंपरामर्शरूपम् , इति निर्मितस्य तद्रूपत्वाभावे कथं स्वातन्त्र्यामुक्तत्वम् इति ? तत् एतत् परिहर्तुमाह
SK
नाहन्तादिपरामर्शभेदादस्यानयतात्मनः / अहंमृश्यतयाइवास्य सृष्तेस्तिङ्वाच्यकर्मवत् //
SK
स्वरूपे भावप्रत्ययः , आदिग्रहणात् आत्मेश्वरादिपरामर्शः , तिङ्ग्रहणं क्रियावाचिप्रत्ययोपलक्षणम् , कर्मग्रहणम् असत्त्वभूतशक्तिरूपोपलक्षणम् / तत् अयम् अर्थः , अहम् इत्येवं स्वरूपो यः परामर्शो यश्च ईश्वरः प्रमाता आत्मा शिव इत्यादिः अनन्तप्रकारः परामर्शः , तस्य यद्यपि भेदो ऽन्योन्यरूपता तथापि तद्भेदात् हेतोः अस्य आत्मनो निर्मातृरूपस्य अहंपरामर्शमयस्य निर्मेयरूपस्य च ईश्वरादिपरामर्शास्पदस्य यो भेदः शङ्कितः , स न युक्तः / यत ईश्वर इत्यपि यः परामर्शः , स ईशनशीले ज्ञातृत्वकर्तृत्वतत्त्वे विश्रान्यति , ज्ञातृत्वादि च ज्ञानादौ स्वातन्त्र्यम् अनन्यमुखप्रेक्षित्वम् अविच्छिन्नज्ञानयोगः , अविच्छेदश्च जानामि करोमि इति अस्मदर्थविश्रान्तिः इति अस्य ईश्वरस्य आत्मनः सृष्टेः सृज्यमानस्य अहंविमर्शनीयत्वमेव / सृष्टेरिति वा हेतौ पञ्चमी / अस्य ईश्वरस्य यतः ईश्वरादिसंकल्पेषु अपि अहंपरामर्शनयोग्यस्यैव सृष्टिः / अर्हे कृत्यः / यथा क्रियाकारकसमुच्चयविकल्पादिशक्तयो यथास्वं तिङ्तृतीयादिचवादिप्रयोगावसेयपरामर्शपरमार्थाः पाकः कर्ता समुच्चयो विकल्पः इत्यादिशब्दैः अभिधीयमानाः सत्त्वभावमापादिता अपि पचति चैत्रेण च वा इत्येवंरूपे मूलपरामर्शे विश्राम्यन्ति , अन्यथा तु ताः प्रतीता नैव भवेयुः / तद्वत् अत्रापि / एतदुक्तं भवति ---- परामर्शे नाम विश्रान्तिस्थानम् , तच्च पार्यन्तिकमेव पारमार्थिकम् , तच्च अहमित्येवंरूपमेव / मध्यविश्रान्तिपदं तु यत् वृक्षमूलस्थानीयं ग्रामगमने तस्य तदपेक्षया सृष्टत्वम् उच्यते इति को विरोधः / अनेन नीलादेः अपि इदं नीलम् इति मध्यपरामर्शे ऽपि मूलपरामर्शे अहमित्येव विश्रान्तेः आत्ममयत्वम् उपपादितमेव / नीलम् इदम् वेद्मि इत्यपि हि अहं प्रकाशे इतीयत्तत्त्वम् / यथोक्तम् इदमित्यस्य इत्यादि / मूढस्तु नीलादिविमर्शात् एव अर्थक्रियादिपरितोषाभिमानी इति नीलादेः स्वातन्त्र्यनिर्मुक्तत्वम् उक्तम् / आत्मादौ तु तन्मूलपरामर्शविश्रान्तिमन्तरेण प्रतीतिपरिसमाप्तिम् अर्थक्रियां च मूढोऽपि न अभिमन्यत इति तस्य निर्मितौ अपि अनुज्झितस्वातन्त्र्यम् उक्तम् //१७//
SK
नन्वेवं विश्वपरामर्शनाम् अहम् इत्येव विशुद्धैकपरामर्शविश्रान्तिरेव तत्त्वम् तत् कथम् इदम् उच्यते ---- ज्ञानस्मृत्यादिका अस्य शक्तय इति , ज्ञानस्य च संशयनिर्णयादिभेदः नीलादीनां च वैचित्र्यम् ? इति आशङ्कायां परिहारमाह
SK
मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा / कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः //
SK
अनुपपन्नम् अवभासनं माया इति उच्यते , ततश्च भिन्नं प्रकाशात् सर्वम् अवभासजातं माया , तत्र च चित्तत्त्वस्यैव स्वातन्त्र्यं मायाशक्तिः , तया भिन्नं यत् संवेद्यं प्रमातुश्च अन्योन्यतश्च , मायाशक्त्या भिन्नेन प्रमातुः अन्योन्यतो वेद्याच्च करणवर्गेण यत् संवेद्यं स एव गोचरो विश्रान्तिपदं यस्याः तादृशी सती , सैव प्रत्यवमर्शात्मा चितिः परावाग्रूपा ज्ञानम् इति , संकल्प इति , अध्यवसाय इति च उच्यते , आदिग्रहणात् संशयः स्मृतिः इत्यादि / तथा हि ---- इन्द्त्रियेण स्फुटग्राहिणा बाह्येन विषयेण स्फुटेन च नियन्त्रितं संवित्तत्त्वं तत् ज्ञानम् / मनसा विषयेण च अप्स्हुटेन संकल्पः / बुद्ध्या विषयेण च विषयत्वपर्यन्तभाजा अध्यवसायो निश्चयः / विषयस्य च यत् भिन्नत्वं बहिरन्तःकरणानां च तत्प्रकाशाभेदात् अनुपपन्नं चित्तत्त्वेन भास्यते इति भेदे यतो विश्रान्तिः , न तु भेदस्य अभेदे ईश्वरसदाशिवादिवत् , ततो ज्ञानसंकल्पादयो भिन्नाः तस्य अप्रध्वस्तस्वस्वभावाभेदस्य संवित्तत्त्वस्य अनुसंधातुः शक्तय इति उक्ताः , संशयादयश्च भिन्ना नीलादिवैचित्र्यं च इति सर्वम् अखण्डितम् //१८//
SK
ननु प्रत्यवमर्शात्मत्वं चितिशक्तेः सङ्कल्पस्मरणादिशक्तिषु सचिकल्पात्मिकासु भवतु / या तु निर्विकल्परूपा साक्षात्करणलक्षणा अनुबह्वशक्तिः , तत्र कथम् / प्रत्यबमर्शो हि अभिलापविशेषयोजनामयः , अभिलापविशेषयोजना च सङ्केतस्मरणम् अपेक्षते / तच्च संस्कारप्रबोधम् / सो ऽपि तादृश्दृशम् , इति एवं प्रथमसमये कथम् अभिलापयोगः इति परस्य व्यामोहम् अपोहितुमाह
SK
साक्षात्कारक्षणेऽप्यस्ति विमर्शः कथमन्यथा / धावनाद्युपपद्येत प्रतिसंधानवर्जितम् //
SK
इह तावत् चैतन्यस्य आत्मभूतो ऽङ्गुलिनिर्देशादिप्रख्योऽभिलापयोगः , अन्यथा बालस्य प्रथमं व्यवहारे दृश्यमाने व्युत्पत्तिरेव न स्यात् / निर्विकल्पकज्ञानपरंपरया हि तं शब्दं शृणोति , ततः तमर्थं पुरः पश्यति , पुनस्तद्विविक्तं भूतलं पश्यति इति घटम् आनय नय इति व्यवहारात् कथम् अस्य अयम् अर्थ इति हृदि परिस्फुरेत् , इदम् घट इति , इदमानय इति , इदं नय इति , इतियोजनाप्राणो हि अयमर्थः , योजना च विकल्पव्यापारः / अत्र बालास्य प्राग्जन्मानुभूतसङ्केतस्मृतेः एवम् , तथापि सङ्केतकाले स शब्दो विषयत्वेन इदंभावेन प्रत्यवमृश्यमानत्वात् भेदात् प्रच्युत्य निर्भासमानो विज्ञानशरीरे विश्रान्तः सन् वाचक इति भवति , तद् विज्ञानस्य सवरूपं चेत् भाति तत् अभिलापमयमेव इति , यथा विषयस्य सुखरूपत्वाभावे ऽपि ज्ञानं सुखात्मकं भाति तथा मा भूत् अभिलापात्मा रूपादिः विषयः , तथापि विज्ञानं तदात्मकं अवभासिष्यते / अत्र तु दर्शने विषयस्यापि विमर्शमयत्वात् अभिलापमयत्वमेव वस्तुतः , स्तैमित्याद्यवस्थापि यदि न परामर्शमयी तर्हि अस्यां विकल्पात्मकप्रमातृव्यापारानुलासात् संभवः शपथपरमार्थ एव , स्मरणं च न स्यात् , रूपविषयाध्यवसायी हि यदि विकल्प उदियात् किमन्यत् , सर्वचिन्तासंहरणेन स्तैमित्यं नाम न स्यात् , इति तत्रापि अस्ति अन्तः परामर्शः , सकलेन च शब्दग्रामेण शब्दनं हि सहन्ते वस्तूनि , तत्र च नियतशब्दयोजनं क्रियते / तथा हि ---- बालस्य पुरः पुण्डे सहजो यः परामर्शः , अहम् इत्यविच्छेदेन इदम् इति विच्छेदेन वा तत्पृष्ठे एव गौर इति गौः इति वा शब्द आरोप्यते , सो ऽपि अभ्यासात् प्रमातृमयो भवति , तत्पृष्ठे च अन्यः शुक्ल इति , अन्यत् बलीवर्द इति , इत्येवं सङ्केततत्त्वम् / तस्मात् अस्ति साक्षात्कारे प्रत्यवमर्शः / अपिशब्दस्य अयमाशयः / इह साक्षात्कारो वस्तुतः पश्यामि इत्येवंभूतविकल्पनव्यापारपर्यन्त एव / विकल्पो हि प्रत्यक्षस्य व्यापार इति परो ऽपि मन्यते / न च व्यपारः तद्वतो भिन्नो युक्तः , तत्स्वरूपभूतो हि सः / भवतु वा क्षणमात्रस्वभावः साक्षात्कारः , तत्रापि अस्ति विमर्शः / अवश्यं चैतत् / कथम् अन्यथा इति / यदि स न स्यात् तत् एकाभिसंधानेन जवात् गच्छन् , त्वरितं च वर्क्षान् पठन् , द्रुतं च मन्त्रपुस्तकं वाचयन् , न अभिमतमेव गच्छेत् , उच्चारयेत् , वाचयेत् वा / तथा हि ---- तस्मिन् देशे ज्ञानम् -- आचिक्रमिषा -- आक्रमणम् -- आक्रान्तताज्ञानम् -- प्रयोजनान्तरानुसंधानम् -- तित्यक्षा -- देशान्तरानुसंधिः , तत्रापि आचिक्रमिषा इत्यादिना योजनवियोजनरूपेण प्रत्यवमर्शेन विनाभिमतदेशावाप्तिः कथं भवेत् / एवं त्वरितोद्ग्रहणवाचनादौ मन्तव्यम् / तत्र विशे.अतः स्थानकरणाक्रमणादियोगः / अत्र च यतः पश्चाद्भाविस्थूलविकल्पकल्पना न संवेद्यते , तत एव त्वरितत्वम् इति सूक्ष्मेण प्रत्यवमर्शेन संवर्तितशब्दभावनामयेन भाव्यमेव / संवर्तिता हि शब्दभावना प्रसारणेन विवर्त्यमाना स्थूलो विकल्पः , यथा इदमित्यस्य प्रसारणा घटः श्क्ल इत्यादिः , तस्यापि पृथुबुध्नोदराकारः शुक्लत्वजातियुक्तगुणसमवायी इत्यादिः / धावु गतिशुद्धौ इति पाठात् धाविस्त्वरितगतौ स्वशक्तिवशात् वर्तत इति //१९//
SK
भवतु एवं सूक्ष्मो विमर्शः प्रकाशशरीरावेशी , यत्र तु स्थूलत्वेन विकल्परूपता स्फुटा , तत्र शब्दो नीलादिवत् एव पृथक् प्रतिभासते ---- नीलम् इदम् इति , स कथं प्रकाशस्वरूपात् अपृथग्भूतः स्यात् , शब्दात्मा च विमर्शः , स च अत्र मायात्मकं भेदपदे ऽपि प्रकाशापृथग्भूतो भवद्भिः इष्टः , तत् एतत् कथं प्रतिपत्तव्यम् इत्याशङ्क्याह
SK
घटोऽयमित्यध्यवसा नामरूपातिरेकिणी / परेशशक्तिरात्मेव भासते न त्विदन्तया //
SK
केन एतत् उक्तम् घट इति यः स्थूलः शब्दः स प्रकाशजीवितस्वभावो विमर्श इति / सोऽपि हि स्थूलः शब्दो ऽर्थवत् पृथग्भूत एव भाति / तौ नामकरूपलक्षणौ शब्दार्थौ एकरूपतया सो ऽयम् इत्येवंरूपत्वेन परामृशन्ती अध्यवसा या सा परमेश्वरशक्तिः विमर्शरूपा आत्मवदेव अहमित्यनवच्छिन्नत्वेन भाति , न तु कदाचित् इदन्तया विच्छिन्नत्वेन भाति विच्छिन्नत्वेन अवभासे परप्रतिष्ठत्वात् पुनर्विमर्शान्तरेण भाव्यम् , तत्रापि एवम् इति अनवस्थातो नीलस्य प्रकाशनमेव न स्यात् प्रतिष्ठालाभाभावात् / तस्मात् सर्व एव विमर्शः प्रकाशात् अविच्छिन्न एव इति / अध्यवसा इति , {आतश्चोपसर्गे}(पा. व्या. ३-३-१६) इत्यङन्तः स्त्रियाम् //२०//
SK
ननु एवं सर्वस्यैव ज्ञानकलापस्य अहमित्येव प्रतिष्ठाने वेद्यभूमिस्पर्शो नास्ति वेद्यभुवि च देशकालयोगः न तु वेदकांशे , देशकालयोगाभावे च यत् इदं ज्ञानां देशापेक्षया प्रमात्राद्यंशापेक्षया च सक्रमत्वं लक्ष्यते तत् कथं स्यात् , क्रमाभावे च एकत्वमेव वस्तुतो भवेत् , ततश्च ज्ञानस्मृत्यादिभिस्तद्वान् परमेश्वरः इति यत् उक्तं तत् कथं निर्वहेत् इत्याशङ्कां शमयन् पूर्वोक्तमुपसंहरति
SK
केवलं भिन्नसम्वेद्यदेशकालानुरोधतः / ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते //
SK
सत्यम् एवम् अक्रममेव संवित्तत्त्वम् , किन्तु स्वशक्तिवशात् भिन्नत्वेन भासितानि यानि वेद्यानि तेषां मूर्तिभेदकृतो यो दूरादूरवैतत्यावैतत्यादिः देशः , क्रियाभेदकृतश्च यः चिरशीघ्रक्रमादिरूपः कालः , तौ अनुरुध्य छायामात्रेण अबलम्ब्य, ज्ञानस्मरणाध्यवसायानां स्वांशा इव भान्ति निरंशानामपि , तद्भासमानांशकृतश्च सक्रमत्वावभासः परस्परापेक्षया स्वांशापेक्षया च , यद्यपि कालक्रम एव स्फुटो विज्ञानेषु भाति न देशक्रमः , तथापि विमूढस्य पर्वतसंवेदनं विततमिव वदरसंवेदनं च सूक्ष्ममिव भाति इति देशक्रमो ऽपि दर्शितः , तेन वेद्यगतक्रमस्वीकाराभासात् सक्रमत्वम् आभासमानमपि न अपारमार्थिकम् आभासमानस्य परार्थत्वात् , ततश्च युक्तमुक्तम् ज्ञानादयो ऽस्य भगवतः शक्तयः इति /
SK
{मायाशक्त्या विभोः}
SK
इति श्लोकेन स्वरूपवैचित्र्यं ज्ञानां दर्शितम् / अनेन तु देशकालवैचित्र्यम् इति विशेषः / इति शिवम् //२१//
SK
इति श्रीमदाचार्याभिनवगुप्तविरचितायांईश्वरप्रत्यभिज्ञासूत्रविमर्शिन्यां प्रथमे ज्ञानाधिकारे ज्ञानशक्तिनिरूपणं नाम पञ्चमाह्निकम् // ५ //
SK
अथ षष्ठमाह्निकम् /
SK
{स्वात्माभेदधनान्भावांस्तदपोहनटङ्कतः / व्हिन्दन्यः स्वेच्छया चित्ररूपकृतं स्तुमः शिवः //}
SK
एवं स्मृतिशक्तिर्ज्ञानशक्तिश्च निरूपिता / अथ तदुभयानुप्राहिणी अपोहनशक्तिर्वितत्य श्लोकैकादशकेन अहं प्रत्यवमर्शो यः प्रकाशात्मा इत्यादिना सिद्धे सर्वस्य जीवतः इत्यन्तेन निर्णीयते / तत्र श्लोकेन प्रत्यवमर्शे अविकल्पो विशेषः इति सूच्यते / ततः श्लोकेन शुद्धे ऽहंप्रत्यवमर्शे ऽपोहनव्यापारासंभवः उच्यते / ततः स्वदृष्टावेव तदुपपत्तिः इति श्लोकेन / ततो ऽपि द्वयेन अशुद्धस्याहमित्यवमर्शस्य विकल्परूपता / ततः श्लोकेन अनुसंधानस्वापि विकल्परूपता / एवंरूपानुसंधानादिरूपमेव परमेश्वरस्य स्रष्ट्टत्वम् इति श्लोकेन / ततः प्रकृते चिदात्मन्यर्थावभासस्य सत्तोपसंहियते श्लोकेन / ततो द्वयेन तस्मैवार्थावभासस्यानुभवस्मरणादौ वैचित्र्यमुच्यते , तदुक्तिश्च प्रकृतायामीश्वररूपस्वात्मप्रत्यभिज्ञायामुपयुज्यते इति श्लोकेन / इत्याह्निकस्य तात्पर्यार्थः / अथ ग्रन्थार्थो व्याख्यायते /
SK
उक्तिमिदम्
SK
{सवभावमवभासस्य विमर्शम् ................ /}
SK
इति / तत्र विमर्शो ऽभिलापात्मना शब्देन योजित एव , तद्योजनाकृतं च विकल्परूपत्वं शुद्धे ऽपि परमेश्वरे प्राप्तम् , न चैतदिष्टं तस्य संसारपदे माथात्मन्युपपत्तेः इत्याशङ्क्याह
SK
अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः / नासौ विकल्पः स ह्युक्तो द्वयाक्षेपी विनिश्चयः //
SK
प्रकाशस्य शुद्धसंविद्रूपस्य देहादिसंस्पर्शैरनाविलीभूतस्य यः आत्मा जीवितभूतः सारस्वभावो विच्छेदशून्यो ऽन्तरभ्युपगमकल्पो ऽनन्यमुखप्रेक्षित्वरूपस्वातन्त्र्यविश्रान्तिरूपः अहम् इति प्रत्यवमर्शः असौ विकल्पो न भवति / विकल्पत्वाशङ्कायां बीजं दर्शयति वाग्वपुरपि इति / विषयरूपात् श्रोत्रग्राह्यात् शब्दादन्य एव अन्तरवभासमानः संविद्रूपावेशी शब्दनात्माभिलापो वागित्यनेनोक्तः ---- वक्ति अर्थं स्वाध्यासेन सो ऽयमित्यभिसंधानेन / यदि वाग्वपुः , कस्मान्न विकल्पः ? आह ---- न ह्यस्य विकल्पलक्षणमस्ति , तथा हि ---- विविधा कल्पना विविधत्वेन च शङ्कितस्य कल्पो ऽन्वव्यवच्छेदनं विकल्पः , विविधत्वं च बह्नावनग्निसंभावनासमारोपनिरासे ऽसति भवत् , द्वयं वह्न्यवह्निरूपं समाक्षिपति , तेन विकल्पे ऽवश्यं तच्च निश्चेतव्यम् अतच्च अपोहितव्यं भवति /
SK
तथा च
SK
भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः / प्रकाशस्येव नान्यस्य भेदिनस्त्ववभासनम् //
SK
घटे हि दृष्टे घटस्थान एवाघटे ऽपि योग्यदेशाभिमतस्थानाक्रमणशीलो विज्ञानजनकः स्वकारणोपनीतः संभाव्यते पटादिस्वभावः , अतो घटाघटयोर्द्वयोरवभावसस्य संभावनात् समारोपः सावकाशो भवति , अघटस्य सत्यारोपे निषेधनलक्षणोपोहनव्यापारः इति तदनुप्राणिता विकल्परूपता घट इत्येतस्य निश्चयस्य , लिङ् संभावनायाम् / यस्त्वयं प्रकाशो नाम तस्य स्थाने यः संभाव्यते स तावदप्रकाशरूपो न भवति तुल्यकक्षस्य हि संभावनं भवति , न च यत्प्रकाशेन कर्तव्यं तदप्रकाशस्य कदाचित् दृष्टम् संभावनारोपणादिबलादेव च अस्याप्रकाशरूपत्वं विघटेत , अतः प्रकाशतुल्यस्यान्यस्याप्रकाशरूपस्य भेदिनस्तत्तुल्यकक्ष्यस्यापोहनात्मकभेदनव्यापारासाहिष्णोरवभासनमेव नास्ति , तदभावे कस्यापोष्ठनम् ? अवभाससंभवे ऽपि प्रकाशरूपत्वमेव / न च प्रकाशस्य स्वरूपदेशकालभेदो येन द्वितीयः प्रकाश एकस्मादपोह्येतेति / हीति , यस्मादेवं ततो द्वयाभावाद्पोहासंभवे विकल्परूपत्वाभावात् चिन्मात्रे परामर्शात्मनि अहमिति प्रत्यवमर्श एव , न तु विकल्पः //२//
SK
ननु घटे परिनिष्थितरूपे दृष्टे तद्दर्शनमुपजीवता विकल्पेन कथमघटस्य निषेधनं क्रियते , न ह्यघटस्य केनचिन्नामापि गृहीतम् , अघटवासनापि घटे दृष्टे कथंकारं प्रबुध्यताम् ? सत्यम् , एवं शाक्यः पर्यनुयोज्यो न तु वयम् , यतः
SK
तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात् / तन्निश्चयनमुक्तो हि विकल्पो घट इत्ययम् //
SK
इह प्रमाता नाम प्रमाणादतिरिक्तः प्रमासु स्वतन्त्रः संयोजनवियोजनाद्याधानवशात् कर्ता दर्शितः , तस्य च प्रमातुरन्तः सर्वार्थावभासः , चिन्मात्रशरीरो ऽपि तत्सामानाधिकरण्यवृत्तिरपि दर्पणनगरन्यायेनास्ति ---- इत्यपि उक्तम् / एवं च तत्प्रतिभां घटाभासम् , अतत्प्रतिभां च अघटाभासं प्रमाता भजते ---- सेवते तावत् , तदविकल्पदशायां चित्स्वभावो ऽसौ घटः चिद्वदेव विश्वशरीरः पूर्णः , न च तेन कश्चिद्व्यवहारः , तत् मायाव्यापारमुक्कासयन्पूर्णमपि खण्डयति भावम् , तेनाघटस्यात्मनः पटादेश्चापोहनं क्रियते निषेधनरूपम् , तदेव व्यपोहनमाश्रित्य तस्म घटस्य निश्चयनमुच्यते घट एव इति , एवार्थस्य संभाव्यमानापरवस्तुनिषेधरूपत्वात् , एष एव परितश्छेदात्तक्षणकल्पात् परिच्छेदः , हीति ---- यत एवम् , तस्मात् युक्तं द्वयाक्षेपी विकल्पः इति पूर्वश्लोकोल्तेन वस्तुद्वयेन हेतू क्रमेणोक्तौ यस्मादेवं विकल्पः ततो ऽहमिति शुद्धो विमर्शः न विकल्पः ---- इति श्लोकत्रये महावाक्यार्थः / शाक्यैरपि प्रमातुरेवायं व्यापार उक्तः एकः प्रत्यवमर्शाख्यः इत्यत्र प्रपत्ता इति स्वयम् इति च वदद्भिः , स त्वेतैः कथं समर्थ्यः ---- इत्यास्तामेतत् //३//
SK
नन्वेवमहमित्यपि प्रत्यवमर्शे ऽनहंरूपस्य घटादेः प्रतियोगिनो ऽ; पोहनीयस्यापोहे विकल्परूपता कथं न स्यात् इत्याशयेनाह
SK
चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः / देहे बुद्धावथ प्राणे कल्पिते नभसीव वा //
SK
प्रमातृत्वेनाहमिति विमर्शोऽन्यव्यपोहनात् / विकल्प एव स परप्रतियोग्यवभासजः //
SK
अहमित्यवमर्शो द्विधा ---- शुद्धो मायीयश्च , तत्र शुद्धो यः संविन्मात्रे विश्वाभिन्ने विश्वच्छायाच्छुरिताच्छात्मनि वा / अशुद्धस्तु वेद्यरूपे शरीरादौ / तत्र शुद्धे ऽहंप्रत्यवमर्शे प्रतियोगी न कश्चिदपोहितव्यः संभवति घटादेरपि प्रकाशसारत्वेनाप्रतियोगित्वेनानपोह्यत्वात् , इत्यपोह्याभावे कथं तत्र विकल्परूपता / अशुद्धस्तु वेद्यरूपे शरीरादौ अन्यस्माद् देहादेर्घटादेश्च व्यवच्छेदेन भवन् विकल्प एव ---- इति वाक्यार्थः / अक्षरार्थस्तु ---- चित्तत्त्वं प्रकाशमात्ररूपं हित्वा सदप्यपहस्तनया अप्रधानीकृत्य भिन्ने देहादावहमेव देहादिः नीलादौ प्रमेये प्रमाता ---- इत्यभिमानेन यो ऽहं स्थूलः इत्यादिविमर्शः स विकल्प एव , न तु शुद्धं प्रत्यवमर्शमात्रम् / अत्र हेतुः ---- परो द्वितीयो देहादिर्घटादिश्च यः प्रतियोगी तुल्यकक्ष्यो ऽन्योन्यपरिहाराच्च विरुद्धस्तस्य यो ऽवभासः ---- समारोपणलक्षणः , तस्माद्यतो ऽसावतन्निषेधानुप्राणितो ऽ; हमित्यवमर्शो जातः अहं स्थूलः , न कृशः , न घटादिः इति , शुद्धप्रकाशरूपस्य अपहस्तनैव देहादेर्भेदहेतुः , तदपहस्तने तु परमेश्वरस्य स्वात्मप्रच्छादनेच्छारूपा ऽभेदाप्रकाशनं भ्रान्तिरूपं प्रति स्वातन्त्र्यरूपा मायाशक्तिर्हेतुः , चिद्रूपस्य चापहस्तनं देहादेरेव अत्यक्तवेद्यभावस्य भिन्नस्यैव उपपत्तिशून्यतयैव प्रमातृत्वाभिमानः / तथा च देहाभिमानभूमिकायां स्थिताश्चार्वाकाः चैतन्यविशिष्टः कायः पुरुषः इति कायमेव प्राधान्येनाहुः / स्त्रीबालमूर्खाणां तथाभिमानात् ततो ऽपि विवेकयुक्ताः पाकजोत्पत्तिपरिणामादिबलादस्थिरं शरीरं मन्वानाः प्राणशक्तिसमधिष्ठानेन च विना विकारशतावेशं शरीरस्य पश्यन्तो बुभुक्षापिपासायोगयोग्यं प्राणमेवात्मानं केचन श्रुत्यन्तविदो मन्यन्ते / ततो ऽपि समधिकविवेकभाजः प्राणस्यापि अनित्यत्वादनुसंधानयोग्यतामपश्यन्तो ज्ञानसुखाद्याश्रयभूतां बुद्धिमेव काणादप्रभृतय आत्मानमाहुः / अपरे तस्या अपि योगिद्शायां वेद्यभावादपरत्वं मन्यमानाः असंवेद्यपर्वरूपं यन्न किंचिद्रूपं सकलवेद्यराशिविनिर्मुक्तं शून्यत्वान्नभस्तुल्यं न तु महाभूताकाशस्वभावं तत् प्रमातृतत्त्वं शून्यब्रह्मवादिनः सांख्यप्रभृतय आहुः / तस्मिन्नपि वेद्ये शुन्यान्तरं तत्रापि शून्यान्त्रम् ---- इति यावद्भेदः तावत्कल्पना न त्रुट्यतीति तदर्थमाह कल्पिते इति / न चानवस्था परमार्थप्रकाशबलेन यतः सर्वस्य प्रकाशो न तु देहादिवशात् , तया त्वभिमानमात्रं देहः प्रमातेति , सङ्कोचमात्ररूपं चित्तत्त्वं शून्यम् , भूतलं यथा घटाभावः , सङ्कोचोपरिवेद्यांशच्छायाच्छुरितं तु चित्तत्त्वमेव बुद्धिप्राणदेहादि इति / अमी एव भूमिकाविशेषा उत्तरोत्तरमारोहतां योगिनां जाग्रदादितया पिण्डस्थादितया चागमेषु भण्यन्ते , अपहस्तनं च व्याख्यास्यतेः
SK
{कलोद्वलितमेतच्च चित्तत्त्वं कर्तृतामयम् / अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् //}
SK
इति , तत्स्थितम् ---- अशुद्धः अहम् इत्यवमर्शो विकल्प एव //५//
SK
द्विविधो ऽपि चायम् अहं--प्रत्ययो द्विधा ---- अनुभवमात्ररूपश्चानुसंधानात्मा च , शिवात्मनि अहम् इति सदाशिवात्मनि अहमिदम् इति शुद्धो द्विधा / अशुद्धो ऽपि अहं स्थूल इति , यो ऽहं स्थूलो ऽभवं सो ऽहं कृश , बालो , युवा , स्थविरः , स एव अहम् इति च अशुद्धो द्विविधः / तत्र शुद्धे विकल्परूपत्वमप्रतिष्ठमेव इत्युक्तम् , अशुद्धे तु अनुभवरूपे विकल्पत्वमुपपादितम् , अशुद्धे ऽपि तु अनुसंधानात्मकतया अभेदस्य प्रस्फुरणात् कश्चिदविकल्पकत्वं शङ्केत तस्य व्यामोहं व्यपोहितुमाह
SK
कादाचित्कावभासे या पूर्वाभासादियोजना / संस्कारात्कल्पना प्रोक्ता सापि भिन्नावभासिनि //
SK
देहे इत्यादि वर्तते , कादाचित्कः कदाचिद्भवो नियतदेशकालाकारो ऽवभासो यस्य देहादेः स्वलक्षणरूपस्य , तत्र या पूर्वाभासेन बालादिशरीरावभासेन योजना यो ऽहं बालः स एवाद्य युवा इत्यनुसंधानम् , आदिग्रहणादुत्तरेण भाविना आभासेन सह योजना स्थविरो भवितास्मि इति , सा योजना सर्वा कल्पना विकल्प एव , न तु शुद्धः प्रत्यवमर्शः / अत्र देहादेर्विशेषणं हेतुत्वाशयेन ---- यतो भिन्नतावभासित्वमेव देहादेस्तदानीमपि अविछिन्नम् , यदि हि तस्य देहादेः सर्वतः पूर्णत्वम् अवच्छेदहीनत्वं पश्यन् अनुसंधानम् अहमिदम् इति विदध्यात् तदियं सदाशिवभूः केन विकल्पात्पदत्वेन भण्येत यावता ऽविच्छिन्ने एव सो ऽनुसंधिः / भिन्नेपि(KSS: हि) कथमनुसंधानम् इति चेदाह संस्कारात् प्राक्तनानुभवकृतवासनाप्रबोधजस्मृतिवशात् इति यावत् , प्राणे बलाबलवशादनुसंधिः , बुद्धौ ज्ञानसुखादितारतम्यात् , शून्ये वैतत्यावैतत्ययोगात् , अयमपि विकल्प एव , एवं स एवायं घटः इति घटाद्यनुसंधाने ऽपि विकल्पत्वं मन्तव्यम् , किन्तु एतासु अनुसंधानभूमिषु विद्याशक्तिराधिक्येन अचिरद्युतिवद्दीप्यते इति तासां परपदपरिशीलनप्रथमकल्पाभ्युपायत्वमभ्युपागमन् गुरवः //६//
SK
न च देहादीनां पूर्वपूर्वप्रमातृवेद्यता येन प्रमातुरप्रकाशे प्रमेयं न भाति तत्प्रकाशश्च न पूर्वप्रकाशं विना , सो ऽपि न प्रमात्रन्तरप्रकाशं विना इत्यनवस्था स्यात् , अपि तु शुद्धप्रकाश एव विश्वस्य प्रकाश इति निरूपयन् उक्तयुक्त्या सदैव सृष्ट्यादिशक्त्यवियोगो भगवत उक्तो भवति , इति दर्शयति
SK
तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् / भान्तमेवान्तरर्थौघमिच्छया भासयेद् बहिः //
SK
यत् पूर्वं दर्शितं देहे बुद्धौ इत्यादि तत् एवम् उपपद्यते , कथम् ? यदि व्यवहारे मायापदे देहप्राणादिमपि प्रभुरेव प्रकाशपरमार्थ इच्छया मायाशक्तिरूपया , आविशन् देहप्राणादिप्राधान्येन स्वरूपं प्रदर्शयन् , अन्तः संबिन्मात्रे , भान्तम् अहमित्येवंरूपम् अर्थौघम् इच्छयैव बहिः इदमिति भासयति तत एतदुपपद्यते , अन्यथा तु अनवस्था स्यात् / हेतौ लिङ् / अपिशब्द एवशब्दश्च भिन्नक्रमौ , यत् एतावत् उक्तम् , तदिति , तस्मात् हेतोः , एवं जातं वक्ष्यमाणरूपम् , किंतत् ? यत् किल प्रभुः परस्परं व्यवहारकाले क्रयविक्रयप्रेक्षाव्याख्यादौ चैत्रमैत्रादिसंबन्धिनो देहप्राणादीन् एकतया तावति व्यवहारे आविशन् अन्तर्भान्तमेव अनुज्झितान्तःप्रकाशमेव सन्तं बहिः एकाभासतया भासयति इति संभाव्यते इत्येतज्जातम् , इति संभावनायां लिङ् / तेन तेन प्रमात्रा सह अस्मिन्काले ऐक्यं सृज्यते , अन्येन प्रमात्रा ऐक्यं संह्रियते , घटादिमात्ररूपे स्थितिः क्रियते , पूर्णस्वरूपनिमीलनात् तिरोभाव आधीयते , तावत्याभासे ऐक्यावभासपूर्णत्ववितरणात् अनुग्रहः क्रियते , तेन न केवलं महासृष्टिषु महास्थितिषु महाप्रलयेषु प्रकोपतिरोधानेषु दीक्षाज्ञानाद्यनुग्रहेषु भगवतः क्र्ट्यपञ्चकयोगः यावत् सततमेव व्यवहारेपि / यदुक्तम्
SK
{सदा सृष्टिविनोदाय सदा स्थितिसुखासिने / सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः //}
SK
इति /
SK
{प्रतिक्षणमविश्रान्तस्त्रैलोक्यं कल्पनाशतैः / कल्पयन्नपि को ऽप्येको निर्विकल्पो जयत्यजः //}
SK
इत्यादि च / तथा
SK
{............... प्राकाम्यमात्मनि यदा प्रकटीकरोषि / व्यक्तोः ........................................................................ //}
SK
इति च //७//
SK
इह अन्तरर्थाभावभासः स्थित एव , तत् किं तत्र कारणान्तरचिन्तया इति प्रकृतं प्रमेयम् , तत्सिद्धये उपपत्तिः उक्ता , तेन विना इच्छारूपः प्रत्यवमर्शो न स्यात् इति , तत्प्रसङ्गात् प्रत्यवमर्शविकल्पादिस्वरूपम् उपपादितम् , इति शिष्याणां धियं समाधातुं प्रकृतं प्रमेयम् उपपादयन् उपसंहरति
SK
एवं स्मृतौ विकल्पे वाप्य् अपोहनपरायणे / ज्ञाने वाप्यन्तराभासः स्थित एवेति निश्चितम् //
SK
प्रकाशात्मा परमेश्वर एव यतो देहादिप्रमातृताभिमानदशायामपि वस्तुतः प्रमाता , एवम् इति , अतो हेतोः इदं सिद्धं भवति ---- स्मरणे अपोहनजीविते च विकल्पे अनुभवज्ञाने च अन्तराभासः प्रकाशविश्रान्तः स्थित एव , नात्र संशयः कश्चित् , यदि हि देहादिरेव परमार्थप्रमाता स्यात् तत् शरीरस्य प्राणस्य धियः शून्यस्य वा अन्तर्घटादि इति न किंचित् एतत् ---- घटादिपरिहारेण देहादेः स्थितत्वात् / परमार्थप्रकाशस्तु सर्वंसहः इति तत्रान्तर्विश्वम् , इति अनायाससिद्धमेतत् //८//
SK
ननु अन्तराभासवर्गस्य बहिराभासनं यदि सर्वत्रास्ति कस्तर्हि स्मरणादौ आभासभेदः , न च असौ न संवेद्यते ---- स्फुटतास्फुटतादिप्रस्फुरणस्य अनपह्नवनीयत्वात् इत्याशङ्क्याह
SK
किंतु नैसर्गिको ज्ञाने बहिराभासनात्मनि / पूर्वानुभवरूपस्तु स्थितः स स्मरणादिषु //
SK
अनुभवज्ञानस्य इदं नीलम् इति अन्तरवभासं वहिराभासयतः स्वान्तर्भावाभासो नैसर्गिक
SK
निसृष्टेः स्वातन्त्र्यात् आयातो न तु स्मरणादेरिव अन्यज्ञानकृतवासनादिबलात् / स्मरणे उत्प्रेक्षणे प्रत्यक्षपृष्ठभाविनि अध्यवसाये च यो ऽन्तर्नीलाद्यवभासो बाह्यतया अध्यवसायितव्यः नासौ स्वात्मोयः अपि तु पूर्वानुभवसंस्कारजो ऽसौ , तत्र संस्कारो नाम अनुभवस्य कालान्तरे ऽपि अनुवर्तमानता , अतो ऽसावनुवर्तमानो ऽनुभवो यतो नीलाद्याभाससंभिन्नः ततः तत्तादात्म्यापन्नं स्मरणाद्यपि तथा निर्भासते , तत एव स्मरणकालासंभवी आभासः तदनुभवपूर्वकालकलित एवेति स्वयं स्मरणादेर्निर्विषयत्वं गृहीतग्राहित्वं च उद्धोष्यते / एतदेव अस्फुटत्वम् , इति सिद्धो ऽनुभवस्मरणादौ आभासभेदः अन्तराभासवर्गस्य बहिराभासनम् अन्याव्यवधानेन स्फुटता , व्यवधानेन तु तात्कालिकत्वाभावात् अस्फुटता इति //९//
SK
ननु अनुभवज्ञानात् ऐन्द्रियकात् अन्यत् सर्वं ज्ञानं व्यवधानेन बहिराभासनरूपं प्राप्तम् इत्याशङ्क्य प्रविभागमाह
SK
स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि / यथाभिमतसंस्थानाभासनाद्बुद्धिगोचरे //
SK
यः प्रत्यक्षव्यापारम् अनुपजीवन् व्याक्षेपसारतया मनोराज्यसङ्कल्पादिविकल्पः स स्वरं कृत्वा स्वप्रेरणेन प्रप्रेरणनैरपेक्ष्येण स्वातन्त्र्येण चरति उदेति व्ययते च , तत्र यो बहिराभासो नीलादेः अन्तराभासमयस्य स नैसर्गिक एव , तथा हि अपरिदृष्टपूर्वमपि श्वेतं दशनशतकलोतकरयुगलयुक्तं दन्तिनम् अन्तः प्रमातृभूमौ स्थितं बहिः अन्तःकरणभूमौ स्वच्छधीदर्पणात्मिकायां स विकल्पः तात्कालिकमेव भासयति //१०//
SK
अस्माच्च अन्तराभाससंभवसमर्थनप्रसङ्गागतात् आभासभेदविचारात् शास्त्रे यत् प्रयोअनं मुख्यतया अभिसंहितं स्वात्मनि ईश्वरप्रत्यभिज्ञानरूपं तदधिकरणसिद्धान्तनीत्या अनायाससिद्धम् इति दर्शयति
SK
अत एव यथाभीष्टसमुल्लेखावभासनात् / ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः //
SK
प्रतिभाति घटः इति यद्यपि विषयोपश्लिष्टमेव प्रतिभानं भाति तथापि न तद्विषयस्य स्वकं वपुः , अपि तु संवेदनमेव तत् तथा चकास्ति मां प्रति भाति इति प्रमातृलग्नत्वात् / तथा च वेद
SK
{तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति /}
SK
इति / शत्रा अविरतस्फुरणत्वं कर्मप्रवचनीयेन तदीयस्वातन्त्र्योपकल्पितनिर्माणक्रियाजनितो वेद्यवेदकभावरूपो लक्षणात्मा संबन्धो द्योतितः , केवलं विषयोल्लेखनबलात् बहिः क्रमावभासः समर्थितः , स स क्रमयौगपद्यादिविचित्ररूपो यः पदार्थानां वक्ष्यमाणेश्वरस्वातन्त्र्यरूपदेशकालशक्त्युपकल्पितः क्रमः देशकालपरिपाटी , तेन रूषिता प्रतिबिम्बकल्पतया उपरक्ता , या प्रतिभा उक्ता
SK
{केवलं भिन्नसंवेद्य ............................ /}
SK
इत्यादिना / एषा इति च सर्वस्य स्वकाशरूपा , परमार्थतश्च अन्तर्मुखत्वेन प्रकाशमात्रपरमार्थतया भेदाभावात् अक्रमा , सैव महेश्वरः , अविद्यमानो ऽन्तः परिच्छेदो देशतः कालतः स्वरूपतश्च यस्याः चित्तः संविदः तदेव रूपं यस्य इति , अत एव बहिर्मुखप्रकाशात्मकविज्ञानस्वभावस्य प्रमाणवर्गस्य यो ऽन्तः प्रत्याभासम् इदम् इदम् इति अनन्त ---- कल्पः विकल्पमयो विमर्शात्मा प्रमासमूहः , तत्र संयोजनवियोजनविश्रमादिरूपानेकप्रकारस्वातन्त्र्यपरिपूर्णः शुद्धाहंप्रत्यवमर्शमयः प्रमाता स भण्यते , अतश्च बहिर्घटप्रकाशः अयं घटः इति अन्तर्विकल्पः स्वीकृतपूर्वरूपः अहम् इति तदुभयविश्रान्तिस्थानम् , इतीयत् पूर्णं प्रकाशस्य स्वरूपम् //१//
SK
अत्रैव उपपत्तिं प्रदर्शयितुमन्वयं तावदाह
SK
तत्तद्विभिन्नसंवित्तिमुखैरेकप्रमातरि / प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते //
SK
संविन्निष्ठा हि विषयव्यवस्थितयः इति यत् उच्यते तत् न भिन्नरूपप्रकात्मकसंविन्मात्रविश्रान्त्या सिद्ध्यति अपि तु तास्ता विभिन्नाः संविदो निश्चयरूपाः प्रमात्मानो याः तानि एव मुखानि द्वाराणि उपाया मार्गाः तैः मुखैः नदीस्रोतःस्थानीयैः यदि अमी भावा नीलसुखादय उह्यमाना एकस्मिन् अहम् इति प्रमातृरूपे महासंवित्समुद्रे प्रतितिष्ठन्ति आभिमुख्येन विश्रान्तिं भजन्ते , तत एषु परस्परं समन्वयरूपं तत् ज्ञातेयं तत् उपपत्त्या घटते , ज्ञातीनां भावः तच्छब्दप्रवृत्तिनिमित्तं परस्परं जानीयुः इति , कर्म च अन्योन्ययोगक्षेमोद्वहनात्मकं ज्ञातेयम् , तच्च समन्वयाभिप्रायेण इह दर्शितम् , न जडानां स्वतः समन्वयः कदाचिदपि इति प्रतिपादयितुम् //२//
SK
तथा च व्यतिरेकमुखेन एतदेवाह
SK
देशकालक्रमजुषामर्थानां स्वसमापिनाम् / सकृदाभाससाध्योऽसावन्यथा कः समन्वयः //
SK
अर्थानां जडानाम् , तज्ज्ञानां तद्विकल्पानां तन्निश्चयानां च देशक्रमं कालक्रमं चात्यजताम् , स्वसमापिनाम् ---- स्वरूपमात्रप्रतिष्ठानाम् , कः समन्वयः , न कश्चित् इत्यर्थः , यतो हि असौ समन्वयः सकृदाभासेन देशकालाकारमिश्रीकरणात्मना योजनाभासेन साधयितुं शक्यः नान्यथा , न हि पृथक्पृथक् परिक्षीणेषु स्रोतःसु तदुह्यमानाः तृणोलपादयः समन्वयं कंचित् यान्ति इति / अनेकत्वेन देशकालादिभेद इत्याशयेन सकृच्छब्दः तन्निषेधतात्पर्येण प्रयुक्तः //३//
SK
तत्र को ऽसौ समन्वय इत्याशङ्क्य बहुतरव्यापकं कार्यकारणभावं तावत् दर्शयति
SK
प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम् / कार्यकारणतासिद्धिहेतुतैकप्रमातृजा //
SK
इह अनुभूतो विषयः प्रकाशते स्मृतौ , तत्र विषयस्यासौ स्मृतिः न नूतनः प्रकाशः अपि तु अस्य स प्रकाशः प्राच्यो ऽनुभव एव , स चानुभवो ज्ञानरूपत्वेन ज्ञेयरूपत्वाभावात् न ज्ञानान्तरसंवेद्यः अपि तु स्वप्रकाशः , स च स्मृतिकाले यदि असन् तत् कथं प्रकाशताम् , भवतु वा असौ तथापि स्मृतिः स्यात् , तस्मात् एतत् एवमुपपद्यते , यदेव स्मृतिस्वसंवेदनम् , तदेव अनुभवस्य स्वसंवेदनम् , न तु अपरं स्वसंवेदनव्यतिरिक्तं प्रत्यक्षम् अनुमानादिकं वा तत्र क्रमते , ततश्च तावत्कालापि अविछिन्नमेकं यत् स्वसंवेदनं तदेव प्रमातृत्त्वम् इति सिद्धम् / अन्यत्र अनुभवितरि स्मर्ता अन्यो न उपपद्यते , इत्यनया छायया स्मृत्या प्रमातृसिद्धिः पूर्वमुक्ता , इदानीं तु स्वसंवेदनैकीभावेन भङ्ग्यन्तरेण इति विशेषः //५//
SK
नन्वनुभवातिरिक्ते ऽपि अर्थे सन्तु विकल्पाः प्रमाणम् , अप्रामाण्यं हि बाधबलात् भवति , बाधाभावे तत् कथं स्याद् इत्याशङ्क्य सो ऽपि अयं बाध्यबाधकभावः सत्यासत्यप्रविभाजनया विश्वेषां व्यवहाराणां जीवितभूतो न एकेन प्रमातृतत्त्वेन विना घटत इति वितत्य दर्शयति
SK
बाध्यबाधकभावोऽपि स्वात्मनिष्ठाविरोधिनाम् / ज्ञानानामुदियादेकप्रमातृपरिनिष्ठितेः //
SK
बाधाभावे प्रामाण्यम् इत्येतदर्थम् अवश्यसमर्थ्यो यो बाधव्यवहारः सो ऽपि कथम् इति अपि शब्दस्यार्थः / इह शुक्त्या तावत् रजतस्य न काचित् बाधा नाम क्रियमाणा दृश्यते , शुक्तिज्ञानेन रजतज्ञानं बाध्यते इत्यपि न युक्तम् , स्वस्मिन् विषये आत्मनि च स्वरूपे द्वयोः ज्ञानयोः परिनिष्ठितयोः विश्र्|अन्तयोः अन्योन्यं विरोधस्य अभावात् / अथ अयं परस्परपरिहार एव विरोधः तर्हि सर्वेषां ज्ञानानां विरोधात् बाध्यबाधकभावस्य स्वात्मनि परिनिष्ठैव न लभ्येति सुतरां विघटेत सत्येतरप्रविभागः / नञपि अत्र तन्त्रेण व्याख्येयः / एतदुक्तं भवति ---- यदि ज्ञानं स्वयं नश्यति तदा किं ज्ञानान्तरेण अस्य कृतम् , न हि तेन तत्काले ऽसंभवता तस्य विषयापहारः कर्तुं शक्यः , न राजतम् इत्यपि ज्ञानं स्वं रजताभावं विषयीकुर्वत् न विषयम् अपहरेत् रजतज्ञानस्य / अथापि ज्ञानान्तरेण नाश्यते इत्यपि पक्षः , तत्रापि सर्वेषां ज्ञानाम् इयमेव सरणिरिति किंचिदेव बाध्यम् इति कथं स्यात् ? यदा तु रजतज्ञानं शुक्तिज्ञानं च एकत्र स्वसंवेदने विश्रान्यतः तदा एतत् उपपद्यते , तथा हि ---- एकत्रापि प्रमातृतत्त्वे विश्राम्यतां ज्ञानानां नैकप्रकारैव विश्रान्तिः अपि तु विचित्रतयैव सा संवेद्यते , तथा हि ---- नीलम् इति उत्पलम् इति ज्ञाने प्रमातरि विश्राम्यन्ती परस्परोपरागाभासेन विश्राम्यतः / घट इति पट इति परस्परानाश्केषेण , शुक्तिका इति न रजतम् इति वा ज्ञानं रजतम् इति ज्ञानस्य उन्मूलनं तदीयविमर्शात्मकप्रमारूपव्यापारानुवर्तनविध्वंसं कुर्वत् प्रमातरि प्रतिष्ठां भजते / एवं कार्यकारणभावादौ विश्रान्तिवैचित्र्यं प्रमेयासंभवि प्रमात्रा स्वातन्त्र्येण निर्मितं तत एव अस्य प्रमास्वतन्त्रतादायि वाच्यम् / एवमेकत्र प्रमातरि पूर्वज्ञानस्य परिवर्जनेन यतो निश्चिता स्थितिः , इति बाध्यबाधकव्यवहार उपपन्नः , नीलादिवत् किल तानपि व्यवहारान् स एव परमेश्वरः स्वातन्त्र्यात् आभासयति तत् ते ऽपि सत्या एवेति //६//
SK
अत्र परकीयं मतम् आशङ्कते दूषयिष्यामीति
SK
विविक्तभूतलज्ञानं घटाभावमतिर्यथा / तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित् //
SK
इह शुक्तिकाज्ञानं स्वात्मानं संविदत् स्वात्माभिन्नं प्रमाणत्वं बुध्यते , तत्परिच्छिनत्ति इति न्यायात् , तत्परिच्छेदनान्तरीयकश्च अन्यव्यवच्छेद इत्यशुक्तिज्ञानरूपस्य रजतज्ञानस्य अप्रमाणत्ववेदनं तदेव उच्यते यत् एतत् शुक्तिकासंवेदनाभिन्नप्रमाणत्ववेदनम् , न च एतत् अपूर्वं यत् वस्त्वन्तरज्ञानमेव वस्त्वन्तराभावज्ञानम् इति , शुद्धभूभागग्रहणमेव हि घटाभावग्रहणम् इति प्रसिद्धमेतत् / एवम् अप्रमाणत्वसंवेदनमेव रजतज्ञानस्य बाध्यत्वम् उच्यते , अतश्च बाध्यबाधकत्वम् एवं सिद्धम् इति चेत् अस्माभिः उच्यते ---- तत् किं प्रमात्रैक्येनेति //७//
SK
अत्र प्रसङ्गात् अभावव्यवहारस्य सिद्धौ तत्त्वमुपपादयिष्यन् दृष्टान्तमेव तावत् परदर्शने दूषयति
SK
नैवं शुद्धस्थलज्ञानात्सिद्ध्येत्तस्याघटात्मना / न तूपलब्धियोग्यस्याप्यत्राभावो घटात्मनः //
SK
यो दृष्टान्त उक्तः स एव न , कुत इति चेत् उच्यते इह भूतलं न घटः इति तादात्म्येन अभावो व्यवहर्तव्यः कदाचित् , कदाचित् व्यतिरेकेण इह भूतले घटो न इति / तत्र शुद्धभूतलज्ञानात् आद्यो ऽयं व्यवहारः सिध्यति , यत्र दृश्यत्वं न उपयोगि , उपलब्धिलक्षणप्राप्तिरपि हि यस्य नास्ति पिशाचादेः स्वभावबलात् , यस्य वा शब्दादेः तद्गाहकश्रोत्रादिसामग्रीसाकल्यस्य तत्र एकज्ञानसंसर्गिवस्त्वन्तरप्रतिपत्त्यभावेनानिश्चयात् तस्यापि तादात्म्येनायमभावो गृह्यते भूतलं न पिशाचो न शब्दः इति , यत्र तु दृश्यत्वं विशेषणम् अवश्यम् अपयोगि तत्र व्यतिरेकेण अभावे व्यवहर्तव्ये न एषो ऽभ्युपायः //८//
SK
कुत इति चेत् ---- अतिअप्रसङ्गादिति ब्रूमः / तमेव दर्शयति
SK
विविक्तं भूतलं शश्वद् भावानां स्वात्मनिष्ठितेः / तत्कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम् //
SK
विद्यमाने ऽपि घटे भूतलं शुद्धमेव , न हि भावा मिश्रीभवन्ति , ततश्च तदापि शुद्धभूतलज्ञानम् अस्ति , इति सत्यपि घटे कथम् अभावो व्यतिरेकेण न व्यवह्रियते अत्र भूतले घटो नास्ति इति , तज्ज्ञानम् इति विविक्तभूतलभागज्ञानम् , जातु इति कस्यांचिदेव दशायां घटासंनिधानरूपायाम् , भिन्नस्य घटस्य अभावं साधयति न तु सर्वदा इति केन प्रकारेण भवेत् , एतेन अत्र भूतले पिशाचो नास्ति इत्यपि स्यादिति आपतितं मन्तव्यम् //९//
SK
नन्वेवं व्यतिरेकाभावनिष्ठो व्यवहारो लोके तावत् अविगीतः अस्यांचिदेव दशायां दृष्टः , तत्र का गतिरित्याशङ्क्य चिरन्तनैरपरिदृष्टं तत्सिद्धिप्रकारं दर्शयति
SK
किं त्वालोकचयोऽन्धस्य स्पर्शो वोष्णादिको मृदुः / तत्रास्ति साधयेत्तस्य स्वज्ञानमघटात्मताम् //
SK
इह भाव एव भावान्तरस्य अभाव इति व्यवहर्तव्यः इति अयं तावत् अपरित्याज्यः प्रातीतिकः पन्थाः , तत्र भावस्य भावान्तरेण य आधार्याधारभावः स एव भावतदभावयोः , ततश्च भूतले घटव्यतिरिक्तं वस्त्वन्तरं शिलादिकम् आलोकपुञ्जादिकं वा यत् चाक्षुषे ज्ञाने भाति तदेव व्यवह्रियते भूतले घटाभावः , भूतले घटो नास्ति इति वा , यत्रापि नास्ति चक्षुर्व्यापारो नेत्रनिमीलनसंतमसादौ तत्रापि भूतले घटोचितकठिनस्पर्शविविक्तं मृदुम् उष्णं शीतम् अनुष्णाशीतं वा गृह्णन् तमेव अत्र घटाभाव इति व्यवहरति वायुस्पर्शस्य सर्वगस्य अवश्यंभावात् , इति वाक्यार्थः / पदार्थस्तु ---- किं तु इति स्वमतोपक्षेपाय स्वप्रतिभाप्रश्नपरामर्शः , किं पुनरत्र न्याय्यमिति तत्राह तत्र भूतले आलोकचयः तावत् अस्ति ज्ञेयः , अन्धस्य उष्णादिकः स्पर्शः अस्ति , तस्य आलोकचयस्य स्पर्शस्य वा यत् स्वज्ञानम् अन्यघटादिविविक्तेन स्वेन रूपेण ज्ञानम् तत् कर्तृ , तस्य आलोकादेः अघटरूपतां घटाभावरूपतां तत्र भूतले साधयति इति शक्यो ऽ; यमर्थः / {शकि लिङ् च}(पा. सू. ३-३-१७२) इति लिङ् / आन्तरप्राणस्पन्दनजनितसूक्ष्मशब्दाकर्णनाच्च श्रोत्रादिसाकल्यं संभवायमानः तमेव शब्दम् एकज्ञानसंसर्गिणं शृण्वन् शब्दान्तरं निषेधयति न इह अन्यः शब्दः इति / तत्सूक्ष्मशब्दाभावमपि सूक्ष्मतमान्तर्नादावहितश्रोत्रो वेदयते , रसगन्धस्पर्शाभावो ऽपि दन्तोदकरसं त्रिपुटिकागन्धं कायीयं च स्पर्शं संवेदयमानेनैव रसाभावो वेद्यः , न हि एकज्ञानसंसर्गयोग्यवस्त्वन्तरोपलम्भेन विना उपलब्धिकारणसाकल्यनिश्चयो ऽस्ति , इति एकान्त एषः / अचिरप्रवृत्ततत्तद्विषयानुभवकल्पितस्य तदैव ध्वंसानाशङ्कनात् करणस्य कारणसाकल्यनिश्चयः किम् एकज्ञानसंसर्गितया इति चेत् न , तत्त्वभावोपलिप्सुर्हि प्रयत्नेन तत्तदिन्द्रियाधिष्ठानं व्यापारयन्नेव लक्ष्यते //१०//
SK
नन्वेवम् अदृश्यास्यापि पिशाचादेः निषेधव्यवहारो व्यतिरेकेणापि प्राप्नोति , स हि आलोकपुञ्जो यथा घटात् अन्यः तद्वत् पिशाचादेरपि / तदेतत् आशङ्क्याह
SK
पिशाचः स्यादनालोकोऽप्यालोकाभ्यन्तरे यथा / अदृश्यो भूतलस्यान्तर्न निषेध्यः स सर्वथा //
SK
आलोकपुञ्जो यद्यपि पिशाचाद् व्यतिरिक्तो यद्यपि च आलोको ऽस्ति अपिशाचात्मा इत्येतावत् सिद्ध्यति तथापि अत्र पिशाचो नास्ति इत्येतत् अशक्यम् अध्यवसातुम् , घटो हि आलोकपूरमध्ये ऽपि असंभाव्यः , घटसंनिधौ तत्र आलोकपूरासमर्पणात् , अतश्च सिद्ध्यतीदम् अत्र घटो नास्ति इति , पिशाचस्तु तादृक्स्वभावो यो भूतलमध्ये आलोकमध्ये ऽपि वा भवन् भूतलस्य आलोकस्य वा तां निबिडतां न विहन्ति , ततश्च आलोकमध्ये तस्य संभावनात् कथं व्यतिरेकेण निषेधव्यवहारः , एवं रूपमध्ये रसादेः संभावनात् तस्यापि अनिषेधः / यद्यपि अनालोकः आलोकात् अन्यः पिशाचः तथापि असौ भूतलस्य अन्तर्मध्ये ऽदृश्यो भवति इति संभाव्यते यथा , तद्वदेव आलोकस्याभ्यन्तरेपि सोऽस्ति इति संभाव्यत एव , ततश्च यद्यपि आलोकस्ततो ऽन्यः इत्यनेन पथा निषिद्धः पिशाचः तथापि सर्वप्रकारेण न निषिद्धः इति तदभावनिबन्धनाः कथं तत्र व्यवहाराः प्रवर्तन्ताम् इति श्लोकार्थः //११//
SK
एवं प्रसङ्गात् अभावव्यवहारस्य तत्त्वम् उपदर्श्य प्रकृते योजयति
SK
एवं रूप्यविदाभावरूपा शुक्तिमतिर् भवेत् / न त्वाद्यरजतज्ञप्तेः स्यादप्रामाण्यवेदिका //
SK
यथा आलोको घटाभाव इति आलोके गृहीते प्राक् गृहीतस्य घटस्य न किंचित् आयातम् तथैव शुक्तिज्ञानं रूप्यज्ञानाभाव इति इयत् संभाव्यते / यथा घटज्ञानं घटज्ञानप्रामाण्यसंवित् पटज्ञानाभावः पटज्ञानाभावप्रामाण्यसंवित् इयता च न पूर्वप्रवृत्तं पटज्ञानम् अप्रमाणीभवति , एषा हि तस्य घटज्ञानस्य स्वरूपचिन्ता सर्वा न ज्ञानान्तरस्य आद्यस्य किमपि अतो जातम् / एवं शुक्तिरियम् इति , न रजतम् इदम् इति च ज्ञानमेव स्वात्मना प्रकाशताम् , अहं शुक्तौ रजताभावे च प्रमाणं न तु रजते इति , तावता तु प्राक्तनस्य रजतज्ञानस्य न किंचित् वृत्तम् इति तद्विषयीकृतं रजतं कथम् असत्यं स्यात् //१२//
SK
नन्विदमित्यनेन तदेव परामृश्यते यत्र रजतज्ञानम् अभूत् तत्रैव इदानीं न रजतम् इति शुक्तिः इति च ज्ञानं प्रमाणभूतं जातम् , तत् अतो ऽनुमीयते ---- तत् प्राच्यं रजतज्ञानम् अप्रमाणम् इति , न हि एतत् संभवति ---- विरुद्धविषयद्वयावगाहि ज्ञानद्वयं प्रमाणम् एकत्र विषयीभवति इति , तदयम् आनुमानिको बाधव्यवहारो भविष्यति इत्याशङ्क्याह
SK
धर्म्यसिद्धेरपि भवेद्बाधा नैवानुमानतः / स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा //
SK
न केवलं स्वसंवेदनात् न सिद्ध्यति बाधा , यावत् अनुमानतो ऽपि न सिद्ध्यति , धर्मिणो ऽसिद्धेः , अपिशब्दात् हेतोः व्याप्तेश्च , अपिः उभयत्र नेयः , इह धर्मिणि सिद्धे सिद्धेन हेतुना स्मर्यमाणव्याप्तिकेन साध्यधर्मायोगव्यवच्छेदो ऽनुमानव्यापारः , इह च प्राच्ये रूप्यज्ञाने धर्मिणि अप्रामाण्यं साध्यो धर्मः तत्र शुक्तिकाज्ञानं वा , न रजतम् इति ज्ञानं वा , तज्ज्ञानविषयीकार्यत्वं वा विषयगतं हेतूक्रियेत , न चैतत् युक्तम् तत्काले प्राच्यरूप्यबोधस्य धर्मिणो ऽभावात् , न चापि तस्य शुक्तिज्ञानादयो धर्माः , न च अपक्षधर्मात् साध्यसिद्धिः , अतः स्मर्यमाणं तद्धर्मि स्यात् इत्यपि असत् / अथ शुक्तिः न रजतज्ञानस्य विषय इति साध्यते शुक्तिकाज्ञानविषयत्वात् इति , तत् यदि इदानीम् तदा सिद्धसाधनम् , अथ पूर्वम् तदा तत्पूर्वस्वसंवेदनेन बाध्यविषयता / केन चैवं व्याप्तिर्गृहीता ---- यत्र इदानीम् अन्यत् ज्ञानम् तत्र पूर्वम् अन्यत् न भवति इति , अनुमानन्तरेण इति चेत् , अनन्वस्था / एतेन एतत् प्रत्युक्तम् ---- एकस्मिन् विषये कथं ज्ञानद्वयं स्यात् इति , को हि एकविषयतां तयोर्ज्ञानयोः जानीयात् , ते हि तावत् स्वात्मनि स्वविषये च विश्राम्यते इति उक्तम् , इति अनुमानतो ऽपि न बाधा , न च तथाभूतमपि व्यवधानम् अत्र प्रतीतौ संवेद्यते , स्वसंवेदनसिद्धतया झटिति भासनात् / अत एव एतदपि अशक्यं वक्तुम् ---- मा भूत् बाधा नाम इति /
SK
एवं परपक्षे ऽनुपपत्तिं प्रदर्श्य स्वपक्षे एकप्रमातृपरिनिष्ठितेः उदियात् बाध्यबाधकभाव इति वाक्येन प्रतिज्ञातं निगमयति ---- युक्ता सा एकस्मात् प्रमातुः यदि जायेत इति , स एव हि तथा निर्माता इति व्याख्यातमेव , स्थिते चैवं यदि व्यवहारसिद्धये ऽन्यथानुपपत्तिरप्युच्यते तत् उच्यतां कामम् , अधुना सर्वं सिद्ध्यति , इति //१३//
SK
न केवलमेते कार्यकारणभावस्मरणबाधाव्यवहाराः सकललोकयात्रासामान्यव्यवहारभूता एकप्रमातृप्रतिष्ठाः , यावत् अवान्तरव्यवहारा अपि ये क्रयविक्रयादयः समलाः , उपदेश्योपदेशभावादयश्च निर्मलाः , तेपि एकप्रमातृनिष्ठा एव भवन्ति , व्यवहारा हि सर्वे समन्वयप्राणाः इति उपसंहारक्रमेण दर्शयति
SK
इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ / समलो विमलो वापि व्यवहारोऽनुभूयते //
SK
तत्तद्विभिन्न इति श्लोकद्वयोक्तेन अनेन उपपत्तिप्रकारेण , अन्वयव्यतिरेकात्मना , तथा श्लोकान्तरैरुक्तेन व्यवहारोदाहरणप्रकारेण इदमपि मन्तव्यम् ---- यत् विभौ देशकालानवच्छिन्ने , अत एव अत्यर्थभिन्नैः मायाबलात् भेदैकप्राणितैः नीलसुखाद्याभासैः प्रतिबिम्बकल्पैः अनतिरिक्ततया वर्तमानैः , खचिते स्वरूपानन्यथाभावेन उपरक्ते , विश्रान्तः सर्वो व्यवहारो ऽनुभूयते , अनुभव एव अत्र दृढतमं प्रमाणम् इति यावत् , अनुभूयते च सोपदेशैः अवधानपरैः येन एषां यैव संसारदशासंमता व्यवहारदशा सैव प्रमातृतत्त्वप्रख्यात्मिका शिवभूमिः / यदुक्तम्
SK
{................................... संबन्धे सावधानता //}
SK
इति / अप्रत्यभिज्ञातात्मपरमार्थानां समलो व्यवहारः , अन्येषां स एव निर्मलः // इति शिवम् //१४// आदितः //७७//
SK
इति श्रीमन्माहेश्वराचार्यवर्योत्पलदेवपादविरतितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तकृतविमर्शिन्याख्यव्याख्योपेतायां प्रथमे ज्ञानाधिकारे एकाश्रयनिरूपणं नाम सप्तममाह्निकम् // ७ //
SK
अथ ज्ञानाधिकारे माहेश्वर्यनिरूपणं नामाष्टममाह्निकं प्रारभ्यते /
SK
{स्वसंवेदनसंसिद्धव्यवहारवशेन यः / नित्यं महेश्वरः सिद्धः सिद्धानां तं स्तुमः शिवम् //}
SK
एवं ज्ञानस्मरणापोहनानि व्युत्पाद्य एषामेकमाश्रयं विना व्यवहारो न युक्तः इति निरूपितम् एतावता ,
SK
{न चेदन्तः कृता ...................................................... }
SK
इत्यत्र यत् उक्तम् एकः इति तत् परिघटितम् / अन्तराभाससमर्थनेन अन्तःकृतानन्तविश्वरूपः , इत्यपि निरूपितम् / यदत्रैव महेश्वरः इति उक्तम् तन्माहेश्वर्यं स्वातन्त्र्यरूपमुपपादयितव्यम् , तच्च ज्ञानविषयं क्रिया ---- विषयं च इत्युभयप्रकारम् , तत्र यतो भगवान् ज्ञाता कर्ता च , यद्यपि च प्रकाशविमर्शात्मकं चिदेकघनम् एकमेव संविद्रूपम् , तथापि व्युत्पादनाय तत्परिघटित एव अयं विभागः , तेन ज्ञानात्मकक्रियाविषयं स्वातन्त्र्यं यद्यपि क्रियाशक्तिरूपं तथापि तत् ज्ञानाधिकार एव निर्णेतव्यं तद्विषयत्वात् / एवं च ज्ञातृशब्दार्थः प्रकृतितः प्रत्ययतश्च संपूर्णतया निर्णीतो भवति / तत्र ज्ञानं नाम स्वयंभेदिताभासभेदोपाश्रयनियन्त्रणासंकुचितम् अहमिति संवेदनम् / तत्राभासेषु यत् स्वातन्त्र्यं तदेव ज्ञानशक्तिविषयं स्वातन्त्र्यं संपद्यते इति /
SK
{तात्कालिकाक्षसामक्ष्य ....................... /}
SK
इत्यादिना
SK
{......................................... शुद्धे ज्ञानक्रिये यतः /}
SK
इत्यन्तेन श्लोकैकादशकेन तत् निरूप्यते / तत्र अभासान्तरापेक्षी च आभासो ऽन्यथा वा इति श्लोकेन उक्त्वा , स एव आभास एक इति श्लोकान्तरेण उच्यते / अर्थक्रियाभासो ऽपि तथैव आभासनियत इति श्लोकद्वयेन उक्त्वा कस्मिन् आभासे सा अर्थक्रिया इति पुनः श्लोकद्वयेन / आभासान्तरविचित्रिताभासभित्तिस्थानीयम् आन्तरत्वम् इति श्लोकेन / ततो बाह्यत्वं स्वरूपतो विभागतश्वेति श्लोकयुग्मेन / ततः श्लोकेन ज्ञानादिशक्त्याश्रयस्य एकस्य उपसंहारः / श्लोकान्तरेण महेश्वरत्वम् उपसंहरता भाविनः क्रियाधिकारस्य उपक्षेप इति सङ्क्षेपार्थ आह्निकस्य / अथ श्लोकार्थो निरूप्यते /
SK
ननु यदि परमेश्वरनिष्ठतयैव समस्तो ऽयं व्यवहारः तत् अस्य स्फुटत्वास्फुटत्वप्रायप्रसिद्धवैचित्र्यानुपपत्तिः , येन किल अयम् अनुप्राणितः स एक एव भगवान् , न च तद्व्यतिरेकेण व्यवहारस्य निजं किंचन तत्त्वम् उत्पश्याम इत्याशङ्क्याह
SK
तात्कालिकाक्षसामक्ष्यसापेक्षाः केवलं क्वचित् / आभासा अन्यथान्यत्र त्वन्धान्धतमसादिषु //
SK
विशेषोऽर्थावभासस्य सत्तायां न पुनः क्वचित् / विकल्पेषु भवेद् भाविभवद्भूतार्थगामिषु //
SK
केवलम् एतावता आभासानां भेदो न पुनरर्थावभासस्य स्वात्मगतः क्वचिदपि भेद इति श्लोकद्वयस्य संमेलितस्य संबन्धः / यस्मिन्नेव काले स आभास आभाति तत्काले एव भवति , यत् अक्षसामक्ष्यं बाह्येन्द्रियप्रत्यक्षत्वं नाम आभासान्तरं पश्यामीत्येवंरूपं तत्सापेक्षाः तद्व्यामिश्राः क्वचित् आभासा भवन्ति , यत्र स्फुटताव्यवहारः / अन्धविषयः अन्धकारस्थप्रमातृविषयः पुनः यो ऽन्यो व्यवहारोस्फुटतामयः तत्र ते आभासा अन्यथा , तथा हि जात्यन्धस्य बाह्येन्द्रियप्रत्यक्षत्वलक्षणम् आभासान्तरं नैवास्ति , दृष्टवतस्तु अन्धीभूतस्य संतमसस्ह्तितस्य च तात्कालिकं तत् नास्ति अपि तु प्राक्तनमेव बाह्येन्द्रियप्रत्यक्षत्वम् अनुसंधत्ते //१//
SK
तस्मात् अर्थावभासस्य केषुचिदपि विकल्पेषु सत्तायां स्वरूपे विशेषो ऽस्ति इति संभावना न कर्तव्या / ते हि विकल्पा भाविवस्तुगामिनो वा भविष्यन्निष्ठा वा भवन्तु अव्र्तमाननिष्ठा वा अतीतवस्तुविश्रान्ता वा / एतदुक्तं भवति ---- नीलमिदं पश्यामि , सङ्कल्पयामि , उत्प्रेक्षे , स्मरामि , करोमि वच्मि इत्यादौ नीलाभासो ऽसौ स्वरूपतो ऽनूनाधिकः / एवं पश्यामीत्यपि यः पीतादिषु / ते पुनराभासाः स्वातन्त्र्येण यदा भगवता संयोज्यन्ते वियोज्यन्ते च तदा अयं स्फुटत्वादिर्व्यवहारः , नीलमित्याभासस्य उत्प्रेक्षे इत्याद्याभासान्तरव्यवच्छेदनेन पश्यामीति आभासव्यामिश्रणायां स्फुटताव्यवहारः / एवं त्रैकालिकव्यवहारवैचित्र्योपपत्तिः / परमेश्वरस्वरूपान्तर्भूतत्वे पुनराभासानां न कुतश्चित् व्यवच्छेदः न केनचित् व्यामिश्रणा इति //२//
SK
नन्वेतत् नीलादिषु उपपद्यतां यत्र बाह्येन्द्रियव्यापारो ऽस्ति सुखादौ तु तदभावात् कथं वैचित्र्यमित्याशङ्क्याह
SK
सुखादिषु च सौख्यादिहेतुष्वपि च वस्तुषु / अवभासस्य सद्भावेऽप्यतीतत्वात्तथा स्थितिः //
SK
गाढमुल्लिख्यमाने तु विकल्पेन सुखादिके / तथा स्थितिस्तथैव स्यात्स्फुटमस्योपलक्षणात् //
SK
सुखे स्रक्चन्दनादिके च तत्कारणे , दुःखे अहिकण्टकादौ च तद्धेतौ अतीते ऽनागते वा यद्यपि आभासः स एव तथापि अतीतमिदम् अनागतमिदम् इति आभासान्तरेण यतो व्यामिश्रणा अनुभवामीति आभासाच्च यतो व्यवच्छेदः तेन विद्यमानेष्वपि तेषु तस्य प्रमातुः तेन प्रकारेण स्थितिर्न भवति यथा पूर्वन् अभूत् अहम् अधुना सुखो दुःखीति समर्जिततत्तन्निमितसामग्रीको वा इति //३//
SK
यदा तु विकल्पेन तानि वस्तूनि बाढम् उल्लिखति तदा पौनःपुन्यविशिष्टसुखतद्धेतूल्लेखनाभिधानकारणाभासानुप्रवेशात् आभासान्तरव्यामिश्रणात्मना तेनैव अस्मदुक्तेन प्रकारेण न पुनरन्येन , तथा इति , सुखी अहमित्यादिकेन स्थितिः भवति इति संभाव्यम् / उचितमेतत् यतस्तदानीं स्फुटत्वाभासमिश्रं सुखाभासम् उपलक्षयति असौ / अतीतग्रहणं भाविनो ऽपि उपलक्षणम् //४//
SK
ननु इयता किमुक्तम् भवति ---- बाह्यरूपाः स्रगादयः सुखादिहेतवो बाह्यजनिताश्च सुखादयः सुख्यहमिति अभिमानहेतवः इति , ततश्च बाह्यत्वाभावे तज्जन्यत्वाभावे च न तथा उक्तं स्यात् , तत्र च त एव न केचित् , ततश्च कथमुक्तम् अर्थावभासस्य सत्तायां न क्वापि विशेष इति सत्ताया एव अभावात् इत्याशङ्क्याह
SK
भावाभावावभासानां बाह्यतोपाधिरिष्यते / नात्मा सत्ता ततस्तेषामान्तराणां सतां सदा //
SK
इह सुखमस्ति मम , दुःखं नास्ति ममेति ये भावाभासा अभावाभासाश्च तेषां बाह्यत्वं नाम आत्मा स्वरूपं न भवति , न हि सुखमित्यस्य स्वरूपं बाह्यम् इति वपुषा भाति , सुखस्य हि सुखमेव स्वरूपम् केवलं बाह्यत्वं नाम अभासान्तरम् ईश्वरेण स्वातन्त्र्यबलादेव यदा तत्र सुखाभासे मिश्रतया भास्यते तदा तत् तस्य उपाधिरूपताम् उपरञ्चकतां विशेषणत्वं गच्छति , ततश्च यथा नीलाभासाभावे उत्पलाभासस्य न किंचित् वृत्तं स्वरूपतो राजाभासाभावे वा पुरुषाभासस्य , तथा बाह्यत्वाभासाभावे ऽपि सुखाभासस्य दुःखाभावाभासस्य कान्ताभासस्य च न स्वरूपतः काचन म्लानता इति आन्तराणां सदैव स्थितिः एषाम् //५//
SK
इह अन्तःकरणे बुद्धिदर्पणात्मनि नीलादीनामवभासानाम् आन्तरत्वमप्यस्ति अन्तःकरणमध्येभवत्वात् , बाह्यत्वमपि ग्राह्यतारूपं प्रमातुः विच्छेदेनावभासात् , बाह्यत्वं च केवलं बाह्यप्रत्यक्षता , अत्र च अवस्थाद्वये ऽपि अर्थक्रियाम् अमी कुर्वन्त्येव अन्ततो ज्ञानं स्वविषयम् / यत् पुनः प्रमातृतादात्म्यलक्षणम् आन्तरत्वं तत्र अमी कथं न कांचित् अर्थक्रियां विदधीरन् इत्याशङ्क्याह
SK
आन्तरत्वात्प्रमात्रैक्ये नैषां भेदनिबन्धना / अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः //
SK
प्रमात्रैक्ये इति , तन्निमित्तकं यत् आनन्तरत्वं तस्माद्धेतोः , एषाम् आभासानाम् अर्थक्रिया न काचित् अस्ति , सा हि अर्थक्रिया भेदे सति भवति , स हि नीलाभासः पीताभासात् यतो भिद्यते यतश्च प्रमातुर्भिद्यते ततः स्वेन साध्यां भिन्नम् अर्थक्रियां तस्य प्रमातुः कुर्यात् , न च एष तदा भेदे ऽस्ति प्रमात्रैक्यात् / सा हि अर्थक्रियाभासभेदनियता , तथा च कान्ताभासस्य बाह्यत्वे ऽपि सति आभासान्तरस्य आलिङ्गनलक्षणस्य व्यपगमे दूरीभवति , इयम् इति च आभासान्तरस्य उपगमे ऽन्यैव प्राक्तनाह्लादविपरीता दृश्यते अर्थक्रिया , अत आभासभेदाभावः यतः प्रमात्रैक्यकृते आन्तरत्वे तस्मात् न अर्थक्रिया इति / अर्थक्रियाभासो ऽपि च आभासान्तरमेव इति अर्थक्रियाकारित्वमपि न भावानां सत्त्वम् , येन तदभावे स्वरूपतो ऽभावः स्यात् //६//
SK
ननु च बाह्याभासव्यतिभेदनकाले आन्तराभासो विरोधात् विच्छिन्न इति कथम् इदम् उक्तम् आन्तराणां य आभासः स सदा इति ? एतत् परिहरति
SK
चिन्मयत्वेऽवभासानामन्तरेव स्थितिः सदा / मायया भासमानानां बाह्यत्वाद्बहिरप्यसौ //
SK
इह अवभासानां सदैव बाह्यताभासतदभावयोः अपि अन्तरेव प्रमातृप्रकाश एव स्थितिः , यत एते चिन्मयाः , अन्यथा नैव प्रकाशेरन् इति उक्तं यतः / यदा तु मायाशक्त्या विच्छेदावभासनस्वातन्त्र्यरूपया बाह्यत्वम् एषाम् आभास्यते तदा तत् अवलम्ब्य अवभासमानानाम् असौ स्थितिः बहिरपि अन्तरपि / नायम् अन्तराभासो बाह्यत्वस्य विरोधो प्रत्युत सर्वाभासभित्तिभूतो ऽसौ , तत् कथं विरोधः इति युक्तमुक्तम् सदैव आन्तराणां सत्ता इति //७//
SK
ननु बाह्यत्वे सति अर्थक्रिया , तच्च बाह्येन्द्रियगम्यत्वम् , न च विकल्पोल्लिखितानां तत् संभवति , तत् कथम् अमीषाम् अर्थक्रिया स्यात् , दृश्यते च विकल्पोल्लिखितः पिशाचादिः त्रासादिविधायी इत्याशङ्क्याह
SK
विकल्पे योऽयमुल्लेखः सोऽपि बाह्यः पृथक्प्रथः / प्रमात्रैकात्म्यमान्तर्यं ततो भेदो हि बाह्यता //
SK
विमर्शविशेषरूपे विकल्पज्ञाने य उल्लिख्यमानः कान्ताचौरादिः अर्थः सोपि बाह्यः , न केवलं बहिरवलोक्यमानः , यस्मात् सो ऽपि प्रमातुः सकाशात् पृथगेव प्रथते अयम् इति , यच्च प्रमातरि अहमित्येव विश्रान्तत्वं तत् आन्तरत्वम् , अन्तरिति निकटम् , तच्च किंचित् अपेक्ष्य , अपेक्षणीयश्च सर्वत्र प्रमातैव अपेक्षणीयान्तरआभावे , ततश्च प्रमातरि निकटं तादात्म्य ---- प्राप्तमेव इति , ततो यत् भिन्नं तत् बाह्यमेव इति युक्ता उल्लेखस्यापि अर्थक्रिया //८//
SK
ननु कुम्भकारादिव्यापारेण घटादेः अस्तु बाह्यत्वम् , अन्तःकरणगोचरस्य तु किं कृतं तत् इत्याशङ्क्य आह
SK
उल्लेखस्य सुखादेश्च प्रकाशो बहिरात्मना / इच्छातो भर्तुरध्यक्षरूपोऽक्षादिभुवां यथा //
SK
अन्तर्विकल्पप्रतिबिम्बतस्य नीलादेः यो बहिरात्मना प्रमातृविच्छिन्नेन स्वभावेन प्रकाशः , स भर्तुः अन्तराभासान् बिभ्रतो बहिः सृष्टिं च पुष्णतः ईश्वरस्यैव इच्छया , यथैव चक्षुरादिविषयभूतानां प्रत्यक्षज्ञानशब्दवाच्यो बाह्यात्मना प्रकाशो नीलादीनाम् / एतदुक्तं भवति ---- कुम्भकारव्यापारो नाम परमार्थतः ईश्वरेच्छैव तदभासितकायस्पन्दपर्यन्ता , न पुनरन्यःकश्चन सः , ततश्च तथा ईश्वरेच्छया प्रकाशात् अवहिर्भूता अपि नीलाद्या बाह्यकरणगोचरीभूताः कल्पितात् प्रमातुः विच्छिन्नरूपत्वेन बाह्यत्वेन भासन्ते , तथा अन्तःकरणगोचरीभूता अपि इति को विशेषः / सुखदुःखप्रायास्तु भरताद्युक्तरूपाः स्थायिव्यभिचारिरूपा रितिनिर्वेदादयो ऽन्तःकरणैकगोचरीभूता बहिरात्मना भान्ति , सङ्कल्पेषु यद्यपि क्षेत्रJञस्यैव स्वातन्त्र्यम् तथापि चित्परमार्थताया न्यग्भावयितुम् अशक्यत्वात् ईश्वरस्यैव तत् वस्तुतः , यथोक्तं ग्रन्थकृतैव
SK
{यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते / जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता //
SK
तदात्मनैव तस्य स्यात्कथं प्राणेन यन्त्रणा /}
SK
इति / यत्र तु अनिच्छोरेव क्षेत्रज्ञस्य स्वरसवाहिव्याक्षेपसारा साङ्कल्पिकी सृष्टिः तत्र स्फुटः ईश्वरस्यैव व्यापारः / तस्मात् साङ्कल्पिकानामपि बहिर्भावे परमेश्वरेच्छिअव हेतुरिति सिद्धान्तः //९//
SK
अधुना पूर्वोक्तम् ऐक्यं माहेश्वर्यं च निगमयति
SK
तदैक्येन विना न स्यात्संविदां लोकपद्धतिः / प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितम् //
SK
स एव विमृशत्त्वेन नियतेन महेश्वरः / विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः //
SK
यत् एतत् पूर्वोक्तेन ग्रन्थेन उपपादितम् , तत् इति , तस्मात् हेतोः , संविदां ज्ञानाम् ऐक्येन विना , लोकपद्धतिः लोकमार्गः सर्वो व्यवहारो न संभवेत् , संभवति च अयम् , तस्मात् ऐक्यम् आसाम् / न चैतत् दुर्घटम् यतो विषयप्रकाश एव संवित् उच्यते , केवलं विषयोपरागमह्म्ना बहिर्मुखतया नीलप्रकाशो ऽन्यः , पीतप्रकाशश्चान्यः , प्रमार्थतस्तु प्रकाशस्य देशकालाकारसङ्कोचवैकल्यात् एकत्वमेव , इत्येक एव प्रकाशोऽन्तर्विश्रान्तः , स एव च प्रमाता उच्यते इति स्थितम् इदानीमुपपत्तितः //१०//
SK
न च अस्य असौ प्रकाशलक्षणः स्वात्मा नीलाद्युपरागश्च परामर्शन् शून्य एव आस्ते स्फटिक्रम.एरिव , अपि तु सदैव विमृश्यमानरूपः , इति विमृशद्रूपत्वम् अनवच्छिन्नविमर्शता अनन्योन्मुखत्वम् आनन्दैकघनत्वम् , तदेवास्य माहेश्वर्यम् / स एव हि अहंभावात्मा विमर्शो देवस्य क्रीडादिमयस्य शुद्धे पारमार्थिक्यौ ज्ञानक्रिये , प्रकाशरूपता ज्ञानं तत्रैव स्वातन्त्र्यात्मा विमर्शः क्रिया , विमर्शश्च अन्तःकृतप्रकाशः , इति विमर्श एव परावस्थायां ज्ञानक्रिये , परापरावस्थायां तु भगवत्सदाशिवभुवि इदन्तासामानाधिकरण्यापन्नाहताविमर्शस्वभावे , अपरावस्थायां च मायापदे इदंभावप्राधान्येन वर्तमाने इति विशेषः / सर्वथा तु विमर्श एव ज्ञानं तेन विना हि जडभावो ऽस्य स्यात् इति उक्तम् , स एव च क्रिया इति भाविनः क्रियाधिकारस्य उपक्षेपं करोति इति शिवम् //११// आदितः //८९//
SK
इति श्रीमन्माहेश्वराचार्यवर्योत्पलदेवपादविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तकृतविमर्शिन्याख्यव्याख्योपेतायां माहेश्वर्यनिरूपणाख्यमष्टममाह्निकम् // ८ //
SK
प्रथमो ज्ञानाधिकारश्च समाप्तः /
SK
अथेश्वरप्रत्यभिज्ञायाः
SK
क्रियाधिकाराख्यः
SK
द्वितीयोऽधिकारः /
SK
[विमर्शिनी]
SK
{विततविशदस्वात्मादर्शे स्वशक्तिरसोज्ज्वलां प्रकटयति यो मातृस्वांशप्रमेयतटद्वये / बहुतरभवद्भङ्गीभूमिं क्रियासरितं परां प्रकटयतु नः श्रीमान्गौरीपतिः स ऋतं परम् //
SK
{यत्र विश्रान्तिमासाद्य चित्रं क्रीडाविजृम्भितम् / क्रियाशक्तिरियात्यन्तं दर्शयेत्तं स्तुमः शिवम् //
SK
अथ क्रियाशक्तिस्वरूपं वितस्य निर्णेतुम् अधिकारान्तरम् आरभ्यते /
SK
तत्र श्लोकाष्टकेन
SK
{अत एव .................................... }
SK
इत्यादिना
SK
{यदवभास्यते .......................... }
SK
इत्यन्तेन परमेश्वरे परमार्थतोऽक्रमा क्रिया , परिमितसांसारिकप्रमातृक्रमावभासनयोगात् सक्रमापि च , इत्युपपाद्यते / तथाहि श्लोकेन उक्तपूर्वपक्षप्रतिक्षेपः / ततः श्लोकेन सक्रमत्वाक्रमत्वविवेकः / ततः श्लोकत्रयेण क्रमस्वरूपनिरूपणम् / ततः श्लोकद्वयेन सक्रमत्वाक्रमत्वयोर्विषयविभागः , विषयविभागे च सति वस्तुतः एकत्रैव तयोः विश्रान्तिः , इति श्लोकेन निरूप्यते , इति तात्पर्यं आह्निकस्य /
SK
अथ श्लोकार्थो विभज्यते / तत्र पूर्वोक्ते ज्ञानशक्तिसमर्थनोपयोगनिमेये सिद्धे प्रमेयान्तरमपि अयत्नतः सिद्धम् , इति अधिकरणसिद्धान्तदिशा दर्शयति
SK
अत एव यदप्युक्तं क्रिया नैकस्य सक्रमा / एकेत्यादि प्रतिक्षिप्तं तदेकस्य समर्थनात् //
SK
यत् तावत् उक्तम् ज्ञानान्येव अनुभवविकल्परूपादिभिन्नानि न तेषाम् आश्रयो ऽस्ति कश्चित् , संस्काराच्च स्मृतिः सिद्धा ज्ञानं च जडं चेत् न अर्थस्य प्रकाशः , अजडं चेत् देशकालसंकोचवैकल्यात् आत्मतत्त्वात् अभिन्नम् इति , तत् तावत् प्रतिक्षिप्तं भिन्नानामनुभवादीनामनुपपत्तेः वितत्य दर्शितत्वात् / न च संस्कारमात्रात् स्मृतिः इत्येतदप्युक्तम् , अजडमेव च असंकुचितरूपं ज्ञानम् , तत्स्वातन्त्र्यावभासितज्ञेयोपरागवशात् तु तस्य संकोचावभास इत्यपि दर्शितं यतः , न केवलम् अतो हेतुकलापात् ज्ञानशक्तिचोद्यानि निदारितानि , यावत् क्रियाशक्तिविषयाण्यपि दूषणानि अत एव हेतुकलापात् अपसारितानि इति अपिशब्दः / एका क्रिया क्रमिका कथम् आश्रयस्य एकस्वभावत्वे सति घटते ? इति युक्तम् , तथा
SK
{तत्र तत्र स्थिते ............................................. }
SK
इति ,
SK
{द्विष्ठस्यानेकरूपत्वात् ................... }
SK
इति च यदुक्तं तदपि प्रतिक्षिप्तमेव , यतः इयति पूर्वपक्षे इयदेव जीवितमेकमनेकस्वभावं कथं स्यात् इति / अत्र च उक्तं चित्स्वभावस्य दर्पणस्येव एकतानपबाधनेन आभासभेदसंभवे क इव धिरोध इति , तस्मात् प्रत्यभिज्ञानबलात् एको ऽपि असौ पदार्थात्मा स्वभावभेदान् विरुद्धान् यावत् अङ्गीकुरुते तावत् ते विरोधादेव क्रमरूपतया निर्भासमानाः तमेकं क्रियाश्रयं संपादयन्ति इति , ततश्च संबन्धादीनामपि उपपत्तिरिति //१//
SK
ननु च क्रमिकत्वमेव क्रियायाः स्वरूपम् , क्रमश्च कालकलनाहीने चिन्मये भगवति नास्ति , इति कथम् अस्य सा भवेदित्याशङ्क्याह
SK
सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः / घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोर् इव //
SK
उत्क्षिपति अपक्षिपति हस्तम् इति ये पूर्वोत्तरे क्षणाः ते क्रमवन्तः , तत्र येषां त एव क्रिया काणादादीनामिव तेषां सा सक्रमा प्रत्यक्षेणैव भाति / ये तु मन्यन्ते तथाभूतप्रत्यक्षपरिदृश्यमानरूपभेदसंपादिका या असौ काचित् अतीन्त्रिया हस्तगता शक्तिर्व्यापारोद्बोधरूपा नित्यानुमेया तस्याः केवलं पूर्वापरीभूतत्वम् अनुमीयते , इति लौकिक्याः क्रियायाः सक्रमत्वं कालशक्तेः आभासविच्छेदनप्रदर्शनसामार्थ्यरूपात् पारमेश्वरात् शक्तिविशेषात् घटते उपपद्यते , या तु प्रभोः संबन्धिनी तदव्यतिरिक्ता क्रियाशक्तिः शाश्वती कालेन अस्पृष्टा तस्याः सक्रमत्वम् अस्ति इति संभावनाऽपि नास्ति , यथा प्रभोः सक्रमत्वमसंभाव्यं तथा अस्या अपि / उक्तं हि ----
SK
{हस्तस्य सक्रमत्वे तद्गता ऽपि क्रिया तथा स्यात्}
SK
इति //२//
SK
ननु कालो विशेष भावम् उपगच्छन् भावं स्वेन रूपेण अवच्छिनत्ति तत्र कोऽसौ कालो नाम इत्याशङ्क्याह
SK
कालः सूर्यादिसंचारस्तत्तत्पुष्पादिजन्म वा / शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः //
SK
ये इयत्तया परिनिष्ठिता आभासाः सिद्धाः , तद्यथा चन्द्रसूर्यादीनां सहकारमल्लिकाकुटजादीनां शीतोष्णादेः परभृतमदविलासादेः त एव कालः यतोऽपरिनिष्ठितं गमनपठनादि तैरियत्तया परिनिष्ठीयते परिवर्तकैरिव कनकम् / स एव च सूर्यादीनां स्वभावविशेषस्तत्त्वतः परमाश्रतः क्रमो नान्यः कश्चित् क्रमो नाम , क्रम एव च कालो नान्योऽसौ कश्चित् , इति एवकारो भिन्नाभिन्नक्रमो योज्यः , यौगपद्यमपि द्वयोराभासयोः अपराभासापेक्षया क्रम एव , चिरक्षिप्रादिधीरपि विततान्यत्ववशात् आभासभेदे क्रम एव , परत्वापरत्वबुद्धिरपि स्फुटत्वादिना तत्रैव , इति तेन तेन प्रतिमानवर्तकतुल्येन सूर्यसंचारादिना सह मीयमानो हेमस्थानीयो देवदत्ताभासस्य वैचित्र्यभेद इत्थम् उच्यते दिवसं गच्छति इति //३//
SK
ननु एवं कालो नाम भावस्वभाव एव अस्तु , का असौ कालशक्तिः इत्याशङ्क्याह
SK
क्रमो भेदाश्रयो भेदो ऽप्य् आभाससदसत्त्वतः / आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः //
SK
इह स्वभावभेदमात्रं यदि क्रमात्मा कालः , तदाङ्गुलीचतुष्टयं भोन्नस्वभावम् इति भिन्नकालं भवेत् , तस्मात् अरुणाभासस्य सद्भावः स्फुटप्रभापुञ्जस्य च असद्भावः इत्येवंभूतो यो भेद आभाससद्भावासद्भावाभ्यनुप्राणितः तत्कृतः क्रमः कालात्मा , तौ च आभासानां भावाभावौ न बाह्यहेतुकृतौ इति विस्तार्य उपपादितम् , इति य एव संवित्स्वभाव आत्मा स्वप्रसंकल्पादौ आभासवचित्र्यनिर्माणे प्रभुः प्रभविष्णुः इति स्वसंविदितस्तत एव तौ भवतः , स हि आत्मनि नीलादीन् आभासान् आभासयन् चित्रतया अपरिमेयया भासयति , तथाहि ---- लोहिताभासं घटाभासम् उन्नताभासं दृढाभासं च सामानाधिकरण्येन घटाभासं पटाभासं च पृथक्त्वावभासेन अन्योन्यत्र आभासाभावेन , स्वात्मनि तु एकरसेनाभासेन , इयति च न क्रमस्य उदयः , यदा तु शरदाभासं हेमन्ताभासेन च सर्वथैव शून्यमाभासयति हेमन्ताभासं च शारदाभासेन तदा कालात्मा क्रम उत्तिष्ठति , इति सेयम् इत्थंभूता भाववैचित्र्यप्रथनशक्तिः भगवतः कालशक्तिः इत्युच्यते //४//
SK
चित्राभासकृत्त्वमेव स्फुटयति
SK
मूर्तिवैचित्र्यतो देश- क्रमम् आभासयत्य् असौ / क्रियावैचित्र्यनिर्भासात् कालक्रमम् अपीश्वरः //
SK
पदार्थस्य स्वं रूपं मूर्तिः , तस्याः यत् वैचित्र्यं विभेदः , तद्यथा गृहमिति अन्यत् स्वरूपम् , प्राङ्गणमिति अन्यत् , विपणिरिति अन्यत् , देवकुलमिति अपरम् , उद्यानमिति अन्यत् , अरण्यमिति तदन्यतरत् , तस्मात् वैचित्र्यात् आभास्यमानात् देशरूपो दूरादूरविततत्वाविततत्वादिः क्रमो भगवता अवभास्यते / यदा तु गाढप्रत्यभिज्ञाप्रकाशबलात् तदेव इदं हस्तस्वरूपम् इति प्रतिपत्तौ मूर्तेर्न भेदः , अथ च अन्यान्यरूपत्वं भाति तदैकस्मिन् स्वरूपे यदन्यत् अन्यत् रूपं तद्विरोधवशात् असहभवत्क्रिया उच्यते , तस्या यत् वैचित्र्यं परिमितापरिमितात्मकं तदेकानुसन्धानेन फलसिद्ध्यादिनिबन्धनवशात् यथारुचि चर्चितेन निर्भासयन् कालरूपं क्रममेवावभासयति / न चैतत् वाच्यम् ---- एकस्वरूपस्य कथम् अन्यत् अन्यद्रूपमिति ? यतो न असौ कश्चित् भावो य एवं कल्प्यते ; संविदेव हि तथा भाति , तथा भानमेव च तस्या ऐश्वर्यम् , न हि भासने विरोधः कश्चित् प्रभवति , स हि सुखदुःखादेर्भासनकृत एव , तथा भासनाभाव एव हि विरोधतत्त्वम् , एतत् अपिशब्देन ईश्वरशब्देन च दर्शितम् //५//
SK
ननु एवम् आभासविषयाभ्यामेव देशकालक्रमाभ्यां भवितव्यम् , अनाभासश्च प्रमाता , स हि न कस्यचित् आभासते , तस्य सर्वम् आभाति यतः , ततश्च तौ प्रमातरि कथम् , दृश्येते च अभवम् अहं भवामि भवितास्मि इति , गृहे तिष्ठामि अरण्ये देवगृहे इति च , किं च स्वयं देशकालक्रमशून्यस्य किं दूरं किम् अन्तिकं किं वर्तमानं किम् अतीतं किं भावि , इति प्रमात्राश्रयो भावेष्वपि क्रमो न युक्तः , न च प्रमातृनिरपेक्षेष्वपि तेषु स्वात्मनि दूरत्वादि भूतत्वादि वा , तदेतत् समर्थयितुम् आह
SK
सर्वत्राभासभेदोऽपि भवेत् कालक्रमाकरः / विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत् //
SK
देशक्रमोऽपि भावेषु भाति मातुर्मितात्मनः / स्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु //
SK
सर्वेषु वस्तुषु एकानेकरूपेषु यः कालात्मा क्रमः तस्य य आकरः ---- उत्पत्तिनिबन्धनम् इति व्याख्यातः , आभासस्य भावाभावकृतो भेदः स शून्यप्राणबुद्धिदेहादेः भवति , इति संभाव्यति , यतः स शून्यादिः विच्छिन्नभाः , न हि तस्य भासनं स्वरूपं नीलादिवत् जडत्वात् , अपि तु संवित्स्फुरणमस्य भासनम् , तत् यदा अस्य नास्ति , यथा सुप्तो देहस्य संसारयात्रापतितत्वे शून्यस्य प्राणादेः , तदा अस्य भासनं विच्छिद्यते , इति आभाससद्भावासद्भावकृतः कालक्रमो ऽस्ति , अतीतो ऽहं बालदेहाभासरूपः , भवामि युवदेहाभासरूपः इति / स च यतः प्रमाता अहंभावसमावेशनात् अपरिपूर्णात् अत एव उद्रिक्तकालक्रमवत्त्वात् भावेष्वपि कालक्रमम् आभासयति , यो ऽहं बालो ऽभवं तत्सहभावी वटाभासो ऽपि अभवत् इति , न तु यः सकृद् विभातः इति अनया वाचोयुक्त्या अविच्छिन्नभासनः प्रमाता संविद्रूपः , तस्य स्वात्मनि कालक्रमः , नापि तदपेक्षया वेद्ये भावजाते , तद्धि तत्र अभेदेन भाति इति /
SK
एवं देशक्रमोऽपि मितात्मनः परिच्छिन्नस्वरूपस्य शून्यादेः देहान्तस्य स्वात्मनि भाति इह तिष्ठामि इति , स्वापेक्षया च भावेष्वपि यत् मम संयोगपारिमित्येन वर्तते तदन्तिकम् इतरत् दूरम् इति / अमितस्य स्वरूपेयत्ताशून्यस्य तु संवित्तत्त्वस्य भावाः स्वात्मना अहंभावेन यतो भान्ति ततः पूर्णाः ---- अपरिच्छिन्नस्वरूपेयत्ताकाः , यतः स्वात्मा तस्य तथाभूत एव इति समुच्चयोपमा , तदुक्तम् ----
SK
{अपूर्वापरं हि इदं मूर्तितः क्रियातश्च सर्वं सर्वतः पूर्णम्}
SK
इति / क्रियाप्रसङ्गात् इह कालक्रमः प्राकर्णिको दृष्टान्तत्वेन तत्प्रसङ्गात् देशक्रमो निरूपितः , दृष्टान्तश्च पूर्वं वाच्य इति वैचित्र्यनिरूपणावसरे देशक्रमस्य आदौ अभिधानं न्याय्यम् , उपसंहारे तु प्राकरणिकस्य कालक्रमस्यैव आदौ निर्देशः , पश्चात्तु प्रासङ्गिकस्य देशक्रमस्य इति //६ ; ७//
SK
ननु एवं सत्यप्रमातरि भगवति नास्त्येव क्रिया इति आयातं कालक्रमाभावात् क्रमाश्रयेण च तस्या अवस्थानात् इत्याशङ्क्याह
SK
किन्तु निर्माणशक्तिः साप्य् एवं विदुष ईशितुः / तथाविज्ञातृविज्ञेयभेदो यदवभास्यते //
SK
इह तत्त्वतः परमेश्वरस्य अप्रतिहतस्वातन्त्र्यरूपाविच्छिन्नस्वात्मपरामर्शमयी अनन्योन्मुखतारूपा इच्छैव क्रिया इति उपसंहरिष्यते अधिकारान्तरे एवम् इच्छैव हेतुता कर्तृता क्रिया इति / चैत्रमैत्रादेरपि पचामि इति यैव अन्तरिच्छा सैव क्रिया , तथा च अधिश्रयणादिबहुतरस्पन्दनसंबन्धे ऽपि पचामि इति नास्य विच्छिद्यते , यत्तु पचामि इति इच्छारूपं तदेव तथास्पन्दनात्मतया भाति , तत्र तु न कोऽपि क्रमः तत्त्वतः / एवम् ईश्वरस्यापि ईशे भासे स्फुरामि धूर्णे प्रत्यवमृशामि इत्येवंरूपं यदिच्छात्मकं विमर्शनम् अहम् इत्येतावन्मात्रतत्त्वं न तत्र कश्चित् क्रमः , एतदेव च उच्यते प्रमातृप्रमेयवैचित्र्यक्रम उल्लसतु इत्यमुना वाक्येन , तदत्रापि न कश्चित् क्रमः , यथा तु इच्छारूपं पचामि इति स्पन्दनात्मतां कायापर्यन्तां गतं क्रमारूपितम् आभाति तदा भगवदिच्छा प्रमातृप्रमेयभेदपर्यवसिता तत्क्रमोपश्लिष्टा भाति दर्पणतलमिव विततप्रबहन्नदीप्रबाहक्रमसमाश्लिष्टम् , अत्र च केवलं दर्पणस्य तथा इच्छा नास्ति , परमेश्वरस्य तु सा अस्ति ---- इति उभयथा अस्य क्रियाशक्तिः क्रमरूपक्रियानिर्माणसामर्थ्य क्रमरूपक्रियोपरागयोगश्च इति / एवं देशक्रमेऽपि वाच्यम् , तत्र तु अस्य चिच्छक्तिः उच्यते अन्यैः , इह तु क्रियाशक्तिरेव सा स्वीकृता इति पिण्डार्थः /
SK
अक्षरार्थस्तु ---- तथा इति स्वरूपभेदेन देशक्रमकारिणा क्रियाभेदेन च कालक्रमसंपादकेन उपलक्षितो यो विज्ञातुः शून्यादेः प्रमातुः भेदोऽन्योन्यं ज्ञेयाच्च , एवं घटादेः परस्परं ज्ञातुश्च स भगवता अवभास्यते , यत् तदवभासनं सा ईशितुरपि निर्माणशक्तिः क्रियाशक्तिः न तु केवलं शून्यादेरेव क्रिया , यतश्च तन्निर्मितं ज्ञातृज्ञेयक्रियावैचित्र्यभेदम् असौ विद्वान् वेत्ति अविरतम् तत्रैव हि तत् स्फुरति ततोऽपि तस्य सा क्रियाशक्तिः / अतो भासनविच्छेदनाभावात् क्रमाभावे स्थूलदृष्ट्या यद्यपि अस्य भवेत् क्रियानुपपत्तिशङ्का , किं तु एवमस्य क्रियाशक्तिरूपपन्ना ---- इति संगतिः / इति शिवम् //८// आदितः ९७//
SK
इति श्रीमदाचार्योत्पलदेवपादविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तपादकृतविमर्शिन्याख्यटीकोपेतायां क्रियाधिकारे क्रियाशक्तिनिरूपणं नाम प्रथममाह्निकम् // १ //
SK
क्रियाधिकारे द्वितीयमाह्निकम् /
SK
{विरोधमविरोधं च स्वेच्छयैवोपपादयन् / भेदाभेदौ च यो मन्त्रतत्त्ववित्तं स्तुमः शिवम् //
SK
यदुक्तम् अप्रतिहतसामर्थ्यात् बह्गवतो निर्माणशक्तिः इति , तदेव बाह्यवाददर्शनानुपपद्यमानक्रियासंबन्धसामान्यादिपदार्थराशिसमर्थनमुखेन निर्वाहयितुं
SK
{क्रियासंबन्धसामान्य ..................... /}
SK
इत्यादि
SK
{....................................... तेन न भ्रान्तिरीदृशी /}
SK
इत्यन्तं श्लोकसप्तकेन आह्निकं प्रस्तूयते / तत्र प्रथमश्लोकेन सूत्रकल्पेन एकानेकरूपस्य क्रियादेः बाह्यवादे विरुद्धधर्माध्यासदूषणेन अनुपपद्यमानस्याप्यवश्यसमर्थनीयं वपुः इति दर्शयते / द्वितीयेन तत्र उपपत्तिः सूच्यते / तृतीयेन निर्विकल्पकसंवेदनसंवेद्यत्वे ऽपि विकल्पकाले एव स्फुटमेषां रूपम् इत्युच्यते / चतुर्थपञ्चमाभ्याम् एकानेकस्वरूपताया वि.अयविभागः चिन्त्यते / षष्ठेन प्रहणकसूत्रसूचितसंबन्धस्वीकृतानां क्रियाकारकभावादीनां स्वरूपम् उच्यते / सप्तमेन अर्थक्रियोपयोग इति संक्षेपः /
SK
नन्वेवं तथा निर्माणशक्त्या अवभासनारूपया यत् निर्मीयते तस्यावभासनैव निर्माणम् , नान्यत् , सा च द्विचन्द्रादेरपि अस्ति , नीलादेरपि , नीलादिनिष्ठस्य कर्मसामान्यसंबन्धादेरपि , ततश्च असत्यं सत्यं संवृतिसत्यमिति य एवंप्रायेषु व्यवहारः स कथं संगच्छेत निर्मेयत्वाविशेषात् इत्याशंक्य क्रियादीनामसत्वत्वं तावत् निपपन्नम् इति वदन् द्विचन्द्रादीनां तु इत्थमपि असत्यत्वम् इति सूचयन् आह ----
SK
क्रियासंबन्धसामान्यद्रव्यदिक्कालबुद्धयः / सत्याः स्थैर्योपयोगाभ्यामेकानेकाश्रया मताः //
SK
चित्तत्त्वात् अन्यत्र या क्रियाबुद्धिः कर्तृकर्मकरणादिषु चैत्रो भ्रजति तण्डुला विक्लिद्यन्ते एधा ज्वलन्ति इति , तस्या एकानेकरूपश्चैत्राद्यर्थ आश्रयः आलम्बनम् / तथाहि ---- तत्तद्देशकालाकारभिन्नः तत्र चैत्रदेहोऽनेकस्वभावोऽपि स एवायम् इति एकरूपताम् अपरित्यजन्नेव निर्भासते , स एव च एकानेकरूपा क्रिया तथैव प्रतिभासनाच्च पारमार्थिकी , द्विचन्द्रादि तु तथाभासमानमपि उत्तरकालं प्रमाव्यापारानुवृत्तिरूपस्य स्थैर्यस्य उन्मूलनेन द्विचन्द्रो नास्ति इत्येवं रूपेण असत्यम् , इह पुनः चलति चैत्रः इत्येवंभूतो विमर्शः अनुवर्तमानो न केनचित् उन्मूल्यमानः संवेद्यते , द्विचन्द्रादि च यद्यपि ह्लादोद्वेगयोः उपयुज्यते , तथापि द्विचन्द्राभिमानी न तावतीं तत्र अर्थक्रियाम् अभिमन्यते , अपि तु यादृशी एकेन शशिना कर्तव्या तिमिरापसारणादिरूपा , तादृश्येव अपरेण , इति न तद्द्विगुणाम् अर्थक्रियां तत्र अध्यवस्यति , तस्यां च असौ न उपयुज्यते , ब्रज्यायां तु यामेव ग्रामप्राप्तिम् अध्यवस्यति तस्याम् अविकलायाम् उपयोगो ऽस्या इति स्थैर्यात् उपयोगाच्च एकानेकरूपक्रियातत्त्वालम्बनबुद्धिः सत्यैव , एवं संबन्धादिषु कालपर्यन्तेषु वाच्यम् उत्तरकारिकासु स्फुटीकरिष्यति //१//
SK
नन्वेकत्वम् अनेकत्वं च परस्परं विरुद्धे , कथम् एकत्र वस्तुनि स्याताम् , ततश्चायं बाधकप्रमाणकृतः स्थैर्योन्मूलनप्रकार इत्याशङ्क्याह
SK
तत्रैकमान्तरं तत्त्वं तदेवेन्द्रियवेद्यताम् / संप्राप्यानेकतां याति देशकालस्वभावतः //
SK
इह तावत् चैत्रे चलति दृष्टे न जातुचित् न चलति अयम् इति बुद्धिः जायते ---- न रजतम् इतिवत् , द्विचन्द्रो ऽपि नायं द्विचन्द्रः तिमिरवशात् अहम् उपप्लुतनयनः परम् एवं वेद्मि इति भवति उन्मूलनाबुद्धिः / यत्तु उक्तम् ---- एकमेव कथम् अनेकं भवति इति , तत्र उच्यते ---- इह कारणमेव कथम् अकारणं भवति अथ उच्यते ---- विषयभेदात् तथा इति , तद्विषयभेदे एतत् न विरुध्यते इति केन अयं वितीर्णोऽवसरः ? संवेदनेन इति चेत् चलति इत्यादौ संवेदनमेव अस्मामिः प्रमाणीकृतं किमिति न सह्यते , विषयभेदो ऽपि च अत्र वक्तुं न न शक्यते ; तथाहि ---- आभासान्तरेण असंभेदने तदेकाभासमात्रम् , अत एव अन्यापेक्षावियोगात् अन्तरङ्गत्वात् आन्तरम् अनुवर्तमानं तथाभूताभासमात्रग्रहणोचितान्तःकरणवेद्यतया च आन्तरं तथास्वरूपापरिच्युतेः तत्त्वम् आभासान्तरयोगेन तननसहिष्णुत्वाच्च तत्त्वम् एकम् इति प्रतीयते , तदेव देशाभासेन इह अमुत्र इति , कालाभासेन अधुना तदानीमिति , स्वभावाभासेन कृशः स्थूल इत्यादिना , मिश्रितया अनेकमिति बाह्येन्द्रियवेद्यतायां प्रतीयते / तथा
SK
{स्वामिनश्चात्मसंस्थस्य .................... /}
SK
इति उक्तनीत्या विश्वमेव आनन्तरं सत् एकम् , तदेव
SK
{सान्तर्विपरिवर्तिनः उभयेन्द्रियवेद्यत्वम्}
SK
इति वक्ष्यमाणकार्यकारणभावतत्त्वदृष्ट्या इन्त्रियवेद्यतायामनेकम् , देशाद्याभासमिश्रणात् इति / एकत्वम् ---- आभासान्तरामिश्रतायामन्तःकरणैकवेद्यत्वे चिन्मात्रतायाम् , अनेकत्वं पुनर् ---- आभासान्तरमिश्रतायाम् उव्हयकरणवेद्यत्वे चिदतिरिक्तताभासने च , इति स्फुटो विषयभेदः , तस्यैव च तथात्वम् इति परामर्शबलादेव कारणाकारणवत् उपादानसहकारिवत् / अथ व्यपदेशमात्रम् एतत् कारणम् अकारणं च इत्यादि , तदिहापि एकमनेकमिति व्यवहारमात्रम् , नीलं पीतम् अविकल्पकं सविकल्पकम् इत्यपि सर्वं मायापदे व्यवहारमात्रम् इति सर्वं समानम् , तस्मात् एकत्वानेकत्वविरोधो न बाधकः , तदेतत् एवकारेण उक्तम् / तत्र इति , तेषु क्रियादिषु यत् आन्तरं तत्त्वं तदेकम् , तदेव इन्द्रियवेद्यतां प्राप्य देशादिभेदात् अनेकतां याति इति संबन्धः , तत्र इति सत्यत्वे स्थिते , तयोर्वा एकत्वानेकत्वयोः मध्ये एकत्वमेवम् अनेकत्वमेवम् इति वा योजना //२//
SK
ननु एवं विषयभेदे अभ्युपगम्यमाने यदा एकं प्रतिभातं भवति तदा न अनेकम् , अनेकप्रतिभासे च न एकं प्रतिभातम् , इति कथम् एकानेकरूपं वस्तु स्यात् , तथाहि बाह्येन इन्द्रियेण चैत्रो विचित्रदेशकः परम् अनुभूयते , न तु अनेकाभाससंमिश्रीकारे बाह्येन्द्रियजस्य अविकल्पकस्य व्यापारः ---- संनिहितविषयबलोत्पत्तेः अविचारकत्वात् इत्याहुः , विकल्पेनापि मानसेन तथाभूतं वस्तु नैव स्पृश्यते इति कया धिया वस्तु एकानेकरूपं गृह्येत ? इति परव्यामोहनिबर्हणाय आह ----
SK
तद्द्वयालम्बना एता मनोऽनुव्यवसायि सत् / करोति मातृव्यापारमयीः कर्मादिकल्पनाः //
SK
इह ज्ञानमालाया अन्तःसूत्रकल्पः स्वसंवेदनात्मा प्रमाता जीवितभूतः इति उपपादितं प्राक् , स च स्वतन्त्र इत्यपि निर्णीतम् , स तु विशुद्धस्वभावः शिवात्मा , मायापदे तु संकुचितस्वभावः पशुः , तदस्य मनःसमुल्लासावसरे विकल्पभूमिकायां स्फुट उल्लासः , ऐन्द्रियके निर्विकल्पके सदाशिवेश्वरदशाभ्युदयात् , अविकल्पबोधाबहिर्भूतस्य विमर्शव्यापारः / पश्चाद्भाविनं व्यवसायं निश्चयात्मकं विकल्पकम् अनुव्यवसायशब्दवाच्यं विदधदन्तःकरणम् एतान् क्रियासंबन्धादिविकल्पान् संपादयति / ते च विकल्पाः तद्द्वयम् एकत्वानेकत्वरूपम् अवलम्बन्ते , नहि विकल्पेषु प्रतिभासमानम् अवस्तुसत् इति हि उक्तम् प्रकाशतैव वस्तुत्वम् इति / न च विकल्पस्य प्रकाशरूपतां मुक्त्वा आरोपणाध्यवसायाभिमानादिनामधेयं व्यापारान्तरं युक्तम् , ततो ऽबाह्ये बाह्यम् आरोपयन्ति इत्यादि वचो वस्तुशून्यम् , तच्च एतत् उक्तम्
SK
{भ्रान्तित्वे चावसायस्य .............................. /}
SK
इत्यत्र / अथ ब्रूयात् परो यत् इन्द्रियज्ञानेन प्रकाशनीयं स्वलक्षणं तत् कथं विकल्पः स्पृशेदिति , भवेदेवं ---- यदि विकल्पो नाम स्वतन्त्रो भवेत् , यावता प्रमातुरसौ व्यापारः प्रमाता च पूर्वानुभवान्तःस्वसंवेदनरूपः तदस्य च अयमेव पूर्वानुभवसंस्कारो यत् विकल्पनव्यापारकाले ऽपि पूवानुभवात्मत्वम् अनुज्झन्नेव आस्ते , ततः पूर्वानुभवो यावत् स्वलक्षणकाशनात्मा तावत् पूर्वानुभवतादात्म्यापन्नप्रमातृतत्त्वव्यापारो ऽपि विकल्पस्तद्विषय एव , अत एवमुक्तम् आचार्येण
SK
{पूर्वानुभवसंस्कारः प्रमातुरयमेव सः / यदपोहनकालेऽपि स पूर्वानुभवः स्थितः //}
SK
इति / तस्मात् प्रमातुः यो व्यापार एकत्वानेकत्वसंयोजनात्मा स एव प्रकृतो तत्र तादृशीः क्रियादिकल्पना एकानेकवस्तुविषया एता इति ग्रहणकवाक्यसूचिता मन एव करोति इति स्थितम् , यद्यपि अविकल्पेऽपि सामान्याद्यवभासो घटमात्रावभासादौ , तथापि न तदा सामान्यादि स्फुटम् , समानोपरञ्जकत्वे संबन्धिद्वयोद्भवे क्रमिकक्षणसंतानात्यागे अवयवकदम्बकस्वीकारे अवध्यवधिमत्परिग्रहादौ सामान्यसंबन्धक्रियाद्रव्यदिगादिपदार्थस्य परमार्थतः स्फुरणात् , इति मानसविकल्पग्राह्या एकानेकरूपाः सामान्यादयः इति स्थितम् / एवं च संवृत्तिः विकल्पबुद्धिः , तद्वशात् उच्यतां संवृतिसत्यत्वं सत्यत्वस्यैव तु प्रकारः तत् , इति द्विचन्द्रादिवत् न असत्यता //३//
SK
तत्र च अयं संविदवतरणक्रमो यत् क्रियाशक्तेरेव अयं सर्वो विस्फारः , तत्रापि सम्बन्ध एव मूलभूतः , तथाहि ---- समानानां यत् एकं भाति तत् सामान्यम् , देवदत्तस्य यत् वैतत्यं सा क्रिया , अवयवानां यदैक्यं वैतत्यं च देशतः सोऽवयवी , इमम् अवधिं कृत्वा अयम् इत्थम् ततो ऽस्य अयं पुरस्तात् इत्यादिर्दिक् , अस्यायं क्रियाप्रतानः सहभावेन आस्ते विनाभावेन वा इति वर्तमानादिः कालः , यावत् हि प्रातिपदिकार्थस्य पृष्टपाति वपुः भाति तदतिरिक्तं सर्वं संबन्ध एव इति कारकाणामपि संबन्धरूपतैव , केवलं क्वचित् असौ संबन्धो व्यपदेशान्तरग्रन्थिं सहते , यथा सास्रादिमतां संबन्धो गावः इति एकव्यपदेशसहिष्णुः तत्र सामान्यादिव्यवहारः , व्यपदेशान्तरग्रन्थिभङ्गे तु संबन्धाचोयुक्तिरेव , अत एव दिष्टिप्रस्थपलादिप्रमाणपरिमाणोन्मानरूपं तत्र अन्तर्गतं वा अणुमहदादि संख्यापृथक्त्वादि च यत् तत् सर्वं संबन्धस्यैव विजृम्भितम् , ये ऽपि सामान्यादि वस्त्वन्तरम् अमंसत ते ऽपि तत्र समवायम् अभ्युपजग्मुः जीवितत्वेन , समवायश्च संबन्धात्मा तदनुग्राह्यो वा केषांचित् , यत आहुः ----
SK
{समवायाख्यां तां शक्तिमनुगृह्णाति संबन्धः /}
SK
इति /
SK
यदपि च कारकं तदपि क्रियामुखप्रेक्षि , सापि कालं प्राणेश्वरम् आश्रयति , सो ऽपि क्रियाद्वारेण सर्वभावात्मा सम्बन्धम् उद्धुरयति इति संबन्धाधीनैव इयं चित्रा लोकयात्रा / यदाह आचार्य एव
SK
{भेदाभेदात्मसंबन्धसहसर्वार्थसाधिता / लोकयात्राकृतिर्यस्य स्वेच्छया नौमि तं शिवम् //}
SK
इति /
SK
अतः संबन्धमेव प्रथमं निरूपयितुम् आह
SK
स्वात्मनिष्ठा विविक्ताभा भावा एकप्रमातरि / अन्योन्यान्वयरूपैक्ययुजः संबन्धधीपदम् //
SK
राजा पुरुषश्च बहिस्तटस्थौ स्वात्मैकपरिसमाप्तौ प्रमातृभूमौ यदैक्यं गच्छतः , न च ऐक्यमात्रं तयोः भेदविगलनापत्तेः , अपि तु परस्पररूपश्लेषात्मकं युगपदेव निमज्जदुन्मज्जद्भेदाभेदकोटिद्वयदोलारोहणलक्षणम् अन्वयरूपम् , तदा तावेव सम्बन्धधिय आलम्बनं भवतो राज्ञः पुरुषः इति , तथाहि ---- राजा यदा पूर्वं धिया गृहीतो ऽपि न स्वात्मविश्रान्त्या तुष्यति तदा रूपान्तरेण पुंसा श्लेषं भजन् कृतार्थीभवति , पुरुषो ऽप्येवं , स च एष रूपश्लेष एक एव उभयोः चिदात्मनि तथा अवस्थानरूपः पूर्वप्रतिलब्धसंवित्प्रतिष्ठः तत एव अधिकसंविश्रिमज्जनात् अनाभासमानपृथग्भवनलक्षणः स्वातन्त्र्ये विश्राम्यति , इति तत्रैव निर्भासते समास्कन्दितपुरुषपरमार्थो ऽपि , एवं बहिरनेकता , अन्तस्तु परस्पररूपश्लेषेणैक्यम् , इति संबन्धस्य रूपम् //४//
SK
जातिद्रव्यावभासानाम् बहिरप्येकरूपताम् / व्यक्त्येकदेशभेदं चाप्यालम्बन्ते विकल्पनाः //
SK
जात्यवभासस्य अवभासमानरूपायाः जातेः ग्राहिका याः कल्पनाः , ता न केवलं संबन्धवत् अन्तर् एकरूपतां बहिश्च अनेकरूपताम् आलम्बन्ते , यावद् बहिरपि व्यक्तिभेदलक्षणम् अनैक्यं बहिरेव च तदनुस्यूततारूपाम् एकताम् आलम्बनत्वं नयन्ति / गावः इति हि प्रतिभासे पृथक्कृता बहिर् व्यक्तयो भान्ति , येन च बहुवचनम् , अनुयायि च आसां भाति वपुः यत एकप्रातिपदिकार्थपरामर्शानुगमः , उभयं च तद् बहिरेव इमाः इति अङ्गुल्या निर्देशात् , केवलं बाह्यत्वमपि स्थिते परमार्थप्रकाशान्तर्भावे , इति न तत्र भेदाभेदौ दूषणं चित्रसंवेदन इव / अनेन द्रव्ये ऽपि रक्तारक्तादि विरोधः कृतप्रतिविधानः , आन्तरं तु ऐक्यं संबन्धद्वारेण तद्वदेव सर्वत्र , एवम् अवभासमानस्य घट इति अवयविद्रव्यस्य प्राहिका याः कल्पनाः ता न केवलं संबन्धवत् अन्तर्बहीरूपतया एकानेकविषया यावत् बहिरप्येकं निःसंधिबन्धरूपत्वेन भिन्नं च अवयवलक्षणैकदेशद्वारेण स्वीकुर्वते , घट इति हि निःसन्दिबन्धनैकघनात्मा विततरूपश्च भाति इति //५//
SK
क्रियाविमर्शविषयः कारकाणां समन्वयः / अवध्यवधिमद्भावान्वयालम्बा दिगादिधीः //
SK
कारकाणां कर्त्रादिशक्त्याधाराणां द्रव्याणां च यो ऽन्योन्यं समन्वयो दृश्यते , यथा मातृमेयमानानां मिथः , सोऽन्तर्लीनप्रमात्मकक्रियादिशेषपरामर्शैकनिमित्तकः , न हि प्रमापरामर्शम् अन्तर्वर्तिनं विहाय वस्तुनः साक्षात् अन्वयो ऽत्र संवेद्यते , अनन्यत्र भावरूपतानिमित्तता अत्र विषयार्थः , कारकशक्तिनामपि यः स्वाश्रयैः संबन्धः सोऽपि क्रियापरामर्शनिमित्तकः , द्रव्याणां च शक्तीनां च क्रियया साकं साक्षात् संबन्धः इति इयं क्रियैव भगवती एतावद्विजृम्भितं संबन्धम् आविर्भावयति / अस्मादिदं पूर्वं परं दूरे इत्येवं वहिर्भिन्नतयापरामृश्यमानयोः भावयोरन्तर् अभेदनपूर्वकं भेदावमर्शमध्यम् अभेदविश्रान्तं च यत् रूपम् आमृश्यते तत् दिग् इत्युच्यते / अत्र हि तयोः मुखाद्यवयवविशेषपरामर्शादरः तत्संमुखत्वपराङ्मुखत्वादिनिश्चयः संयोगसंयुक्तसंयोगाल्पतादिपरिग्रहश्च उपयोगी / कालपरामर्शस्य पूर्वपरादिरूपत्वे जन्मस्थित्यल्पतादिविमर्शश्चिरक्षिप्रादिरूपत्वे च , पक्ष्यति पचति अपाक्षीत् इत्यादौ तु संभावितस्य स्फुटस्य स्फुटभूतपूर्वस्य आत्मीयसंवेदनस्पन्दितप्राणादित्यादिक्रियान्तरस्य फलविशेषस्य च ओदनादेः परामर्श उपयुज्यते , एवं संख्यापरिमाणपृथक्त्वसंयोगविभागप्रभृतिषु संबन्धरूपतैव वाच्या , सर्वथा अयं सक्षेपः , यत्र पदार्थाभासस्य आत्मविश्रान्त्या संतोषमपुण्यतः आभासान्तरपरामर्शविश्रान्तिसाकाङ्क्षतया स्वरूपपरिनिष्ठा तत्र संबन्धरूपतैव क्रियाशक्तिविजृन्भामयी , तत्रापि भावान्तरापेक्षया संबन्धान्तरमपि अस्तु , यथा संख्यादौ समवायं मन्यन्ते , न च अनवस्था भवन्त्यपि दोषाय , पूर्वापरकल्पसृष्ट्यनवस्थेव , नहि उत्तरसंबन्धसृष्ट्या विना पूर्वसंबन्धावभासे हानिः काचित् येन् मूले क्षतिः शंक्येत //६//
SK
एवं सकललोकयात्रानुप्राणितकल्पानल्पसंबन्धबन्धुरीभावं क्रियाशक्तिविजृम्भात्मकम् अभिधाय , तस्य स्थैर्योपयोगौ पूर्वसूचितौ निरूपयितुमाह
SK
एवमेवर्थसिद्धिः स्यान्मातुर् अर्थक्रियार्थिनः / भेदाभेदवतार्थेन तेन न भ्रान्तिर् ईदृशी //
SK
इह भावानां न सत्तासंबन्धः सत्त्वम् , अव्यापकत्वाद् अनवस्थावैयर्थ्यादिदोषात् , न अर्थक्रिया वस्त्वन्तरत्वात् , न तत्कारित्वं सर्वदा तदावेशादशनात् , उक्तं हि
SK
{अर्थक्रियापि सहजा नार्थानाम् ................. // }
SK
इति / तत्कारित्वस्य च प्रत्यक्षानुपलम्भात्मकान्वयव्यतिरेकगम्यस्य अप्रत्यक्षत्वे सयोऽपि अप्रत्यक्षत्वप्राप्तः , नार्थक्रियाकरणयोग्यत्वं तस्य सत्यासत्यके निश्चयकाले दुरवधारत्वात् , सर्वस्य च अस्य अग्रकाशमानत्वेन नरशृङ्गप्रायत्वम् , अर्थक्रियान्तरपर्येषणे च अनवस्था , इति प्रकाशमानतैव अनुन्मूक्यमानतथोचितविमर्शपरिस्पन्दा भावस्य सत्त्वम् , सा च भेदाभेदवपुषां संबन्धादीनामस्ति , इति ---- निराशङ्कमेव सत्यत्वमेव एषाम् , तथापि यदि परोऽनुबध्नीयात् ---- इह लोकः प्राचुर्येण अर्थक्रियार्थी तत्कारिणि सत्यत्वं व्यवहरति , तत् किं संबन्धादीनाम् अस्ति इति , तदस्य हृदयम् आश्वास्यते , यदि न कुप्यसि तत् सर्वत्रैव व्यवहारे यत्रापि स्फुटा संबन्धादिधीः न उदेति एषमेव तत्रापि , इति संबन्धादिरूपतया भेदाभेदवान् यो ऽर्थः तेनैव अथक्रिया , न तु स्वात्ममात्रविश्रान्तेन काचिदपि कदाचिदपि अर्थक्रिया , तथाहि सुखेन स्मर्यमाणेन अभिलाषः , इत्यादि क्रमेण सर्वो व्यवहारः सुखाभासश्च योऽनुभूतः स एव अभिलष्यते न तु अन्योऽननुभूतः , स एव अभिलष्यते न तु अन्योऽननुभूतः , स एव च यदि प्राप्यते तदभिलषितं प्राप्तम् इति तुष्यते यदि च तत् तदेव तर्हि किम् अभिलष्यते ---- प्राप्तत्वात् , अथ अतदेव तथापि कथम् अर्थ्यते ---- अज्ञातत्वात् , तस्मात् एतत् एवं भवति ---- यदि तदेव च अतदेव च तदपि च अतदपि च इति / एवं सुखसाधनेषु वाच्यम् / तदुक्तम् आचार्येणैव
SK
{इष्टार्थितायामिष्टं वा विमृश्येतेष्टकारि वा / न चाप्यदृष्टमिष्टं द्यौरपीष्टाऽदृष्टभोगभूः //
SK
दृष्टं च सह दृष्.यैव विनष्टमिति कार्थिता / द्रष्ट्रैक्येन विभृष्टं तत् ................................... //}
SK
इत्यादि / एवं च आभासात्मनि अस्मिन् असंवेद्यमपि आभासान्तरं सामान्यसंबन्धरूपतया अनुप्रविष्टम् , अन्यथा न कथंचिद्व्यवहारः इति सकलदेशकालदशापुरुषोपयोगी यदि अयं व्यवहारो न सत्यः तर्हि न अन्यस्य सत्यत्वं विद्मः ---- इति न अत्र भ्रान्तिः इति भ्रमितव्यम् / इति शिवम् //७// आदितः १०४//
SK
इति श्रीमदाचार्योत्पलदेवपादविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तपादकृतविमर्शिन्याख्यटीकोपेतायां क्रियाधिकारे भेदाभेदावमर्शनं नाम द्वितीयमाह्निकम् // २ //
SK
क्रियाधिकारे तृतीयमाह्निकम् /
SK
{प्रमाणानि प्रमावेशे स्वबलाक्रमणक्रमात् / यस्य वक्त्रावलोकीनि प्रमेये तं स्तुमः शिवम् //
SK
एवं क्रियाशक्तिविस्फारनिरूपणप्रसङ्गेन संबन्धपुरःसरं सामान्यादीनां तत्त्वम् उपपादितम् , अधुना तु संबन्धतत्त्वमेव एकघनतया व्युत्पादनीयम् / तच्च द्विविधमेव परमार्थतः ज्ञाप्यज्ञापकता कार्यकारणता च , तत्र पूर्वस्यां मानमेयभावादिचिन्तास्पदभूतायां सर्वम् उक्तचरं वक्ष्यमाणं च आयत्तं ---- प्रमाणाधीना वस्तुसिद्धिः इति तत्र तत्र प्रसिद्धेः , एवं च प्रकृतसमर्थनीयवस्तूपयोगितया स्वयं च संबन्ध रूपतया अवश्यविचार्यां मानादिस्थितिं निरूपयितुम्
SK
{इदमेतादृक् ......................... / }
SK
इत्यादि ,
SK
{............................. ईशादिव्यवहारः प्रवर्त्यते //}
SK
इत्यन्तं श्लोकसप्तदशकेन आह्निकान्तरमारभ्यते / तत्र श्लोकद्वयेन प्रमाणतत्फलस्वरूपम् , ततः प्रमेयस्य स्वरूपं निरूपयितुं प्रत्याभासं प्रमाणस्य व्यापारो न तु स्वलक्षणात्मकवस्त्वेकनिष्ठतानियमेन ---- इति दर्शयितुं प्रत्यवमर्शबलेन आभासव्यवस्था , इति दशभिः श्लोकैः उच्यते , तत्प्रसंगात् मिथ्याज्ञानस्वरूपं श्लोकेन , प्रमेयस्वरूपसिद्धिश्च प्रकृतमपि ईश्वरवादम् अव;अम्ब्य घटते ---- इति श्लोकेन उपदर्श्यते , स च एष सर्वः प्रमाणतत्फलप्रमेयादिप्रविभागः सति प्रमातरि प्रदर्शितरूपे , ततो न तस्य प्रमेयता येन अत्रापि प्रमाणव्यापारसंभवः , केवलं व्यवहारमात्रसिद्धिफलं प्रमाणम् अत्र , इति श्लोकत्रयेण ---- इति तात्पर्यार्थः /
SK
यदुक्तम् क्रियासंबन्धादिबुद्धयो न भ्रान्तिस्वभावाः इति , तदेव निर्णेतुं प्रमाणतत्फलस्वरूपं तावत् प्रसिद्धमनुवदति /
SK
इदम् एतादृगित्येवं यद् वशाद् व्यवतिष्ठते / वस्तु प्रमाणं तत् सो ऽपि स्वाभासो ऽभिनवोदयः //
SK
सो ऽन्तस् तथाविमर्शात्मा देशकालाद्यभेदिनि / एकाभिधानविषये मितिर् वस्तुन्य् अबाधिता //
SK
यस्य वशात् ---- सामर्थ्यात् , वस्तु नीलसुखादिकं व्यवतिष्ठते ---- नियतां प्रकाशमर्यादां न अतिवर्तते इदमिति स्वरूपेण एतादृक् इति च विशेषणभूतनित्यत्वानित्यत्वादियोगेन , तल्लोके प्रमाणम् इति स्थितम् , तच्च विवेचकेन विचार्यम् ---- इह वस्तुनः स्वरूपं स्वात्मवशेनैव न तावत् व्यवतिष्ठते ---- जडत्वात् , मम नीलं प्रकाशते चैत्रस्य वेति च तदा कथमवभासः , तस्मात् अन्यवशेन व्यवतिष्ठते , अन्यो ऽपि चेत् जडः तत् अन्धेन अन्धस्य हस्तादानम् , तस्मात् अन्योऽसौ संविदास्मा , सो ऽपि यदि शुद्धो निर्विशेषो न तर्हि नीलस्यैव व्यवस्थाहेतुः भवेत् ---- पीतादावपि तस्य तथात्वात् , तदसौ नीलोपरक्तो नीलोन्मुखो नीलप्रकाशस्वभाव इत्याभासः सन् नीलस्य व्यवस्थापकः , तत्प्रकाशस्वभावतैव हि तद्व्यवस्थापकता , स च नीलस्य प्रकाशो यदि अव्यतिरिक्तस्य , तत् पीतस्यापि स्यात् ---- प्रकाशात्मकचित्तत्त्वतादात्म्याविशेषात् , तेन व्यतिरिक्तीकृतस्य नीलस्य स प्रकाशः / नीलं च इत्थम् ततो व्यतिरेकाभासयोग्यं यदि सोऽप्या ---- भासो महतः प्रकाशात् व्यतिरिच्यते , महाप्रकाशाव्यतिरेके तस्य ततो नीलादेः व्यतिरेकाभावप्रसंगात् , महाप्रकाशाच्च न व्यतिरेकं किंचिदपि सहते , इति नूनं तेन संकोच आत्मनि निर्भासनीयः , संविदो वस्तूनां च संकोचनप्राणो नञर्थरूपोऽसौ शून्य इत्युच्यते , संकोचावभास एव च मायीयप्रमातुः उत्थानम् , अत एकया सृष्टिशक्त्या प्रमातृप्रमाणप्रमेयोल्लासः प्रमार्थतः , तेन ---- शून्यधीप्राणदेहाद्युपाध्याश्रयस्वीकारात्मकसंकोचपरिग्रहसंकुचितात् म्-अयाप्रमातुः अनन्तकालान्तर्मुखसंवेदनरूपात् स प्रमाणाभिमत आभासो यावत् प्रमेयोन्मुखतास्वभावः तावत् प्रमेयस्य देशकालाकाराभाससंभेदवत्त्वात् सो ऽपि तथैव क्षणे अन्यान्यरूपः स्रष्टव्यः , तदुक्तम् अभिनवोदयः इति ---- अभिनवः ---- क्षणपरिवासम्लान्यापि न कलङ्कितः , तेन नवनवोदय इत्युक्तं भवति , सोऽपि यदि तथाभूतो मायाप्रमातृलग्नो न भवेत् ततो मम नीलावभासो यस्य तस्यैव पीताभासो मम इति न स्यात् , अस्ति च इदं स्वसंवेदनं ---- यत् सर्वत्र अबाध्यमानम् , इत्येवं स्वत्वेन आभासमानो य आभासो ---- नवनवप्रमेयौन्मुख्यात् नवनवोदयः स प्रमाणम् यतः प्रमां विधत्ते / कासौ ? प्रमाणफलस्वभावा इति चेत् , आह ---- स एव बोधरूप आभासो मितिः प्रमाणफलम् इति संबन्धः / ननु एवं पर्यायत्वमुक्तं भवेत् न तु फलभावः , आह ---- बाह्योन्मुखतया प्रकाशरूपया तत्र तत् प्रमाणम् , या तु तस्यैव अन्तर्मुखात्मा विमर्शरूपता प्राक् उपपादिता तत्स्वभावेन केवलं विषयदशासंकुचितेन स एव बोधः फलम् , यथाहि यः शूरोऽहं स एव विजयी इति एकनिष्ठे शूरत्वविजयत्वे विवेकवता हेतुफलभावेन व्यवस्थाप्येते , यतो हि अहं शूरः ततो विजयी इति / एवं यतो नीलप्रकाशः ततो नीलमिदम् इति परामर्श इति एकरूपत्वे ऽपि हेतुफलभावः , ययोक्तं
SK
{तद्वशात्तद्व्यवस्थानात् ................. /}
SK
इति / किं च इह व्यापाररूपमेव फलं व्यापारश्च व्याप्रियमाणात् व्यापार्यमाणात् वा अनन्याकार एव सिद्धः , इति ---- अभेदः प्रमाणफलयोः विमर्शबलेन च यतः प्रमाणं विमर्शश्च शब्दजीवितः शब्दश्च आभासान्तरैः देशकालादिरूपैरनामृष्टे एकतरिवाभासमात्रे प्रवर्तते ---- घट इति लोहित इति , ततो देशकालाभासयोः स्वलक्षणत्वार्पणप्रवणयोः अनामिश्रणात् सामान्यायमाने आभासे प्रमाणं प्रवर्तते , अयम् इत्यपि हि अवभास आभासान्तरानामिश्रे पुरोऽवस्थिते भावावभासमात्रे , इति उक्तं श्रीमदाचार्यपादैरेव ----
SK
{नियते ऽप्ययमित्येवं परामर्शः पुरःस्थिते / सर्वभावगतेदन्तासामान्येनैव जायते //}
SK
इति / तत आभासमात्रमेव वस्तु , स्वलक्षणं तु तदाभाससामानाधिकरण्याभासरूपम् आभासान्तरम् एकम् अन्यदेव , तत्र च पृथगेव च प्रमाणं , तत्परं मिश्रीकारेषु तेषु आभासेषु गृहीतग्राहि न प्रमाणम् इति अग्रे भविष्यति , अध्यवसायस्य अस्मदुक्तनयेन शब्दप्राणितस्य प्रत्याभासविश्रान्तौ तदपेक्षमपि प्रामाण्यं वदता प्रत्याभासनिष्ठमेव प्रामाण्यमुपेत्यम् , इत्यास्ताम् , किमवान्तरेण / ननु यदि विमर्शः प्रमाणव्यापारः स तर्हि द्विचन्द्रे ऽपि अस्ति ? मैवम् , स हि संस्कारयोगात् आत्मानमभिमतप्रसिद्धार्थक्रियाप्राप्तिपर्यन्तमनुबन्धयन् अनुन्मूलितवृत्तिः स्थिरः सन् तथा भवति , मध्ये पुनरुन्मूलनं चेत् सहते न तर्हि असौ तथा विमर्शः , नायं विमर्शः पूर्वमपि ---- एकेन अन्तर्मुखेन वपुषा पूर्वमेव ---- तस्य निर्मूलनात् , स्वसंवित् अत्र च साक्षिणी , तदैव न इदं रजतम् इति वृत्तपूर्वस्यैव विमर्शस्य अविमर्शीकरणं संवेद्यते /
SK
उक्तं च एतत् बाधविचारे , वक्ष्यते च
SK
{रजतैकविमर्श ........................... }
SK
इत्यत्र , एवं स्थिते द्विचन्द्रे ऽपि यावत् परकुतूहलसंपादनमर्थक्रियासंमतम् अपूर्ववस्तुदर्शनाय चिकीर्षति तावत् अवज्ञोपहासशोकादिविवशः परजनवचनाकर्णनेन समुन्मूल्यमानं प्राच्यं द्विचन्द्रो ऽ; यम् इति परामर्शं स्वसंवेदनादेव अभिमन्यते / नन्वेवं यत्र अर्थक्रियां न अन्विच्छति तत्र कथं बाधाबाधव्यवहारः ? मा भूत् ---- किं नः त्रुटितम् प्रवृत्तिर्हि न सर्वत्र प्रमाणत एव , किं तर्हि कवन संशयत एव , अर्थपक्षाधिक्यात् अर्थित्वतारतम्यादपि वा कृष्यादौ सविषान्न भोजने निश्चितसंभावितदृष्टप्रत्यवाये च चौर्यादौ प्रवृत्तिदर्शनात् , तत् अर्थित्वातिशयः लोकस्य प्रवृत्तौ निबन्धनम् , स च प्रवृत्तः क्वचन अनुम्मूलितप्रमितिकः प्रमाणतां प्रतिपद्यते , क्वचित् अन्यथाभवन् विपर्ययमिति / एवम् आजन्म यतो ऽनेन अभ्यस्त आजन्मशतेभ्यो वा प्रमाणाप्रमाणविभागः ततो मणिरूप्यादिवत् तत्स्वरूपम् आपातमात्र एव विलक्षणमीक्षते , अस्ति हि तस्य परमार्थतो वैलक्षण्यं कारणभेदादिकृतम् , ततश्च यदार्तिं परिमितां सह्याम् अभिमन्यते तत एव अर्थितामहाग्रहेण यत्र तत्र न प्रेर्यते तदा विसंवादभीरुः निश्चितप्रामाण्यात् बोधात् अदृष्टे दृष्टेऽपि वा प्रवर्तमानो न विसंवाद्यते , इति स ---- प्रेक्षापूर्वकारी भण्यते , तेन लौकिलं प्रमाणस्वरूपम् अनूदितं सामान्यसंबन्धादिज्ञानेऽपि मोहात् अप्रामाण्यशंकां शमयितुम् , अत एव विभागविशेषलक्षणपरीक्षादिभिरिह न आयासितो लोकः / यत् यत् अबाधितस्थैर्यम् अत एव अप्रतिहतानुवृत्तिकं विमर्शफलं विधत्ते तत्तद् बोधरूपं बोध्यनिष्ठं प्रमातृस्वरूपविश्रान्तं प्रमाणम् इति / तच्च ऐन्द्रियके बोधे सुखादिसंवेदने योगिज्ञाने च अविवादमेव , मुख्यतयैव प्रमेयरूपे आभासे साक्षात् विश्रान्तेः / अनुमानजा तु प्रतीतिः आभासान्तरात् कार्यरूपात् स्वभावभूतात् वा आभासान्तरे प्रतिपत्तिः , वस्त्वन्तरस्य च तेन साकं कार्यकारणभावनियमः सामानाधिकरण्यनियमश्च ईश्वरनियतिशक्त्युपजीवन एव अवधार्यो भवति न अन्यथा / तेन यावति नियतिर्ज्ञाता तावति देशे काले वा अनुमानं प्रमाणम् / आगमस्तु नामान्तरशब्दनरूपो दृढीय स्तमविमर्शात्मा चित्स्वभावस्य ईश्वरस्य अन्तरङ्ग एव व्यापारः प्रत्यक्षादेरपि जीवितकल्पः तेन यत् यथामृष्टं तत् तथैव यथा नैतत् विषं मां मारयति गरुड एव अहम् इति / तत्र तु तथाविधे शब्दनात्मनि विमर्शे आनुकूल्यं यो भजते शब्दराशिः सो ऽपि प्रमाणम् , यथा ---- वेदसिद्धान्तादिः , अन्योऽपि वा बौद्धार्हतागमादिः , तेन हि यत् शब्दनम् उत्पातितं ज्योतिष्टोमकारी अहं स्वर्गं गन्ता इति दीक्षितो ऽहम् अपुनरावृत्तिभागी इति , कारुणिको ऽहं बुद्धपदं गन्ता इति , गाढक्लेशसहिष्णुरहम् अर्हत्पदं प्रपत्ता इति , तत्र न विपर्यय उदेति , तदा श्वस्तस्यैव तत्र अनुष्ठानयोग्यत्वात् , अन्यस्य तु दृढप्रतिपत्तिरूपत्वाभावात् अप्रमाणमेव तथाविमर्शनात्मकं शब्दनम् / नन्वेवं तदेव शास्त्रं कंचित्प्रति प्रमाणं कंचित्प्रति न इति स्यात् , न चैतद्युक्तम् ---- अपक्षपातित्वात्प्रमाणस्य इति , अतत्त्वज्ञो ऽसि प्रतीतिवृत्तस्य , तथापि नोपेक्ष्यसे , अपक्षपाति प्रमाणम् इति कः अस्य वचनस्य अर्थः , किं यत् एकस्य नीलज्ञानं प्रत्यक्षरूपं तत् किं सर्वस्य नीलं भासयति धूमज्ञानं वा अग्निम् , त्वं प्रातर्निधिमनेन विधिना लन्धासे इति च यः सिद्धादेश आगमः स किं सर्वान्प्रति प्रमाणम् , अथ कस्यापि कदाचित् किंचित् , तथा इहापि दृढविमर्शनरूपं शब्दनम् आ ---- समन्तात् अर्थं गमयति इति आगमसंज्ञकं प्रमाणं सर्वस्य तावत् भवति , तत्र यथा मिथ्याज्ञानसहायतां भजमानम् आलोकेन्द्रियादिकम् अप्रमागतासविवम् अप्रमाणम् , न च एतावता सम्यग्ज्ञानरूपस्य प्रत्यक्षस्य काचित् पक्षपातिता , तथा स एव व्योतिष्ठोमादिशब्दः शूद्रादेरदृढविमर्शात्मनि अत एवाप्रमाणे आगमाभासे साचिव्यं विदधदपि दृढविमर्शात्मकसत्यागमरूपशब्दलक्षणप्रमाणोपयोगितायां प्रामाण्यं भजन् न पल्लपातापल्षपातदोषप्रतिक्षेपयोग्यः , सर्व एव हि आगमो नियताधिलारिदेशकालसहकार्यादिनियन्त्रितमेव विमर्श विधत्ते , विधिरूपो निषेधात्मा वा / तेन प्रसिद्धिः इति श्लोके यत्र यदा इत्युक्तम् , तेन ---- प्रत्यक्षागमौ बाधकौ अनुमानस्य , इति तत्रभवद्भर्तृहरि -- न्यायभाष्यक्र्ट्प्रभृतयः , तस्मात् प्रमाणलक्षणे ज्ञाते सर्वं प्रमाणस्वरूपं ज्ञातं भवति किं विशेषलक्षणैः , यस्तु अविसंवादकत्वं तस्य लक्षणम् आह तेनापि प्रापकत्वं प्रवर्तकत्वं प्रवृत्तियोग्यशक्यप्राप्तिकवस्तूपदशकत्वं प्रमाणलक्षणं ब्रुवता न किंचित् प्रमाणाभिमतबोधविश्रान्तं स्वरूम् उक्तम् , तच्च अनेनैव लक्षणेन निर्वाह्यते तत् निर्व्यूढं भवति , अन्यथा मुखभङ्गमूर्धकम्पाङ्गुलीमोटनादिमात्रतत्त्वं तत् , इति अलं विस्तरेण //२//
SK
ननु च एकाभिधानविषये मितिः इति यत् उक्तम् , तत्र ---- एकमभिधानं बाह्ये स्वलक्षण एव प्रवर्तते यदि , तत्कथम् उक्तं प्रत्याभासं प्रमाणम् , आभासमिश्रीकरणाभासस्तु स्वलक्षणम् इत्याशङ्कां शमयन् प्रमाणस्य यत् प्रमेयं तत् परमार्थतो निरूपयितुम् आह ----
SK
यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते / आभासो ऽप्य् अर्थ एकस्मिन्न् अनुसंधानसाधिते //
SK
यद्यपि घट इति बहिः परिदृष्ट एको ऽर्थः तथापि तावानेव असौ न , अपि तु पृथङ्निर्भव्यमानतामपि सहते , तथाहि ---- स्वतन्त्रं वा विवेचनम् अर्थित्वानुसारेण वा पूर्वप्रसिद्ध्युपजीवनेन वा , तत्र त्रिधापि विवेचने क्रियमाणे पृथगेव भान्ति आभासाः , नन्वेवं चेत् कथमेकं स्वलक्षणम् ? उच्यते ---- तेषां पृथक् भासमानानामपि आभासानां यो विमर्शः अनुप्राणितभूतः स कदाचित् प्रत्याभासमेव विश्राम्यति , तदा परापरसामान्यग्रहणम् , कदाचित् पुनः गुणप्रधानतापादनेन अत्र इदम् इत्थम् इति मिश्रणाप्राणो विमर्शः तदा तदेकं स्वलक्षणम् / अपिः भिन्नकमः अनुसन्धानेन मिश्रताविमर्शेन साधितो य एको ऽर्थः स्वलक्षणात्मा तन्न एकस्मिन्नपि सति रुचि ---- स्वातन्त्र्यम् , अर्थित्वम् ---- अर्थक्रियाभिलाषपरवशताम् , व्युत्पत्तिं ---- वृद्धव्यवहारशरणतां च अनतिक्रम्य भिद्यत एव आभासः //३//
SK
क यथा इति निदर्शयितुम् आह ----
SK
दीर्घवृत्तोर्ध्वपुरुषधूमचान्दनतादिभिः / यथाभासा विभिद्यन्ते देशकालाविभेदिनः //
SK
तथैव सद्घटद्रव्यकाञ्चनोज्ज्वलतादयः / आभासभेदा भिन्नार्थकारिणस्ते पदं ध्वनेः //
SK
इह तावत् एकस्मिन्नपि चेतनतया प्रसिद्धे पुरुषस्वलक्षणे विततदेशव्यापितां दीर्घतामेव कदाचित् विमृशति , या तरूणामपि अस्ति , निःसंधिबन्धनरूपतां वा वृत्ततां या शिलानामपि संभविनी , ऊर्ध्वदिगाक्रमणरूपां वा ऊर्ध्वतां या स्थाणोरपि संबन्धिनी , गमनागमनादिस्वतन्त्रभावयोग्यतारूपं वा पुरुषत्वं यद् अन्यपुरुषसाधारणम् / तथा हि ---- स्वतन्त्रया वा इच्छयां रुचिरूपया यावदेवं कुर्यात् यथोउक्तम्
SK
{या त व्याक्षेपसारत्वाच्चेतसः स्वरसोद्गता /}
SK
इति / विततदेशव्यापिन एव वा अर्थान् तिरोधिलक्षणाम् अर्थक्रियाम् अर्थयमानो विभजेत् , एवं व्यवहारे वृद्धैः कीदृक् दीर्घं नाम गीयते इति व्युत्पित्समानो व्युत्पादयितुमिच्छुः वा विभागं कुर्यात् / इत्येवं तत्र आभासानां भेदः / एकस्वलक्षणं तु ---- एकस्मिन् देशाभासे कालाभासे च विश्रान्तेः , देशकालाभासावेव हि सामान्यरूपताप्रयोजकव्यापित्वनित्यत्वखण्डनाविधानसविधवृत्ती विशेषरूपतां वितरतः / एवं पुरुषत्ववत् अन्ये ऽपि ब्राह्मणाद्याभासा अपि निरूप्याः , एवम् अत्र तावत् प्रसिद्धतर आभासभेदो ---- जडाजडसाधारणबहुतरधर्मास्पदत्वात् , अनेन निदर्शनेन धूमेऽपि धूमत्वचान्दनत्वश्रीखण्डचन्दनोत्थितत्वादयः प्रसिद्धा आभासभेदा विभजनीयाः / प्रसिद्धेन दृष्टान्तेन अप्रसिद्धभागो ऽपि यो घटः तत्रापि आभासभागभेदो भवति , तथाहि किंचिदपि अत्र नास्ति इति हृद्भङ्गमिव आपद्यमानो घटं पश्यन् अस्ति इदम् इति सत्त्वाभासमेव पश्यति , अपरान् आभासान् नाम्नापि तु नाद्रियते , तथा उदकाहरणार्थी घटाभासम् , स्वतन्त्रनयनानयनयोग्यवस्त्वर्थी द्रव्याभासम् , मूल्याद्यर्थी काञ्चनावभासम् , हृद्यतार्थी औज्ज्वल्याभासम् , आदिग्रहणात् दृढतरभावार्थी दार्ढ्याभासम् इति द्रष्टव्यम् , एवं रुचिव्युत्पत्त्योरपि योजनीयम् / एवम् एते आभासभेदा एव वस्तु आभासमानतासारत्वात् वस्तुतायाः / यो ऽपि आभासस्य प्राणभूतो विमर्शः सोऽपि प्रत्याभासमेव , शब्दस्य अभिजल्पात्मनो बोधजीवितप्रख्यस्य प्रत्याभासमेव विश्रान्तेः , सत् घटो लोहितः इत्यादि / अर्थक्रियाकारित्वमपि अन्वयव्यतिरेकाभ्यां प्रत्याभासमेव नियतं ---- सदाभासेन हृद्भङ्गपरिहारमात्रस्य संपादनात् , तत्र आभासान्तरस्य या अपेक्षा सा अग्न्याभासेन अर्थक्रियायां साध्यायां पात्राभासस्य इव तदाभासनान्तरीयकत्वेन आभासान्तरस्यापि नियतस्य अपेक्षणात् / एवं येन येन मुखेन अर्थो विचार्यते तेन तेन आभासमात्रात्मैव तथैव प्रतिभासनात् विमर्शनात् अर्थक्रियाकरणाच्च इति सिद्धम् / एवं प्रसिद्धतरप्रसिद्धाप्रसिद्धत्वातिशयेन एकोऽपि अर्थोग्रन्थकारेण त्रैधं निरूपितो दीर्घवृत्तेति धूमेति सद्धटेति //५//
SK
ननु एवं प्रत्याभासमेव वस्तुत्वे एको घटात्मा न वस्तु स्यात् इत्याशंक्याह
SK
आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः / सामानाधिकरण्येन प्रतिभासादभेदिनाम् //
SK
आभासानां मिश्रं यद्रूपं तत्र अवश्यं कश्चिदाभासः प्रधानत्वेन अन्याभासानां विश्रान्तिपदीकार्यः स तेषां समानमधिकरणम् , तेन सह यस्तेषां संबन्धः तत् सामानाधिकरण्यम् , तेन उपलक्षितो यः प्रतिभासः ---- अर्थोन्मुखः प्रकाशः तदनुप्राणकश्च नपदात्मा परामर्शः ---- तस्य सर्वस्य एकाभासविश्रान्ततानियमात् , तस्मात् तं सामानाधिकरण्याभासं समनुघ्राणयति यो वाक्यात्मा वाक्यार्थपरामर्शरूपो विमर्शः ---- इह इदानीं एष घटोऽस्ति इत्येवंरूपः ततो हेतोः ये अभेदिन एकस्वलक्षणताम् प्राप्ता न च स्वरूपभेदम् उज्झन्तः तेषाम् अन्या विशिष्टा समुदिता अर्थक्रिया / आभासविमर्शभेदे पुनरन्या नियता एकैकमात्ररूपा आभासप्रतिभासशब्दाभ्यां सूत्रे विमर्शोऽपि आक्षिप्तो मन्तव्यः / पुनः शब्दो विशेषद्योतकः काकाक्षिवत् उभयत्र योज्यः / बहुवचनेन ऐक्येऽपि स्वरूपभेदापरित्याग उक्तः , तत्र च ऐक्यावभासे परतन्त्रं सत् पृथक्त्वं यदा आभासानां तदा समानरूपव्यक्त्युपरञ्जकत्वेन पारमार्थिकं सामान्यरूपत्वम् , घटाभासस्य तु शुद्धस्य स्वतन्त्रपरामर्शे योग्यतामात्रेण सामान्यरूपता न वस्तुतो ---- द्रव्यादन्यो हि सर्वः पदार्थः परतन्त्रतासारः , एवम् एकोऽपि घटात्मा च इत्यपि सत्यमेव ---- आभासविमर्शार्थक्रियाबलेन तथा व्यवस्थापनात् इति //६//
SK
ननु एकेनैव अर्थक्रिया न तत्र , अपि तु आभाससमुदायात् अर्थक्रियासमुदायः , आभासाश्च भिन्ना अपि यदि एकाम् अर्थक्रियां कर्तुं मिश्रीभवन्ति , तदा कस्तेषाम् इयत्तावधिः इति चोद्यम् अपवदति /
SK
पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा / अविरुद्धावभासानाम् एककार्या तथैक्यधीः //
SK
पृथक् वतिन्यो याः प्रदीपस्य प्रभाः सूक्ष्मतमावलोकनसामर्थ्याधानलक्षणां याम् अर्थक्रियां न कृतवत्यः तामेव एकभवनाभ्यन्तरं संमूर्छितात्मानो विदधते , न तत्र अर्थक्रियाणां समुदायो ७स्ति / सागरपतितानि च स्रातांसि बहुतरतरङ्गारंभार्थक्रियाकारीणि / तद्वत् घटः काञ्चनो लोहितः ततोऽयं शिवलिङ्गशिरोमार्जनोचितसलिलाहरणार्थक्रियोचितो दृष्टमात्र एव तीव्रप्रीतिलक्षणार्थक्रियाकारी ; इति सिद्धमेवार्थक्रियाकारित्वम् / यत् पुनराभासानां मिश्रणे का सीमा इति ? तत्र उच्यते ---- येषाम् अविरोधः त एव आभासा मिश्रीभवन्ति , नहि रूपाभासो मारुताभासेन मिश्रीभवति ---- विरोधात् , सोऽपि च नियतिशक्त्युत्थापितः / पृथक् ये दीपप्रकाशाः तेषां संबन्धि यदेकं सागरे स्रोतसां च यदेकं वस्तु तेन कार्या यथा ऐक्यधीः तथा अविरुद्धा ये अवभासा घटलोहितकाञ्चनादयः तेषां संबन्धि तदेकं स्वलक्षणं तत्कार्या ऐक्यधीरिति संबन्धः . ऐक्यधिया ---- प्रतिभासो विमर्शो ऽर्थक्रिया च इति स्वीकृतम् //७//
SK
नन्वेवं प्रत्याभासं प्रमाणस्य विश्रान्तत्वात् अग्न्याभासे अग्निज्ञानं प्रमाणं धूमज्ञानं च धूमाभासमात्रे कार्यकारणभावावभासो ऽपि तावन्मात्रे , ततश्च धूमाभासोऽपि अग्न्याभासं व्यभिचरेत् इत्यादि बहुतरोपप्लवप्रसंगः इति शंकाम् अपोहितुम् आह
SK
तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता / तत्तच्छब्दार्थताद्यात्मा प्रमाणाद् एकतो मतः //
SK
तत्रेति ---- प्रत्याभासं प्रमाणं विश्राम्यति , इत्यस्मिन्नपि पक्षे न कश्चित् दोषः , तथाहि ---- अविशिष्टो यद्यपि बह्न्याभासो देशकालाभासप्रमुखैः आभासैः असंकीर्णत्वेन सामान्यमात्ररूपत्वात् तथापि स एवाभासो यावद्भिराभासैरविनाभूतो भगवत्या नियतिशक्त्या नियमितः तावतो ऽवभासान् स्वीकृत्यैव प्रमाणकृतां निश्चयपदवीम् अवतरति / ततश्च बह्न्याभास इन्धनकार्यत्वाभासेन धूमकारणताभासेन उष्णस्वभावताभासेन च स्वाभाविकाव्यभिचरितनियमः प्रतीयमानो विश्वत्रैव सर्वदैव च तथा प्रतीतो भवति ---- एकत्वात् तस्य / अस्वाभाविको ऽपि यः स्वभावः पुरुषकृतसमयादिमुखप्रेक्षी , तद्यथा ---- अग्निशब्दवाच्यत्वं घटप्रतिपत्तिकारित्वमित्येवमादिः , सोऽपि एकप्रत्यक्षादेवनिश्चीयते , तस्य हि प्रमातुः कृत्रिमेण इतरेण वा रूपेण आभासान्तरनान्तरीयकतया असौ बह्न्याभासः संविदितः सर्वदेशकालगतः तथा संविदितः , इति तत्र किं प्रमाणान्तरेण / तस्य यथेच्छं पुरुषसमयेन नियुज्यमानस्य शब्दस्य अर्थो ऽयं ज्वलद्भास्वराकार आभास इत्यनेन नियतिशक्तिरेव सर्वत्र शरणम् इति पिशुनयति / एतदुक्तं भवति ---- यत्किंचित् कृत्रिमम् इतरद्वा भावाभासस्य आभासान्तरेण नान्तरीयकतया प्रतिभाति तत्र नियतिशक्तिमात्रमेव परं विजृम्भते / तत्तु नियतिरूपं पूर्वापरविततकालम् ---- इन्धनकार्यत्वे धूमकारणत्वे उष्णस्वभावत्वे च आभासमाने , अनतिचिरकालं तु बह्न्यादिशब्दवाच्यतावभासादाविति विशेषः / ततश्च नियतिशक्त्युपजीवनेन धूमाभासो ऽपि अग्न्याभासाव्यभिचारी इति न कश्चित् विप्लवः / कार्यता कारणता उष्णता च तस्य तस्य शब्दस्यार्थता तत्तच्छब्दा भिधेयता , आदिग्रहणात् ---- गन्धरसशून्यता ऊर्ध्वदिक्संयोगिता जलविरोधिता च , इत्येवंभूतो य आत्मा स्वभावो वह्न्यादौ स एकस्मादेव प्रमाणात् मतः ---- संविदित इति यावत् / अविच्छेदः इति काव्ये अयं समयो , न ग्रन्थे द्वितीयतृतीयपादयोः सामस्त्ये ऽपि अदोषः / पृथग्भावप्रत्ययप्रयोगो वस्त्वन्तरापेक्षानपेक्षातः कृतकत्वाकृतकत्वाभ्यां वर्गभेदं सूचयितुम् //८//
SK
एवं भावस्वभावव्यवस्थापनं प्रत्याभासविश्रान्तेन एकेन प्रमाणेन क्रियते , तेषामपि आभासानां यथोचितं यदन्योन्यनान्तरीयकत्वं तत् एकेन संवेदनरूपेण तदनेकप्रमिताभासविषयपूर्वप्रवृत्तसंवेदनकलापानुप्राणकान्तर्मुखस्वरूपेण निश्चीयते , तच्च ऐक्याभासमात्रे अनुसंधानरूपं प्रमाणम् , अनुसन्धीयमानेषु तु आभासेषु गृहीतग्राहित्वात् अप्रमाणम् , तत्र तु प्रत्येकं प्राच्यमेव प्रमाणम् / भावस्वभावव्यवस्थापनात्मकमानसप्रवृत्त्यतिरिक्तकायप्रवृत्त्युपयोगस्तु यथा प्रमाणविषयः तं प्रकारं दर्शयितुम् आह
SK
सा तु देशादिकाध्यक्षान्तरभिन्ने स्वलक्षणे / तात्कालिकी प्रवृत्तिः स्याद् अर्थिनः ................................ //
SK
बाह्या तावत् अर्थक्रिया स्वलक्षणतः स्वालक्षण्ये च देशकालाभासयोजनस्यैव अन्तरङ्गत्वम् तत्रापि च विशेषरूपतापि परामर्श विना न किंचित् , परामर्शद्वारेण तु प्रमातरि विश्राम्यन्ती प्रमातुः संवेदनैकरूपस्य देशकालायोगेन ऐक्यात् अभ्युज्झत्येव विशेषरूपताम् , इति सर्वत्र अद्वयं परमार्थतः , तथापि तु या विशेषरूपता भाति तस्यां परमेश्वरस्वातन्त्र्यमेव निमित्तं यत् , तत् मायाशक्तिरित्युच्यते / तत्र विशेषसाध्यार्थक्रियाविशेषेण योऽर्थी तस्य या स्वलक्षणे तस्मिन् विशेषरूपे अर्थे तत्कालभाविनी वाङ्मनः कायप्रवृत्तिः सा देशे , आदिग्रहणात् काले स्वरूपान्तरे तदनुसन्धानादौ च यानि अध्यक्षान्तराणि बहूनि प्रत्यक्षाणि तेषां भिन्ने भेदे निमित्ते सति भवति , न अन्यथा / नैकैकतः प्रमाणात् सा प्रवृत्तिः अपि तु प्रमाणसमूहादेव / समूहता च परस्य न उपपन्ना , अस्माकं तु एकस्वसंवेदनविश्रान्तिमयी सा बुध्यते , इति उक्तं प्राक्
SK
{न चेदन्तः कृता ..................... / }(Iप्क् २,३.७)
SK
इत्यत्र / इयमेव च सा प्रमाणानां योजना , योजिका च युक्तिरित्युच्यते / गन्धद्रव्यादियुक्तिवत् / एवं प्रत्यक्षसमूहादेव प्रवृत्तिरिति तात्पर्यम् / देशादिकेष्वध्यक्षेष्वपि देशाभासादियोजनायामपि , अन्तः ---- प्रमातरि अभिन्नं यत् स्वलक्षणं तत्र इति वा संगतिः / देशादिकैरध्यक्षान्तरैः प्रत्यक्षीभूतैराभासान्तरैर्भिन्ने स्वलक्षणे निमित्ते सति प्रवृत्तिः , इति वा योजना / अत्रापि प्रमेयवहुत्वनिरूपणदिशा तदनुयायित्वेन अभिधीयमानः प्रमाणसमूहो निमित्तत्वेन उक्तो भवति /
SK
ननु किं प्रात्त्यक्ष्यामेव प्रवृत्तौ प्रमाणसमूह उपयोगी ? नेत्याह
SK
...................................................... अप्यनुमानतः // Iप्क्_२,३.९ //
SK
न केवल प्रत्यक्षतः प्रवृत्तिः देशादिकाध्यक्षान्तरभेदरूपप्रमाणसमूहनिमित्ता यावत् अनुमानतो ऽपि तथैव / धूमाभासमात्रे अग्न्याभासमात्रे धूमस्याग्न्याभासाव्यभिचारित्वे पर्वताभासे च यानि प्रत्यक्षान्तराणि यच्च तद्गृहीतातिरिक्ते अयोगव्यवच्छेदे अग्निरत्र इत्येवंभूते पृथक् अनुमानं प्रमाणम् तत्समूहादेव अर्थिनः तात्कालिकी प्रवृत्तिः इति संबन्धः //९//
SK
एवं विमर्शबलादेव भेदाभेदव्यवस्था , तदेव हि परमेश्वरस्य संवेदनात्मनः शिवनाथस्य स्वातन्त्र्यशक्तिविजृम्भितम् ; ततश्च परैः यत् उच्यते दूरान्तिकादौ अर्थस्य अभेदः इति तदपि उअप्पद्यते , न तु अन्यथा कथंचित् , ---- इति निरूप्यते /
SK
दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना / बाह्यान्तरतया दोषैर्व्यञ्जकस्यान्यथापि वा //
SK
भिन्नावभासच्छायानामपि मुख्यावभासतः / एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम् //
SK
प्रतिभासमात्रेण व्यवस्थां कुर्वतः कथं दूरादूरयोर्वस्तुनोरभेदः , प्रतिभासस्य सकलासकलावृतानावृतादितया यथाकथंचिदपि भेदात् ? ननुविमर्शेऽपि प्रत्याभासं तथैव भिन्नता , ? सत्यम् , तथापि तु परो यो विमर्शः स एवायं पदार्थः इति एकप्रत्यवमर्शरूपः , तेन प्राणितकल्पेन आ समन्तात् ख्यानं प्रथनं यस्य मुख्यावभासस्य एकरूपभावाभासस्य , एकप्रत्यवमर्शे तदुचितो ऽपि हि अस्त्येकावभासः , आभासविमर्शयोरन्योन्यभवियोगात् / तस्मात् मुख्यावभासादेकत्वमप्रतिहतमास्ते / यदेवानुमितं तदेव दृष्टम् , ---- इत्यत्र प्रत्यक्षपरोक्षतारूपेणात्मना स्वभावेन भिन्ना अवभावच्छाया अमुख्योऽवभासो येषां तेषाम् एकत्वं मुख्यावभासत एकप्रत्यवमर्शानुप्राणितात् , ---- इति संगतिः / बाह्यान्तरतया भिनावभासानामैक्यं यथा यदेव दृष्टं तदेवान्तरहमुल्लिखामि , ---- इति / व्यञ्जकानां दीपालोकादीनां दोषैर्भोन्नावभासानाम् ऐक्यम् , यदेव रक्तोत्पलं दीपेन नीलं दृष्टं तदेव सूर्यांशुभिर्लोहितं पश्यामि , इति / अन्येनापि प्रकारेण इन्द्रियापाटवादिना एकपार्श्वसंमुखत्वादिना वा येषामवभासच्छाया भिन्ना , तेषामपि मुख्यप्रत्यवमर्शानुवर्त्यवभासस्वरूपबलात् ऐक्यमेव , ---- इति स्थितम् //१०////११//
SK
ननु दूरादूरादावस्तु स एवार्थः प्रमात्रध्यवसितार्थक्रियांशे तथैवोपयोगात् , वाह्यान्तरत्वादौ कथम् , आन्तरस्यार्थक्रियायां प्रमात्रध्यवसितायामनुयोगात् ---- इति भ्रान्तिं भङ्क्तुमाह
SK
अर्थक्रियापि सहजा नार्थानामीश्वरेच्छया / नियता सा हि तेनास्या नाक्रियातोऽन्यता भवेत् //
SK
इह {कार्यकरणता}(Iप्क् २,३.८) इत्यत्र स्वरूपमिवार्थक्रियापि या मध्ये गणिता , सा सहजार्थस्वरूपभूता न भवति , तत्कारित्वं हि यस्मात् ईश्वरेच्छया नियतं भवने चाभवने च / यतो नैषा स्वरूपं तेन तस्या अकरणात् हेतोर्भावस्यान्यत्वं नाशङ्कनीयं स्वरूपभेदात् हि संभाव्येतान्यत्वं , न च स्वरूपम् अर्थक्रियाकारित्वम् , ---- इत्युक्तं वक्ष्यते च बहुशः / स्वरूपं च प्रत्यवमर्शवलादेकमेव बाह्यान्तरादावपि , इति //१२//
SK
ननु विमर्शबलादेव यदि वस्तूनां भेदाभेदव्यवस्था तर्हि इदानीं त्रिजगति निवृत्ता भ्रान्तिसंकथाः , शुक्तिकायामपि सत्यरजततैव आपतति इदं रजतम् इति विमृश्यमानत्वात् , ततश्च भ्रान्त्यभावे बाधानुपपत्तेः किमर्थमुक्तं {मितिर्वस्तुन्यवाधिता}(Iप्क् २,३.२) इति / व्यभिचाराभावे हि अवाधिता इत्यस्य विशेषणस्य व्यवच्छेद्यं न लभ्यते , इत्याशङ्कां निरस्यति
SK
रजतैकविमर्शे ऽपि शुक्तौ न रजतस्थितिः / उपाधिदेशासंवादाद् द्विचन्द्रे ऽपि नभो ऽन्यथा //
SK
इदं रजतं स्थिरं सर्वप्रमातृसाधारणम् अर्थक्रियायोग्यम् इति इदमंशे रजताद्यंशेषु तत्संमेलनांशे च आभासविमर्शनबलात् न तावत् किंचित् मिथ्यात्वम् / किंतु उत्तरकालं यो भविष्यति विमर्शो नेदं रजतं वस्तु स्थिरं प्रमात्रन्तरगम्यमभिमतकार्यकारि इति तद्विमर्शविमर्शनीयम् यत् तत्पूर्वविमर्शकालसमुचितमेव रूपं तत् तस्मिन् पूर्वविमर्शकाले नैवामृश्यते , भाव्यं च तेनामर्शनीयेन / तत्रैव काले नेदं रजतं अभूत् इति हि उत्तरः परामर्शो न तु उदितप्रत्यस्तमितायां शतह्रदायामिव इदानीमेव इदं न इति विमर्शः ; ततो यावता पूर्णेन रूपेण प्रख्यातव्यं विमर्शपर्यन्तं तावत् न प्रख्याति , इत्यपूर्णख्यातिरूपा अख्यातिरेव भ्रान्तितत्त्वम् / तद्वशेन ह्यसद्विपरीतानिर्वाच्यादिख्यातयोऽपि उच्यन्ताम् /
SK
ननु सत्यरूप्यज्ञानमपि अपूर्णख्यातिः / ततस्तर्हि किम् ? / इदम् , अतः सर्वं भ्रान्तिः , ---- इत्यागच्छेत् / दिष्ट्या दृष्टिरुन्मीलिष्यति आयुष्मतः , मायापदं हि सर्वं भ्रान्तिः , तत्रापि तु स्वप्ने स्वप्न इव गण्डे स्फोट इव अपरेयं भ्रान्तिरुच्यते , अनुवृत्त्युचितस्यापि विमर्शस्यास्ह्तैर्यात् / अतश्च पृथक् इदन्ताद्याभासेषु न काचन भ्रान्तिः , मेकनांशे तु विमर्शानुवृत्तिनिर्मूलनं विमर्शोदयकालादेव आरभ्य बाधकेन क्रियते , इति तत्रैव भ्रान्तिभावः , ---- इति सिद्धम् / रजतस्य शुक्तिकया सह यद्यपि एको विमर्शः तथापि शुक्तौ रजतस्य ज्ञानेन या दत्ता स्थितिः इदं रजतम् इति , सा न , यत उपाधिरूपो यो देशः अत्र रजतम् इति रजतच्छायाम् आत्मनोपरञ्जयन् शुक्तिदेशः , तस्यासंवादात् , सम्यग्विमर्शानुवृत्त्याभासनं संवादनम् वदिः अत्र भासनविषयः , तस्याभावात् कारणात् /
SK
नन्वेवं भवतु शुक्तिकारजते , द्विचन्द्रज्ञाने तु द्वौ चन्द्रौ इत्याभासे शुक्तिकयेव मेलनं न केनचित्साकमाभासते यत्र बाधः स्यात् , एकाभासांशे च न बाधः , ---- इत्युक्तं भवतैव / क एतदाह --- मेलनं न केनचित्सह इति / एवं हि सति स्वालक्षण्येन नियतदेशकालतया कथमाभासः , ? तद्देशकालाभ्यां सह तत्रापि अस्ति मेलनाभासो यद्विमर्शोऽनुविवृत्सुर्निरुध्यते , द्वित्वाभासचन्द्राभासयोरपि मेलनाभासे विमर्शानुवृत्तिव्यावर्तनं वाच्यम् / तदेतदाह --- द्विरूपे चन्द्रेऽपि , न केवलं रजत एव / नभः इति देशविशेषः कश्चित् / अन्यथा इति द्विचन्द्रावरुद्धो योविमृष्टः स न तथा , ---- इति बाधकेन उन्मूलितप्राच्यविमर्शानुवृत्तिकः क्रियते , ---- इति / एवमाभासस्तन्मेलनं च नियमानुप्राणितम् ---- इत्येतावदेव प्रमेयम् / एतान्येव आगमे तत्त्वानि वक्ष्यन्ते / वस्तु तत्त्वं प्रमेयम् ---- इति पर्यायाः / तथा च काठिन्याभास इति पृथिवी , लोहिताभास इति रूपं तेजश्च , मेलनाभासो रजः , संनिवेशस्तु नियतिरूपः , नियतिर्हि नियमः , स च अभावप्राणः , अभावस्फुरणमेव च पृथिव्याभासस्य विचित्रतया चकासत् पृथुबुध्नोदराकारता , भेदाभासश्च माया , तत्पृष्ठे सत्यप्रकाशाभासश्च शिवतत्त्वम्, ---- इत्यास्तां तावत् / अग्रे भविष्यति एतत् / सर्वथा तावदत्र प्रमेये भगवत एव भेदने च अभेदने च स्वातन्त्र्यं घटगताभासभेदाभेददृष्टिरेव च परमार्थाद्वयदृष्टिप्रवेशे उपायः समवलम्वनीयः , न तु व्यवहारोऽपि अयं परमेश्वरस्वरूपानुप्रवेशविरोधी , इति प्रतिपादितम् //१३//
SK
एतदेव स्फुटयन् सकलप्रमेयसिद्धिः परमेश्वर एव आयत्ता , इति निरूपयति /
SK
गुणैः शब्दादिभिर्भेदो जात्यादिभिरभिन्नता / भावानामित्थमेकत्र प्रमातर्युपपद्यते //
SK
इह अनुवृत्तं व्यावृत्तं च चकासद्वस्तु कतरेण वपुषा न सत्यमुच्यताम् उभयत्रापि बाधकाभावात् , सत्यतो हि यदि बाधक एव एकतरस्य स्यात् तत्तदुदये स एव भागः पुनरुन्मज्जनसहिष्णुतारहितो विद्युद्विलायं विलीयेत ; न चैवम् , अत एव भेदाभेदयोर्विरोधं दुःसमर्थमभिमन्यमानैरेकैरविद्यात्वेन अनिर्वाच्यत्वम् , अपरैश्च आभासलग्नतया सांवृतत्वम् अभिदधद्भिः आत्मा परश्च वञ्चितः / संवेदनविश्रान्तं तु द्वयमपि भाति संवेदनस्य स्वातन्त्र्यआत् / सर्वस्य हि तिरश्चोऽपि एतत् स्वसंवेदनसिद्धं ---- यत् संविदन्तर्विश्रान्तमेकतामापाद्यमानं जलज्वलनमपि अविरुद्धम् , तत एव उक्तम्
SK
{अत एव यथाभीष्टसमुक्केखा .......................... }(Iप्क् १,६.११)
SK
इति / अतश्च गुणैरुपाधिरूपैरुपाधितया विवक्षितैः शब्दादिभिर्वा दण्डादिभिरपि वा यो भेदः , जातिवशात् सादृश्यात् भेदाग्रहणाद्वा , यश्च अभेदो भावानाम् इत्थमित्युक्तनीत्या {क्रियासंबन्ध}(२,२.१) इत्यतः प्रभृति निरूपितः , स एकत्रप्रमातरि सकलप्रमाप्रमाणसंयोजनवियोजनादिविचित्रासंख्यकृत्यप्रपञ्चोचितस्वातन्त्र्ये भगवत्यस्मदीयहृदयैकान्तशायिनि शिवशब्दव्यपदेश्ये सति उपपद्यते , नान्यथा / विशेषणान्येव च भेदकानि ---- इति किमन्त्यैरन्यैर्विशेषैः अयं स परमाणुर्य एतद्देशादिविशिष्टघटारम्भणकालस्थितपश्चात्तनसंघटितद्व्यणुकारम्भकाले पूर्वं मिलितः / अयं स आत्मा , यः पुरा स्वर्गसदने सुरयोषितमिमामित्थं परिरब्धवान् , ---- इति इयतैव योगिसर्वज्ञादीनां सिद्धः परमाण्वात्मादिषु भेदावभासः , ---- इत्यलमवान्तरेण / सिद्धं तावत् भेदाभेदरूपं प्रमेयतत्त्वम् एकप्रमातृविश्रान्त्या निःशङ्कतां श्रयति , इति //१४//
SK
नन्वेवंभूतो यद्ययं प्रमाता तत्रव तर्हि प्रमाणोपन्यासे प्रयतनीयं न प्रमेये , यदाह प्रधाने हि यत्नः फलवान् इति / तदेतदाशङ्क्य प्रथमोपक्षिप्तमेव प्रमेयं स्मारयत्याचार्यः / तथा हि /
SK
{अजडात्मा मिषेधं वा सिद्धिं वा विदधीत कः /}(Iप्क् १,१.२)
SK
इति / यद्वस्तु तदेवेदानीं ज्ञाते प्रमाणस्वरूपे परमेश्वरस्वरूपे च निर्वाहणार्हम् , एवं भूतं हि प्रमाणं तदेवंभूते हि भगवति कथं क्रमताम् , इति / तदेतत् स्फुटयितुमाह
SK
विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे / विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे //
SK
प्रमातरि पुराणे तु सर्वदा भातविग्रहे / किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि //
SK
परिमितप्रमातृलग्नो नवनवाभासः प्रमेयोन्मुखः प्रमाणम् इत्युक्तम् / तत्र प्रकाशवौषि प्रकाशमात्रस्वभावे पूर्वसिद्धे कः प्रमाणस्योपयोगः संभावना वा / तथा च पूर्वसिद्धे प्रमातरि सति तल्लग्नप्रकाशान्तर्भूतविमर्शमयीम् अभूतपूर्वां प्रमेयस्य सिद्धिं वितरति प्रमाणम् / प्रमातुश्चासिद्धस्य किं लग्ना सिद्धिरस्तु / विश्ववैचित्र्यं हि तर्त परमेश्वरे प्रकाशैकात्मनि सति भाति यथा चित्रं भित्तौ / यदि हि नीलपीतादिकं पृथगेव परामृश्यते तदा स्वात्मविश्रान्तेषु तेषु ततैव अन्योन्यविषये जडान्धबधिरकल्पानि ज्ञानानि स्वविषयमात्रनिष्ठितानि , विकल्पाश्च तदनुसारेण भवन्तः तथैव , इति चित्रम् इदम् इति कथंकारं प्रतिपत्तिः / एकत्र तु निम्नोन्नतादिरहिते भित्तितले रेखाविभक्तनिम्नोन्नता दिविभागजुषि गम्भीरनाभिरुन्नतस्तनीयम् इति चित्रावभासो युक्तः , तद्वत् एकप्रकाशभित्तिलग्नत्वेन वैचित्र्यात्मकभेदोपपत्तिः , इति भावभेदग्रहणप्रकाशभित्तेरनपायिनीं स्वप्रकाशतामाह / तत्र स्वप्रकाशे किं प्रमाणेन ? / अथोच्यते पूर्वमस्य प्रकाशो न भवति , तर्हि स एव नास्ति इति स्यात् प्रकाशमात्ररूपत्वात् तस्य / न च अस्य नास्ति , इत्यभावेन स्पर्श उपपन्नः , यतो हि असावेव परमार्थतः सन् , प्रकाशस्यैव सत्त्वात् , सतश्च असद्रूपत्वायोगात् / अथोच्यते ---- ईश्वरता तस्याप्रमिता प्रमास्यते तदपि न , यतो हि असौ प्रमातृत्वेन चेत् न चकास्यात् कस्यायमुच्यमः , चकास्ति चेत् तर्हि प्रमातृतैव ईश्वरता , तदाह ईश्वरे प्रमातरि सर्वदा भातविग्रहे इति / विशेषेण गृह्यते इति विग्रहोऽसाधारणं स्वरूपम् , अत एव स्वतन्त्रप्रकाशरूपत्वात् अभावस्पर्शायोगेनाभावानुप्रवेशनेन यः कालव्यवहारः सोऽत्र नास्ति , ---- इति पुराणे इत्युक्तम् / तत्र किं प्रमाणं , कुतः प्रयोजनात्प्रमाणं , कस्तत्र प्रमाणस्योपयोगः , ---- इति , तत्र च किं प्रमाणम् न किञ्चित् उपपत्त्या घटते इत्यर्थः / यतः प्रमाणं नाम नवाभासरूपं प्रमातरि प्रमितिलक्षणां विश्रान्तिं विदधत् प्रमाणं भवति , प्रमाता चाविच्छिन्नाभासः सर्वाश्च प्रमितीः स्वात्मनि अन्तर्मुखरूपे भजते / तत् तस्मिन् कथमभिनवाभासस्तत्प्रमितिश्च कुत्र विश्राम्यतु तस्मात् देहप्राणपुर्यष्टकशून्यप्राय एव प्रमातरि प्रमाणमुच्यताम् / तत्रापि च वेद्यांशे यदि नाम , न तु कथंचित् संविदंशे , तत्रापि विषयोन्मुखे तत एव संकुचितत्वात् अभिनवाभासे संकोचविहीनसत्यप्रमातृलग्नतापेक्षया कथ्यतां स्वसंवेदनं प्रमाणम् / सौगतेनापि ममेदं ज्ञानम् इति कल्पितप्रमातृलग्नमेव तदुपेत्यम् न तु परमार्थप्रमातरि प्रमाणेन किंचित् / उक्तं च मयैव
SK
{यत्प्रमेयीकृताऽस्मीति सर्वोऽप्यात्मनि लज्जते / कथं प्रमेयीकरणं सहतां तन्महेश्वरः //}
SK
इति //१६//
SK
नन्वेवं यदि भगवति प्रमाणमनुपयोग्यनुपपत्ति च किमर्थं तद्विषयं शास्त्रम् , तद्धि प्रमाणमेव , परार्थानुमानात्मकं हि शास्त्रम् , तत्र च प्रमाणादिषोडशपदार्थतत्त्वमयत्वमेव परमार्थः / यत्तु सौगतैः पञ्चावयवत्वादि दूष्यते तदाग्रहमात्रं , षोडशसु हि पदार्थेषु निरूप्यमाणेषु सम्यक् प्रतिपाद्यं परः प्रतिपाद्यते , हिताहितप्राप्तिपरिहारयोः इत्यादिना च ग्रन्थेन / परस्य किं प्रयोजनम् , तद्धि परस्य प्रतिपत्त्यै , सा च परार्थानुमानात् , तत्र च प्रतिज्ञादेरुपयोगः इति / तत् परिपूर्णपरप्रतिपत्तिकारि परमार्थतः सकलमेव शास्त्रं परार्थानुमानम् आगमव्यतिरिक्तं न्यायनिर्माणवेधसाक्षपादेन निरूपितम् / इति अत्रापि पूर्वोक्तमेव {किंतु मोहवशात्}(Iप्क् १,१.३) इति स्मारयितुमाह /
SK
अप्रवर्तितपूर्वोऽत्र केवलं मूढतावशात् / शक्तिप्रकाशेनेशादिव्यवहारः प्रवर्त्यते //
SK
इह परमेश्वरस्येदमेव परं स्वातन्त्र्यं ---- यत् अस्मादृक्प्राच्यपशुदशाविशेषासंभाव्यमानातिदुष्करवस्तुसंपादनं नाम / इतश्च किम् अतिदुष्करं भविष्यति , ---- यत्प्रकाशात्मनि अखण्डितताद्रूप्ये एव प्रकाशमाने प्रकाशननिषधावभासः प्रकाशमानः / तस्मात् परमेश्वरस्य तत्परं स्वातन्त्र्यं यत् तथानवभासनं पशुरूपतावभासनं नाम ग्राहकांशसमुत्थापनं तद्द्वारेण च ग्राह्योल्लासनमपि / सैषा भगवतो मायाशक्तिरुच्यते / यथोक्तम् /
SK
{माया विमोहिनी नाम .................. / }
SK
इति / तदेवंभूतान्मायाशक्तिरूपात् स्वातन्त्र्यात् या मूढता विनष्टपूर्णचेतनता स्वात्मवर्तिन इच्छास्पन्दोदयस्फुटस्फुरितविश्वभावनिर्भरतात्मनः पूर्णत्वस्य , स्मृत्यादिशक्त्यात्मनः स्वातन्त्र्यस्य , देशकालसंकोचवैकल्यात् अयत्नसिधबैभवनित्यताधर्मस्य च प्रकाशमानस्यापि यदप्रकाशमानतया अभिमननम् , तस्या वशात् सामर्थ्यात् , पूर्वं यो न प्रवर्तितः समनन्तरश्लोकद्वयोक्तस्वरूपे प्रमातरि भगवति ईश्वरत्वादिना उक्तेनैव पूर्णतादिना व्यवहारो यः खलु अहम् इति भाति स पूर्णः विभुः स्वतन्त्रो नित्यः , ---- इत्येवमादिरूपः , तं प्रवर्तयन्तु व्यवहारं लोका इति / एतेन शक्तीनाम् इच्छाज्ञानक्रियाणां प्रकाशकेन प्रत्यभिज्ञारूपेण व्यवहारसाधनपरार्थानुमानात्मना शास्त्रेण तं व्यवहारं प्रवर्तयतां तत्समर्थाचरणं क्रियते / प्रवर्त्यते इति द्वौ णिचौ / केवलमिति न तु किंचिदपूर्वं क्रियते , नापि तत्त्वतो ऽप्रकाशमानं प्रकाश्यते , प्रकाशमान एव यत् न प्रकाशते इत्यभिमननं तदपसार्यते / तदपसरणमेव हि परमेश्वरतालाभो मुक्तिः , तदनपसरणमेव संसारः , अभिमननमात्रसारं हि एतद्द्वयम् , उभयनपि चेदं भगवद्विजृम्भितमेव / एतदुक्तं भवति ---- यथा भौतस्य भासमाने एवात्मनि अपहारितो ऽहम् इति मोहान्मन्यमानस्य मोहोऽपसार्यते , ---- कः खलु त्वं ? , यस्येदृशं वस्त्रं मुखमीदृशम् ---- इति चेत् , पश्य तदस्ति बह्वतः ---- इति पुनः पुनरभिदधता न च अस्य अपूर्वं किंचन रचितम् , तथा पशुलोकस्य भासमान एव आत्मनि नाहमीश्वरः इत्यादि मोहादभिमन्वतो मोहो ऽपोह्यते / यो हि ज्ञानक्रियास्वातन्त्र्ययुक्तः स ईश्वरो यथा सिद्धान्तपुराणादिषु प्रसिद्धः , तथा च त्वम् ---- इति / यदि वा यस्मिन् यदायत्तं स तत्रेश्वरो राजेव स्वमण्डले , तथा च त्वयि विश्वम् , ---- इति ईश्वरताव्यवहारो नान्यनिमित्तकः , ---- इति व्याप्तिः / यत् खलु यल्लग्नं भाति तत्तेन पूर्णं निधानमिव मणिभिः त्वल्लग्नं च विश्वम् , ---- इति / यस्य यदन्तर्वर्ति भाति , स तावति व्यापकः समुद्ग इव मणिषु , त्वयि च संविद्रूपे धरादिसदाशिवान्तं शास्त्रप्रक्रियोक्तं विश्वम् , ---- इति / यस्मिन् स्थिते यदुदेति लीयते च तत् तत्पूर्वापरभागव्यापि यथा भूमावङ्कुरः , तथा च त्वयि प्रकाशरूपे विश्वम् , ---- इति / एवम् अन्ये ऽपि धर्माः सहस्रशो ऽपि आगमादिसिद्धा योज्याः / तदेवं व्यपोहिते व्यामोहे स्थितेऽपि तत्संस्कारमात्रधृते शरीरादौ अनात्मताभिमानपुरःसर एवात्मताभिमाने घटादौ च प्रकाशमान एवानात्मताभिमाने ज्ञातेन्द्रजालतत्त्वस्य पश्यतोऽपि इन्द्रजालं यथा न तत्त्वतो व्यामोहः तथा प्रत्यभिज्ञातात्मस्वरूपस्य / ततो निवृत्ते प्रयाणप्रापितपर्यन्ते देहे परमेश्वरतैव / अभ्यासभावनाबलेन तु शिव शासनोपदिष्टेन देहघटादावेव परमेश्वरतासमावेशमभिनिविश्य पश्यत इहैव शरीरे पारमेश्वर्यांशधर्मोद्गमः , न तु वस्तुतः पूर्णता , देहत्वस्यैवसंकोचप्राणस्य गलने यथास्थितविश्वात्मकतापत्तेः / यस्य तु व्यवहारसाधने हेतुकलापे ऽपि असिद्धताभिमानः , तस्य तत्रापि व्यवहारसाधनैरेव व्यामोहोऽपसार्यः / यस्य तु सर्वथा नापसरति , तत्रेश्वरशक्तिवलान्मूढतैव , तस्यापि कर्णपथगमनात् संस्कारपकिनावश्यं कदाचिद्भविष्यत्येव स्वरूपलाभः इति / तदेवं कर्तरि(Iप्क् १,१.२) इत्यादिश्लोकद्वयेन यदुक्तं तदेव विश्ववओचित्र्य इत्यादिश्लोकत्रयेणोपस्कृत्य पुनर्निरूपितम् , एवं भूतं तावत् प्रमाणम् तदेवं भूते भगवति कथमुपपद्यताम् / ततश्च युक्तमुक्तं शास्त्रादाविति मङ्ग्यन्तरेण इदानीं तदेव निर्वाहितम् ---- इति शिवम् //१७// आदितः १२०//
SK
इति श्रीमदाचार्याभिनवगुप्ताचार्यविरचितायां प्रत्यभिज्ञासूत्रविमर्शिन्यां क्रियाधिकारे मानतत्फलमेयनिरूपणं नाम तृतीयमाह्निकम् // ३ //

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Īśvarapratyabhijñāvimarśinī: Input by Masahiro Takano.

Source
Īśvarapratyabhijñāvimarśinī — Reader · Sutraya