Sutraya

Mālinīślokavārttika

Versified Commentary on the Mālinī · मालिनीश्लोकवार्त्तिकम्

Kāṇḍa 1

Versified Commentary on the Mālinī

मालिनीश्लोकवार्त्तिकम्

SK
विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश् च पञ्चमुखगुप्तरुचिर् जनकः / तदुभययामलस्फुरितभावविसर्गमयं हृदयम् अनुत्तरामृतकुलं मम संस्फुरतात् //
SK
यदीयबोधकिरणैर् उल्लसद्भिः समन्ततः / विकासिहृदयाम्भोजा वयं स जयताद् गुरुः //
SK
साभिमर्शषडर्धार्थपञ्चस्रोतःसमुज्ज्वलान् / यः प्रादान् मह्यम् अर्थौघान् दौर्गत्यदलनव्रतान् //
SK
श्रीमत्सुमतिसंशुद्धः सद्भक्तजनदक्षिणः / शम्भुनाथः प्रसन्नो मे भूयाद् वाक्पुष्पतोषितः //
SK
गुरुभ्यो ऽपि गरीयांसं युक्तं श्रीचुखलाभिधम् / वन्दे यत्कृतसंस्कारः स्थितो ऽस्मि गलितग्रहः //
SK
ततो गुरुतरः श्रीमान् भूतिराजो महामतिः / जयताद् भक्तजनतासमुद्धरणसाहसः //
SK
श्रीसोमानन्दसंबोधश्रीमदुत्पलनिःसृताः / जयन्ति संविदामोदसंदर्भा दिक्प्रसर्पिणः //
SK
तद्दृष्टिसंसृतिच्छेदिप्रत्यभिज्ञोपदेशिनः / श्रीमल्लक्ष्मणगुप्तस्य गुरोर् विजयते वचः //
SK
अप्य् असंख्यनवास्वादचमत्कारैकदुर्मदा / येनानुत्तरसंभोगतृप्ता मे मतिषट्पदी //
SK
तदेकमयताम् आप्य स्वात्मन्य् एव तथा स्थिता / तद् अस्याः प्रोन्मिषन्त्य् एव विविधा नादसंपदः //
SK
सच्छिष्यकर्णमन्द्राभ्याम् अर्थितो ऽहं पुनः पुनः / वाक्यार्थं वर्तये श्रीमन्मालिन्यां यत् क्व चित् क्व चित् //
SK
औचित्येनेतरत्यागाद् वाच्यवाचकयोर् मिथः / वर्तनावर्त एतस्मिन् साधु शास्त्रं च वार्त्तिकम् //
SK
ये ऽहर्निशं प्रकाशन्ते सर्वस्य च न गोचरे / नुमो ऽभिनवगुप्तांस् ताञ् शिवचन्द्रांशुसंचयान् //
SK
जयन्ति जगदानन्दविपक्षक्षपणक्षमाः / परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः //
SK
अनियन्त्रितसद्भावाद् भावाभेदैकभागिनः / यत् प्राग् जातं महाज्ञानं तद्रश्मिभरवैभवम् //
SK
ततं तादृक् स्वमायीयहेयोपादेयवर्जितम् / विततीभावनाचित्ररश्मितामात्रभेदितम् //
SK
अभिमर्शस्वभावं तद् धृदयं परमेशितुः / तत्रापि शक्त्या सततं स्वात्ममय्या महेश्वरः //
SK
यदा संघट्टम् आसाद्य समापत्तिं परां व्रजेत् / तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम् //
SK
अनुत्तरविकासोद्यज्जगदानन्दसुन्दरम् / भाविवक्त्राविभागेन बीजं सर्वस्य यत् स्थितम् //
SK
हृत्स्पन्ददृक्परासारनिर्नामोर्म्यादि तन् मतम् / एतत् परं त्रिकं पूर्वं सर्वशक्त्यविभागवत् //
SK
अत्र भावसमुल्लासशङ्कासंकोचविच्युतेः / स्वानन्दलीनतामात्रमात्रिच्छाकर्मदृक्त्रयम् //
SK
तथा च गुरवः शैवदृष्टाव् इत्थं न्यरूपयन् / स यद् आस्ते चिदाह्लादमात्रानुभवतल्लयः //
SK
तद् इच्छा तावती ज्ञानं तावत् तावत् क्रिया हि सा / सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते //
SK
चिद्रूपाह्लादपरमस् तदाभिन्नो भवेद् इति / ननु चेदृशि विश्वात्मभूते संकोचवर्जनात् //
SK
विकल्पकल्पनामूलाः कथं शास्त्रादिसंपदः / उच्यते सर्व एवायं बोधः संवित्प्रभामयः //
SK
प्रकाशरूपतायोगाच् चिदामर्शघनात्मकः / तत्रामर्शस्वभावो ऽयं यः प्रकाशः प्रकाशते //
SK
स एव किं न शास्त्रौघः किम् अन्यैर् युक्तिडम्बरैः / परवाग्देवताविद्धस् तत्रासौ केवलं भवेत् //
SK
न तु लौकिकमायीयवर्णपुञ्जविचित्रितः / उक्तं श्रीप्रत्यभिज्ञायाम् आत्मसंस्थस्य भासनम् //
SK
अस्त्य् एव न विना तस्माद् इच्छामर्शः प्रवर्तते / स्वभावम् अवभासस्य विमर्शं विदुर् अन्यथा //
SK
प्रकाशो ऽर्थोपरक्तो ऽपि तुल्यो रत्नादिकैर् इति / किंच यः कश् चनामर्शश् चिच्चमत्कारगोचरः //
SK
ह्लादतापादिविषयस् तदासौ भवति स्फुटः / तद्विमर्शान्तरालम्बसमुच्छलनयोगतः //
SK
पश्चात् सुस्फुटताम् एति तथा च गुरुर् ऊचिवान् / यथा स्वसंविदा सिद्धं सुखादि व्यवतिष्ठते //
SK
न हि व्यवस्थासमये वेद्यते तत् स्वसंविदा / तथावश्योपगन्तव्यं स्वसंवित्साधनाद् इति //
SK
एवम् अत्रापि पश्चाद् यज् ज्ञानाद्युल्लासवर्त्मनि / सर्वाभेदमयी भूमिर् यावद् आमृश्यतां व्रजेत् //
SK
तावत् तदुचितोदारविमर्शांशस्फुटत्वतः / तादृक् स एव शास्त्रत्वं प्राग्विसर्गः प्रपद्यते //
SK
एतद् एव तु युक्तं स्यात् तथा ह्य् अनुपधौ परे / शास्त्रार्थे ऽपि समाचारलेशः को ऽपि विभाव्यते //
SK
स नूनं स्फुटताधामभाविज्ञानादिशक्तिमान् / उपरागात् ततस् तत्तद्वैचित्र्यपरिबृंहितः //
SK
यथा मुखस्य तद्व्यक्तिस्थाने ऽप्सु मुकुरे मणौ / खड्गे चञ्चलसद्वृत्तसूक्ष्मदीर्घादिका स्थितिः //
SK
तद् इत्थं परमे रूपे प्रोद्भूता ज्ञानसंपदः / अनवच्छिन्नहृदयबीजात्मत्रयसुन्दराः //
SK
यदा तूच्छलदाकारस्वतरङ्गान्तरात्मकान् / विसिसृक्षति भावौघान् भैरवः शक्तिबृंहितः //
SK
तदा ता एव विज्ञानसंपदस् तदुपाधिजाम् / ईषत्क्रियासमाचारयन्त्रणां संश्रिता इव //
SK
परितस् तत्तरङ्गौघसात्मतां समुपाश्रिते / तथापि जगदानन्दसुन्दरे बोधभैरवे //
SK
भावनिर्भरतामात्रसंतृप्ते शक्तिशालिनि / पूर्णया निजशक्त्यैव न्यक्कृते शक्तिमत्पदे //
SK
तादृग् एव विमर्शात्मा ज्ञानधारा विजृम्भते / यस्यां भोगोपदेशेन को ऽपि ह्लादः प्रवर्तते //
SK
यदीयसंविदाचारचर्याविस्रम्भभावितः / भोगव्रातो ऽपि धन्यानां निःश्रेयसपदायते //
SK
यत्रोच्यते स्वशक्त्यादिक्षोभसंरंभनिर्भरा / देवस्य यागप्रियता विशेषान् मातृमध्यतः //
SK
ऐश्वर्यशक्त्युद्रेकेण लब्धेश्वरपदाभिधः / देवो विज्ञानमहिमा प्रोद्भूतो ऽयं प्रपञ्चितः //
SK
अत्राप्य् अनन्तभावांशसंयोजनवियोजने / प्राग्दशाभेदसंधानाद् असंख्यत्वम् उपाश्रिते //
SK
तदुपाधिवशाद् एव संविज्ज्ञानपदोज्झिताः / तायन्ते विविधाः शास्त्रक्रियाज्ञानविभूतयः //
SK
मुख्यस् त्व् एष प्रपञ्चो ऽयं पञ्चात्मत्वेन चर्चितः / तथा च वक्ष्यते तत्त्वम् अभिन्नम् अपि पञ्चधा //
SK
सव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः / इच्छानिवृत्तेः स्वस्थत्वाद् इत्याद्यैर् वाक्यसंचयैः //
SK
नन्व् एतावति सन्दर्भे देशकालकलाकृताः / भेदा न संभवन्त्य् एव बाढम् ओम् इति वच्महे //
SK
न ह्य् अत्र कालतत्त्वस्य नाममात्रं विभाव्यते / वैभव्य् अपि महाकाली शक्तिर् नात्र विजृम्भते //
SK
तर्ह्य् अभिन्ने स्वसंपूर्णे तदा पश्चात् पुनर् यदा / परतश् चेति को न्व् एष वाचोयुक्तिपरिग्रहः //
SK
अत्र ब्रूमः सत्यम् एव वस्तुतस् तु स्फुटात्मनि / जृम्भिते तत्त्वसर्गे ऽपि काले ऽप्य् उन्मिषितात्मनि //
SK
बोधस्य नैव सन्त्य् एताः पूर्वापरविकल्पनाः / कालो विशेषणत्वेन यस्माद् भवति भेदकः //
SK
विशेषणं च तत् प्रोक्तं समशीर्षिकयैव यत् / भेदेन वेद्यताम् एति यथा नीलं सरोरुहं //
SK
न च बोधस्य वेद्यत्वं कदाचिद् उपपद्यते / वेद्यत्वं भासमानत्वं तत् प्रकाशप्रसादतः //
SK
प्रकाशः स स बोधश् च न चेद् बोधान्तरस्थितेः / प्रकाशनियमान् नूनम् अनवस्था प्रवर्तते //
SK
अत एव विमूढा ये बोधम् अप्रथमानकम् / अर्थप्रथात्मकं ब्रूयुः स्ववचोवञ्चितास् तु ते //
SK
तस्मात् कालो न बोधस्य भेदकत्वाय कल्पते / नापि वेद्यस्य कालो ऽसौ भेदकीभवितुं क्षमः //
SK
विश्वं हि बोधाभिन्नं तद् अतथात्वे न भासते / प्रकाशेन समाविष्टश् चित्रं भावः प्रकाशते //
SK
विश्वप्रकाश एवं स्यात् सर्वस्यैव सदातनः / सति प्रकाशे बोधाख्ये स प्रकाशत्वम् अश्नुते //
SK
अप्रकाशो ऽपि भावश् चेत् प्रकाशात्मा स वेद्यते / अप्रकाशस् त्व् असौ भाव इत्य् अत्र शरणं तमः //
SK
यश् चाप्रकाशो भावात्मा प्रकाशात्मा स चेत् कृतः / नूनं स भावो नष्टः स्यात् स्वाप्रकाशत्वविच्युतेः //
SK
नातद्रूपं प्रकाशं च कर्तुं विधिर् अपि क्षमः / नन्व् एतावद् इदंभावः प्रकाशे सति भासते //
SK
अस्त्व् एतद् एव किंत्व् इत्थम् अप्रकाशः प्रकाशताम् / भावस्य चाप्रकाशत्वे प्रकाशीभाविते सति //
SK
नैवं प्रकाशितो भाव इति वस्तुस्थितिर् भवेत् / तद् अलं व्यतिरिक्तेन प्रकाशेन शिवस् तथा //
SK
तस्मात् प्रकाश एवासौ गीतो यः परमः शिवः / स एवाचिन्त्यमहिमा स्वातन्त्र्योद्दामघूर्णितः //
SK
प्रकाशते तथा तैस् तैः स्वभावैर् अच्युतस्थितिः / नात्र सर्वत्र सर्वज्ञभावः कश् चन शङ्क्यते //
SK
अहं चैत्रो घटं वेद्मि न पटं, वेद तं त्व् अयं. / नायं वेत्ति पटः, सो ऽहं जाने घटपटाव् इति //
SK
वेदिष्यामि न वा, पूर्वम् अजानां नैव वा क्व चित्, / क्रमेण वेद्मि युगपद् द्वाभ्याम् उभयवर्जितम्. //
SK
सर्वं वेद्मि, न किं चिच् च जाने. नैवास्मि कश् चन / भावात्मा, ननु नैवाहम्. अहं सर्वं च सर्वदा. //
SK
सर्वम् अस्म्य् अहम् एवैकः किं सर्वम् इतरद् भवेत् / इत्यादिर् एक एवायं प्रकाशः प्रविजृम्भते //
SK
नन्व् एको यद्य् असः कश् चित्, प्रकाशो न तदा परः / कथं भवेद्. अहो मूढः कथं व्युत्पाद्यताम् अयम् //
SK
एकः प्रकाशः स्वातन्त्र्याच् चित्ररूपः प्रकाशते. / वस्तुतश् च न चित्रो ऽसौ, नाचित्रो भेददूषणात् //
SK
घटप्रकाशे वस्त्रस्य प्रकाशो यदि संभवेत् / नासौ घटप्रकाशः स्याद् द्विप्रकाशो ह्य् असौ भवेत् //
SK
सो ऽपि चास्त्व् एव, नो नास्ति तद् इदं त्वत्प्रचोदितम् / घटात्मना प्रकाशो ऽस्य मा भूद् इत्य् अवतिष्ठते //
SK
तच् चायुक्तं प्रकाशस्य बोधत्वात् स्वात्मजृम्भणम् / लक्षणं यदि तत् को ऽयं वृथा वाग्जालडम्बरः //
SK
परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् / जडाद् विलक्षणो बोधो यतो न परिमीयते //
SK
तस्माद् अर्कस्य सद्भावे सिद्धे कः खलु बालिशः / ब्रूयात् कथम् अयं स्वांशुशुभ्रिताशेषभूर् इति //
SK
तस्मात् सिद्धे प्रकाशे ऽस्मिन् याः प्रकाशविकल्पनाः / सर्वास् ताः सर्वसंभुक्तयोषिच्चारित्रपालनाः //
SK
असिद्धौ च प्रकाशस्य को ऽहं किं त्वं तमो ऽपि किम् / न किं चिद् अपि वा किं स्यात् तूष्णीं स्याद् अपि वा कथम् //
SK
तस्मात् प्रकाशतादात्म्यलब्धभैरवभागिनाम् / भावानाम् अपि कालो ऽयं न किं चित् कर्तुम् अर्हति //
SK
हन्त तर्हि कथंकारं तदेत्यादिवचःक्रमः / श्रूयताम् उक्तम् अप्य् एतत् पुनर् निर्भज्य भण्यते //
SK
यः प्रकाशः स एवायं प्रतिभाति तथा तथा / नैव चान्यस्य कस्यापि स तु भात्य् एव केवलम् //
SK
स एव परमोदारः सर्वस्यैवावभासकः / स्वतन्त्र इति तस्येच्छाशक्तिः स्वातन्त्र्यसंज्ञिता //
SK
स च स्वात्मनि विश्रान्तस् तदन्याभावयोगतः / स्वात्मविश्रान्तिर् एवैषा देवस्यानन्द उच्यते //
SK
स्वातन्त्र्यमहिमैवास्य स्वरूपाद् अपृथक्स्थितिः / स्वप्रकाशे निजे धाम्नि भासयेद् भावविभ्रमान् //
SK
भासना च क्रियाशक्तिर् इति शास्त्रेषु कथ्यते / यया विचित्रतत्त्वादिकलना प्रविभज्यते //
SK
भासनानवभाते च कथं नाम प्रकल्पते / तद् अस्यान्तःस्थितं भानं ज्ञानशक्तिर् अहं स्मृता //
SK
एतावद् अस्य देवस्य यद् रूपं स्वात्ममात्रतः / स उन्मेष इति प्रोक्तः पञ्चशक्तिस् ततो विभुः //
SK
त्रिशक्तिर् एकशक्तिर् वा देवो वा केवलः स्थितः / शक्तिर् एवाथ देवी सा सारशास्त्रे निरूप्यते //
SK
वक्ष्यते च जगद्धातुः कथितेत्यादितः परम् / सैवैका सत्य् अनेकत्वं गच्छतीति महेशिना //
SK
स चायं निर्भरानन्दविश्रान्तिस्वात्मसुस्थितः / सोदर्यैः शब्दसंदर्भैर् भाष्यते भैरवादिभिः //
SK
सविधं दूरगं वापि यद्य् अप्य् अस्य न वस्तुतः / शब्दजातं भवेत् किं चिद् अन्यद् अप्य् अथ वा प्रभोः //
SK
तथा च भासयत्य् एव देव एष तथा तथा / ततस् तदनुसारेण सर्वो ऽयं कल्पनाक्रमः //
SK
न च तत् कल्पनामात्रं तथात्वे ऽप्य् अथ का क्षितिः / तथा संकल्पतां देवो यद् वा कल्पयतां तथा //
SK
एवं चैष प्रकाशात्मा सप्तत्रिंशात्मकात् परः / वैचित्र्यभासनां कुर्वन् कालं भासयति प्रभुः //
SK
वैचित्र्यभासनैवेयं कालशक्तिर् उदाहृता / ततो ऽवभासमानैतत्कालशक्त्यनुरोधतः //
SK
आस्माकीनात् तदेत्यादिर् उपरागः प्रवर्तते / न चासौ तत्र नास्त्य् एव तत्र यन् नास्ति तत् कुतः //
SK
अन्यत्र तन्यतां नाम तत् प्रकाशवशं स्थितम् / नन्व् एवम् अपरे तत्त्वजाले शुद्धेतरस्थितौ //
SK
शुद्धाशुद्धपदे वापि विद्यादौ तत्त्वमण्डले / शुद्धभैरवसद्भावाद् अविशेषो भविष्यति //
SK
नरीनृत्यामहे हन्त यत्नाद् व्याख्येयम् एव नः / आयुष्मतो यद् धृदये स्वयं विपरिवर्तते //
SK
शुद्धाशुद्धविभेदो हि परमार्थकथासु नो / स तु तत्कृत एवास्ते मूढानां धियि निश्चलः //
SK
ननु शुद्धेतरत्वाख्यो यदि भेदो न वास्तवः / व्याचिकीर्षितम् एवैतच् छास्त्रं विवदते ततः //
SK
अशुद्धत्वं हि तत्त्वानां दीक्षया शोधनं ततः / इत्यादि बहुधा भेदप्रधानात्र यतः स्थितिः //
SK
उच्यते नाद्वये ऽमुष्मिन् द्वैतं नास्त्य् एव सर्वथा / उक्तं हि भेदवन्ध्ये ऽपि विभौ भेदावभासनम् //
SK
तद् एव खलु संसारे मायाविद्यादिभिः पदैः / बन्ध इत्य् उच्यते तत्र रूढाः संसारिणो मताः //
SK
तच्चिन्तानुसृतेर् एषां शुद्धाशुद्धादिनिश्चयः / किं च शास्त्रम् इदं सम्यग् भगवद्योगदेशकम् //
SK
भगवद्योगम् अद्वैतं निर्द्वन्द्वं च प्रचक्षते / तस्योपदेश इत्थं स्याद् यदि यावद्विभेदवत् //
SK
संभाव्यते तन् निर्भज्य निर्भज्यैव निरूप्यते / अद्वैते भैरवविभौ यत् प्रवेशोपवेशयोः //
SK
आभ्यासिकी स्थितिर् नास्ति तौ हि भेदैकजीवितौ / अतः संभाव्यनिखिलद्वैतशङ्काव्यपोहने //
SK
गुरूणां च शिशूनां च यत्नः सर्वो विजृम्भते / अतो द्वैतम् इहाशङ्क्याशङ्क्य सर्वं प्रतन्यते //
SK
तद् यावद्गति संभाव्य न तु कुत्राप्य् उदास्यते / तथा हि यदि नामृष्टं द्वैतं तर्ह्य् एकम् एव सत् //
SK
चिद्ब्रह्म तद् अलं तत्त्वसंख्याकल्पननिर्णयैः / पञ्चत्रिंशतिता कस्मात् तत्त्वानां तन् निरूप्यते //
SK
तस्माद् द्वैतस्य भेदात्मस्थितेर् यावद्गति ग्रहम् / कृत्वा यस् तत्प्रतिक्षेपस् तेन निःशङ्कता भवेत् //
SK
एतद् एव च विज्ञाने निर्भिद्यैवोपदेशनम् / यथासंभवि यद् वज्रपक्षाणां तद् विदारणम् //
SK
तथा हि श्रीमता स्तोत्रे भट्टनारायणेन तत् / नमस् ते भवसंभ्रान्तभ्रान्तिम् उद्भाव्य भिन्दते //
SK
ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते / निर्द्वन्द्वम् इति निर्द्वैतं प्रकटीक्रियते पदम् //
SK
उद्भाव्यन्ते भ्रमाश् चेति चकारो ऽत्राद्भुतावहः / इह चाद्वैतम् एवेति पुरतः प्रतनिष्यते //
SK
अध्वशुद्ध्यादिकं द्वैते ऽनुपपत्तीति वक्ष्यते / अभेदेन विना नैतन् ननु भेदं विनापि किम् //
SK
सत्यं किंत्व् अद्वये तत्त्वे भेदो ऽपि न न युज्यते / इदं हि तत् पराद्वैतं भेदत्यागग्रहौ न यत् //
SK
भेदे तु विश्वभावानां स्वस्वभावव्यवस्थितेः / अभेद इति शब्दो ऽयं मन्ये भेदयते रसात् //
SK
तद् अलं प्रकृतं निरूप्यते परमेशः किल भेदकल्पनाम् / प्रकटीकुरुते यथा तथा ननु कालो ऽपि विजृम्भते तथा //
SK
न तथापि च याति भिन्नतां परमार्थेन कदाचिद् एव सः / युगपत् स हि संविदात्मकः
SK
नन्व् इत्थम् एकघनभावविमर्शसार् संवेदने यद् अहम् एष करोमि चित्रः / जानामि वा तद् अपरे ऽपि न मैत्रचैत्र- प्राया विदध्युर् अथवापि कथं न विद्युः //
SK
अहो मायाग्रन्थिर् निबिडतम एषो ऽत्र भवताम् इदं हि प्रब्रूमः स्वपरम् इह नास्त्य् एकम् अभिदम् / अहं वेद्मीत्य् एषा घटतनुविशेषप्रकटता प्रथाश् चित्राकाराः परमहसि भान्तीति कथितम् //
SK
तस्माद् घटं वेद्म्य् अहम् इत्य् अमुत्र भेदो न कश्चिन् ननु मे घटो ऽयम् / भातीति भेदप्रतिभानम् अस्ति नैतन् न तस्यैष शिवस् तथायम् //
SK
अत एव द्वैपायनमुख्यास् तेषु स्वशास्त्रदेशेषु / ममकारम् एव मृत्युं खण्डनदायित्वतः प्राहुः //
SK
तद् एवं कालकलनोपाधिजातोपरागजाः / तदेत्यादि प्रतायन्ते परतत्त्वे ऽपि संविदः //
SK
तत्र पूर्णैकरूपत्वात् सर्वं सर्वत्र चापि तत् / अन्यथा खण्डनायोगान् न पूर्णा पूर्णता भवेत् //
SK
ततः पूर्णतया सर्वंसहभैरवधामनि / पञ्चात्मको ऽयं शास्त्रार्थः शाम्भवः. शक्त्यणुस्थितिम् //
SK
न्यक्कृत्यैष परां देवीं स्वात्मन्य् उद्रेच्य वर्तते / इत्थं स विसिसृक्षुः सन् भावान् विस्रष्टृतापदात् //
SK
पूर्वम् उच्छलितानन्दघनाम् अभजत स्थितिम् / विस्रष्टृतापदे त्व् एष विसर्गावेशभाग् अपि //
SK
रिक्तीभविष्यन्न् आनन्दघनया पूर्णया चिता / तावद् आनन्दशक्त्यंशविसर्गावेशनिर्भरः //
SK
वर्तमानः स्वशक्त्योघपूर्णश् चाभूद् भविष्यति / रिक्तशक्तिर् इति त्र्यात्मचित्रसंवेदनात्मकः //
SK
तदासौ देवदेवः स्याद् विस्रष्टरि पदे स्फुटम् / ननु किं वर्तमानांशे संस्तो भूतभविष्यती //
SK
किं नाम भवता ज्ञातं ते स्वतन्त्रे ऽपि के चन / वर्तमानावधेर् भूतं भविष्यच् च विभज्यते //
SK
यच् च यत्र न विश्रान्तं तद् विभज्येत वै कुतः / कथं चावधिभावः स्याद् वर्तमानस्य ते प्रति //
SK
तयोर् अवधिमत्त्वं वा तत् प्रत्य् अपि कथं भवेत् / विश्वस्य विश्वम् अवधिस् तद्वद् वा जायते न किम् //
SK
तस्माद् भूतं भविष्यच् च वर्तमानाख्यसंविदि / रूढम् एवेति तत्रैव यदि विश्रान्तिम् आवहेत् //
SK
यदि चात्रैव निखिलकल्पनारश्मिमण्डलम् / अविस्फार्य क्षणं तिष्ठेत् संनिरुद्धनिजस्थितिः //
SK
तन् निजामृतविस्फारचमत्कारैकचर्वणाम् / लभते परमानन्दसुधासन्दोहवाहिनीम् //
SK
तथा हि सूर्यरश्म्योघपूर्णः स्याच् चन्द्रमा यदा / तदा सूर्यकरान् भूयो यावन् न विसिसृक्षति //
SK
तावत् स्वमण्डलाभोगे क्षणं विश्रान्तिसुस्थितः / अन्तःस्थविश्वदेवांशतर्पणापात्रम् उच्यते //
SK
एवं भावप्रकाशार्कमरीचिनिचयाञ्चिते / स्वबोधचन्द्रमहसि वर्तमाने हृदन्तरे //
SK
विश्रान्तो ऽन्तःस्थितोदारचित्सुधासारसुन्दरे / अन्तःस्थस्वामृतापूरो वम्यते न बहिर् यतः //
SK
तत एवान्तर् एवासौ घूर्णमानः समुच्छलन् / स्वान्तःस्थदेवताचक्रतर्पणाहंविदात्मकः //
SK
जायते यावद् उद्दाम्येत् तावत् स्वकरणक्रमः / निरुद्धे रश्मिपटले विभवाभावयोगतः //
SK
न भूतं न भविष्यच् च वर्तमानाद् विभज्यते / अविभागस् तयोर् यावत् तावत् का वर्तमानता //
SK
भूतभाविस्वभावाभ्यां सा हि याति विभागिताम् / तद् अस्मिन् संविदवधौ विश्रम्य तुटिमात्रकम् //
SK
कालग्रासपरो योगी जायते खेचरः क्षणात् / उक्तं हि भावाभासो यः कालः स कलनात्मकः //
SK
स्वसंविद्रश्मिसंस्फारो भावाभावः स नापरः / तस्मात् स्वरश्मिसंरोधद्वाररुद्धाध्वमण्डलः //
SK
कालग्रासैकरसिको जायते खेचरः स्वयम् / तद् उक्तं परमेशेन तन्त्रे श्रीडामराभिधे //
SK
निरुद्ध्य रश्मिचक्रं स्वं पीत्वामृतम् अनुत्तमम् / कालोभयापरिच्छिन्ने वर्तमाने सुखी भवेत् //
SK
रोधो ऽपि नाम नैतस्मिन् संकोचपरिवर्जिते / तदभावान् न विस्फारो ग्रासतृप्ती तथात्र के //
SK
किं तूक्तनीत्या संरोधस्फारग्रासादि भासते / न तथाभासनाच् चान्यद् वस्तु विश्वत्र किं चन //
SK
इत्य् अलं खेचरीचक्रगोष्ठ्यालापेन भूयसा / को वाभिनवगुप्ते ऽस्मिन् योगः संवेदनक्रमे //
SK
प्रकृतं ब्रूमहे देवीविसृष्टाश् चित्रसंविदः / यावत् तावद् तद् ऊर्ध्वोर्ध्वं स्रोतो यद् भेदवर्जितम् //
SK
सौरभर्गशिखादीनि ततः शास्त्राणि तेनिरे / उक्तं भर्गशिखायां च देवेन परमेष्ठिना //
SK
ऊर्ध्वस्रोतोद्भवं ज्ञानम् इदं तत् परमं प्रिये / परमध्वनिनोर्ध्वोर्ध्वसंविद्रूपाभिधायिना //
SK
ईशानवक्त्रनिर्यातात् सिद्धान्ताद् भेदम् आदिशत् / अत्रापि पूर्वभेदांशव्यामिश्रीभावचित्रिताः //
SK
विज्ञानसंपदस् तांस् तांस् तन्वते शास्त्रविभ्रमान् / इह यावत् तु मुख्येयं षडात्मा शास्त्रसंततिः //
SK
एतत्पूर्वार्धभागीनि त्रिकशास्त्राणि यानि तु / षडर्धसंज्ञया तानि गुरुभिर् भाषितान्य् अलम् //
SK
न तु गूढरहस्यत्वाद् एवैष वचनक्रमः / एवं हि द्वादशार्धार्धम् इत्याद्य् अपि न किं भवेत् //
SK
अत्र शक्तित्रयं मुख्यं संपूर्णस्थिति कल्पते / अनन्योन्योपरोधेन पूर्णं पूर्णचिदात्मकम् //
SK
ततः परं तु त्रितयं कस्यांचिद् गुणिताजुषि / अन्यस्यां गुणताभाजि यामलं परिभाष्यते //
SK
पश्चाद् विसृष्टे ऽर्थौघे तद्वैचित्र्योपाधियोगतः / पृथग्भाववियोगासु स्वात्मशक्तिषु पञ्चसु //
SK
चित्स्पन्देच्छाविदाकर्मरूपासु स्वौचितीवशात् / पञ्चब्रह्माङ्गसुभगात् स्फुरद्भावांशबोधजम् //
SK
रूपं शास्त्रात्मतां प्राप्तं पञ्चधैव विजृम्भते / तथा हि प्राग् अनन्तान्तःस्थितभावौघजृम्भणम् //
SK
यावत् करोति भगवांस् तावद् ईशमुखस्थितिः / अन्तःस्थाया अभिन्नायाः क्रियाशक्तेर् विजृम्भणे //
SK
क्रमाद् उन्मिषिते तावान् एष स्फारः प्रतायते / क्रियाशक्तेः स्फुटः स्फारो मायात्वं प्रतिपत्स्यते //
SK
मायातत्त्वस्वरूपे हि शिवेशानीति वक्ष्यते / शुद्धशुद्धेतराशुद्धविश्वनिर्माणकारिणः //
SK
पञ्चमन्त्रतनोः शम्भोर् निर्मेयाशुद्धसंगतिः / अस्त्य् एव पूर्वकोट्यां हि सर्वम् एव व्यवस्थितम् //
SK
तथा हि स्वगृहात् क्वापि यियासोः प्रथमक्षणे / यावत् किं चन गन्तव्यं यच् च तन्मध्यवृत्ति तु //
SK
तुटिपाते ऽपि सर्वज्ञसर्वकर्तृत्वलब्धृता / तत एव विशेषांशनिष्कम्पकुशलात्मनाम् //
SK
तथा हि जात्यखड्गाग्रधारासंस्पर्शसंमिता / स्फुरत्त्वसमकालं धीर् विशेषांशान् प्रकर्षति //
SK
रत्नतत्त्वस्फुटप्रज्ञो विद्युत्तत्कालदर्शितान् / तांस् तान् विशेषांश् चिनुते रत्नानां भूयसाम् अपि //
SK
अनेकस्वरसंभारस्पर्शलाघवयोजिते / वीणायाम् एकविस्तारे वैचित्र्यं वेत्ति तन्मयः //
SK
निबिडाभ्यासधाराग्रविश्रान्तश्रवणेन्द्रियः / वेत्त्य् एव तत्स्वरांशान्तःश्रुत्यूनाधिकताम् अपि //
SK
आस्ताम् अभेदवादे ऽस्मिन्न् अयत्नेनैव सिद्ध्यति / एतद् यत्र विभाते ऽपि भेदे वास्तवम् अद्वयम् //
SK
भेदैकजीविते शास्त्रे यावद् एतद् स्थितं स्फुटम् / तथा हि पातञ्जलिना पादे वैभूतनामनि //
SK
न्यरूप्यत `प्रातिभाद् वा सर्वम्ऽ अत्र मयापि च / प्रातिभे प्रथमोन्मेषे संविद्रूपिण्य् अखण्डिते //
SK
स्थितः सर्वस्फुरत्तात्मा सर्वसिद्धिफलोदयः / एवं जगति निर्मेये निर्मित्सास्वीकृतं बलात् //
SK
अशुद्धम् अपि तद्रूपनानावैचित्र्ययोग्य् अपि / सामान्याकाररूपेण दलं भेदात्मसुन्दरम् //
SK
आस्ते प्रोन्मिषितं सैषा भेदाभेदात्मिका स्थितिः / अत एव हि सादाख्ये ज्ञानशक्तिस्वरूपिणि //
SK
अशुद्धिलेशकालुष्यात् परापरतया स्थितिः / तेनेशभुक्ताद् एतस्माद् अप्य् ऊर्ध्वपदभागिनः //
SK
मायाप्रकटनौत्सुक्यात् तत्संस्कारजुषस् तथा / बहुक्रियासमारम्भमयं विविधमन्त्रणम् //
SK
प्रादुर्भूतं महाज्ञानसन्ततेश् च शिवप्रदम् / स हि तत्रापरो भावः परभावनिमीलितः //
SK
न तु रूढिम् उपागच्छेद् अशुद्धोर्ध्वविधाव् इव / तेन वैष्णवबौद्धादिशासनान्तरनिष्ठिताः //
SK
यथा सम्यङ् न मुच्यन्ते न तथा शैवसंस्कृताः / अतिमार्गक्रमकुलत्रिकस्रोतोन्तरादिषु //
SK
परमेशानशास्त्रे तु ये सम्यग् दीक्षिता नराः / तेषां नैवापवर्गस्य लाभे भेदो ऽस्ति कश् चन //
SK
न चैतदतिरिक्तो ऽपि मोक्षोपायो ऽस्ति कश् चन / केवलं क्वाप्य् अनायासाज् जीवन्मुक्तिक्रमेण च //
SK
शीघ्रम् एव परा सिद्धिर् यथास्मद्दर्शनेष्व् इति / क्वापि तत्त्वावलीयोगपरिपाटीक्रमाच् चिरात् //
SK
तैस् तैः क्रियाकलापैश् च लभ्यते परमं फलम् / अत एवास्ति संहारदृशाम् कौलिक्य् अपीह दृक् //
SK
यथोक्तं कालपादादौ दीक्षयेच् छ्वपचान् इति / चिदुन्मेषादिकाः पञ्च याः पूर्वं प्रागभेदतः //
SK
प्रोक्ताः परस्मिंश् चिन्नाथे भैरवे समवायतः / ता एव भावोपाध्यंशलब्धभेदविभाविताः //
SK
भेदांशम् एव पुष्णन्ति प्रागभेदजुषो ऽप्य् अलम् / तथा ह्य् ओदनसंभोगो यो देहस्योपचायकः //
SK
कफसंचयपातेन स देहस्यापचायकः / ननु देवस्य विश्वात्माभेदे ऽपि स्वापरिच्युतेः //
SK
विकारिष्व् एव योग्यानाम् उपाधीनां गतिः कुतः / तदुपाधिवशाद् भेदो भैरवे भावसंभवात् //
SK
इति नास्मन्मनोभूमाव् उपारोढुम् इवार्हति / तूष्णीं विकारिणो भावाः सन्तीति ह्य् अतिसाहसम् //
SK
देवः स एव विश्वात्मा तथारूपेण भासते / अनुपाधेर् अभिन्नस्य भिन्नम् औपाधिभासनम् //
SK
नन्व् इत्थं तद् असत्यं स्यात् कथं सत्यं तद् एव हि / तथावभासनाद् अन्यत् क्व किं सत्यं निरूप्यताम् //
SK
नन्व् एवं स्वप्नसंसारः किं सत्यं किंत्व् असौ किल / अभीष्टार्थक्रियावन्ध्यो ऽसत्यो व्यवहृतः परम् //
SK
एतच् चाग्रे प्रपञ्चेन युक्तियुक्तं निरूप्यते / तस्माद् उन्मेषशक्तिर् या पूर्वम् आसीद् अभेदिनी //
SK
भावोन्मेषस्वरूपासौ याता तत्पुरुषस्थितिम् / यद् अभिन्नं तद् अग्राह्यं यच् च ग्राहकम् ईश्वरम् //
SK
अधुना तत् स्थितं ग्राह्यं भेदात् तद्ग्राहकं भिदः / पुरुषाख्यं ततः प्रोक्तं सृष्टेः प्रारम्भयोगतः //
SK
सुस्फुटप्रत्यभिज्ञानान् मुख्यं वक्त्रं च भण्यते / अत एवात्र विसरभावस्थितिविघातकम् //
SK
नानारुग्ग्रहसंघातविषादि परिचर्च्यते / अनेकयुक्तिदलितव्याधिसंशान्तसुस्थिताः //
SK
अत्र सुस्फुटतां यान्ति भावा भेदैकवृत्तयः / भावत्वम् एव यत् सर्वं तत् त्व् इदं पूर्वजं मुखम् //
SK
सर्वतश् च गुणोत्कर्षाद् ईशानस्योर्ध्ववक्त्रता / दिक्कालकलनाशून्ये न तु दिग्भेदकल्पनाः //
SK
यो हि यस्माद् गुणोत्कृष्ट इति चोर्ध्वो भविष्यति / ततो भावान् यदा सम्यग् इच्छतीच्छाविभूतितः //
SK
तदेच्छायां समारूढाः सा चेच्छा चैव निर्मला / येन तन्मयतायोगात् संविदैक्यं स्पृशन्त्य् अमी //
SK
किंतूपाध्युपरक्तेच्छासंछादनतिरोहिताः / ते तदानीं स्थिता भावा देवस् तु स्वैषणास्थितः //
SK
पराचीनितसंवित्तिवक्त्रो न च परां स्थितिम् / पूर्णाम् अध्युषितस् तेन सुषुप्त इव भासते //
SK
असुप्तश् च प्रबुद्धत्वात् तस्य स्वापो निमीलनम् / न ह्य् अस्ति परमार्थेन भैरवानन्दसंविदः //
SK
तस्मिन् परप्रकाशे हि निमीलत्त्वम् उपागते / प्रलयात् तन्निमीलत्त्वमितिर् वा कुत्र भासताम् //
SK
अनाभातं च नो वस्तु व्योमसद्मगवाक्षवत् / सो ऽपि वा कल्पिताकारश् चित्प्रकाशे प्रकाशते //
SK
तद् अमीलित एवायं निमीलन्न् इव तिष्ठति / प्रभूणाम् अविकल्प्या हि शक्तिर् दुर्घटकारिणाम् //
SK
इदं सुखेन घटते दुःखेन घटते त्व् इदं / इत्य् आभासनवैचित्र्ये स्वतन्त्रो हि स एव नः //
SK
तद् एव तस्य स्वातन्त्र्यं शक्तिर् नियतिनामिका / यया रुद्धः पशुर् जातु स्वातन्त्र्यं नैव विन्दति //
SK
तदपेक्षाबलात् प्रोक्ता पत्यौ दुर्घटकारिता / न हि विश्वात्मनः किं चित् सुघटं वाथ दुर्घटम् //
SK
किं मुहुर् मुहुर् एतेनासकृन् ननु निरूपितम् / हन्ताविस्मृतिशीलं त्वां प्रत्य् एतत् स्याद् अपार्थकम् //
SK
एकम् उद्दिश्य किंत्व् एतत्संरम्भो न विराजते / किं ह्य् एकाङ्कुरसंपत्त्यै प्रावृषेण्याः पयोमुचः //
SK
मर्मस्थानम् इदं चात्र व्युत्पाद्यो हि जनः स च / व्याप्तो हृद्भुवि कर्मौघकृष्टायां सौकुमार्यतः //
SK
मायाबीजोत्थितानन्तविकल्पाङ्कुरकन्दलैः / भेदाभिमानजनितवाचनौचित्यसेवितैः //
SK
यावद् विद्यामहादावज्वालयैषा पुनः पुनः / नालब्धा तावद् अस्यैतद् द्वैतं रोहेत् पुनः पुनः //
SK
तीक्ष्णयुक्तिकुठारौघैः सद्विद्यावह्निदीपितैः / निर्भिन्नो भेदविटपी पुनर् नैव प्ररोहति //
SK
एवं देवे सुषुप्तांशमध्यासीने स्थिता अपि / असद्देशीयतां यान्ति भावाः श्वभ्रकपित्थवत् //
SK
अत्र तादृशम् एव स्वं ज्ञानं वैराग्यनिर्भरम् / निरुपाख्यं निरालम्बं व्यजृम्भत विभागतः //
SK
कपालमालाभरणाः श्मशानपदवासिनः / अस्मात्पराङ्मुखीभूता भूतसंघातगोचराः //
SK
भोग्यं जुगुप्सावधि सर्वम् एव भोक्ता ह्य् अहं कः किल देह एषः / चर्मास्थिमात्रं न च सारम् अत्र लेशांशभागे ऽपि कदाचिद् अस्ति //
SK
इत्थम् अभ्यस्यमानास् ते परां वैराग्यसम्पदम् / प्रतिक्षणम् उपारुह्य निमीलन्ति तदाहताः //
SK
किम् एतद् इति धावन्ति दुःखे ऽपीन्द्रियवृत्तयः / एतद् एवम् इति प्रायो विरज्यन्ते सुखाद् अपि //
SK
दृष्टानुश्रविकार्थौघवैतृष्ण्ये वशताधियः / तत्परं पुरुषख्यातेर् गुणवैतृष्ण्यम् इत्य् अपि //
SK
नन्व् अकाण्डे ऽपि पृच्छामः किं चिद् यदि न कुप्यते / * किम् अकाण्डे भेदकाण्डभेदकाण्डघटावधौ //
SK
तर्हि संविद् इयं शुद्धा स्वभावाद् एव चेत् कथम् / अशुचिभ्यो ऽपि भोगेभ्यो रसात् स्पृहयतेतराम् //
SK
नन्व् अविस्मृतिशीलत्वाभिमानः क्वाधुना गतः / अलं वा बुद्ध्युपालब्धैर् उक्तम् अप्य् एतद् उच्यते //
SK
स्वभावाद् एव संवित्तिः प्रकाशपरमार्थिका / विश्वावभासयोगेन भातीति हि विपञ्चितम् //
SK
अतश् च संविदो देव्या विश्वस्मिन् भावमण्डले / स्वात्मन्य् एवोच्छलत्त्वं किं खण्डनादायि जायते //
SK
यदापि परमेशानशक्त्या भेदो ऽवभास्यते / तदापि संविद् भावेषु धावतीति विविच्यते //
SK
यथा लोष्टह्रदज्वालाश्वासकुम्भवियत्स्थितिः / धराम्बुधिमहातेजःसमीरानन्तखात्मताम् //
SK
यात्य् एव मितिरूपेयं संवित् स्वोच्छलिता क्रमात् / संविद्रूपसजातीयान् भावान् एवानुधावति //
SK
न्यरूप्यत तथा चैतत् केनापि परमेशिना / निम्नं तडागपानीयं कः प्रवर्तयितुं क्षमः //
SK
परिपूर्णे पुनस् तस्मिन् प्रवाहाः सर्वतोमुखाः / ननु किं कांश् चिद् एवेत्थं सैषा स्वनियतेर् बलात् //
SK
इत्थं धावति तच् चास्या रागतत्त्वात्मकं वपुः / तत्रापि च तथा रागाभास एव स धार्यताम् //
SK
चिदात्मनि तु रागो ऽस्तु को ऽप्य् अन्यारूषणात्मकः / नन्व् इत्थं चेत् कथं नाम सा कुत्रापि विरज्यते //
SK
हन्त प्रकृत एवायं वादः संगतिम् आगतः / यदा हि चितिर् एवैषा सर्वतः संकुचत्स्थितिः //
SK
क्रमेण भोगोपायेभ्यो भोग्येभ्यो देहतो भुजः / भोगाद् भोक्तुस् तथा शून्या महाप्रलयभाग् इव //
SK
जायते रुद्ररूपैषा दशा सांहारिकी यतः / सद्योजातश् च यद् रुद्रः पुरुषश् चेश्वरात्मकः //
SK
श्रीमान् सदाशिवो देव ईशानश् चेति गीयते / विष्णुर् वामः कज्य् अघोर इति चैतद् भविष्यति //
SK
अन्तःस्थसर्वशक्तित्वेनैकैकस्यापि बृंहणात् / ब्रह्माण्य् एतानि कथ्यन्ते बृहत्त्वाद् विश्वबृंहणात् //
SK
तदन्यशक्त्युद्रेकांशे ह्य् अत एव विवक्षिते / प्रत्येकम् अस्ति ब्रह्मादिहेतुपञ्चकयोगिता //
SK
सैव शास्त्रेषु भेदेन तेषु तेषु प्रतन्यते / अतश् च सद्योजाते ऽस्मिन् मुख्या रौद्रदशा स्थिता //
SK
सा च संकोचरूपापि चिद्विकासे भविष्यति / यल्लीनौ ब्रह्मविष्ण्वंशौ तेनाधःकुरुते बलात् //
SK
वस्त्वभावमयीत्यादिदशा रुद्राधिदेवता / भिन्नप्रमेयेति श्रीमदुत्पलेन न्यरूप्यत //
SK
जातो ऽपि भेदतन्मात्रे संकोचं यद् उपागतः / ततो व्यतिनिमीलेते भोक्तृभोग्याव् इह स्फुटम् //
SK
अजातम् इव तद् विश्वम् अत्र सद्यो ऽवभासते / सद्योजातपदं तेन शून्यसंवेदनात्मकम् //
SK
ततः शून्यपदस्यान्तर् यावत् स च विविक्षति / देवस् तावत् स्वयं बोधे विश्वं प्रोच्छलति स्थितम् //
SK
जानाति सेयं नाथस्य ज्ञानशक्तिर् विकासिनी / तयोर् विकासिचिद्धाम्नि लीनत्वम् उपपादितम् //
SK
संविदः शून्यरूपाया विकासो विश्वम् एव तत् / तथा हि घनसौषुप्तविश्रान्तिवशनिर्भरः //
SK
तांस् तान् गृहापणाद्यंशान् वेत्ति स्वप्नपदाभिधान् / अत एव न सा सृष्टिः स्थितिर् एव तु सा तथा //
SK
पूर्वसृष्टेषु भावेषु तद् धि विज्ञानमात्रकम् / तथा च जाग्रतो रूपात् स्वप्नो भेदेन जायते //
SK
किंतु जाग्रत्पदादीनां प्रत्येकं बहुभेदता / निर्णेष्यते ततो युक्तं सृष्टिरूपेण भासनम् //
SK
अतो निजविबोधेन तान् भावान् व्याप्नुवन् विभुः / एतैस् त्याजयते तां स्वाम् औदासीन्यदशां विभुः //
SK
ज्ञानशक्तेर् इयं जृम्भा तज्ज्ञानस्थितिभाविनः / भावाः प्रयान्ति पूर्णत्वं विकासिनिजतेजसः //
SK
परमः खलु संकोचः सद्योजातपदे भवेत् / यद् एषां स्वस्वरूपस्य निष्ठा नैव स्म जायते //
SK
विना संविदुपारोहं सत्तासत्ता जडो ऽजडः / अनीलं नीलम् इत्यादिव्यवस्था कल्पतां कथम् //
SK
यद् उवाचोत्पलगुरुर् यथा सदसतां तथा / जडाजडानां न स्वात्मविशेष इति निश्चितम् //
SK
तस्माद् बोधभरोल्लासविसृष्टस्वपरस्थितिम् / चिदनुप्राणनां विष्वग् वमन्न् आनन्दसुन्दराम् //
SK
चिदेकवपुषा विश्वं स्वीचिकीर्षंश् चिदात्मनि / स्वबोधशक्तिवमनात् स देवो वाम उच्यते //
SK
स्वबोधशक्त्युद्रेकेण यद्य् अप्य् एष प्रयच्छति / भावानां स्ववपुस् तादृक् तथापि परमार्थतः //
SK
स्वीकर्तुम् इच्छन् संहारम् एषां कल्पयते भिदः / अतो भेदव्यवस्थायां वामो ऽसौ परमेश्वरः //
SK
अत्र सौभाग्यनिःष्यन्दि तादृग् ज्ञानं प्रतायते / सौभाग्यं सोच्यते तेषां भिन्नानां स्वीक्रियैव या //
SK
भावानां च विचित्राणां भोगाङ्गानां स्वशक्तितः / स्वकौतुककलालोकाद् उच्छलन्त्य् एव या चितिः //
SK
सैव स्वभावरागेण विश्वं रञ्जयते यतः / व्यक्तो हि रञ्जयेद् विश्वं व्यक्तिश् चास्य स्वरूपतः //
SK
यैव प्रोच्छलितावस्था स्वीकारेच्छाभरोदयः / तद्रश्मिसारसर्वस्वे क्षणं तिष्ठत्य् अनन्यधीः //
SK
किं नाकर्षति किं नैष च भावयति योगवित् / तत एवोच्यते शास्त्रे नारक्तो रञ्जयेद् इति //
SK
कामस्थं काममध्यस्थं कामाङ्कुशपुटीकृतम् / कामेन साधयेत् कामान् कामं कामेषु योजयेत् //
SK
कामः स्वीकर्तुम् इच्छैव तदाच्छादनयोगतः / विश्वं साधयते कामी कामतत्त्वम् इदं यतः //
SK
तथा हि परमे स्वात्मन्य् अध्यास्य स्थैर्यम् अञ्जसा / तदुच्छलितसंबोधकलासंछादनक्रमात् //
SK
विश्वं कामाङ्कुशाधीनं किंकरत्वेन भासते / अध्यात्मसिद्धया युक्त्या त्व् अनयैव निजोदये //
SK
प्राणः पुर्यष्टकं देहं व्याप्य विश्वं प्रकर्षति / तत्त्वस्य कामतत्त्वस्य प्रकटीक्रियया यतः //
SK
सिद्धचक्रेष्व् इदं गोप्यं किं वा न प्रकटीकृतम् / शून्यानन्दात् प्रसृत्यैव देवः प्रोच्छलितात्मकः //
SK
वर्तमानो निजाः शक्तीर् विकास्यैव प्रवर्तते / यत्रास्य प्रविविक्षास्ति यतश् च प्रावृतद् विभुः //
SK
सर्वाः शक्तीर् असौ भावः स्वात्मन्य् उद्रेच्य वर्तते / ततश् चिदात्मको देवो न्यग्भूत इव भासते //
SK
उद्भूतास् तु विभान्त्य् एताः प्रोन्मेषेच्छाविदिक्रियाः / अतश् चतुष्कयुक्तो ऽसौ यद्य् अपि प्रतिभासते //
SK
तथापि शक्तिगणना वस्तुतो ऽस्य भवेत् कुतः / अत्रैव भावभेदांशनिर्मूलनकला यतः //
SK
स्थितस् ततः समाचारो लोकातिक्रान्तगोचरः / अनन्तशक्तिवैचित्र्याद् अत्राप्य् उच्चाटनादयः //
SK
संहारलीलाभूयिष्ठा अपि तास् ताः क्रियाः स्थिताः / तद् इत्थं ज्ञानशक्त्यन्ते भावानां वपुषि स्थिते //
SK
क्रियाशक्तिर् अथान्त्यैव तान् संहरति सादरम् / यथा सूक्ष्मतमा शक्तिर् उन्मेषाख्या परावधौ //
SK
स्रष्टव्यभावस्थौल्येन स्थूलाकारेव भासते / तथैवैषा क्रियाशक्तिर् यस्यां भावा निमेषिताः //
SK
स्वस्वरूपस्थिता कापि पूर्णेव प्रविजृम्भते / नन्व् अस्त्य् एव क्रिया यस्यां भेदः प्रत्यवभासते //
SK
मैवं सर्वा क्रिया भेदं प्रत्य् उत प्राग् व्यपोहति / तथा हि भेदभूमौ ये काष्ठज्वलनतण्डुलाः //
SK
त एव पाकाविष्टत्वे भेदं प्रोज्झन्ति सादरम् / यदि भिन्नस्वरूपास् ते पाकैक्यं तत् कथं भवेत् //
SK
भिन्नं स्वरूपम् अङ्गानां न हि युक्त्योपपद्यते / ननु पाको न कश् चित् स यत् तन् नानास्वरूपकम् //
SK
ज्वलनक्लेददाहादि तत् पाक इति शब्द्यते / भिन्ना एव क्रियाः सर्वाः फलम् एकं प्रति स्थिताः //
SK
पाक इत्य् उच्यते नान्या क्रिया नामास्ति काचन / एतद् एव कथं बह्व्य एकं फलम् अभीप्सितम् //
SK
कथं संपादयेयुस् ताः. पूर्वोक्ताद् एव हेतुतः / ननु लोचनदीपार्थमनस्कारैर् अपि स्फुटम् //
SK
जन्यते ज्ञानम् एकं तत् तथैवात्र भविष्यति / सो ऽयं कर्दमसंमर्दमलिनीभूतविग्रहः //
SK
मरौ मरीचिकाम्भोभिः स्नानेच्छुर् अभिधावति / भिन्नस्वरूपाद् यद्य् एकम् अस्ति वस्त्व् इति संभवः //
SK
तर्हि कारणभेदेन न भेदः पारमार्थिकः / अथ भिन्नस्वरूपं तद् एकं चेत्य् उपगम्यते //
SK
स्वभावभेदो भेदायेत्य् एतत् त्यक्तं व्रतं भवेत् / नन्व् इत्थं सा क्रिया मा भूद् एका काष्ठादि कारकम् //
SK
फलं जनयताम् एवम् अप्य् अस्तु न हि नः क्षतिः / क्रिया हि नाम नास्माकम् अन्या शक्तिस् त्व् असौ यतः //
SK
शक्तिश् च फलभित्कॢप्त्या भावात्मैवाविभेदतः / सा च शक्तिर् विभोर् एव स च विश्वात्मविग्रहः //
SK
फलकारकभेदेन न भिन्ना परमार्थतः / स्वात्मन्य् अभिन्ने ऽपि विभोर् एवं भेदावभासनात् //
SK
क्रियाशक्तिर् इति प्रोक्ता यया कर्ता महेश्वरः / ननु यत् पशवः कुर्युः कथं तद् उपपद्यताम् //
SK
ते हि भेदैकजीवत्वात् कुर्युर् भेदवतीं क्रियाम् / अलम् एतेन पशवः कथं कुर्युर् इति स्फुटम् //
SK
स एव स्ववचश्छिन्नो वादो वन्ध्यासुतादिवत् / न हि कुम्भकृतः क्वापि कदाचित् कर्तृता भवेत् //
SK
यदि नासौ महेशाख्यात् कर्तुर् अव्यतिरेकभाक् / ननु किं स्वित् कुलालेन कुम्भो ऽपि क्रियते ततः //
SK
ईशस्य विश्वकर्तृत्वे किं पटे ऽपि न कर्तृता / यद्य् एवं तत् कुलालेन पटो ऽपि क्रियते न किम् //
SK
नन्व् एवं सति नो कर्ता को ऽप्य् अन्य इति कर्मणाम् / शुभाशुभानां स्वफलं कर्तुं कं प्रति हेतुता //
SK
एवम् एवैतद् आयुष्मंस् तथाह्य् एवं विजानताम् / न किं चन फलं क्वापि शुभाशुभसमुद्भवम् //
SK
इत्थं ये तु न जानन्ति भुञ्जते ते ऽविपश्चितः / तद् एव कर्मसंज्ञं तु मलम् अज्ञानमूलकम् //
SK
एतद् एवानुमन्यैव केचित् संवित्तिमात्रकम् / संमन्यन्ते ह्य् अकर्तारं कर्तृत्वानुपपत्तितः //
SK
चित्स्वरूपाधिकं ह्य् अस्य यत् तत् कर्तृत्वम् उच्यते / तज् जाड्यम् अर्पयेद् अस्मै चिदाधिक्यप्रसङ्गतः //
SK
प्रकृतेः कर्तृता पुंसि ननु नामोपचर्यते / एतन् न्यायपथापेतैर् वृथा जेगीयते गृहे //
SK
उपचारो हि नो वस्तुतथात्वं प्रतिपद्यते / व्यपदेशः परं तादृग् वस्तुशून्यो ऽस्तु तावता //
SK
नोपचारिकवह्नित्वव्यपदेशे ऽपि मानवः / हिमानीशीकरासारिवातोत्थशिशिरापहः //
SK
द्रष्टुः पुंसश् च न द्रष्ट्री प्रकृतिः परिगीयते / न चान्यो ऽस्ति वराको ऽतः कर्तृभावोपचारकः //
SK
किं च प्रयोजनं तस्य कर्तृत्वव्यवहारजम् / व्यपदेशस् तु नावस्तु परिवर्तयितुं क्षमः //
SK
ये ऽप्य् आत्मानं नयविदः कर्तारं समुपागमन् / ते ऽपि प्रश्नम् इमं तावद् अस्माकं प्रतिभार्पितम् //
SK
किं यादृग्लोकसंसिद्धकर्तृत्वं कर्मयोगतः / स्पन्दात्म तद् विभौ स्पन्दहीने समुपपद्यते //
SK
ननु ज्ञानं चिकीर्षा च यत्नश् चेति गुणत्रयम् / समवैति यद् अत्रास्य तत् कर्तृत्वम् उदाहृतम् //
SK
इत्थं बालमतीनां धीर् विप्रलभ्येत वञ्चकैः / दारका अपि वा विद्युर् न संवेदनवर्जिताः //
SK
तत्र ज्ञानं न कर्तृत्वं सर्वत्रास्त्य् एव तद् यतः / इच्छायत्नाव् अपि प्रायः संस्तः सर्वस्य सर्वतः //
SK
कुम्भकारो गृहाभावपरितापितचेतनः / जानन्न् इच्छन् सयत्नो ऽपि किं कुर्यान् नात्मनो गृहम् //
SK
ननु कर्तुं न जानाति ततः कर्तुं न चेच्छति / तस्मात् कर्तुं न यतते तद् गृहं कुरुतां कथं //
SK
कर्तुम् इत्य् एव यद् रूपं ज्ञानादीनां विशेषणम् / करोतेस् तत्र को ऽर्थः स्याद् यदि सस्पन्दता किल //
SK
तदासौ स्पन्दितुं वेत्ति प्रेप्सतीति भवेद् वचः / तच् च स्वात्मगतं नास्य स्पन्दितं वैभवोद्भवात् //
SK
अन्यद् अस्पन्दितं ज्ञानं शर्वस्यापि न संभवेत् / ज्ञानेच्छायत्नवत्त्वं च करणं तस्य भाषितम् //
SK
आत्मनः कर्तुम् इत्य् अस्य ततो ऽर्थप्रविवेचने / जानातीच्छन् प्रयतते ज्ञातुं यतितुम् एषितुम् //
SK
प्रत्येकम् इति यो ऽर्थः स कर्तुं वेत्तीति शब्दितः / चिकीर्षितृत्वं चैतत् स्यान् न कर्तृत्वं पुनर् भवेत् //
SK
तथात्वे मानसैः साम्यं भवेद् वाक्कायकर्मणाम् / वाक्कायकर्मभिर् वास्य कथं कर्तृत्वम् आपतेत् //
SK
मानसान्य् अपि कर्माणि कथं तस्येति गीयताम् / तद्गुणत्रयसद्भावे मनोवाक्कायसम्भुवाम् //
SK
कर्मणां संचितेर् एष कर्मभागीति चेन् ननु / उपचारो ऽयम् एवं स्यात् स चावस्त्व् इति वर्णितम् //
SK
किं चात्मगमहत्त्वादिद्रव्यान्तगुणसंनिधौ / तानि सन्तीति किं सो ऽपि कर्तृत्वायतनो भवेत् //
SK
न चास्त्व् इत्य् उपगन्तव्यं मुक्ताव् अपि हि तद् भवेत् / अन्यात्मगुणसांनिध्ये समश् चैष विधिर् यतः //
SK
आत्मस्व् अतः प्रवर्तेरन् कृतनाशाकृतागमाः / किं चेश्वरेण सर्वत्र बुद्धिमत्ताव्यपेक्षिणि //
SK
संनिवेशाधिके कार्ये निमित्तत्वं कृतं यदि / स्वैः स्वैश् च समवायान्यकारणांशैः प्रपूरिते //
SK
कम् अंशं कुम्भकारादेः प्रातुं भवतु हेतुता / न हि सो ऽस्त्य् अंशलेशो ऽपि सर्वकर्तरि यं प्रति //
SK
न ज्ञानेच्छायत्नम् अस्ति कर्तृत्वं नान्यद् इत्य् अपि / तस्मान् नान्यस्य कर्तृत्वं कदाचिद् अपि संभवेत् //
SK
ईश्वराद् ईश्वरस्यापि स्वातन्त्र्यं कर्तृतां विदुः / तद् इत्थं परमेशानां भेदे भेदे ऽपि वात्मनाम् //
SK
प्रभवन्ति न कर्माणि बन्धनाय स्वभावतः / तस्माद् इदम् अमुष्मात् स्यात् कर्मणो वा शुभाशुभम् //
SK
तद् ऐश्वर्यम् अमुष्यैव विहितं परमेशितुः / निर्णीतम् एतद् अन्यत्र मयैव विततं यतः //
SK
तद् अलं प्रकृतं ब्रूमः क्रियाशक्तिर् इयं परा / अघोरत्वेन देवस्य तत एव प्रकीर्तिता //
SK
दाक्षिण्यम् अत एवास्या भावानां शिवसंश्रये / यतो ऽञ्जसैव मार्गो ऽयं या क्रिया च न सात्मिका //
SK
ननु नात्र स्थिताः केचिद् भावा ये शिवताश्रिताः / कर्तारः सत्यम् इत्थं तु बोध्यमानो ऽवधारयेत् //
SK
देशकालक्रियाकारकल्पनापथवर्जितः / देवदेवस् तथैवास्य शक्तिः सा विश्वरूपिणी //
SK
तद् विश्वम् अपि कालादिकलङ्काङ्ककलोज्झितम् / \ह्स्पचे{३च्म्} भैरवाभेदवर्तिनम् //
SK
तत्स्वातन्त्र्यात् स्वतन्त्रं तत् स्वात्मनि प्रोच्छलत् स्थितम् / यतो भाति ततो ऽप्य् अस्तशिवावेशबहिष्कृतम् //
SK
अत एव परा सेयं दक्षिणाघोररूपिणी / यद् वक्ष्यते जन्तुचक्रे शिवधामफलप्रदाः //
SK
पराः प्रकथितास् तज्ज्ञैर् अघोराः शिवशक्तयः / अन्यत्रापि क्रियाशक्तिः शिवस्य पशुवर्तिनी //
SK
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिनी / अकारादिहकारान्तः प्रसरो यः प्रगीयते //
SK
स एव बिन्दुनिलयाद् अस्वरत्वम् उपाश्रितः / क्रियाशक्तिविजृम्भेयं समस्तवर्णमालिका //
SK
क्रोडीकृताव् अहम् इति परामर्शस्वरूपिणी / तिष्ठत्य् एव. ततः पूर्णपराहंकारसस्फुरः //
SK
अनन्तादिविरिञ्चान्तपशुसंघातघस्मरः / निजोदरदरीनीतचराचरजगद्व्रजः //
SK
स्वचैतन्यविमर्शान्तर् ग्रस्तपुद्गलसंचयः / यावद् उल्लसितस्, तावत् क्रियाशक्तिस्वरूपतः //
SK
असंविज्ञाननिःसंख्यवैचित्र्यचर्चितस्थितेः / अनन्तकार्यशान्त्यादिसौम्यरौद्रभिदात्मनः //
SK
अपि स्वग्रासमाहात्म्यप्रकटीकृतसुस्थितेः / औचित्याद् विविधाकारा अपि भैरवतेजसः //
SK
रिक्तपूर्णोभयभवपुनरावृत्तिचित्रिताः / शाक्तस्वरूपविश्वाख्यस्वांशग्रासैकलम्पटाः //
SK
लोककालचिरारूढभावोन्मूलनभाविताः / शक्तयो निजविस्फाराद् रश्मिपुञ्जं निजं निजं //
SK
प्रसारयन्त्यः संकल्पसत्यभावसमाश्रयात् / स्वोचितान्य् एव लोकोत्थवामाचारबहिष्कृतेः //
SK
घटयन्त्य् एव शास्त्राणि यातानि परिपूर्णताम् / यादृक् प्रथमसंभूतो लोकातिक्रान्तिगोचरे //
SK
समाचारः स एवात्र ग्रस्तभेददशो भवेत् / पूर्णेयं परमेशस्य महासृष्टिर् इह स्थिता //
SK
यस्यां संहारसृष्ट्यंशा विश्वे ते मध्यवर्तिनः / सा चाद्या सृष्टिर् इत्य् एव नैव वक्तुं भवेत् क्षमम् //
SK
अदेशकाले तत्त्वे हि कथम् आद्यादिसंभवः / जाग्रद्दशेयं सा मुख्या प्रोन्मेषपदभागिनी //
SK
ब्रह्मैष निजशक्त्यंशसंबोधकमलासनः / ता एताः सौशिवाद् रूपात् प्रभृति ब्राह्मम् अन्ततः //
SK
रूपं कृत्वा विजृम्भन्ते संविन्नाथस्य शक्तयः / एतावान् एव देवो ऽयम् इति यद्य् अपि शक्यते //
SK
न वक्तुम् अप्रमेयत्वाच् चिद्रूपस्य महेशितुः / प्रबोधपञ्चदशिकामध्ये तादृङ् मया स्फुटम् //
SK
उक्तं मितप्रकाशत्वं जडस्य किल लक्षणम् / जडाद् विलक्षणो बोधो यतो न परिमीयते //
SK
तथापि स्वयम् एतादृग् देवो मानविवर्जितः / निजस्वातन्त्र्ययोगेन कृत्वात्मानं चराचरम् //
SK
ईशतत्पुरुषाजातैर् उद्भूतैर् उद्बुभूषुभिः / एककैः षड्भिर्, एकेन त्रिकेण, द्व्यात्मकैस् त्रिभिः //
SK
जायते शिवभेदानां दशानां विविधा स्थितिः / अत एव विचित्राभ्यः संविद्भ्यो मिश्रतावशात् //
SK
चित्राण्य् अत्र शिवाख्ये ऽपि भेदज्ञानानि तेनिरे / यदा त्रयाणां वक्त्राणां वामदक्षिणसंगतिः //
SK
तदा प्रत्येकशक्तित्वं भविष्यद्भवदुद्भवैः / षण्णां त्रित्वे रुद्रभेदस् तेनाष्टादशधा स्थितः //
SK
एकैकं पञ्चवक्त्रं च वक्त्रं यस्मात् प्रगीयते / दशाष्टादशभिन्नस्य ततो भेदैर् असंख्यता //
SK
पूर्वोदितयथास्वस्वज्ञानकर्मविचित्रिताः / निर्णीयन्ते यतस् तेषु तेन नो पुनरुक्तता //
SK
अन्यान्य एव बोधो हि समाचारः क्रियाक्रमः / तत्र तत्र तथा प्रोक्तः सर्वस् तु शिवधामगः //
SK
यथा जलकणाह् सर्वे विश्राम्यन्ति महाम्बुधौ / तथा ज्ञानक्रियाः सर्वाः संवित्सिन्धौ महेश्वरे //
SK
मितम् अपि जलं भूमौ सूर्यांशुभिः किल पीयते / तद् अपि च पुनर् वृष्टिद्वारैः प्रयाति महार्णवम् / जगति निखिलं ज्ञानं कर्म स्फुटं किम् अपि स्वयं / किम् अपि च परैः पारम्पर्याच् छिवार्णसि मज्जति //
SK
यच् चान्ते दक्षिणे हार्दं लिङ्गं हृत् परमं मतम् / तद् अप्य् अन्तःकृताशेषसृष्टभावसुनिर्भरम् //
SK
भेदभावकमायीयतेज्ॐशग्रसनाच् च तत् / सर्वसंहारकत्वेन कृष्णं तिमिररूपधृत् //
SK
विज्ञानशास्त्रे कथितम् अत एव महेशिना / लीनं मूर्ध्नि वियत् सर्वम् इत्यादि तिमिरं विभोः //
SK
एवम् एव दुर्निशायां कृष्णपक्षागमे चिरम् / भावयेद् भैरवं रूपं भावयद्भिर् दुराभिदम् //
SK
उक्तं च यत्र स्वर् दुःखं तमो वाद्वयसंवृते / नाविद्याकर्मसंबन्धः पारतन्त्र्यादिदर्शनात् //
SK
तद् अत्र तिमिराकारे भैरवीये वपुष्य् अलम् / अन्तर्लीनतया भाति यावद् वक्त्रचतुष्टयम् //
SK
उद्बुभूषु तथोद्भूतं तिरोधित्सु तिरोहितम् / ततो युगपद् एवैतद्भिदा षोडशकात्मकम् //
SK
दक्षे वैसर्गिके हार्दे स्वतन्त्रे च शिवे विशत् / अष्टाष्टकात्मकं शास्त्रं युगपद् भैरवाभिधम् //
SK
इत्थं तन्त्रं रुद्रशिवभैरवाख्यं स्थितं त्रिधा / वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते //
SK
भेदेन भेदाभेदेन पूर्णेनाभेदसन्धिना / तथा च मुख्याः शाम्भव्यस् तिस्र इच्छादिशक्तयः //
SK
तत्रैव तु प्रपञ्चेन पञ्चशक्त्यादियोजनम् / इत्थं मध्ये विभिन्नं तत् त्रिकम् एव परं तथा //
SK
शास्त्रम् अस्मद्गुरुगृहे संप्रदायक्रमात् स्थितम् / अत एव हि नैकट्याद् वामदक्षिणशास्त्रयोः //
SK
धारा प्रान्तधराप्रान्ते कौलिकी प्रविजृम्भते / ततो ऽपि संहृताशेषभावोपाधिसुनिर्भरः //
SK
भैरवः परमार्थोद्यद्रवबृम्हितवृत्तिकः / ईशानवामदक्षासु तासु शक्तित्रयं क्रमात् / अपरादिपराप्रान्तं क्रोडीकृत्यावतिष्ठते //
SK
तद् विभावयति भेदविभागं तत्स्फुटत्वकृद् अथो तम् अनन्तम् / संग्रसिष्णु परमेश्वररूपं वस्तुतस् त्रिशिर एव निराहुः //
SK
ऊर्ध्ववामतदन्यानि तन्त्राणि च कुलानि च / रूढान्य् अमुष्यां धारायां भेदसंकोचहानये //
SK
परप्रकाशविषयस् त्रिकार्थस् त्रैधम् आस्थितः / स एष परमेशेन ज्ञानचन्द्राख्ययोदितः //
SK
स एव सर्वः शास्त्रार्थः परवाग्वृत्तिसंश्रितः / अनुल्लसिततद्वाच्यवाचकादिविभक्तिकः //
SK
पश्चात् तु ज्ञानशक्त्यंशप्राधान्यस्फुरितात्मनि / क्रियाशक्तौ सुसूक्ष्मायां सादाख्यैश्वर्यसंपदि //
SK
पश्यन्तीमध्यमाधाम्नि सञ्जल्पोल्लेखयोगतः / पदवाक्यस्वरूपेण वर्तते वर्णरूपिणा //
SK
स्वच्छन्दशास्त्रे तेनोक्तं स्वयं देवः सदाशिवः / पूर्वोत्तरपदैर् वाक्यैस् तन्त्रं योजितवान् इति //
SK
तथा च तत्रैवोक्तं तत्सुशिवावरणे ऽध्वनि / सुशिवावरणं पूर्वं तत्र ज्ञेयः सदाशिवः //
SK
शिवदशकसंयुक्तो रुद्राष्टादशकान्वितः / अधिकारो हीशतत्त्वे तज्जिघृक्षा तु सौशिवे //
SK
वरणे बिन्दुतो भोगधाम्नि विभवतो विभोः / भैरवाख्यस्य बोधस्य शक्तितत्त्वे परं त्रयम् //
SK
स्थितिस् तस्माद् ईश्वरोर्ध्वे सदाशिवपदाद् अधः / सुशिवावरणेनोक्ता श्रीमत्स्वच्छन्दशासने //
SK
तदनन्तरम् एतासु शिवरुद्रभिदास्व् अलम् / मायीयाध्वनि कॢप्तासु शिवैर् उक्तः शिवाभिधः //
SK
भेदो रुद्रैश् च रुद्राख्य इति प्राप्तो विचित्रताम् / ततः प्रोद्यत्क्रियासारप्रोल्लासात् क्रमशः स्फुटम् //
SK
सर्वगोचरमायीयश्रुतवैखर्युपाश्रिताः / वर्णवाक्यपदात्मानः शास्त्रार्था लोकगोचराः //
SK
समाश्रित्य प्रवर्तन्ते तांस् तांस् तन्त्रावतारकान् / तेन प्रथमतो यावन् मायीयां वैखरीं दरीम् //
SK
मायीयवर्णसंदृब्धः शास्त्रार्थो नायम् आगतः / अन्तः सारविबोधैकपरवाङ्मयवर्णकः //
SK
अकृत्रिमपरावेशमूलसंस्कारसंस्कृतः / शास्त्रार्थो लौकिकान्तो ऽस्ति सप्तत्रिंशे परे विभौ //
SK
तत्रासतां हि भावानां क्वापि नास्त्य् एव सत्यता / स्वामिन्य् अविनयाक्रान्तप्रकृतौ विनयः कुतः //
SK
तस्मात् समस्तशास्त्रार्थः परतत्त्वात्मना स्थितः / अतो वेदादयो ऽप्य् एते मायीयाः शासनांशवः //
SK
स्फुरन्ति भैरवादित्यप्रभावाद् एव नान्यतः / न हि संविद्विमर्शात् स्याद् अन्यत् क्वाप्य् एव कारणम् //
SK
संविन्नाथस्य संवित् स्यात् संविद् एव तथा यतः / कार्यं च कारणं चेति तथात्व उपचार्यते //
SK
परिणामे हि भावस्य क्रमाद् विततधर्मणः / आद्यन्तयोः संविद् एव रूपत्वेनावभासते //
SK
संविच् च कालकलनां सहेत यदि तत् स्फुटम् / भुञ्जीमहि निशातासिच्छिन्ना व्योमांशशर्कराः //
SK
अतः समग्रशास्त्राणि संविद्रूपापरिच्युतेः / संविदः स्वप्रकाशत्वात् स्वप्रकाशानि वस्तुतः //
SK
न च वाच्यं पृथग् जातु वाचकाद् व्यवतिष्ठते / स्वातन्त्र्याद् अभिधातैव भाविवाच्यतया यतः //
SK
कदाचिद् वाचकांशस् तु स्वरूपग्रस्तवाच्यकः / निर्भासते कदाचित् तु सामान्योल्लासवाचकः //
SK
जातुचिन् निकटानन्तविशेषणविशेषितः / स्फुटस्वरूपवाच्यांशसमुद्रेकेण भासते //
SK
तेनार्थपरता जातु स्वरूपपरता तथा / बुभूत्सितार्था क्वापि क्वचिद् रसमयी दशा //
SK
शब्दानां लक्ष्यते चित्रा संविद्रूपानपायतः / संविद्विचित्रकचनैः कचतीति किम् अद्भुतम् //
SK
इत्थं शिवात्मकविमर्शपदाद् अभिन्नः शब्दः स्फुटत्वत इह स्वपरप्रकाशः / मानं तद् एव चितिसारविमर्शमात्रम् अन्यत् पुनस् तदुपचारवशात् तथा हि //
SK
स्वप्रकाशात्मिका येयं संवित्तिः पारमार्थिकी / तत् स्वसंवेदनं प्रोक्तं यतो विश्वव्यवस्थितिः //
SK
सा चैषा न विमर्शात्मस्वरूपम् अतिवर्तते / विमर्शो ऽस्याः परो भोगः पूर्णः पश्यन्त्य् उदाहृता //
SK
परापरा सैव देवी मानम् इत्य् अवधार्यताम् / यत्रापरांशगं मेयं तादात्म्याद् व्यवतिष्ठते //
SK
न हि भिन्नेन मानेन मेयस्य स्याद् व्यवस्तितिः / न हि हंसस्य शुक्लत्वे काकः श्वेतत्वम् अर्हति //
SK
एतद् एव तथा चाह गुरुः शङ्करनन्दनः / न मानत्वात् ततो ऽन्यत्वान् न बाधाद् अस्थितेः स्थितिः //
SK
प्रकाशेनाविनाभूतैः सत्तायां नियतात्मभिः / धर्मैर् भावो बहिर्भावान् न भावः सिद्धिम् ऋच्छति //
SK
तेन संवित्तिकात्मैव मातृमानप्रमेयता / गृह्णती स्वप्रकाशत्वं स्वभावाद् एव भासते //
SK
सा चान्तःस्थितमन्त्रात्मशब्दनामर्शसुन्दरा / अनपेक्षान्यविरहात् प्रमाणं स्वत एव हि //
SK
तस्या एव विचित्राणि नामानि बहुभङ्गिभिः / तत्प्रसादोत्थितान्य् एव वादिनः पर्यचीकॢपन् //
SK
तथा च चक्षुराद्यक्षमण्डलीटङ्कनिष्ठितम् / प्रत्यक्षम् इति यद् गीतं तत् तावत् प्रविविच्यते //
SK
संवित्तिव्यतिरेकेण यद्य् अक्षाणां व्यवस्थितिः / न स्याद् अर्थप्रमाणैक्यं तर्हि बाह्यघटादिवत् //
SK
नन्व् आत्मनश् चक्षुरादि करणं न घटादिकम् / तस्मात् तेनैव भावानां मानं न तु घटादिभिः //
SK
व्यापकाभिमतस्यास्य संयोगे चाविशेषिणः / भौतिकत्वाविशेषेण घटाद्यैश् चक्षुरादिना //
SK
आत्मनः करणाकाङ्क्षापूरणं नियतं कुतः / विशिष्ट एव संयोगः करणत्वे निबन्धनम् //
SK
विशेषः कर्मभिस् तैस् तैर् धर्माधर्मगिरोदितैः / तद् एतद् युक्तिसद्भावप्रतिभाविकलात्मकः //
SK
ब्रुवन् वञ्चयते मुग्धान् पलायनपरायणः / यच् चाशेषाक्षसंयोगिव्यापकात्मवशोत्थिताम् //
SK
युगपज् ज्ञप्तिम् आच्छेत्तुं मनो नाम निगद्यते / तत्रापि ब्रुमहे पूर्वं मनसात्मैव युज्यते //
SK
तत्राप्य् आत्ममनोयोगं कः कुर्याद् इति चर्च्यताम् / व्यापकत्वाद् असौ स्याच् चेत् सर्वैर् एव मनो व्रजेत् //
SK
एकस्य जाते संयोगे सर्वः सर्वज्ञताम् इयात् / यदि स्वान्तम् अधिष्ठातृ चक्षुराद्यम् अपेक्षते //
SK
तेनाधिष्ठानम् अर्थानां तावतो ऽक्षांशवर्त्मनः / अक्षाधिष्ठितसूक्ष्मांशभागसंपर्कभासितः //
SK
बाह्यस्यार्थस्य कुण्डादेर् अणुर् एको ऽवभासताम् / अथापि मानसाधिष्ठा जाता चेद् अक्षगोचरे //
SK
तद् एतस्य स्वविषये शक्ततैवोपजायते / तर्हि सूक्ष्मतमच्छिद्रनिस्सृता नेत्ररश्मयः //
SK
विश्ववर्तिनि भावौघे न प्रमां कुर्वते कुतः / योग्यदेशस्थितान् भावान् गृह्णते ऽक्षाणि नन्व् अलम् //
SK
योग्यतैव हि देशस्य कीदृशीति विचार्यताम् / यत्रस्थस्य भवेद् वित्तिः स देशो योग्य उच्यते //
SK
कुत्रस्थस्य भवेद् वित्तिर् इति किं वा न दर्श्यते / तद् अमी तार्किकम्मन्या युक्त्युपन्यासवर्जिताः //
SK
पूर्वम् एव कथं तूष्णीं नातिष्ठन् किं विकत्थनैः / आत्मनश् चाभिसंधानवन्ध्यस्यैव बलादयम् //
SK
मनोक्षजालसंयोगो भवेत् किं नासमञ्जसः / अभिसन्धिर् अथैतस्य विषयं प्रति जायते //
SK
अज्ञाते को ऽभिसन्धिः स्याज् ज्ञाते को ऽर्थो ऽक्षसंयुजा / प्रज्ञाते स्मर्यमाणे चेद् अभिसन्धातृभावितः //
SK
अन्यद् एवाभिसन्धातुः प्रयत्नो ऽन्यत्र जायते / म्मनोयुक्तात्मसंबद्धचक्षुराद्यक्षसंश्रिताः //
SK
विषयाः सविधीभूतनेत्राद्युल्लङ्घनक्रमात् / आत्मन्य् एव कथंकारं प्रमातृत्वं प्रतन्वताम् //
SK
ननु ज्ञानकृतो मातृभावो विज्ञानम् आत्मनि / समवैति ततो ऽन्यस्य कथं मातृत्वशङ्कनम् //
SK
एतद् एव वयं ब्रूमो ज्ञानं तत्रैव वै कुतः / भयात् स्वपक्षपातान्धस् तद् एवोत्तरम् अभ्यधात् //
SK
यथेन्द्रियात्मसंयोगे मनः कारणम् उच्यते / तथैवात्ममनोयोगे कारणान्तरम् उच्यताम् //
SK
तथात्वे चानवस्थैव मूलक्षतिकरी च सा / अथ स्वान्तात्मसंयोगो ध्रुव एवाभ्युपेयते //
SK
ज्ञातारः स्युः सदा सुप्तमत्तमूर्छितदुर्भगाः / न चैतद् भवतां ज्ञानम् अभीष्टं शाक्यशिष्यवत् //
SK
तस्मात् प्रत्यक्षता नाम कथम् इन्द्रियगोचरात् / अथ प्रत्येकम् एतेषां परीक्षेयं प्रतन्यते //
SK
तत्राणु नित्यं सर्वार्थं वेगवल्लघ्व् अभौतिकम् / मनस् तच् चापि नैवेह युक्तिसिद्धत्वम् अश्नुते //
SK
अणु चेच् छीग्रसंचारि मनो यद् विषयान् मुहुः / स्पृशेत् तदैव देहस्य भवेच् छवशरीरता //
SK
देहस्थे ऽपि मनोयोगे तत्रैव ज्ञानयोगतः / एकाणुमात्रं जीवः स्याच् छिष्टं स्याद् घटकुड्यवत् //
SK
अथ स्वान्तेन योगश् चेज् जातः क्वाप्य् आत्मगोचरे / तद् विभोर् आत्मनो ज्ञानं समवायीति मातृता //
SK
जातेति सर्वदेहस्थं जीवनं किं न सिद्ध्यति / एनयैव न किं युक्त्या घटादेर् जीवनं भवेत् //
SK
विभाव् आत्मनि जातं हि ज्ञानं तत्रैकदेशतः / देहमात्रे पुनः स्वान्ते भवेत् सावयवा स्थितिः //
SK
विभुत्वे मानसस्य स्याद् युगपत् सर्ववेदनम् / नित्ये च मनसि ज्ञानं सर्वदैव भवेत् ततः //
SK
मोक्षावस्थापि विज्ञानयोगिन्य् एवोपजायते / मुक्तौ चात्ममनोयोगो नास्तीत्य् एतन् महाद्भुतम् //
SK
किं हि व्यापकता मोक्षे स्वात्मनो विनिरुध्यते / अभौतिकं चेत् सर्वार्थं कथंकारं मनो भवेत् //
SK
विशिष्टविषयव्यक्तिकौशलाद् एव चक्षुषः / तैजसत्वम् अभीष्टं हि तन् मनो भौतिकं न किम् //
SK
सर्वर्थत्वे च मनसः किम् अन्यैर् अक्षडम्बरैः / ननु बाह्ये ऽस्य विषये प्राग् अस्त्य् अक्षोपयोगिता //
SK
तथा हीन्द्रियसंदृष्टे पाश्चात्या मनसः स्थितिः / अत्रोच्यते यथैव प्राग् इन्द्रियेण न गृह्यते //
SK
तच् चेत् स्वलक्षणं पश्चाद् अनुयन्त्र् इति का कथा / अथ सामान्यमात्रं तद् गृहीतं प्राक् तदिन्द्रियैः //
SK
व्यक्तिनिष्ठं तदानीं च मनसा व्यक्तिनिश्चयः / नास्तीति मनसा कस्मात् सामान्यग्रहणं भवेत् //
SK
विना व्यक्तिग्रहेणैव सामान्यग्रहणं य[कु]तः / सामान्यग्रहणे चास्य सर्वार्थत्वं निरुध्यते //
SK
विशेषग्रहवन्ध्यस्य सर्वशब्दविलोपतः / आशुगामित्वम् एतस्य यच् चोक्तं तत्र वस्तुनि //
SK
पुरःस्थिते स्वहस्तादौ किंचिद् दूरगते घटे / अतिदूरे च मेर्वादौ कथं तुल्यैव गन्तृता //
SK
आशुसंचारिणां यस्मात् क्वापि पूर्वकतेजसाम् (?) / सविधासविधत्वेन विशेषः प्रविभाव्यते //
SK
कथं चाभौतिकं सूक्ष्मं गृह्णीयात् पर्वतादिकम् / अभिव्यक्तिः समानस्य समानेन विधीयते //
SK
नन्व् अस्तु प्राकृती बुद्धिस् ततो ऽहंकृत् ततो मनः / इत्थम् अप्य् अणुता नैव मनसः संप्रसिद्ध्यति //
SK
व्यापकत्वेन पूर्वोक्तदूषणानि स्थितान्य् अलम् / इत्थं मनो न युक्त्यंशैर् मानसावर्जनाय नः //
SK
यादृग् वाद्यन्तरैर् इष्टं द्वैतव्यामूढदृष्टिभिः / चिदात्मनः प्रकाशस्य तथाभासनभागिनी //
SK
या शक्तिस् तन् मनस् त्व् अस्तु स्वस्वातन्त्र्योपकल्पितम् / यत्र श्रोत्रं नभस् तत्र सर्वशब्दश्रुतिर् भवेत् //
SK
चक्षुराद्यैश् च सर्वत्र निर्विबन्धं यतो नभः / धर्माधर्मैर् विबन्धश् च युक्त्युपन्यासवैकली //
SK
बाधिर्यादि कथं च स्यात् कथं वा तच्चिकित्सनम् / बन्धाश्रयविघातेन तदनुग्रहस् तथा //
SK
अक्षं स्वावयवेष्व् एव x x x समवायिनः / विशेषेण नभो नैव क्वाप्य् आश्रितम् इति स्थितिः //
SK
संयोगिता तु \ल्दोत्स् साकं भावेन वर्तते / तदनुग्रहघाताभ्याम् अपि विक्रियतां ततः //
SK
यद् अनुग्रहस् तद् अनुग्रहः स तदाश्रयः / इतीयं स्ववचःकॢप्तिर् निःसारैव विभाति नः //
SK
आश्रयद्वारको ऽक्षाणाम् अनुग्रह इति स्फुटम् / अभिधत्स्व क एतेषाम् आश्रयो ऽस्त्व् इति चोदिते //
SK
यद् अनुग्रहयोगो ऽस्य स एवाश्रय इत्य् अयम् / न्यायो ऽन्योन्यसमालम्बी चक्रकं नातिवर्तते //
SK
वायुप्रकृति यच् चोक्तं स्पर्शनं तद् विविच्यते / वायोर् वेगवती तावद् अनिरुद्धा स्थितिः स्थिता //
SK
देहदेशे ततः स्पर्शः न कुड्य इति कः क्रमः / चक्षुश् च तैजसं तेजः प्रसृतं बाह्यगोचरे //
SK
अर्थान् रूपप्रधानांश् च वेत्तीत्य् एतन् निरूप्यते / अदृश्यं यदि तत् तेजः प्रेर्यते मनसा कथम् //
SK
प्रेरणं न ह्य् अविज्ञानं कदाचिद् उपपद्यते / इन्द्रियेण न च ज्ञातं कदाचिच् चाक्षुषं महः //
SK
न चापीन्द्रियविज्ञाते स्वतन्त्रं भवतां मनः / अप्रेरितं च तत् पश्येत् सर्वतः सर्वथा सदा //
SK
आसमञ्जस्यम् एव स्यात् प्रवृत्तौ वा निवर्तने / किं च गोलकसंस्थानं तावच् च यदि तन् महः //
SK
तावतस् तद्गतस्यैव ग्रहः स्यान् नान्यतः क्वचित् / तथैतद् विपरीतं तु गोलके ऽपि निमीलिते //
SK
उन्मीलिते वा सर्वत्र वस्तुनि ग्रहणं भवेत् / उन्मीलिते चक्षुषि च प्रसृते रश्मिमण्डले //
SK
तस्यास्ति न पटस्येव संवृतिर् नेत्रमीलने / ततो निमीलिताक्षस्य वस्तुदृष्टिर् न किं भवेत् //
SK
घने चातपमध्ये ऽस्ति विनिमीलितचक्षुषः / चित्रतेजोवभानं तत्पीडिताक्षयुगस्य च //
SK
योगिनां बिन्दुदृग् ध्वान्ते कथं तद् वा भविष्यति / भवेद् उन्मीलिते ऽप्य् अक्ष्णि न वस्तुग्रहणं क्वचित् //
SK
मनोधिष्ठानयोगेन परमाण्वधिकप्रथा / दीपापेक्षा च यामुष्य सापि किं न विबाध्यते //
SK
दीपप्रकाशः स्वान्तात्मनेत्रार्थेषूपकारकः / न प्रत्येकं मनोवृत्तेः संस्कारस् तेन चेद् भवेत् //
SK
दीपे संकल्प्यमने स्याद् रात्रौ रूपपरिग्रहः / आत्मनः संस्क्रिया चेत् स्यात् तस्य सर्वगतत्वतः //
SK
सर्वदा रूपसंवित् स्यात् संयोगः संस्क्रिया यतः / अमूर्तस्य्पि नित्यस्य को ऽन्यः संस्कार उच्यते //
SK
नेत्रोपकारश् चेत् तर्हि नेत्रदेशस्थिते ऽर्चिषि / तेजोमध्यगतं रूपं न भासेत कदाचन //
SK
ननु तद् वेद्यदेशे ऽसौ नायनः किरणव्रजः / हन्त तत्रैव विज्ञानम् आत्मदेशे न किं भवेत् //
SK
तत्रैवात्मा विभुत्वेन तत्रैव करणं यतः / तस्माद् भोगाश्रयो देहो जीवन्न् इति वृथोक्तयः //
SK
नायनानां मयूखानां गन्तृत्वे ऽवसिते सति / अनावृते ऽरण्यमार्गे स्वहस्तात् प्रभृति स्फुटम् //
SK
अर्कचन्द्रादिसंदृष्टिः कथं नामोपजायताम् / शीघ्रत्वे ऽपि यतः प्रोक्तभेदो दूराविदूरगः //
SK
दीपनेत्रावभासाभ्यां छन्ने तस्मिन् कथं मतिः / शुद्ध एव भवेद् भावे ताभ्यां व्यामलताजुषि //
SK
अन्धत्वं तच् चिकित्सा च न युक्ताश्रयदूषणा / रसना च जलात्मा चेत् तज् जलं स्रुतिमद्यतः //
SK
ततः स्थैर्यं कथं तस्य का च नानारसप्रथा / तस्यैकरसतायोगे तस्या नैकरसस्थितेः //
SK
न स्याद् एकरसज्ञप्तिर् यथा पित्तभरे सति / तिक्ता रसनवृत्तिर् नो माधुर्यं विदितं क्षमा //
SK
ननु पित्तगतं तैक्त्यं न त्व् एवं रसनागतम् / तर्हि पित्तगूडौ तुल्यं रसनापथगामिनौ //
SK
इति स्याद् युगपज् ज्ञप्तिस् तिक्तमाधुर्यगोचरा / नीरसा रसना चेत् सा रसाभिव्यञ्जिका कुतः //
SK
स्वभावाद् इति चेद् अस्याः को ऽयम् आम्भसताग्रहः / घ्राणं च पार्थिवं तस्य काठिन्यं किं न दृश्यते //
SK
ननु गन्धगुणोद्रेकि किं स गन्धो न भासते / नास्ति तत्रेन्द्रियव्यक्तगन्धवत्त्वे तथा प्रमा //
SK
निर्गन्धम् अपृथिव्यात्मा मनो गन्धग्रहक्षमम् / अस्त्य् एव भवतां तेन नानुमा तादृशा क्षमा //
SK
तस्माद् इन्द्रियसंघातो भौतिको नोपपद्यते / आहंकारिकतायां तु व्याप्तृत्वम् अविभिन्नता //
SK
देहाश्रयविरोधश् च करणत्वेन चास्थितिः / वागादि यच् च कर्माक्षपञ्चकं तद् विविच्यताम् //
SK
आनाभेर् मूर्धपर्यन्तं यः समीराभिघातजः / विशेषः को ऽपि वागात्मा स तादृग् इह कथ्यते //
SK
तस्य कार्यं भवेच् छब्दः कर्ता को ऽत्र विचार्यताम् / आत्मनो नैव कर्तृत्वं तथात्वे ऽपि विभुत्वतः //
SK
मया प्रोच्चारिते शब्दे त्वं वक्ता किं न जायसे / प्रकृताव् अपि दोषो ऽयं कर्त्र्यां कर्तृत्ववर्जिता //
SK
करणस्य स्थितिर् नास्ति तुल्ये वागिन्द्रिये सति / कथं चास्फुटसुस्पष्टभावः शब्देषु जायते //
SK
कथं चोपांशुसंजल्पस्मृत्यादौ शब्दगा भिदा / प्रयत्नाच् चेत् प्रयत्नो ऽपि यद्य् उत्पत्तिस् ततः कथम् //
SK
विशेषो जायते ह्य् अन्यो न ह्य् अन्यगुणसंभवः / प्रयत्नमान्द्यामान्द्याभ्यां येन प्रतिविधीयते //
SK
पाणीन्द्रियं चाददानं मुखाद्यैर् ग्रहणं कुतः / ग्रहणं च किम् उच्येत स्वीकारो यदि संमतः //
SK
अस्वस्य स्वस्य करणं स्वीकार इति भण्यते / स्वशब्दश् चात्मवाची चेत् तत्रात्मा प्रकृतिर् यदि //
SK
तन् नास्त्य् अप्राकृतं किंचिद् इत्य् अस्वतत्वं कथं किल / अहङ्कारो ऽप्य् अथात्मा स्यान् नाहंकारी कृतिर् घटे //
SK
आत्मीयो ऽयम् अनेनैतद् दूषणेनैव दूषितम् / अहंकारस्य संबन्धि सर्वम् एव हि तत् स्वकम् //
SK
आत्मनो व्यापकस्यास्ति न स्वं नास्वं च किंचन / एवं पादेन्द्रियस्यापि समो ऽयं युक्तिविक्रमः //
SK
देशाद् देशान्तरप्राप्त्या गमनं च यद् उच्यते / तत्त्यागरूपं स्वीकाराभावेनैव प्रसिद्ध्यति //
SK
स्वीकारो दूषितश् चैष स्वीकारांशो ऽपि यो गतौ / तस्य पाणीन्द्रियं युक्तं करणं नाङ्घ्रिनामकम् //
SK
इन्द्रियाणां हि सांकार्यम् एवं कार्येषु जायते / अत एव महान्यायवेदिभिश् चरमे नये //
SK
प्रोक्तो गतिनिषेधाय भूयान् सद्वाक्यडम्बरः / गतं न गम्यते तावद् अगतं नैव गम्यते //
SK
गतागतविनिर्मुक्तं नास्तीत्यादि स्वके नये / पाय्विन्द्रियं च न च्छिद्रमात्रं कोष्ठ्यमरुत्क्रमात् //
SK
उत्सर्गः किल सांकार्यं तेन स्याद् इयती स्थितिः / उपस्थम् इन्द्रियं यच् च तस्य कार्यं निगद्यते //
SK
............................. /
SK
शाम्यतीति न युक्तेत्थम् अनुमानप्रमाणता / तद्भेदवादिनां तावद् द्वे माने नैव संगते //
SK
शब्दादेस् त्व् अनुमानेन सुधीभिः परिनिश्चितम् / तस्मात् स्वसंविद् एवैषा स्वप्रकाशतया स्थिता //
SK
मातृमानप्रमेयादिप्रपञ्चैः सावभासते /
SK
समुल्लासः सिन्धोर् बहललहरीविभ्रममयः प्रकाशः शाशाङ्कः कुमुददलनिर्भेदसचिवः / परस्याः संवित्तेर् मितिविषयमातृव्यतिकरैर् विकासो यः सेयं जगति विविधा कल्पनकला //
SK
तस्मात् प्रकाश एवायं चित्रशक्तिसुनिर्भरः / स्वयं विचित्ररूपेण भाति विश्वत्र विश्वतः //
SK
तद् अयं प्रस्फुटाभासो लोकरूपादिवर्त्मना / स्वशक्त्यंशाद् विकल्पाख्यात् प्रत्यक्षव्यपदेशभाक् //
SK
तथा हि देवदेवांशस् तत् समुन्मीलनं दृशः / प्राणस्पन्दस् तदैकाग्र्यं भावस् तद्धर्मसंचयः //
SK
इत्यादि सर्वं यद् भाति तत् प्रत्यक्षम् इति स्फुटम् / न त्व् अत्र कर्तृकर्मांशकरणत्वादिना गतिः //
SK
नन्व् असाव् अस्ति पाश्चात्ये वैकल्पिकपथे ततः / यतो देहघटाभासो स्फुटः पश्चात् तु सो ऽस्फुटः //
SK
स एव च्छन्नरूपस् तु शुद्धांशस्वात्मसंविदम् / ततो देहघटाभासस् तत्राप्य् एषैव वर्तनी //
SK
यावत्सहस्रदेहौघभावकोट्यवभासनम् / तत्रापि च पुरा पश्चान् न तु तादृक्प्रथा यदि //
SK
आमर्शपदवीं याति तत् स्पुटास्फुटचित्रितः / तावान् असाव् एक एव स्वरूपप्रस्फुटात्मकः //
SK
शिवप्रकाश आयाति. /
SK
\ \ \ \ \ \ \ \ \ \ \ \ विचित्रो ऽयं न वस्तुतः / तत्रातद्रूपसंवेशाद् वैचित्य्रं परिचर्च्यते //
SK
शिवप्रकाशे ऽतद्रूपप्रवेशस् तु न संगतः / यदि वा कथितन्यायबलात् क्वापि न चित्रता //
SK
किंतु चित्रतयाभासश् चित्रभावं प्रसूयते / एवं चैत्रो ऽयम् अस्माकं चित्रवद्भवन्न् ईदृशः //
SK
मैत्रेण तन्मतेनालं दृष्टो मां भावदर्शिनम् / पश्यन् पश्यति यः सो ऽयं समाधौ परिनिष्ठितः //
SK
प्राक् त्व् एष जन्मकोटीषु तत्तत्तापाद्य् अभुङ्क्त वै / मोक्ष्यते ध्यानचर्याद्यैर् यो ऽप्य् एतेन पथागतः //
SK
सो ऽप्य् अन्यो मोक्षभाग् ईत्थम् अपर्यवसितोदयः / प्रकाश एक एवायं यश् चिरान् न विभिद्यते //
SK
अत एव हि भेदो ऽस्ति न कश्चिद् यो महेश्वरम् / अद्वयं संप्रबिन्धीत प्रकाशानन्दसुन्दरम् //
SK
देशकालाकृतिज्ञानधर्मोपाध्यन्तरादयः / संमता भेदकत्वेन भान्ति चेत् सा विभा तथा //
SK
न चेद् विभैव सा तादृक् तद् अद्वैतम् इदं स्फुटम् / भेद इत्य् एष शब्दस् तु केवलं प्रतिभोज्झितः //
SK
अस्तु वा भेदकलना प्रतिभासंप्ररोहिणी / उक्तनीत्या तु तत्रैव सप्रतिष्ठा भविष्यति //
SK
अयं घटः पटश् चायं ताव् अन्योन्यविभेदिनौ / प्रमात्रन्तरभिन्नौ च तौ मत्तो ऽपि विभेदिनौ //
SK
इति प्रकाश एको ऽयं तथामर्शस्वरूपकः / नन्व् एवं पक्षपातो ऽयम् अद्वैतं भवतां कथम् //
SK
भेदो ऽप्य् अस्तु स आहत्य किं नाम न विषह्यते / सेयं बधिरगोष्ठीषु गीतवाद्यप्ररोचना //
SK
न ह्य् अद्वयं द्वयावेशबाधेनास्माभिर् उच्यते / त्वत्पक्षोपगमो ह्य् एष स्याद् द्वयं तद्धि सुस्फुटम् //
SK
इदं द्वैतम् इदं नेति तद् इदं च द्वयाद्वयम् / इति यत्र समं भाति तद् अद्वयम् उदाहृतम् //
SK
नन्व् इत्थम् अस्तु भेदो ऽपि न वयं शब्दकामुकाः / अस्त्व् असौ न हि नो हेयम् आदेयं वा यथात्र वः //
SK
सर्वानुग्राहकं पक्षम् आलिलम्बिषसे यदि / परमाद्वयदृष्टिं तत् संश्रयेः शरणं महत् //
SK
एतद् अष्टादशे तत्त्वम् अधिकारे भविष्यति / यत् तद् अन्ते परप्राप्यं तद् अस्तु परमार्थतः //
SK
अत्र ये न हि विश्रान्तास् ते मितां संविदं श्रिताः / सर्वथैवापबाध्यन्ते जन्ममृत्यूत्थविभ्रमैः //
SK
तस्मात् स एक एवासौ प्रकाशः परमेश्वरः / प्रत्यक्षम् इति तेनैव प्रकाशेनैव भासते //
SK
तत्र ता दृष्टयः सर्वा महानद्य इवार्णवे / विशन्त्य् अवश्यं नाविष्टाः प्रयान्ति कृतकृत्यताम् //
SK
तथा हि मानसामग्री रूपालोकमनोक्षजा / साकं मातृप्रमेयाभ्यां तद्वर्जं वाप्य् अनेकशः //
SK
ज्ञातं च गमयेन् मानं न चापि उज्झति मानताम् / प्रत्यक्षपादोत्प्रेक्षेयम् इदानीम् उपपद्यते //
SK
किं चानधिगतग्राहि मानं नवनवं यतः / भैरवेच्छावशाद् एतद् विश्वं भाति तथा तथा //
SK
वस्तु प्रदर्शयन् मानं प्रवृत्तिं विदधत् स्फुटम् / प्रापयत्य् एव तद् वस्तु तथाभासनयोगतः //
SK
सद् अप्य् एकान्ततो नेदं नासच् चेत्यादिसंविदः / भान्त्य् एव परमार्थेन तद् अनेकान्तदृक् स्फुटा //
SK
एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः / अर्हद्वादः सो ऽयम् अस्मद्सुदृष्टौ युक्तश् च श्रीसारशास्त्रे ऽपि चोक्तः //
SK
इदं मानं मेयं तद् इदम् इति संख्यां कलयितुं स्वरूपं वा शक्तः क इव जगतीत्य् एतद् अपि सत् / मतं वाचां पत्युर् भगवति चिदानन्दसुभगे यतस् तूष्णींभावाद् अपर इह कः किं प्रकुरुताम् //
SK
अहेतोर् भाने स्याद् यदि न तनुदिक्कालनियमस् ततो हेतोर् ईदृङ् नियम इति कस्यैष महिमा / स्वभावो ऽयं हेतोर् अथ विवृतकण्ठं कथम् असौ न भावस्यैवोक्तो यमयति परे केन हि परः //
SK
स्वभावाच् चात्मासौ परमशिव इत्य् आगमकथा निरुक्तो विश्वात्मा जगति निखिले जृम्भत इति / धरादेश् चानन्यो भवतु तद् इयं भूतचितिता स वन्ध्यो दिक्कालैर् जननमरणापायरहितः //
SK
तद् अस्यायं लोकस् तदनु परलोको ऽप्य् अयम् इत् ग्रहः कस्माद् धेतोः स्पृशति न हि तं कालकलना / ततः स्वातन्त्र्योद्यत्सुखरसपरानन्दमहिमा- भवद्भस्मीभूताखिलकलुषपाशौघसुभगः //
SK
सांख्यदृक् पुनर् इहैव भूयसा चर्च्यते निखिलतत्त्वगोचरा / दृश्यते धरणीप्रभृत्य् अलं तच् च सूक्ष्मतमकारणोत्थितम् //
SK
तद्गृहीतिकरणोद्यतं पुनर् बाह्यतः करणकं दशात्मकम् / आन्तरं त्रिविधम् अस्य कारणं सौख्यदुःखपरिमोहदर्पणः //
SK
तादृशं त्रिगुणम् एव यद् भवेत् तत् पुनर् जडतयाथ भेदतः / मूलकारणम् अपेक्षते परं सा निशेयम् इह भोग्यम् उच्यते / तच् च भोक्तृ परतन्त्रतामयम् नो परस्परम् उपैति भोक्तृताम् //
SK
भोग्यभोक्तृवपुर् एकम् एव नो जाघटीति हि विरुद्धधर्मतः / तेन भोक्तृ चितिशक्तिमात्रकम् तच् चिदात्ममयतावशान् मनः //
SK
व्याप्तृ सर्वगतम् ईश्वरं कथं भोक्तृतां व्रजतु भेदसंगताम् / तेन तन्निजवशित्वनिर्मितां संकुचत्स्थितिजुषं दशां श्रयेत् //
SK
अन्यकारणकलाद्यभावतः सो ऽयम् अस्य सहजो मलः स्मृतः / स त्रिधा समवभाति तद्वशाद् एष एव स पुमान् उदाहृतः //
SK
भोक्तृभावपरतन्त्रतावशा नान्तरीयकतयास्य कञ्चुकम् / भाति नैवम् इति कालवित्कला- रागसन्नियतिनामधेयकम् //
SK
यद्य् आत्मैष पुनर् निरर्गलनिजस्वातन्त्र्यसंछादितं स्वं रूपं विवृणोत्य् अलं निजबलात् तच्छुद्धवित्संभवः / कर्तृत्वं किल कार्यवर्गम् अखिलं बोधे निधाय स्वके पश्यन्न् ईश्वरतां व्रजेद् अहम् इदं सर्वं सदेत्य् उद्धुरः //
SK
ज्ञातृत्वं हृदयान्तरस्फुरितदृग् दृष्ट्वा स्फुटाभासिनि ज्ञेये भेदतिरोधितां निजचितौ यस्मात् स संपश्यति / तेनास्येदम् अहंविदोः सरभसं भेदैक्यम् आजग्मुषी सामानाधिकरण्यधीः प्रकटयेत् सादाशिवीं संस्थितिम् //
SK
ज्ञेयं कार्यं सर्वम् अन्तर् विबोधे यावल् लीनं तावद् उद्रिक्तवृत्तेः / बोधज्वालासंचयस्यान्तराले तत्प्रस्त्यानं स्वं वपुः प्रोज्झतीव //
SK
इदंभावः सो ऽयं विगलितुमना नो विगलितो भवेत् प्राक्कक्ष्यायाम् अपि स समकान्तिस् तद् अधुना / अहंभागोद्रेके विधिर् अनवधिर् भावविसरे तद् एषा शाक्ती भूरिषिर् इति स्वसिद्धात्मनि परा //
SK
ईहते गलितुमन्वतो गलेत् तत्र पूर्वपररूपसंगतेः / शाक्तभूमिर् अखिलेयम् उच्यते चित्रचिन्निचयचर्चिता सती //
SK
तत्त्वे तत्त्वे स्वेच्छया देवदेवः सर्वां सर्वां भूमिम् आलम्बमानः / पूर्णैकात्मा पूर्णसंवित्स्वरूपः श्रीमाञ् शास्त्रे भैरवो निरुक्तः //
SK
शक्तिपातदृग् इयं निरुच्यते मन्दमध्यपरतीव्रभेदतः / तत्परस्परभिदाभिर् अप्य् अलं या स्वरूपपरिदृष्टिर् आत्मनः //
SK
ननु किं कदाचिद् अयम् ईश्वरो निजरूपं प्रकाशयति पूर्णचितिः / किं वा कदाचिद् अथ संवृणुते निर्हेतुको हि नियमः किल कः //
SK
उक्तम् अत्र किल पूर्वम् अनन्तं नान्यद् अस्ति नियमेषु निमित्तम् / लौकिकेष्व् अपि स एव महेशश् चित्रचित्रपरिभासनशीलः //
SK
तत्स्वातन्त्र्याद् अधिकम् अधुना नोत्तरं बम्भणीमः संवित्सिन्धोः प्रथितलहरीहर्म्यधाराधिरूढिः / शान्तिस् तस्यास् तदनु तद् अयं बन्धनाम्नापदिष्टस् तेनैवेत्थं परिगतरसो मोक्ष इत्य् उक्तरूपः //
SK
सदा कदाचिद् अधुना तदेत्यादि च संविदः / तत्स्वातन्त्र्यावभासीयकालकेलिविकल्पनाः //
SK
न च कालकलाभिः स स्पृश्यते परमेश्वरः / न हि तासां स्वतन्त्रास्ति स्थितिस् तत्कल्पनां विना //
SK
तेन स्वसृष्टे भावांशे स्वरूपात्मन्य् अपि स्फुटम् / पारतन्त्र्यावभासो ऽयं देवेनैवावभास्यते //
SK
पारतन्त्र्यं कलयति स्वतन्त्रः परमेश्वरः / स्वातन्त्र्ये पारतन्त्र्ये च नान्यल् लक्षणम् उच्यते //
SK
परिच्छिन्नप्रकाशो हि जडस् तेनात्र यः स्थितः / परिच्छेदक एषो ऽपि परिच्छेद्यो यदि स्फुटम् //
SK
तद् अस्य रूपग्रहणे न प्रकाशः प्रकाशते / तथा हि बाह्यो भावांशः स्वयं नैष प्रकाशते //
SK
ज्ञानम् अर्थप्रकाशात्म तच् चानाभातम् एव हि / तस्यापि समवाय्य् आत्मा नैव भाति स्वरूपतः //
SK
तदीयकरणं नेत्रप्रभृत्य् अपि न भासते / आलोकादेश् च विज्ञानाद् ऋते नैवावाभासनम् //
SK
ननु जातं यदि ज्ञानम् अर्थस्यासौ प्रकाशता / शक्तिर् धर्मो यदि प्राप्तं सार्वज्ञ्यं विश्वमण्डले //
SK
अन्यद् एवाथ तत् किंचित् प्रकाशत्वाभिशब्दितम् / तन् मेयमातृमानेषु नैव कुत्रापि संगतम् //
SK
ततश् चाप्रकटं विश्वं सर्वदैव भवेद् इदम् / अप्रकाशस्य भावस्य यदि च स्याद् प्रकाशनम् //
SK
तावतैवास्य हीयेत स्वरूपं परिहानितः / ज्ञानोत्पत्तिश् च भावस्य स्वरूपस्थस्य चेत् प्रथा //
SK
अविशिष्टे स्वरूपस्थभावे विश्वस्य सा न किम् / तस्मात् प्रकाशो विश्वस्य परिच्छेदकनिष्ठितः //
SK
तत्स्वातन्त्र्यावभासोत्थचित्राकारविभेदितः / परिच्छेदक इत्थं चेत् परिच्छेद्यो भवेत् ततः //
SK
मूलक्षतिकरी सेयम् अनवस्था पतिष्यति / अतश् च सो ऽपरिच्छिन्नः परिच्छेदक उच्यते //
SK
अकाल्प्यस् तेन शास्त्रेषु तन् न कालस्य गोचरः / तेनास्य वेद्यधर्मत्वं कालस्य परिभाषितम् //
SK
यदि कालश् च मातारं परिच्छिन्द्यात् ततो ध्रुवम् / मातृलग्नैव कालस्य स्थितिर् निर्वाहम् इच्छति //
SK
न च मात्रन्तरं किंचित् संभवेद् अनवस्थितेः / तां हन्तुं वोपगम्यो ऽसौ माता कालकलोज्झितः //
SK
य एव तु परिच्छेद्यो माता तल्लग्न एव चेत् / स कालो मातृमेयत्वे तर्ह्य् एकस्य कथं तव //
SK
भेदवादे हि भवतां निष्ठिता मतिर् ईदृशी / अभेदवादिनां नस् तु नैव काप्य् अस्तु खण्डना //
SK
विश्वं मातृमयं येषां माता विश्वमयस् तथा / तन् न कालकलाजालजम्बालैः परमेश्वरः //
SK
चितिशक्तिप्रकाशो हि मालिन्यम् अवलम्बते / अतस् तदा संवृतो ऽसौ पश्चात् प्रकटरूपकः //
SK
इति तस्यैव जृम्भेयं तथात्वव्यपदेशिनी / कलनैवास्य सा काचित् स्वरूपामर्शनात्मिका //
SK
शिवयोगार्हम् आत्मानं यस्याम् आत्माभिमन्यते / यतो वैचित्र्ययोगेन तथात्मानं स मन्यते //
SK
शक्तिपातस्य तेनोक्ता नवधात्र व्यवस्थितिः / अन्यथा नेश्वरस्यास्ति रागो द्वेषो ऽथ वा क्वचित् //
SK
येन क्वाप्य् एष नियतां स्वां शक्तिं पातयेद् विभुः / अनिमित्तस् तथा चायं शक्तिपातो महेशितुः //
SK
तेन रागक्षयात् कर्मसाम्यात् सुकृतगौरवात् / मलपाकात् सुहृद्योगाद् भक्तेर् भावाच् च सेवनात् //
SK
अभ्यासाद् वासनोद्भेदात् संस्कारपरिपाकतः / मिथ्यज्ञानक्षयात् कर्मसंन्यासात् काम्यविच्युतेः //
SK
साम्याच् चित्तस्य सा शक्तिः पततीति यद् उच्यते / तद् असन् / ननु तत्रापि निमित्तान्तरमार्गणात् //
SK
अनवस्थातिप्रसङ्गसंभवाभावयोगतः / अन्योन्याश्रयनिःश्रेणिचक्रकाद्युपपाततः //
SK
अस्मिंस् तु पक्षे सर्वेषां प्रवादानाम् अपि स्थितिः / युक्ता सर्वंसहे पक्षे न किंचित् किल दुष्यति //
SK
युक्तिः सुधीभिः स्वयम् एव तत्र शक्येत संयोजयितुम् ततो न / पृथक्तया योजनम् उक्तम् अत्र यद् ग्रन्थतो विस्तर एष मिथ्या //
SK
उपजग्मुर् अतो ऽनपेक्षिणीं शिवशक्तिं न च तां विना भवेत् / अपवर्गपदं यतो मुधा परशास्त्रेषु विमोक्षसंकथाः //
SK
शक्तिपातसमये विचारणं प्राप्तम् ईश न करोषि कर्हिचित् / श्रीमदुत्पलगुरुर् न्यरूपयत् तत्र तत्र निजशास्त्र ईदृशम् //
SK
तस्यैव हि प्रसादेन भक्तिर् उत्पाद्यते नृणाम् / यया यान्ति परां सिद्धिं तद्भावगतमानसः //
SK
इत्थं पुराणशास्त्रादौ शक्तिः सा पारमेश्वरी / निरपेक्षैव कथिता सापेक्षत्वे ह्य् अनीशता //
SK
केवलं भेदवादान्ध्यस्थगितालसदृष्टिभिः / दुःसमर्थत्वम् एतस्या नियमेन क्वचित्स्थितेः //
SK
पर्यालोच्यानिशं कर्ममलसाम्यप्रपाकतः / इत्यादिहेतुजालेषु वृथात्मा परिखेद्यते //
SK
तत् तेषां नोपकाराय कुशकाशावलम्बनम् / तस्मात् स एव तादृक्षस्वस्वातन्त्र्योपबृंहितः //
SK
तदा तथा तथेत्यादिवैचित्र्येणावभासते / तद् इत्थं सर्वदृष्टीणाम् अत्रैव परमेश्वरे //
SK
अनुप्रवेश इत्य् अन्यैर् अलं वा युक्तिडम्बरैः / तद् इत्थं देवदेवेन स्वस्वरूपम् इहोदितम् //
SK
प्रत्यक्षं तत्र तन्मानं सर्वमानधुरोद्धुरम् / एकम् एवेदृशं मानम् इति केचित् प्रपेदिरे //
SK
धूमाद् अग्निर् इति प्रायस् तस्यैवैतद् विजृंभितम् / यथा घटस्य पूर्वांशदृष्टैकपरिनिष्ठितः //
SK
माता स्फुटास्फुटाकारतावदर्थावलेहिनीम् / स्फुटाम् एव मतिं मत्वा प्रत्यक्षत्वं प्रपद्यते //
SK
न चानुमानम् अन्त्यांशे संविद् एकैव सा यतः / धूमाध्यक्षप्रतीत्यन्तर्निविष्टाग्निप्रथा तथा //
SK
एकैव तावद् अर्थांशलेहिनी जायते मतिः / तावत्य् आंशे स्फुटाकारा प्रत्यक्षम् इति भाष्यताम् //
SK
यथा रत्नादिवैचित्य्रं तथा संस्कारसंस्थितेः / नेत्रात्ममानसालोकविषयादिषु संविदि //
SK
प्रत्यक्षम् एव संवित्तौ स्फुटत्वेनावभासते / तथा तथाविधव्याप्तिधामसंकारसंस्थितेः //
SK
अन्ते तथैव सा वित्तिर् धूमाग्न्याकाररूपिणी / यथा च दृढसंस्काराः सोल्लेखाः सपदि स्वयम् //
SK
रत्नादितत्त्वं पश्यन्ति विघ्नान्तरतिरोधितः / तथा बुभुक्षितात्मानः शीघ्रम् एवातिनिश्चितम् //
SK
अन्नादि गृह्णते भोक्तुं व्याप्त्याद्यव्यवधानतः / तेन प्रत्युक्तम् एव स्याद् यद् आहुः परिकल्पनम् //
SK
अभ्यस्तेष्व् अविनाभावस्वभावव्याप्तिसंविदः / किं हि तत्कल्पनाव्याप्तिवित्तेर् इति न मन्महे //
SK
आशूत्पत्तिवशाद् अस्या न खल्व् अस्त्य् उपलक्षणम् / अनुमीयत एवं सा तद् एव परिकल्पनम् //
SK
अहो स्वपक्षपातान्धाः स्वम् अप्य् उपगतं मुहुः / अमी विस्मर्तुम् आरब्धास् तार्किकम्मन्यबुद्धयः //
SK
क्षणापवर्गिणी बुद्धिः सर्वैव हि भवन्मता / उत्पत्तिमात्रयोगेन विषयस्यावभासिका //
SK
न क्षणाच् चापरं किंचिद् आशुभावित्वम् उच्यते / तत् सर्वम् आशुभाव्य् एव विज्ञानम् इति तत्त्वतः //
SK
सर्वत्र भावजातेषु भवेद् अनुपलक्षणम् / अथाविच्छिन्नदृष्टीनां द्राघीयःकालगोचरम् //
SK
ज्ञातं तेनापि तर्ह्य् अर्थो जन्ममात्रेण भास्यते / यच् चोत्पत्तिवशाद् एव विषयस्फुटतात्मकम् //
SK
तस्य शीघ्रतरस्थास्नुभावो भेदावहः कथम् / यत् तत् किल ग्रहापेक्षं स्वप्रकाशम् अथापि सत् //
SK
अन्यत्रोपायतां याति विद्युद्दीपादिवत् तथा / तत्रैव चिरशीघ्रस्थभावो भेदाय भासते //
SK
न च क्वाप्य् अनुमानेषु व्याप्त्यादेर् ग्रहणं भवेत् / पुनः पुनः स्फुटीभावं याति येनोपलक्ष्यते //
SK
किं च क्रमिकधूमादिज्ञानमालात्मनि स्फुटम् / उदितापि कथं कुर्याद् एकभावावभासनम् //
SK
अथान्त्यम् अनुसन्धानज्ञानम् एवं करिष्यति / तद् अपि प्राक्स्थसंवित्तिसमं भिन्नं कथं तथा //
SK
तेन प्राक्तनविज्ञानमालामन्वस्यते यदि / तद् असन् न हि संधानं नष्टायाम् उपपद्यते //
SK
अथ स्मरणम् एवेह संधानं संविदां भवेत् / तद् अप्य् अनुभवाभावे कथं नाम भविष्यति //
SK
न च ज्ञानेष्व् अनुभवो युज्यते संविदः क्वचित् / युगपज् ज्ञानयुगलं नास्तीति हि भवन्मतम् //
SK
ज्ञानज्ञेयात्मता दृष्टा युगपत्स्थितताजुषोः / न तु पूर्वापराकारसमुत्पन्नविरोधिनोः //
SK
तस्माद् व्याप्त्यनुसारावभासपूर्वापि या मतिः / तत्राप्य् अक्रमम् एवेदं प्रत्यक्षमानवेदनम् //
SK
यथा झटिति सौषुप्तप्रबुद्धः प्रोन्मिषद्दृषिः / प्रत्यक्षम् इति भावांशध्यामलत्वनिवृतये //
SK
नेत्रसंमार्जनादीनि विदधन्नाभिमन्यते / भावान् अनुमिनोमीति तथैवात्रापि बुद्ध्यताम् //
SK
यथा च घनसौषुप्तमोहाव्युत्थितदर्शनः / स्वात्मानम् अथ तत्स्थानं विस्मरत्य् एव तत् क्षणं //
SK
अथ प्रयत्नसंभारप्रबुद्धविमलस्वदृक् / सो ऽहम् अस्मीति मन्वानः संवित्तेः परमार्थतः //
SK
तत्र सर्वत्र नाथो ऽयं भैरवश् चित्स्वरूपकः / स्वातन्त्र्यात् स्वं वपुर् यावद् गूहते विवृणोति च //
SK
तावद् अज्ञानम् एतस्य विज्ञानं चोपजायते / तच् च स्फुटतया सर्वप्रत्यक्षम् इति मन्यताम् //
SK
घटशब्दे श्रुते या च पृथुबुध्नोदरादिधीः / तत्रापि खलु सम्केतस्मरणादि तथाविधम् //
SK
यथा रत्नपरीक्षायां स्वां संवित्तिं स्फुटात्मिकाम् / सम्विदन्तरसंघातैस् तिष्ठति प्रतिबोधयन् //
SK
ततः प्रबुद्धचरमस्फुटसंवित्तियोगतः / रत्नतत्त्वं विभात्य् अत्र नोपयोगे ऽन्यसंविदाम् //
SK
ताः परं तत्प्रबोधाय कारणत्वं वितेनिरे / तस्यैवावभासयोगे हि न तासाम् उपयोगिता //
SK
बालवैकटिकज्ञानदृष्टान्ताद् ईदृशात् स्वयम् / शाब्दे ऽपि खलु विज्ञाने स्फुटैवैका प्रकाशधीः //
SK
अतस् तथाविधे शब्दे श्रुते यत् समनन्तरम् / अर्थावभासने सेयम् इयती मतिर् ईदृशी //
SK
अर्थः स तावांस् तत्रास्ते घटपूर्वापरांशवत् / नन्व् असौ घट एकः स्याद् अवयव्यात्मकस् तथा //
SK
न तु शब्दार्थयोर् ऐक्यं तत् कथं साम्यम् ईदृशम् / अहो भेदग्रहाभ्यासतिमिराविललोचनः //
SK
सद्युक्त्यञ्जनयोगे ऽपि न दृष्टिं विमलां गतः / अभिन्नो भगवान् एष भैरवो भोग्यभोक्तृताम् //
SK
आत्मन्य् एवानुसन्धाय सर्वदा पूर्णविग्रहः / इति प्रसाधिते पूर्वं कः प्रश्नस्यास्य संभवः //
SK
तद् एवम् उपमानादाव् अपि मानान्तरे स्फुटम् / संवित्प्रत्यक्षरूपैव सर्वत्र प्रतिभासते //
SK
अन्धो ऽपि स्पर्शशब्दाद्यैस् तत्तद्रूपं विलोकयन् / स्फुटताम् एव तां तावत् संवेत्ति स तथाविधाम् //
SK
एवं जातिजडा रूपस्पर्शाद्यैर् अभिमन्वते / स्फुटम् एव हि भावांशं तेषां नाज्ञातधीः क्वचित् //
SK
इयं लावण्यसरसी तारुण्योद्यानकण्डली / इति तुष्यति जात्यन्धस् तदङ्गपरिमर्शनात् //
SK
अहो नु सदलंकारं गायतीति जडो जनः / गातुर् मुखं विलोक्यैव तावता परितुष्यति //
SK
इति प्रत्यक्षम् एवैकं निःसपत्नं विजृम्भते / तद् अस्य फलचिन्तादि कर्तुं प्रस्तूयते मनाक् //
SK
तद् एव खलु विज्ञानं परिमर्शरसात्मकम् / तस्माद् भेदकथा नैव फलं प्रति सुसंगता //
SK
हानादिधीः फलं वास्तु तस्या अप्य् अथ भासनात् / यदि वा स्वप्रकाशैव संवित्तिः पारमार्थिकी //
SK
तद् एव पर्यन्थफलं सर्वत्रैव सुनिश्चितम् / ह्लादादिकं फलं मुख्यं यत् सर्वत्रेह गीयते //
SK
तत्स्वसंविदि विश्रान्तिम् अभ्येति भरितात्मनि / तद् एवम् इदम् अध्यक्षं सर्वतः प्रविजृम्भते //
SK
एतदभ्यासनिष्ट्ःअस्य केव सिद्धिर् न जायते / ब्रह्मादिभाषितश्रौतप्रौन्मुख्येन कलादिकात् //
SK
दूराच् छ्रवणविज्ञानम् अचिरात् संप्रवर्तते / मनोदृष्टे ऽपि भावांशे स्फुटवृत्त्युदयो ह्य् अलम् //
SK
स्वविमर्शबलाक्रान्ते किं चित्रं यदि जायते / स्पन्दशास्त्रे तथा चोक्तं सावधाने ऽपि चेतसि //
SK
भूयः स्फुटतरो भातीत्य् अलं बहुलविस्तरैः / इत्थं प्रत्यक्षम् एवेदं विश्वं यत् परमेशितुः //
SK
तत् ततो ऽप्य् अविभिन्नस्य मातृवर्गस्य तत् तथा / न च प्रतीतिसांकार्यं तथा भासनयोगतः //
SK
प्रत्यक्षे ऽपि समे साम्यं नो घटाघटसम्विदोः / इत्थं प्रत्यक्षम् एवेदं निःसपत्नं विजृम्भते //
SK
ततो न भिद्यते चार्थः प्रत्यक्षाद्वैतम् ईदृशम् / इदं सन्धानकलिकापरिनिष्ठितबुद्धिना //
SK
आचार्यनरसिंहेन प्रत्यक्षाद्वैतम् उच्यते / अनुमानप्रमाणत्वं विश्वस्मिन् कैश् चिद् उच्यते //
SK
तथा हि देवः सर्वज्ञो निर्विकल्पस्वभावकः / स चाध्यक्षस्वभावो ऽपि नायाति व्यवहार्यताम् //
SK
अविकल्पे विकल्पात्मा व्यवहारः कथं किल / विकल्पेन च सर्वो ऽयं व्यवहारो ऽवतन्यते //
SK
स एव चानुमानं स्यात् तस्यैताः परिकल्पनाः / पक्षतद्धर्मतद्व्याप्तितत्प्रतीत्यादयो ऽखिलाः //
SK
वस्तुतस् त्व् एक एवासौ प्रत्ययः पारमार्थिकः / नन्व् अध्यक्षवियोगे स्याद् अनुमानं कथं यतः //
SK
तत्प्रत्यक्षपरिच्छिन्नप्रतिबन्धनिबन्धनम् / सत्यं किंतु य एको ऽसौ देवः सर्वज्ञतास्पदम् //
SK
तदावेशवशाद् एषा व्याप्तिर् बोधे ऽवकल्पते / अन्यथा वह्निधूमादि तदभावादिवेदनम् //
SK
अन्वयव्यतिरेकात्मा न स्याद् युगशतैर् अपि / अत एव हि मुख्यस्य मानस्य सदृशत्वतः //
SK
अनुमानम् इति प्रोक्तं व्यवहारप्रवर्तनम् / तद् एवम् एते मातारः सर्वत्रेश्वरसंविदम् //
SK
उपजीवितुम् आयान्ति मातृभावं न चान्यथा / अज्ञो हि जन्तुवर्गो ऽयं कथं तदनिवेशतः //
SK
ज्ञस्वरूपत्वम् आप्नोति तद् विना मातृता कुतः / तस्माद् संविदि योगो ऽस्य स च नानेन दुर्लभः //
SK
वस्तुतो हि न कश् चित् स सविन्नाथो ह्य् असौ तथा / तद् एवं पक्षम् ईशानप्रत्यक्षाक्षिप्तवृत्तिकम् //
SK
सापेक्षं परतन्त्रे च पाशवं मानम् उच्यते / अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः //
SK
ईश्वरप्रेरितो यातीत्य् अत एव मुनिर् जगौ / एवम् ईश्वरसापेक्षानुमानैकप्रमाणता //
SK
निर्णीता लोलटाख्येन गुरुणा लोकसंमता / अन्यस् तद्गृह्य एवाह सत्यं वाध्यक्षसंविदः //
SK
व्यवहारे ऽस्ति मानत्वम् अनुमा तु कथं प्रमा / सुलभव्यभिचारायाम् अनुमायां विनिश्चितः //
SK
विशंश्रमीतु को नाम परीक्षकतया स्थितः / अन्वयो व्यतिरेकश् च यः सपक्षेतरस्थितिः //
SK
आदिदृष्टस् तदात्वे नो विनिश्चयविधायिनौ / यैस् तु तस्माद् अपास्येत पक्षधर्मादिदूषणात् [णम्] //
SK
वर्चस्ककूटे शुद्धिं ते कुर्युः पांसुकणोच्चयैः / तस्मात् संशय एवायं प्रवृत्त्यङ्गतया स्थितः //
SK
स एव भेदाभासित्वान् मायेति परिभाष्यते / मायेव च पशूनां स्यान् मानं मायाचिदातकम् //
SK
तर्को वाप्य् एकपक्षांशस्थितिसंभावनात्मकः / अर्थानर्थबलीयस्त्वात् प्रवृत्तौ [त्त्यै] वा निवृत्तये //
SK
प्रभविष्णुः स एवेति किम् अन्यैर् मानडम्बरैः / प्रमाता शिव एवैको यस्येदं स्वाङ्गम् ईद्र्शम् //
SK
मेयत्वेन समाभाति सर्वतो निश्चयात्मकम् / अन्यः पुनः पशुः सर्वः संशयध्वान्तमध्यगः //
SK
सौदामनीद्युतिप्रायसंवित्समनुरञ्जितः / पक्षद्वितयसत्यान्यभावान्यतमनिश्चयम् //
SK
विन्दान एव लभते नात्र रूढिं कथं चन / तद् एवं तर्कतः सर्वो व्यवहार इति स्थितम् //
SK
अशुद्ध सैव विद्येयम् इति मानं विधीयताम् / अशुद्धिर् इयती तस्या यद् वस्त्व् अननुसारिता //
SK
अन्ये त्व् अनर्थिनो नास्ति प्रवृत्तिर् इति निश्चिताः / अर्थित्वम् एव सचिवम् इत्य् एवं पर्यचूचुदन् //
SK
रागस्य मानताम् इत्थं प्राहुर् अन्यात्मवेदिनः / अन्ये त्व् आहुः संशयो ऽपि न नामानिश्चिते गजे //
SK
शक्तत्वे सति जायेत रागो वापि प्रवृत्तये / ततः स्वां कर्तृताम् ईषद् आलोच्य जनताः सदा //
SK
प्रवर्तन्त इतीत्थं स्यात् कलाया एव जृम्भितम् / तेनार्थः स तथा वास्तु मा वाभूत् स्वात्मनस् तया //
SK
मन्वानः कर्तृताम् एष सर्वत्रैव प्रवर्तते / अन्ये त्व् आहुर् अनादिर् यो व्यवहारः क्रियात्मकः //
SK
नियतिः सैव विश्वस्य प्रवर्तकतया स्थिता / स एव चागमो नाम वृद्धव्यवहृतिक्रमः //
SK
ततः समग्र एवायं धर्मादिपरिनिश्चयः / न प्रत्यक्षान् नानुमानाद् भूयसा विप्रलम्भकम् //
SK
मतिर् अभ्येति विश्वासं परीक्षापक्षशालिनाम् / अन्नं क्षुधं शमयते तृषं वारीति बालकाः //
SK
अन्यतः परिनिश्चित्य तथात्वानतिशङ्किनः / अन्यदाक्षादिके ऽप्य् अर्थे तत एवाद्यमानतः //
SK
लभन्ते निश्चयं सम्यग् आगमाख्यात् परीक्षकाः / तथा च मुनिर् आहेदं पुण्यं पापम् इति द्वये //
SK
शास्त्रप्रयोजनं स्वल्पं नागमस्य प्रयोजनम् / आगमो हि न नामैष पुस्तकग्रन्थसंचयः //
SK
केवलं प्रथिताभिख्यो ऽनादिर् वेदादिकः किल / किं तु प्रसिद्धिर् एवासौ सा च शब्दस्वरूपिणी //
SK
या सर्वदर्शनेष्व् एव न जात्व् आयात्य् अपोह्यताम् / छागैश् चैत्यो जटा भस्म भिक्षा दण्डः कमण्डलुः //
SK
जालं तप्तशिला श्मश्रुकेशलोमविलुञ्चनम् / अग्निर् एधा इष्टकौघचयनं गृहमेधिता //
SK
इत्यादिसर्वशब्दानां प्रसिद्धिप्रक्रमाद् ऋते / को ऽभ्युपायो ऽर्थतः कॢप्ततदन्यार्थावबोधयोः //
SK
इत्थम् आगम एवायं प्रमाणम् इति धीधनैः / उक्तं सत्यैव वाग् ऐशी प्रसिद्धिर् अविगानतः //
SK
प्रसिद्ध आगमो लोके युक्तिमान् अथवेतरः / विद्यायाम् अप्य् अविद्यायां प्रमाणम् इति तत् स्थितम् //
SK
प्रामाण्यं नियतेः श्रीमद्भूतजान्तनिवासिनाम् / अन्ये त्व् आहुर् विशेषो ऽयं कालो नामाभिवर्तते //
SK
स्फुटभावस्वभावो ऽसौ वर्तमानो ऽभिवर्तते / वृत्तस्फुटस्वभावांशस् तदा त्व् अस्फुटतामयः //
SK
भूतः कारणकॢप्त्या तु भाव्य् असौ परिकल्प्यते / स चायं न स्वतन्त्रो ऽस्ति कश् चिद् अन्योन्यसंश्रयात् //
SK
अनवस्थानतो रूपपरावृत्त्यवलोकनात् / इयत्तारूढ्यभावाच् च मातृमेयोभयाश्रयात् //
SK
निरुपाधिकतद्रूपप्रतिभानवियोगतः / एकानेकध्रुवानित्यस्वरूपानुपपत्तितः //
SK
एकस्यैकोपधेर् ऐक्यात् तिरोधेर् (?) उपधेरपि / क्रियायाः स्वगते भेदे कालस्यानुपयोगतः //
SK
तत्कृते ऽन्योन्यसंश्रित्यान्यकृते ऽप्य् अनवस्थितेः / औपाधिकभिदावृत्तेर् असत्यत्वाद् अवास्तवात् //
SK
कार्यस्यानुपपत्तित्वाद् एकस्यानुपयोगतः / चितश् च स्फुटतादत्तवर्तमानसदात्वतः //
SK
भूतभाविलयात् तस्माद् वर्तमानलयाद् अपि / चिन्नाथ एव देवो ऽसौ कालम् आभासयत्य् अलम् //
SK
तद् अस्य कालाभासाख्या चित्स्वरूपस्य संसृतिः / स्वभाव[स्वाभास]गर्भा भावेषु भावाभावमयी स्वके //
SK
रूपे स्थितिः प्रमातृत्वसमुल्लासो ऽभिधीयते / इदं न यद् अहं चाहं यन् नेदम् इदम् अप्य् अदः //
SK
यन् नेदम् इति चित्रेयम् अभाव[आभास]स्यैव मानता / परा प्रमातृता यासौ शुद्धा तस्यां पृथक्स्थिति //
SK
न मानम् अस्तीत्य् अत्रांशे किं तया प्रविविक्तया / यस् तु सांसारिको मातृभावः सर्वो ऽयम् ईदृशः //
SK
तत्राभाव[स]स्य मानत्वं स च कालप्रसादतः / तथा हि परिपूर्णो ऽसौ सर्वसर्वात्मरूपधृत् //
SK
क्व माता क्व च वा मानं क्व च मेयो ऽवतिष्ठताम् / मात्रादीनां हि सत्यत्वे न स्याद् आपेक्षिकी स्थितिः //
SK
मेयाद् एव च मात्रादेर् भावो जातु प्रकल्पते / अन्योन्यरूपस्यालाभे लाभे वा तदयोगतः //
SK
सर्वत्रातिप्रसङ्गाच् च सर्वज्ञत्वादियोगतः / युगपच् चाप्य् अनुल्लासात् तत्त्वस्यानुपकारिणाम् //
SK
अन्यमेयादिजनिते मातृत्वादौ तदन्यतः / तद्भावस्याप्य् अनुत्पन्नसमत्वेनैव संस्थितेः //
SK
तस्माद् पूर्णश् चिदात्मासौ शिवः स्वांशं विखण्डयन् / नाहम् इत्यादिभेदांश इदम् अप्य् अवकल्पयेत् //
SK
तदन्यसर्वपूर्णत्वम् अहम् आत्मनि तावति / ततो ऽन्यतो ऽपि संहर्ता जायते नाहम् इत्य् अपि //
SK
उभौ तौ इदम् अंशौ चाप्य् अपोहति परस्परम् / बुद्धिस्थम् इदम् अंशं स्वं स्वाहम् अंशे तिरोदधत् //
SK
आस्ते न द्रावयत्य् एनं वस्त्रावृतघटादिवत् / तद् एव बुद्धिसंस्थात् तु समयाग्रथिताद् अथो //
SK
इदम् अन्तरसंघाताद् अहमंशव्यपोहिनः / अहमंशाद् इदन्तौघव्यपोहाद् अहम् अन्तरात् //
SK
व्यपोहात्स्वाहमो ऽन्यान्याहंव्यपोहस्य भासनम् / षड्देवताः शून्यरूपा यदाश्रित्य प्रवर्तते //
SK
तद् एवेदम् इति ज्ञानं विकल्प इति गीयते / स कालः कल्यते येन विश्वं निजकलोदयात् //
SK
तद् अत्रांशे य एषो ऽस्ति भासांशः स्वप्रकाशकः / भावरूपतया सो ऽयं सर्वानुप्राणनात्मकः //
SK
न मातासौ न वा मानं न च मेयं निरुच्यते / यस् त्व् असौ शून्यतायोगाद् अभावो रुद्रदैवतः //
SK
स एव मानताम् एति यद्योगान् मातृताभावि[व]तः / मानाच् च पृथङ्मेयम् इत्य् एवम् उपपादितम् //
SK
इत्थं कालस्य मानत्वं प्रतिपेदे ऽत्र कैश् चन / ये श्रीमद्भवतीत्याख्यगुरुपादोपसेविनः //
SK
तद् इत्थं पुंसि चिद्धर्मविभवामोदशालिनि / मातृत्वदायि यत् प्रोक्तं षट्कं कञ्चुकसंज्ञितम् //
SK
तद् एकैकस्य मानत्वं के चन प्रतिपेदिरे / अन्ये त्व् एकस्य सर्वान्यसचिवस्येति मन्वते //
SK
अन्ये कदापि कस्यापि कथंचित् क्व चनेत्यादि / अन्ये द्वयोर् द्वयोर् अन्ये त्रिकद्वयनियोगतः //
SK
अन्योन्यानुग्रहाद् अन्ये बोधेनान्योन्यतो ऽपरे / अन्ये तु गुणसाम्यात्मप्रकृतिम् एव मानताम् //
SK
मुख्यत्वेन विदुः सुप्तमत्तमूर्च्छादिदर्शनात् / स यत्रैव प्रमातायं यतः सुप्त इव स्थितः //
SK
सैवास्य मातृता मानमेययोर् अप्रवेदनात् / अन्योन्यम् अविकार्यत्वात् प्रसुप्ते ऽपि तथाविधे //
SK
केवलं प्रकृतिः सेयं जानामीत्य् अभिमन्यते / तत्र मुख्यं तु यन् मानं यत्पुंसैवानुदर्शनम् //
SK
तच् च शुद्धं निर्विकारं सदसद्रूपतोज्झितम् / इत्थं के ऽप्य् अभिमन्यन्ते सांख्यकञ्चुकसंश्रयात् //
SK
वय्याभिधानस्य गुरोर् गृहे ज्ञानोपजीविनः / अन्ये धीभूमिम् एवाहुर् द्रष्टृदृश्योपरागिणीम् //
SK
प्रमाणं पारमर्षेयाः केचित् तद्वृत्तिसंचयम् / धर्मादिकाष्टसंख्यातं धर्मजातं परे विदुः //
SK
अन्ये ऽहंकारम् एवाहुः केचिद् धियम् अथो मनः / केचिद् त्रितयम् एवेदं समं सर्वत्र मन्वते //
SK
अन्ये दशानाम् एकैकम् इन्द्रियाणाम् प्रपेदिरे / केचित् समस्तान्य् एतानि सर्वत्राकूटवृत्तितः //
SK
अन्धस्यापि हि तत् किंचिद्रूपायतनम् अस्ति यत् / विकारम् एकश्रोत्रस्पृग् अक्षान्तरसमस्थिति //
SK
प्रभातं प्रविलीनाभ्रनभोमण्डलमण्डितम् / इत्य् आकर्ण्य परां तूष्टिं यात्य् अन्धो हैमने दिने //
SK
यद्य् अप्य् अनुमिमीते ऽसौ शीतवारणजं सुखम् / तथाप्य् अस्य स्वसंवित्तिर् न रूपानवभासिनी //
SK
अन्ये तन्मात्ररूपाणां मानत्वं प्रतिपेदिरे / चक्षूरश्मिस् त्व् असंस्पर्श इत्यादिविधियोगतः //
SK
अदृश्यत्वं चक्षुरादेर् अत एवोपपद्यते / योगिनः प्रत्य् अदृश्यत्वं जातुचिन् नोपपद्यते //
SK
अन्ये तु स्थूलभूतानां ज्योतिषां मानतां जगुः / मेयस्यापि प्रमाणत्वम् अपरे प्रतिपेदिरे //
SK
यतो भवति मातृत्वं तत्प्रमाणम् इति स्थितिः / तद्घटाद्यैश् च यत् तस्मात् ते ऽपि मानम् इति स्मृताः //
SK
लौकिको व्यपदेशश् च नैव वस्त्वनुसारतः / स हीच्छामात्रकॢप्तत्वात् प्रायेणैवोपचारिकः //
SK
कथं जानासि भोः सो ऽहं जानामीति च चोदितः / घटेनानेन दृष्टेन जानामीत्य् अभिभाषते //
SK
तस्मान् मेये ऽपि मानत्वं न हि नाम न लौकिकम् / अभेदवादे मूलस्थे विरोधो ऽपि न दूषणम् //
SK
ये तु प्रमाणम् आहुस् तत्सामग्रीं तैर् अपि स्फुटम् / अर्थादेर् मानताभीष्टा सा सङ्घे ऽप्य् अन्यथा कुतः //
SK
अन्ये तु सर्वस्यैवेयत्तात्तभेदस्य मानताम् / क्रमोदितां हि सर्वत्र क्वचिच् चाप्य् अक्रमोदिताम् //
SK
क्वचित् क्रमाक्रमग्रासपरिपूर्णत्वबन्धुराम् / मन्वते तन्मतं तावद् दिङ्मात्रेणोपदर्श्यते //
SK
प्रथमं मेययोगेन झटिति प्रतिभासिना / अन्यार्थदृश्यभिप्रायप्रच्छनेनैव सर्वतः //
SK
मातृत्वं चरमं तत्र चक्षुषः प्रविजृंभणम् / ततो मनो ऽहंधीवर्गविजृंभान्तःसमुज्ज्वलम् //
SK
ततः पौंस्नाभिसंशुद्धसंविदुल्लासशालिता / ततः कालकलारागयत्यविद्यानिशाः क्रमात् //
SK
अन्यथा वा समं वापि द्वन्द्वयोगेन वा त्रिशः / सर्वशो वा चतुष्पञ्चयोगेनाप्य् आणवे पदे //
SK
अभावकर्तृतासङ्गसिद्धितर्काख्यसंशयाः / तत्रापि ननु जायन्ते तत्तत्क्रमविचित्रिताः //
SK
तत्पृष्टे चाविकल्पासौ शुद्धैश्वर्यावभासिका / विद्या प्रमाणताम् एति पर्यन्तप्रमितिस्थितौ //
SK
ततः सदाशिवोदारज्ञानेच्छाशक्तिसंश्रये / स माता पूर्णताम् एति शक्त्यन्ताध्वसुनिर्वृतः //
SK
इत्थं पूर्णं प्रमातृत्वं यतः समवभासते / तदन्यतमभागांशतिरोधानवियोगजाः //
SK
संविदः स्फुटतान्यत्वभेदान् निःसंख्यतां गताः / अत एव ह्य् अजानानैः शिवशास्त्रोदितां स्थितिम् //
SK
स्फुटास्फुटादिसंवित्सु स्मृत्यस्मृत्यादिगोचरे / सौषुप्तादिषु शीघ्रत्वे युक्त्यामर्शाद्यसंभवात् //
SK
मनोवधानं संस्कारो धर्माद्यदृष्टकल्पनम् / इत्य् एते हि स्फुटं शब्दा नात्र को ऽर्थस् तत्रि ... मा //
SK
ऊर्ध्वोर्ध्वतत्त्वव्रातस्य मानत्वे च निरूपिते / अधराधरतत्त्वांशो मेयताम् अवलम्बते //
SK
न चात्रास्ति क्रमः कश् चिद् व्यवधाने हि संभवात् / न हि विद्या न बौद्धी ताम् आलोचयति संविदम् //
SK
विद्या विवेक्त्री प्रोक्ता हि बुद्धिपृष्टसमाश्रिता / प्रकाशात्मवपुर् बाह्यम् अक्षम् आलोचनात्मकम् //
SK
संकल्पार्थं मनः प्राहुर् अभिमन्त्रीम् अहङ्कृतिम् / निश्चेत्रीं च धियं तत्र विद्यां चापि विवेचिकाम् //
SK
तत्रैव रञ्जकं रागं कलां शक्तत्वदर्शिनीम् / कालं व्यवच्छित् कर्तारं नियतिं च नियामिकां //
SK
आमृशन्तीम् अन्यमातृसाधारण्यावभासिकाम् / ग्राह्यमण्डलतद्ग्राहिनानारूपावमर्शिनीम् //
SK
मायां पूर्णत्वसंभोगप्रच्युतिक्षोभकारिणीम् / सद्विद्यां पूर्णविश्रान्तिदायिनीं सुशिवात्मिकाम् //
SK
ज्ञाननिर्भरभावांशस्वरूपपरिमर्शिकाम् / इच्छाशक्तिं प्रमात्रंशपूर्णभावावभासिकाम् //
SK
आश्रित्य परिपूर्णो ऽयं मातृभावो विजृम्भते ॠü / प्रकाशालोचने पूर्वं संकल्पाभिमते ततः //
SK
निश्चयानुदृशौ पश्चाद् विवेकासङ्गिताद्वयम् / कर्तृतास्थाव्यवच्छेदः साधारण्यावभासनम् //
SK
नानाविमर्शाप्रक्षोभपूर्णमेयप्रवेदनम् / पूर्णमातृत्वसंवित्तिर् भैरवीभाव एव च //
SK
इत्थं षोडशधा मेयमयं यावत् प्रकाशयेत् / तावद् विज्ञानचन्द्रो ऽसौ प्रोक्तो द्व्यष्टकलास्थितिः //
SK
अनुत्तरा स्थितिः पूर्वम् आनन्देच्छेशनान्य् अतः / उदयश् चोनतावेश इति षट्कं व्यवस्थितम् //
SK
अनुत्तरात् समारभ्य ज्ञानशक्त्यन्तम् ईदृशम् / इच्छैव तु क्रियाशक्तिम् ईशनेन समास्थिता //
SK
प्रकाशस्थितिलेशांशं गृह्णती षण्ठतां गता ॠü / इच्छादि यच् च तत्पूर्वानुत्तरानन्दसंगतेः //
SK
तदादिश्लेषयोगेन संध्यक्षरचतुष्टयम् ॠü / ततः स्वरूपसंवित्तिलाभाद् बिन्द्वादिका स्थितिः //
SK
ततः समग्रसंदर्भभरिताकाररूपिणि / विसर्गः किल शाक्तो ऽसौ विक्षेप इति यः स्मृतः //
SK
विसर्गस्यैव विश्लेष इति सप्तदशी कला / क्वचिद् अष्टादशी सैव पुनः प्रक्षोभयोगतः //
SK
अनुत्तरस्याकारस्य परभैरवरूपिणः / अकुलस्य परा येयं कौलिकी शाक्तिर् उत्तमा //
SK
स एवायं विसर्गस् तु तस्माज् जातम् इदं जगत् ॠü / तस्य प्रक्षोभयोग्यत्वं प्रक्षोभकलनोदयः //
SK
प्रक्षोभपूर्णताभावात् तदकुलक्रमोनता / इति षट्कस्वरूपात्मविमर्शान्दोलनोदितम् //
SK
अनुत्तरस्वभावत्वाद् आद्यस्यैव विजृम्भितम् ॠü / स एव भगवान् अन्तर् नित्यं प्रस्फुरदात्मकः //
SK
अन्तःस्थसर्वभावौघपूर्णमध्यमशक्तिकः / स्वेच्छाक्षोभस्वभावोद्यज्जगदानन्दसुन्दरः //
SK
नित्यं स्फुरति संपूर्णविसर्गरससुन्दरः ॠü / शिवशक्त्योः स संघट्टः स्नेह इत्य् अभिधीयते //
SK
अत्रैव पूर्णवैसर्गपदे लब्धुं प्रवेशनम् / लेहनामन्थनेत्यादिसंप्रदायम् उपासते //
SK
तथा हि मध्यमां नाडीम् अधिष्ठायाखिलं वपुः / प्राणयत् परमं तेजः प्रक्षुब्धामृतमध्यतः //
SK
विसृष्टिरूपतां गच्छेद् यात्य् आनन्दचमत्क्रियाम् / अपूर्णा केवलं सा तु पूर्णा तु भगवन्मयी //
SK
तेन वैसर्गिकी शक्तिर् एकैवेयं प्रजृम्भते / विसर्ग एव प्रक्षुब्धः प्रयत्नद्विगुणत्वतः //
SK
हकारो नाम विश्वेषां व्यञ्जनानां प्रसूतिकृत् ॠü / स एव च पुनर्बिन्दुयोगात् स्वाम् एव भूमिकाम् //
SK
अनुत्तराम् आश्रयते सो ऽहंभाव इहेष्यते ॠü / अत्रैवावर्णजः काख्यस् तदन्यश् च इवर्णजः //
SK
तत एव हि रेफांशच्छायोपाधेर् ऋवर्णतः / टवर्गस् तत एवाथ धराच् छायोपधिक्रमात् //
SK
तवर्गस् तत्परः पश्चाद् उवर्णाद्यरलाश् च वः / इवर्णवर्गाच् चोवर्णात् क्रमेणेत्य् अत एव हि //
SK
अन्तःस्था इत्य् अशीताश् च इवर्णाद् द्विप्रभेदशः / शषसानां समुद्भूतिः शुद्धोपाधिकलायुजः //
SK
इच्छाया एव विश्वो हि प्रसवो बहुधा स्थितः ॠü / अत एव हि सस्थानभावो युक्तत्वम् अर्हति //
SK
जीवस्यैवेयम् आश्यानस्थितिर् योन्यत्मिका यतः / सैवानुत्तरदेवस्य शक्तिर् अत्र निरुच्यते //
SK
तत्रैवन्तःस्थतत्त्वानि परावाग्भूमिकाक्रमात् / अवर्गे शिवतत्त्वं तु कादौ हान्ते शिवान्तकम् //
SK
इति संपुटयोगो ऽयं त्रिंशकार्थो निरूपितः ॠü / एवं पूर्णानवच्छिन्ना चिद्देवी स्याद् यदि स्फुटम् //
SK
सर्वम् अस्यां भवेद् एषा सर्वत्र च तथा भवेत् ॠü / यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति //
SK
तस्याहं न प्रणश्यामि स ममेत्यपि तन् मुनिः / अभाषतार्जुनाचार्यवचसा तत्र तत्र च //
SK
संविदात्मा हि विच्छिन्नो यदि स्यात् सर्वभावतः / भाव एव भवेद् एष स्वलक्षणघटादिवत् //
SK
अतश् च संवित्संवित्त्वहानेर् एषा प्रणश्यति / पलायते हि चित् सा चेद् व्यवचिच्छेदयिष्यते //
SK
निजोत्तमाङ्ग्च्छायेव स्वपदाक्रमणक्रमे / यच् च सर्वं मयि प्रोक्तं न पश्यति महाजनः //
SK
स सर्वमध्यवर्तित्वान् मयि तावत् प्रतिष्ठितः / एवं प्रकाशानिष्ठत्वाद् अस्यासत्समताजुषः //
SK
प्रणाश एवेति मुनिः प्रोवाचोभयवर्त्मना / एष वस्तुक्रमस् तावद् यो ऽयं संपुट उच्यते //
SK
तत एव समस्ताध्वकलितासनसद्मनि / संविद् आधेयतां प्राप्ता पुनर् आधारतां गता //
SK
उक्तं चानुत्तरे यागे पुनर् एवासनं /
SK
\ह्स्पचे{३च्म्} ततः / अत्र तु प्रविविक्षूणां ज्ञप्तिक्रमवशान् मुनिः //
SK
ऊचिवान् भगवान् एव विश्वं तन् नान्यथेति यत् / अभिन्नसंवित्स्वातन्त्र्यं भासते भेदवर्त्मनि //
SK
उपदेश्योपदेष्टृत्वव्यवस्थेयं प्रतायते / स्वात्मैव हि गुरुर् देवः पर इत्य् अभिमन्यते //
SK
स्वोदीरितानि वाक्यानि परोक्तानीति मन्यते / प्रतिपाद्यं च यद् वस्तु येन च प्रतिपाद्यते //
SK
तत् सर्वम् आत्मरूपं हि भेदेनैवाभिमन्यते / यथा स्वप्नपदावस्थाम् उपदेशपरम्पराम् //
SK
आकर्णयज् जडो जन्तुर् अन्योक्तम् अभिमन्यते / तथैव जाग्रद्गर्भो ऽयं व्यवहारः समस्तकः //
SK
को भेदः स्वप्नजाग्रत्सु तर्हि स्याद् इति चेत् पुनः / भणिष्यते ऽथ वा नाथे स्वतन्त्रे किन् न भाषितम् //
SK
एवं ज्ञप्तिक्रमेणैव भेदो विध्यनुवादयोः / सर्वं देवो ऽथ वा देवः सर्वम् इत्य् एकम् एव हि //
SK
वस्तुतः कुम्भघटवद् विश्वं पर्यायमात्रकम् / वाच्य एषां त्वम् एवेति तच् छ्रीनारायणो ऽभ्यधात् //
SK
नन्व् अभेदे कथंकारं कॢप्तिर् विध्यनुवादयोः / यो दन्तुरः स चैत्रो ऽयम् इति दन्तुरम् आदितः //
SK
अनूद्य चैत्र इत्यंशो यदि नाम विधीयते / तद् दन्तुरो ऽन्यश् चैत्राच् चैत्रश् चान्यस् ततः कथम् //
SK
घटश् चैत्र इतीदृक्षा न स्याद् विध्यनुवादता / तस्माद् य एव चैत्रो ऽसौ स दन्तुर इति स्थितिः //
SK
वास्तवी ज्ञप्तिमात्रोत्थो विधिर् विध्यनुवादयोः /
SK
अज्ञातपर्यायपदस्थितीन् प्रति प्रयुज्यते पादप एष भूरुहः / कुम्भो घटश् चेति तथैव भण्यते महेश्वरः सर्वम् इदं जगत् त्व् इति //
SK
इत्थं संपुटयोगेन परिपूर्णा हि या स्थितिः / यस्यां संहारसृष्ट्यंशशतान्य् अन्तःस्थितान्य् अपि //
SK
ताम् एव भागशः के चिद् उपासितुमनस् तया / एकादिद्विगुणत्वोत्थचतुःषड्द्वादशादिभिः //
SK
संविच्चक्रमयैर् भेदैर् भिन्दते विविधैः क्रमैः / एका संविद् द्विधा सैव दृक्क्रियात्मा त्रिधाथ सा //
SK
प्रोन्मेषशक्तिसाचिव्याच् चतुर्धाप्य् अथ गीयते / चिच्छक्त्यानन्दरूढ्या तु पञ्चधासौ प्रभाष्यते //
SK
षोढा तु स्वरषट्कोक्तसंविच्चर्चाविचारणात् / यावद् द्वादशधा संवित्सृष्ट्यादौ तुल्यगोचरे //
SK
एकैकशस् त्र्यात्मकत्वात् त्रये वा चातुरात्म्यतः / सृष्टिं कलयते संवित् तत्राभ्येति च रक्तताम् //
SK
स्थितिनाशं कलयते क्वापि शङ्कां प्रकल्पयेत् / तां संहृत्य च भावांशं संहारात् स्वात्मनः पुनः //
SK
संहर्त्रीत्वं चर्चयते तदन्तः पुण्यपापयोः / न द्रुतं न निरोधं वा स्वस्वातन्त्र्येण वाञ्छति //
SK
एवं बोधांशकरणमरीचीचक्रम् आत्मनि / ग्रसमाना संहरते प्रमाणांशस्थितान् रवीन् //
SK
ततः कल्पितमात्रंशं संहृत्याकल्पिते हृदि / तत्सर्वातीतम् अप्य् अन्तर् अनवच्छिन्नधामनि //
SK
नयेत् तन् नयनद्वाराद् विश्वं यावत् तथा नयेत् / ततः सृष्टिं च कलयेद् इत्यादिक्रमयोगतः //
SK
द्वादशारम् इदं चक्रं सर्वदा परिवर्तते / यस्यैताः स्थूलमात्रत्वं मासराश्यादिसंपदः //
SK
अक्रमक्रमवशाद् द्विशस् त्रिशो भूरिशो ऽथ विविधैः क्रमाक्रमैः / चक्रम् एतद् उदितं विजृम्भते मेयमानमितिमातृभक्षकम् //
SK
एतच्चक्रगतानन्तकिरणारासमाश्रयात् / चक्रभेदो न संख्यातुं कदाचिद् अपि शक्यते //
SK
यथा हि वर्हिणः पत्रे सितपीतारुणादिकम् / प्रोन्मिषन् निमिषच् चात्र भासते ऽप्य् अतथात्मकम् //
SK
तथानुन्मिषितालीनसूक्ष्मसंवित्सुनिर्भरः / चक्रेशो भाति निमिषत्प्रोन्मिषद्वृत्तिचित्रितः //
SK
तत् कस्यापि निमेषेण कस्याप्य् उन्मेषयोगतः / एकारचक्रात् प्रभृति सहस्रारं विवर्तते //
SK
तद् असंख्यानम् अथ वाप्य् अन्योन्याश्रितगर्भकम् / न वा तच् चक्रम् अथ किं व्योमैवैकं विजृम्भते //
SK
तद् अप्य् अनन्तसच्चक्रगर्भं वापि विभासते / अनन्तव्योमगर्भं वा महाव्योमैकम् उच्यते //
SK
यथा व्योमैवैकं कचति सितनीलारुणतया यथा चैते मेघाः पुनर् अथ तथा भान्ति बहुधा / तथा संवित्तत्त्वं कलनपरिसंख्याविरहितैः स्वतन्त्रं स्वाकारैः स्फुरति न च ते के चन ततः //
SK
इति तत्त्वम् इदं न्यरूपयन् मम नाथो हृदयस्थितः स्वयम् / प्रतिपद्य विचित्ररूपकम् गुरुसंतानपरम्परायितम् //
SK
तद् अमुत्र नये न ये प्ररूढिं प्रतिपत्तुं क्षमताम् उपाश्रयन्ते / ननु तत्प्रतिबोधनाय देवो विविधां मण्डलकल्पनाम् अवोचत् //
SK
बालो यद्वत् रेखया वर्णजाते स्वैः संकेतैर् योज्यते तत्क्रमेण / तद्वन्मुद्रामण्डलैर् मन्त्रतन्त्रैः पूर्णे स्वस्मिन् योज्यते धाम्न्य् अनर्घे //
SK
अत्रापि किञ्चन विभाति तदिच्छयैव दूरं तथा सविधम् आश्रिततारतम्यम् / असंस्पृग् अप्य् अथ निरंशपदप्रतिष्ठम् इत्थं क्रियापटलगो बहुधैव भेदः //
SK
इत्थं प्रमाणताभागि यत् तत्त्वं हि न्यरूप्यत / परापरा भगवती सेयं भाति तथा तथा //
SK
तद् अत्रैव परांशो यः स मात्रंशो ऽपरः पुनः / मेयांश इति तत् पूर्वम् एवास्माभिः प्रकाशितम् //
SK
मात्रंशो ऽपि परे भागे बहुधा यत् स्थितस् ततः / परापरतयोद्रिक्तः परो मन्त्रेशरूपकः //
SK
उद्रिक्तापरभावस् तु मन्त्र इत्य् अभिधीयते / परापरस् तु यो माता समुद्रिक्तपरापरः //
SK
स विज्ञानाकलः प्रोक्तः प्रबुद्धपरभावकः / अपरोद्रेकयोगेन स एव प्रलयाकलः //
SK
अपरः किल यो माता सकलः स तु भाष्यते / परापरादिभेदेन तस्यापि बहुधा स्थितिः //
SK
विचार्यमाणा निःसंख्यान् मातृभेदांस् तनोत्य् अलम् / मुख्यत्वेन तु सप्तैव मातृभेदाः प्रकीर्तिताः //
SK
प्रमाणांशे पतन्त्य् एव तेषाम् एव स्वशक्तयः / व्यापारयोगितैवैषा शक्तित्वम् इति मन्महे //
SK
यच् च व्याप्रियमाणत्वं करणत्वं तद् एव हि / एवं च शक्तिमच्छक्क्तिभेदान् मातृप्रमाणजाः //
SK
चतुर्दशस्वरूपं च प्रमेयम् इति भाष्यते / माता मानं च मेयं च यत एकं प्रकीर्तितम् //
SK
ततः पञ्चदशात्मैकम् एकं प्रकृतिपञ्चितम् / तत्राप्य् एकैकशो भेदे निजतत्त्वस्वरूपिणि //
SK
संक्षेपविस्तरकृतं भेदानन्त्यं प्रतायते / पुनर् जलादिमूलान्तभेदसंकलनक्रमात् //
SK
भूयान् भेदप्रभेदोत्थो वैचित्र्यविसरोदयः
SK
एवं धरातः प्रभृति प्रधान- तत्त्वान्तम् उक्तं दशपञ्चधैव / पुंसः कलान्तं सकलः स्वरूप- भूतो न माता न च मानरूपः //
SK
त्रयोदशात्मत्वम् अतो ऽत्र निष्ठितं निशि स्वरूपं तु भवेल् लयाकलः / मध्ये तु विज्ञानकलस्वरूपता विद्यापदे मन्त्रगतस्वरूपता //
SK
ऐशे मन्त्रेशवर्गस्थितिर् अथ सुशिवे धाम्नि तन्नाथनिष्ठा पूर्वं पूर्वं च तत्र प्रकटयति निजां मातृमानव्यवस्थाम् / तेनानन्यप्रमातृ स्फुरति शिवपदं स्वप्रकाशं सदैकं मन्त्रेशेशानतस् तु त्रिशरमुनिनवत्र्यक्षसंख्याविभेदाः //
SK
शक्तिश् च नो शक्तिमतो विभिन्ना तेनैति नो भेदम् इयं पृथक्त्वम् / अमातृतायां न च शक्तिर् अस्ति तेन स्वरूपं न हि शक्तियुक्तम् //
SK
धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते / स एव शिवनाथो ऽत्र पृथिवी ब्रह्म तत्परम् //
SK
धरातत्त्वगताः सिद्धीर् वितरीतुं समुद्यतान् / प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः //
SK
प्रेर्यमाणास् तु मन्त्रेशा मन्त्रास् तद्वाचकाः स्फुटम् / धरातत्त्वगतं योगम् अभ्यस्य शिवविद्यया //
SK
न तु पाशवसांख्यीयवैष्णवादिद्वितादृशा / अप्राप्तध्रुवधामानो विज्ञानकलताजुषः //
SK
तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः / सौषुप्तावस्थितौ यद्वत् ते ऽत्र प्रलयकेवलाः //
SK
सौषुप्ते तत्त्वलीनत्वं स्फुटम् एव हि लक्ष्यते / अन्यथा नियतस्वप्नसंसृष्टिर् इयती कुतः //
SK
सौषुप्तम् अपि चित्रं च स्वच्छास्वच्छादि भासते / अस्वाप्सं सुखम् इत्यादिस्मृतिवैचित्र्यदर्शनात् //
SK
मायाकर्मसमुल्लाससंमिश्रितमलाबिलाः / धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः //
SK
अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने / प्रक्षोभो यस् तद् एवोक्तं शक्तीनां सप्तकं ततः //
SK
शिवो ऽविच्युतचिद्रूपस् तिस्रस् तच्छक्तयस् तु याः / ताः स्वातन्त्र्यवशोपात्तग्रहीतृग्राह्यरूपिकाः //
SK
ग्रहीतृभागोद्रेकेण ग्राह्यभागोच्छलत्वतः / सप्त सप्तेति यत् त्व् एकं जडमात्रं नरात्मकम् //
SK
तत्स्वरूपं ततस् त्रैधं प्रतितत्त्वं व्यवस्थितम् / किं चार्थे खलु निर्ग्राह्ये तुटयः षोडश क्षणाः //
SK
सपादद्व्यङ्गुलावेशात् प्रत्येकं परिकल्पिताः / तत्राद्यः परमाद्वैतनिर्विभागरसात्मकः //
SK
अन्त्यस् तु ग्राह्यतादात्म्यान् न पृथक् प्रविभाव्यते / उपान्त्यस् तत्स्वरूपस्य ग्राहकः परिभाव्व्यते //
SK
आद्यं च सप्तकं तत्र निर्विकल्पकतां गतम् / क्रमोन्मिषद्विकल्पांशच्छायाच्छादनकोविदम् //
SK
तद् एव शिवरूपं हि परशक्त्यात्मकं विदुः / द्वितीयं सप्तकं तत्र परापरपदात्मकम् //
SK
विकल्प इति संगीतम् इति भेदो ऽवभास्यते / तद् अस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः //
SK
संवेदयन्ते यद्रूपं तत्र किं वा विकत्थनैः / क्रमात् तु भेदन्यूनत्वे तुटीनाम् अपि यो मतः //
SK
विकल्पस्य च निर्ह्रासो निर्विकल्पोपलक्षणम् / यथा हि चिरदुःखार्तः पश्चाद् आत्तसुखस्थितिः //
SK
विस्मरत्य् एव तद्दुःखं सुखविश्रान्तिवर्त्मना / तथा गतविकल्पे ऽपि रूढाः संवेदने जनाः //
SK
विकल्पविश्रान्तिबलात् तां वृत्तिं नाभिमन्वते /
SK
विकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या / संवित्स्वरूपप्रकटत्वम् इत्थं तत्रावधाने यततां सुबुद्धिः //
SK
ग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता / इयं सा भण्यते तत्र यथेष्टफलयोगतः //
SK
अत एव हि तद्भेदबाहुल्याद् भुवनान्य् अपि / विचित्रत्वं प्रयान्तीति न चातिक्रम इष्यते //
SK
सक्रमाक्रमम् एवेदं कालस्य प्राक्प्रदूसणात् / दिशश् च परमार्थत्वं नैव युक्त्योपपद्यते //
SK
पूर्वापरप्रतीतिं हि नैका सा कुरुते तथा / उपाधिभेदो नो वस्तु तत् कथं सा प्रकल्प्यताम् //
SK
यो हि यस्माद्गुणोत्कृष्ट इत्य् अतः परमेश्वरः / अभाषत निजानन्दकॢप्तदिक्कालमण्डलः //
SK
तद् एवं तत्त्वरूपे ऽस्मिन् विचित्रे प्रविविक्षताम् / उपायभेदात् त्रैविध्यं समावेशेषु वर्णितम् //
SK
अनुपायः शांभवो ऽसौ चिदुपायस् ततः परम् / जडोपायस् त्व् आणवः स्यात् स चापि बहुधा मतः //
SK
अजडे ऽपि जडाभासः पारमेश्वर्ययोगतः / नाडीकरणबाह्यादेस् तेन संविदुपायता //
SK
तत्राक्षवृत्तिम् आश्रित्य बाह्याकारग्रहो हि यः / तज्जाग्रत्स्फुटम् आसीनम् अनुबन्धि पुनः पुनः //
SK
आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः / लयाकलस्य यो भोगः लयकर्मवशान् न तु //
SK
स्थिरो भवेन् निशाभावात् सुप्तं सौख्याद्यवेदने / ज्ञानाकलस्य मलतः केवलाद् भोगमात्रतः //
SK
भेदवन्तः स्वतो भिन्नाश् चिकीर्ष्यन्ते जडाजडाः / तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास् त्रयः //
SK
यावद् भैरवबोधांशप्रवेशनसहिष्णवः / भावा विगलदात्मीयसाराः स्वयम् अभेदिनः //
SK
तुर्यातीतपदे संस्युर् इति पञ्चदशात्मके / यस्य यद् यद् स्फुटं रूपं तज् जाग्रद् इति मन्यताम् //
SK
तद् एवास्थिरम् आभाति स्वरूपं स्वप्न ईदृशः / अस्फुटं तु यद् आभाति सुप्तं तत् तत् पुरो ऽपि यत् //
SK
त्रितयस्यानुसंधिस् तु यद्वशाद् उपजायते / स्रक्सूत्रतुल्यं तत्तुर्यं सर्वभेदेषु गृह्यताम् //
SK
यत् त्व् अद्वैतभरोल्लासि द्राविताशेषभेदकम् / तुर्यातीतं तु तत् प्राहुर् इत्थं सर्वत्र योजयेत् //
SK
लयाकले हि स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु / स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद् बुधः //
SK
एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतम् उच्यते / आनन्दस् तुर्यम् इच्छैव बीजभूमिः सुषुप्तता //
SK
ज्ञानं तु स्वप्नवृत्तित्वं क्रिया जाग्रद् इति स्मृता / अत्रैव योगभूम्युत्थाः संज्ञाः पिण्डस्थतादयः //
SK
सर्वतोभद्रताद्यास् तु प्रसंख्याज्ञानिनिर्मिताः / एकैकत्र चतूरूपसद्भावाद् वितते ततः //
SK
चतूरूपत्वम् एकत्र त्रित्वं पश्चाद् अथैकता / एकस् तु भैरवो नाथः प्रोल्लसद्विश्वरूपकः //
SK
एकः शिवादिसकलपर्यन्तस्थितिसंगतः / सो ऽयं समस्त एवाध्वा भैरवाभेदवृत्तिमान् //
SK
तत्स्वातन्त्र्यात् स्वतन्त्रत्वम् अश्नुवानो ऽवभासते / सो ऽयं मातृस्वरूपस्थो मन्त्राध्वेति विभाव्यते //
SK
प्रमारूपतया सो ऽयं वर्णाध्वेति निरुच्यते / प्रमाणरूपताम् एत्य प्रयात्य् एष पदाध्वताम् //
SK
प्रमाणरूपतावेशम् अपरित्यज्य मेयताम् / गच्छन् संकल्पनयोगात् कलाध्वा मातृसंगतः //
SK
शुद्धे प्रमेयतायोगे स तत्त्वाध्वेति गृह्यताम् / तत्स्थौल्याधारतायोगाद् भुवनाध्वेति वर्णितः //
SK
तथा हि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा / शिवज्ञानक्रियायत्तमननत्राणतत्परा //
SK
अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् / मन्त्राध्वा रभसेन द्राक् प्राग् उद्भूतः शिवात्मकः //
SK
उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः / सर्वाभिधानसामर्थ्याद् अनियन्त्रितशक्तयः //
SK
सृष्टाः स्वात्मसहोत्थार्थधरापर्यन्तवृत्तयः / स्वात्मीये चिद्विलसिते तावतो ऽर्थान् निजात्मनि //
SK
आमृशन्तः प्रमारूपां सत्यां बिभ्रति संविदम् / बालास् तिर्यक्प्रमातारो ये ऽप्य् असंकेतभागिनः //
SK
ते ऽप्य् अकृत्रिमसंस्कारसाराम् एनां स्वसंविदम् / भिन्नभिन्नाम् उपाश्रित्य यान्ति चित्रां प्रमातृताम् //
SK
अस्याम् अकृत्रिमानन्तवर्णसंविदि रूढताम् / संकेता यान्ति चेत् ते ऽपि यान्त्य् असंकेतवृत्तिताम् //
SK
अनया तु विना सर्वे संकेता बहुशः कृताः / नैव चेतसि विश्रान्तिं संकेतान्तरयोगतः //
SK
व्रजेयुर् अनवस्थानान् मूलक्षतिकरत्वतः / तत्रापि खलु संकेते बालो व्युत्पाद्यतां कुतः //
SK
तेनानन्तस् त्व् अमायीयो यो वर्णग्राम ईदृशः / स चिद्विमर्शसचिवः सदैव प्रविजृम्भते //
SK
तत एव च मायीया वर्णाः सूतिं वितेनिरे / तेषां ते खल्व् अमायीया वीर्यम् इत्य् अवधार्यते //
SK
तथा हि परवाक्येषु श्रुतेष्व् आवृणुते निजा / प्रमा यस्य जडो नासौ तत्रार्थे याति मातृताम् //
SK
यस्य तु स्वप्रमा बोधे प्रविशेद् भेदगर्भगा / मायीयवर्णपुञ्जे स्वे स प्रमातृत्वम् ऋच्छति //
SK
यथा यथा चाकृतकं तद्रूपम् अतिरिच्यते / तथा तथा चमत्कारतारतम्यं प्रकल्प्यते //
SK
तदुद्रेकमहत्त्वे तु प्रतिभात्मनि निष्ठिताः / ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः //
SK
अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता / तेषाम् एव ततस् तेन गुप्ता गुप्तेन भाषिताः //
SK
ततो यावद्विभोः शश्वद्विश्रान्तिर् युगपद्बहून् / वर्णान् उदृङ्क्य भोगांशपरिपूरणसुस्थितान् //
SK
तावद् एव पदाध्वासौ मेयभूमिम् उपाश्रितः / संसारमृतसंकेतसंघाते प्रथमाङ्कुरः //
SK
एवं प्रमेयता मातृभावो मानत्वम् अप्य् अथ / षट्त्रिंशदात्मनस् तत्त्वकलापस्येति निश्चितम् //
SK
तत्र सर्वं विभात्य् एतत् परमेशितरि ध्रुवे / प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः //
SK
चिद्व्योम्न्य् एव शिवे तत्तद्देहादिमतिर् ईदृशी / भिन्ना संसारिणां भाति रज्जौ सर्पादिका यथा //
SK
यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः / देहान्तरादिर् मरणात् कीदृग् वा देहसंभवः //
SK
स्वप्ने तु प्रतिभामात्रसामान्यप्रथनाद् बलात् / विशेषाः प्रतिभासन्ते न भाव्यन्ते ऽपि ते तथा //
SK
सालिग्रामोपलाः केचिच् चित्राकृतिहृदो यथा / तथा मायादिभूम्यन्तलेखाश् चित्रहृदयश् चितः //
SK
नगरार्णवशैलाद्यास् तदिच्छानुविधायिनः / न स्वयं सदसद्रूपकारणाकरणात्मकाः //
SK
चिरप्ररूढे नियमे समुच्छेदात् प्रवर्तनात् / अरूढे ऽपि स्वतन्त्रो ऽयं स्थितश् चिद्व्योमभैरवः //
SK
एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि / एवम् अस्मीत्य् अनामर्शो भेदको भावमण्डले //
SK
सर्वप्रमाणैर् नो सिद्धं स्वप्ने कर्त्रन्तरं यथा / स्वसंविदः स्वतन्त्रायास् तथा सर्गो ऽपि बुध्यताम् //
SK
चित्तचित्रपुरोद्याने क्रीडन्न् एवं हि वेत्ति यः / अहम् एव स्थितो भावैर् भूतैश् चिन्मात्रकैर् इति //
SK
एवं जातो मृतो ऽस्मीति जन्ममृत्युविचित्रताः / अजन्मन्य् अमृतौ भान्ति चित्तभित्तौ स्वकल्पिनाः //
SK
परेहसंविदामात्रं परलोकेहलोकता / किंत्व् अकालकलासंविद्देशभेदे ऽप्य् अभेदिनी //
SK
अभविष्यद् अयं सर्गो मूर्तश् चेन् न तु चिन्मयः / तद् अवेक्ष्यत तन्मध्यात् केनैको ऽपि धराधरः //
SK
भूततन्मात्रवर्गादेर् आधाराधेयचर्चने / अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी //
SK
तस्मात् प्रतीतिर् एवेत्थं कर्त्री सा प्रतिभा शिवः / अत्र स्वात्मनि ते तेन शक्तिः साधारसंज्ञिता //
SK
सांकल्पिकं निराधारम् अपि नैव पतत्य् अधः / स्वाधारशक्तौ विश्रान्तेर् विश्वम् इत्थं विमृश्यताम् //
SK
अस्या घनाहम् इत्यादिरूढेर् एव धरादिता / यावद् अन्ते चिदस्मीति निर्वृत्ता भैरवात्मता //
SK
मणाव् इन्द्रायुधे भास इव नीलादयः शिवे / परमार्थत एषां तु नोदयव्यययोगिता //
SK
देशे काले ऽत्र वा सृष्टिर् इत्य् एतद् असमञ्जसम् / चिदात्मनो हि देवस्य सृष्टिर् दिक्कालयोर् अपि //
SK
जागराभिमते सार्धहस्तत्रितयगोचरे / प्रहरे च पृथक्स्वप्नाश् चित्रदिक्कालमानिनः //
SK
अत एव क्षणं नाम न किंचिद् अपि मन्महे / क्रियाक्षणे ऽपि ह्य् एकस्मिन् बह्व्यः सन्ति द्रुताः क्रियाः //
SK
तेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे / ते नूनम् अनया नाल्या शून्यदृष्ट्यवलम्बिनः //
SK
तद् य एव सतो भावाञ् शून्यीकतुं तह्तासतः / स्फुटीकर्तुं स्वतन्त्रत्वाद् ईशः स परमेश्वरः //
SK
तद् इत्थं परमेशानो विश्वरूपः प्रगीयते / न तु भिन्नस्य कस्यापि धरादेर् उपपन्नता //
SK
उक्तं चैतत् पुरैवेति न भूयः प्रविविच्यते / बहुभिश् चापि बाह्यार्थदूषणा प्रव्यरच्यत //
SK
नन्व् इत्थं जन्ममरणे कर्मणः फलयोगिता / कथं स्यात् किन् नु पूर्वोक्तं चित्स्वातन्त्र्यं सुविसृम्तम् //
SK
तथा हि चित्स्वतन्त्रेयं यथा भासयते तथा / सत्यं भात्य् अखिलाकारगर्भा सा चेति निश्चितम् //
SK
इक्षौ प्रत्यणु माधुर्यं यथा सर्वात्मना तथा / प्रत्येकपरमाणौ हि सर्वसृष्टिमयी स्थितिः //
SK
अज्ञाततत्त्वमूलास् तु विवदन्ते ऽत्र ये बुधाः / नूनं निजमनोराज्यरक्षायै ते समुद्यताः //
SK
प्राणे खे चिति बाह्ये वा कुत्रापीदम् इति भ्रमः / अज्ञत्वात् तन्नियत्युत्थस्वातन्त्र्याभावजृम्भितः //
SK
अतः स्वसंविदामर्शो जन्मत्वेनेह भासते / पुरस्तात् तु न संवित्तिः स्वातन्त्र्योचितरूपिणी //
SK
प्राक्तनी संविद् एवेह पूर्वकर्मेति भाष्यते / तत्संविद्बाधिका संवित्कर्मक्षयकरी ततः //
SK
अकृतं च यथा स्वप्ने मया कृतम् इति स्फुरेत् / फलदा दृश्यते सैव वार्ता जाग्रति कर्मणः //
SK
तथा च प्राच्यकर्मौघफलसंप्लोषणात्मिका / यस्यैकाप्य् उत्तरोदेति संवित् स फलभाङ् न हि //
SK
किं चान्यद्बहुसंवित्सुस्फुरत्त्वादयशो यशः / भूयःफलवदाकाशनद्यम्भःसिक्तबीजवत् //
SK
एवम् अल्पफलं कर्म स्वल्पसंवेदने स्फुरत् / अस्फुरन् निष्फलं त्व् एव न्यायः सो ऽयं स्वसंविदम् //
SK
तत्राप्य् अल्पत्वभूयस्त्वे संविदां ये प्रकल्पिते / ते कर्मकर्तुः संवित्तिरूढ्या तद्रूपभागिनी //
SK
या च (यस्य) संवित् स्वयं तादृक्फलगर्भा न जायते / नाप्य् अन्यफलनिर्ग्राहिमातृसंगतितस् तथा //
SK
फलवेदितुर् अन्यस्य प्रमातुर् अपि संविदि / अन्यप्रमातृसंकल्पाद् यावदन्ते स को ऽप्य् अलम् //
SK
प्रबुद्धः सृष्टिर् अक्षायै स्थितिशक्तिविजृम्भकः / विदाः स्म संकोचयति फलालम्बनकल्पनाः //
SK
मत्स्याद् अमत्स्यदृष्ट्येयं सृष्टिर् इत्य् आशयेन ते / परोपकारं कर्तव्यम् उपादिक्षन् पुरातनाः //
SK
एवं नामोपकारो ऽयं मृतस्यापि प्रतन्यते / पिण्डदानादिना भूयो दीयते देहसंगमः //
SK
वरं स्वात्मनि संक्लेशाः परं मा पीडयन् त्व् इति / इति कल्पितम् एतस्य कृच्छ्रादेस् तपसः फलम् //
SK
लशुनादावभक्ष्यत्वम् उक्तम् आज्ञेय ईदृशी / अकारणकम् एवेति गृह्णन्तु किल जन्तवः //
SK
तद् एवं हंसपक्ष्यादिभक्ष्याभक्ष्यत्वनिर्णये / युज्येत भिन्नबुद्धित्वम् अन्यथा न्न कथं चन //
SK
एवं दृष्टे ऽप्य् अदृष्टे ऽथ कल्पितांशांशिकाक्रमात् / फलयोगः स एवाद्य रूढः संविद्भुवि स्थितः //
SK
देहः पिण्डात् परे लोके नान्यथेति स्थितिः कृता / अन्योन्याननुषक्तत्वं जन्तूनां देहभृद् इति ? //
SK
तत्सर्वशास्त्रपूगैश् च शङ्काशङ्कुः प्ररोपिताः / अज्ञचित्तधरारूढः फलपर्यन्ततां गतः //
SK
अस्ति मे पिण्डदो ऽद्याहं पिण्डदानक्क्रमात् तथा / प्रप्नोभ्/म्(?)यवयवाभोगं पूर्णदेहो ऽस्मि सुस्थितः //
SK
अदृष्टक्रियया पुत्रशिष्यस्वात्मादिकॢप्तया / स्वर्गभागहमत्यन्तमात्तसंभोगसुस्थितः //
SK
नास्ति मे पिण्डदः कश् चित् स्वयं चास्म्य् अतिदुष्कृती / न मे त्रातास्ति कुत्रापि पतामि नरकार्णवे //
SK
भविष्यति मम त्राता क्वापि काले कथं चन / इत्यादिः संविदां स्फारस् तथैव फलति स्वयम् //
SK
तस्यास् तु पिण्डकर्त्रादिर् माभूद् अथ यथा स्फुरेत् / स तावत् तत्फलं भुङ्क्ते स्वसंकल्पेन कल्पितम् //
SK
शङ्कावज्रप्रलेपान्तर्दृढबद्धां त्व् इमां मतिम् / भैरवानल एवैकः समूलं प्लुष्यति क्षणात् //
SK
अशेषचित्रचिद्गर्भसंसारस्वप्नसद्मनः / प्लोषकः शिव एवाहम् इत्युल्लासी हुताशनः //
SK
तन्मूढः कर्मसंवित्तिचित्रीभूतचितिस् तथा / संकल्पम् एव संसारं विचित्रम् अभिमन्यते //
SK
अत एव मृतो बालो वासनान्तरवर्जितः / शिशुर् एव भवेत् सुप्तदृढसंसारवासनः //
SK
तान्यौ तथा (?) / यावद्यौवनम् अभ्येति पुनस् तद्वासनक्रमात् //
SK
संस्कारसंविदा तास् ताः संसृतीर् अभिमन्यते / कश्चिज् जडत्वसंस्काराज् जडीभूतो ऽपि खानिलैः //
SK
सह भूजलयोगेन याति पुष्पफलात्मताम् / भक्षितो वीर्यरूपेण पुनर् आयाति गर्भताम् //
SK
यावद् पुनः पुनश् चित्रान् संसारान् अभिमन्यते / एकत्रैव स्वसंस्कारवासनावासितः शिवः //
SK
भुङ्क्ते स्वर्नरकाद्यांस् तु भोगान् स्वातन्त्र्यकल्पितान् / क्वचिद् भूमिमयी क्वापि जलात्मा क्वापि मिश्रिता //
SK
एवं भुवनमय्य् एषा संविद् भाति स्वरूपतः / ध्रियते यत्र तत्रैव स्वसंस्कारात् सुखादिकम् //
SK
वेत्त्य् अन्येन न दृश्यस् तु स त्व् अन्यान् वेद चान्यथा / न देशः परमार्थेन न च कालो ऽस्ति कश् चन //
SK
भेदवादे हि गगनदेशात् सर्वैकदेशता / उपाधेर् एव देशाद् भिद्देशस्याप्य् उपाधेर् भिदा //
SK
इत्य् अन्योन्यसमाश्रित्या देशभेदो न कश् चन / स्वरूपभेद एवातो भेदकत्वे सुसंगतः //
SK
स च नास्ति प्रकाशैकस्वरूपेष्व् इति साधितम् / एनयैव परामर्शदृशा ये परिवर्जिताः //
SK
ते शङ्काकारिशास्त्रौघशङ्कितास् तन्मयीकृताः / स्वस्वप्ननिर्मितानन्तजडजन्तुविकल्पितैः //
SK
शास्त्राभासैर् वृथा शङ्कां ग्राह्यन्ते बोधवर्जिताः / यथा प्रबुद्ध्यन्ते संविन् निभृतापि चिरं स्थिता //
SK
तथापि फलतीत्य् एवं प्रायश् चित्तादिकल्पितैः / एवम् आभासनानात्वस्वातन्त्र्यैश्वर्यशालिना //
SK
कॢप्तं यद् एव तत् तस्य याति तन्वादिरूपताम् / विपर्ययाभासयोगे शीताद्याभासदूषिते //
SK
नाड्यादाव् अथ संकोचस्फोटघातादिपीडिते / देहभस्त्रामहायन्त्रवातचक्रे ऽन्यथागते //
SK
प्राणो विघटते तेन जडाभासं कलेवरम् / यस्मिन् यात्य् अधिकारे वा जाते प्राग् वासनाक्रमात् //
SK
तत्रैव कल्पयेद् भोगं परलोकाभिधानकम् / पाषाणतां वा वेत्त्य् एष पुनर् वा प्रतिबुध्यते //
SK
परो ऽयं लोक इति च रूढ्यास्य परलोकिता / स्वर्गमोक्षादि यस्येह यथारूढं च चेतसि //
SK
तथैवास्य बहिर् भाति ततस् तत्रापि चित्रता / बन्धो मोक्षः सुखं स्वर्गो दुःखं जडमयी स्थितिः //
SK
संविद् एव स्वतन्त्रेत्थं शिवरूपता विराजते / भूयो ऽवयवयुक्तस्य यथा तावत्य् अहंस्थितिः //
SK
तथा विश्वात्मके रूपे भैरवस्याप्य् अहंस्थितिः / शिशुः शून्ये ऽपि वेतालं वेत्ति सत्यार्थकारिणम् //
SK
ध्येयपूज्यादिवैचित्र्यम् इत्थम् अर्थक्रियाकरम् / मूर्तो भिन्नः समाहूतो हित्वा भोगान् निजान् क्षणात् //
SK
देव एतीति वार्तैषा वचनेष्व् एव शोभते / अमूर्तादिस्वरूपत्वं सर्वम् एतत् तु युज्यते //
SK
आत्मैव हि तथाभूतस् तथा भात्य् एव भेदतः / एवं स्वभाव एवैष संविदो यः स एव तु //
SK
भेदग्रस्ततया कार्मो मलः शास्त्रे निरूप्यते / दीक्षादिकर्मयोगे तु न मलत्वं प्रतायते //
SK
स हि भेदमयाशेषसंसारदहनव्रतः / दीक्षा च वस्तुतस् तादृक्सत्यसंवित्स्वरूपिणी //
SK
एवं यो वेद तत्त्वेनेत्य् उक्तं चानुत्तरे नये / एवं विज्ञानयोगे हि शमिते भेदगोचरे //
SK
आत्मैव शिव एवैकः को बन्धः का च मुक्तता / एतद्दीक्षामहासंविद्प्रवेशाय तु भण्यते //
SK
क्रियास्वभावदीक्षासौ कर्मादिमलहानये / स्वभावकॢप्तनियतिबलाक्षिप्तेषु कर्मसु //
SK
भोगो ऽस्य युगपद्यस्मात् क्रियते मन्त्रशक्तितः / तथा हि प्राणगा देशकलाकालाध्वनिश्चयाः //
SK
जातयो ऽस्य प्रतायन्ते धरण्यादिशिवान्ततः / तत्रैव जन्मसंभोगाधिकारलयभाजनम् //
SK
विधायोत्कृष्यते तस्माद् अन्यत्र च विधीयते /
SK
इत्थं गुरोर् निश्चितसंविदात्म- रूढेश् च शिष्यस्य परस्परेण / निष्कर्मचेतोर् अचितैव दीक्षा प्राक्कर्मशक्तीर् अखिला रुणद्धि //
SK
तत्रापि तण्डुलतिलाज्यचरुप्रबन्ध इत्यादि शैवनियतिप्रतिभारकॢप्तम् / तावत्य् अपि स्फुटपदे न निशाप्रपञ्चो निर्मूलताम् उपगतो ऽपि विभेदवृत्तेः //
SK
भेदे ऽपि किंत्व् एष पुनर् भविष्य- संसारकारिसुकृतादिविघातहेतुः / शुद्धस् ततस् तद् अत एव हि तत्त्वजालं शुद्धेतरस्थितितया निखिलं द्विधैव //
SK
शुद्धं त्रिशक्तिखचितं ननु यामलं च भात्य् एव तेन बहुधैष कृतः क्रियायाः / व्यापारकल्पनावशान् नियतिप्रपञ्चः स्वल्पेतरत्वकृततादृशभोगयोगः //
SK
मुद्रामण्डलसंघातः समन्त्रतन्त्रचर्चितः / यत्र योगादिकं सर्वं फलदानाय कल्पते //
SK
निर्वृतिफलसंप्राप्तिकाङ्क्षासंकोचसुस्थिताः / अनवच्छिन्नताम् एव फलत्वेनात्र मन्वते //
SK
न ह्य् अनन्तानव्/यच्छेदे कापि यागादिकल्पना अनवच्छिन्नवाञ्छा // १.११३१ //
SK
तत्सर्वोत्तीर्णदृष्टयः / तथापि विदिते ह्य् अर्थे परमाद्वयसुन्दरे //
SK
संवित्स्वभावस्वातन्त्र्यात् केषांचित् फलकामता / तान्य् एवोद्दिश्य तत् सर्वं पूरणाय धरादितः //
SK
शिवान्तं बहुधा भेदैर् धारणाग्रन्थ उच्यते
SK
इह हि नान्यनयेष्व् इव किञ्चन स्फुरितम् अस्ति न यत् किल सत्यतः / तद् इह सत्यपदे स्थितिभागिनां किम् इव हेयपदे निपतिष्यति //
SK
इत्थं सप्तदशाधिकारचरमं तत्त्वं यद् आभासते तन् निर्णीतम् अनुत्तरं शिवपदं संप्राप्तिकामान् प्रति / एतत् सर्वम् इहोदितं च जगदानन्दे विपक्षात्मकं भेदप्राणतया यतो ऽत्र निखिलो ऽप्य् एष प्रपञ्चः स्थितः //

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mālinīślokavārttika: Input by Jürgen Hanneder.

Source