Sutraya

Mālinīślokavārttika

Versified Commentary on the Mālinī · मालिनीश्लोकवार्त्तिकम्

Kāṇḍa 2

Versified Commentary on the Mālinī

मालिनीश्लोकवार्त्तिकम्

SK
एवं महेश्वरो देवो विश्वात्मत्वेन संस्थितः / क्रमिकज्ञानयोगाभ्यां धारणाभिर् उपास्यते //
SK
तत्त्वक्रमं गतद्वैतमलमायादिजालकम् / अष्टादशे तत् पटले तत्त्वं सम्यग् विभाव्यते //
SK
प्राणायामादिकं यत्र हेयम् इत्य् एव वर्ण्यते / न हि तस्य परां वित्तिं प्रति काचिद् उपायता //
SK
अन्तः संविदि यन् निरूढम् अभितस् तत् प्राणधीविग्रहे संचार्येत कथं तथेति घटताम् अभ्यासयोगक्रमः / ये त्व् अभ्यासपथेन संविदम् इमां संस्कर्तुम् अभ्युद्यतास् ते किं कुत्र कुतः कथं विदधताम् इत्य् अत्र संदिह्महे //
SK
अभ्यासो हि पुनः पुनर् अर्थः सो ऽपि च दिक्कालप्रतिभेदात् / आभासेतरयोगसमुत्थो देहमनःप्राणाक्षपथे स्यात् //
SK
प्रकाशैकघने रूपे भैरवीये विविक्षवः / सकृद्विभातविज्ञानविश्रान्त्यैव सुसंस्थिताः //
SK
अत्रैवातः परं प्रोक्तम् अङ्गं सर्वोपकारि यत् / धारणा अपि तद्द्वारनिश्चिताः स्युस् तथात्मिकाः //
SK
नन्व् अप्रतिष्ठे कस् तर्के समाश्वासः प्रकल्प्यताम् / किं वा न भवतां तादृग् अप्रतिष्ठाहतं वचः //
SK
तथा ह्य् आगम एवैकं प्रमाणम् इति निश्चितैः / तद्विरुद्धागमव्राते सति निश्चीयतां कथम् //
SK
महाजनप्रसिद्धिस् तु तत्र प्रामाण्यकारणम् / अप्रतिष्ठा तद्विरुद्धमहाजनसुसंभवात् //
SK
प्रत्यक्षम् अपि रुच्यादौ दृष्टबाधकसंविदम् / उत्तरोत्तरविज्ञानानवस्थाभाजनं ननु //
SK
स्वसंविद् अपि तत्रैव बाधितेति कथं किल / व्यवहारम् अयं कुर्याद् भेदसंधानपण्डितः //
SK
अस्माकं त्व् अप्रतिष्ठानं न कदाचित् क्वचिद् भवेत् / येषां सर्वत्र संपूर्णः परो भैरवसागरः //
SK
विशेषतस् तु तर्कस्य तान् प्रत्य् एवाप्रतिष्ठता / ये तर्कार्णवतारात्तपरमामृतसंविदः //
SK
तथा हि सर्वे तर्कांशा अनामृष्टस्वसंविदः / सर्वत्र पर्यन्तफलं न शिवं प्रतिपेदिरे //
SK
अभेदसारः सर्वो हि शास्त्रार्थस् तत्प्रपत्तये / यस् तत्रोद्भावितो भेदस् तत्र मूढधियो रताः //
SK
तर्कश् च भेदवादांशयुक्तिच्छेदैकपण्डितः / नन्व् अभेदे ऽपि तर्कस्य का चिद् अस्त्य् उपयोगिता //
SK
परमाद्वयदृष्टौ च सो ऽपि नैव न संगतः / अत एव पराद्वैतं यद् विश्वानुग्रहात्मकम् / तस्योपायं परं ब्रूते हृदयं स्पन्दनात्मकम् //
SK
हृदये बोधमये यः स्वविमर्शः पूर्णचिच्चमत्कारः / युगपद् द्रागिति हठतो लीनीकृतविश्वतःस्फुरणः //
SK
भावग्रहाद्यचरमदशायोर् उल्लासिनिर्वृतिसुपूर्णः / जगदानन्दमयो ऽसौ सामान्यस्पन्द इत्य् उक्तः //
SK
स्फुरणं हृदयस्य यत् किल प्रकटम् इदं विसर्गधाम्नः / सद् इति प्रतिभाति यावता त्रिकशक्तौ विशतीह तावता //
SK
तद् इदं हृदयं निरुच्यते परमं भैरवसंविदामृतम् / इषिदृक्कृतिशक्तिशूलगं परमे धाम्नि विसृज्यते ततः //
SK
परमे भगवत्परात्मनि स्फुरितं विश्वम् इदं चिदात्मकम् / शक्तित्रयशूलगं ततः शाम्भवभूमिविसर्गवर्त्मना //
SK
तद् अथो सद् इति प्रगीयते तद् इदं पूर्णम् इहाहमात्मकं / हृदयं शिवशक्तिसंगमस्फुरणात्मैव सदावभासते //
SK
इह सृष्टिलयस्थितिक्रमाः शतशो वापि सहस्रकोटिशः / प्रविभान्ति सदातनात्मना हरविष्ण्वम्बुजहेतुसंचिताः //
SK
इह तु पुरोक्ताद् युक्तिकलापाद् यः प्रविशेत् सद्यो नाशक्तः / तं प्रति शाक्तोपायपथेन प्रकटीक्रियते हृदयस्पन्दः //
SK
त्रिशूलप्रान्तगप्राणप्रेरणावाप्तहृत्पथः / तदन्तर्वर्तिचिच्चन्द्रकलाविश्रान्तितत्परः //
SK
झटित्य् एवाथ तद्भूमित्यागेन प्रोज्झ्य ता दशाः / निरानन्दादिकाः पञ्चभूतमध्यव्यवस्थिताः //
SK
त्यजेत् पूर्वां परां क्रामेत् सम्यग्विश्रान्तितत्परः / यतो निजानन्दमयी भूमिः शान्तपदानुगा //
SK
निरानन्दपरानन्दौ पुरुषाजातसंगतौ / अभेदभिन्नभोग्यौघजनितानन्दजृम्भणात् //
SK
महानन्दस्थितिः कापि वामाचारा समुल्लसेत् / भैरवीयमहाधाम्नि स्वीकृताशेषसंविदि //
SK
महानन्दश् चिदानन्दीभूय भूयः प्रवर्तते / अस्मिंस् तु स्वीकृताशेषदक्षवामोर्ध्वगत्रिके //
SK
त्रिके सर्वात्मना द्वैताद्वैतसंग्रहणात्मनि / अभिन्ना वाथ भिन्ना वा भिन्नाभिन्ना अथापि वा //
SK
भावा निजादिकानन्ददशापञ्चकयोजिताः / जायन्ते जगदानन्दसमुद्दामदशाजुषः //
SK
निजानन्दः प्रमात्रंशमात्रनिष्ठनिबन्धनः / शून्यतामात्रविश्रान्तेर् निरानन्दात्मिका स्थितिः //
SK
प्रमेयपदविश्रान्तेः परानन्दो ऽप्य् उदेत्य् अलम् / अनन्तमेयसंघट्टपूर्णे मेये तु सर्वतः //
SK
प्रमाणाच् चर्वणायोगान् महानन्द इति स्थितिः / समस्तमानमेयौघकलनाग्रासकोविदः //
SK
यदा विश्रान्तिम् अभ्येति निरुपाधिसुनिर्भराम् / तदा खलु चिदानन्दो यो जडानुपबृंहितः //
SK
न च यत्र स्थितिः कापि विभक्ता जडरूपिणी / यत्र को ऽपि व्यवच्छेदो नास्ति यद् विश्वतः स्फुरत् //
SK
यद् अनाहृतसंवित्ति परमामृतबृंहितम् / तद् एव जगदानन्दधामास्माकं गुरुर् जगौ //
SK
यत्रास्ति भावनादीनां न मुख्या कापि संगतिः / तत्र विश्रान्तिर् आधेया हृदयोच्चारयोगतः //
SK
या तत्र सम्यग् विश्रान्तिस् तत् पराद्वैतम् उच्यते / प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः //
SK
चतुष्किकाम्बुजालम्बिलम्बिकासौधसिक्तभूः / बन्धमोक्षविभागेन नराद् अन्यत्र योगिना //
SK
अनुत्तरस्वभावेन वाग्व्यापाराभिवर्तिना / चिद्विमर्शपराहंकृत्प्रलयोल्लासयोगिना //
SK
उद्योगवशरिक्तेन सद्द्वादशकलात्मना / सूर्येणाभासिते भावे पूरिते परिचर्चिते //
SK
तद्ग्रासमन्थरवशाः षोडशाख्यकलाजुषा / प्रविष्टेण विबोधाग्नौ सम्यग् विसृजता कलाः //
SK
चतस्रो जीवनीः प्राप्तविसर्गाविकृतस्थितेः / अन्तःकृतानन्ततत्त्वकादिक्षान्तेन सर्वतः //
SK
भावानां भावतासारविमर्शाभावहृद्युजा / बहिःप्रसवसद्योगिकुलनेत्र्यधिशायिना //
SK
रुद्रयामलभावेन नित्यं या निष्ठितैव ताम् / चित्प्राणगुणदेहान्तशक्तिसोपानमालिकाम् //
SK
विसर्गेन विसृज्याथ स्पन्दनोदरवर्तिना / विसर्गभूमिम् आश्लिष्य मत्स्योदरदशाजुषम् //
SK
सर्वसर्वगतां सर्वजीवनीं परमां कलाम् / त्रिशूलभुवम् आक्रम्य नाडीत्रितयसंगताम् //
SK
विकस्वरां संकुचितां क्रमेणैकात्म्यम् आश्रिताम् / भ्रूकुटीबिन्दुनादान्तशक्तिसोपानमालिकाम् //
SK
रासभीवडवास्रावससंकोचविकासिकाम् / मुहुर् मुहुर् लीयमानसृष्टभावौघनिर्भराम् //
SK
एकीकृतमहामूलशूलवैसर्गिकास्पदाम् / समग्रभावभरणभैरवीयहृदाश्रिताम् //
SK
सर्वापूरणहेवाकसमर्जितपराभिधाम् / आद्यन्तरहिताम् एनां विश्वप्रवणशालिनीम् //
SK
हृद्बोधाकाशचिच्चन्द्रचन्द्रिकां त्रितयेशिकाम् / देवीं प्राप्य न किं नाम लभते लम्भ्यत्य् अपि //
SK
तद् अत्र भावनादेहगतोपायैः परे सति / यदैष प्रविविक्षुः स्याद् योगी तावद् प्रकम्पते //
SK
पूर्वजन्मशताभ्यस्तदेहतादात्म्यनिश्चयः / जलपांसुवद् एकत्वं मन्वानश् चिच्छरीरयोः //
SK
भेदाख्यमायारहिते परिपूर्णचिदात्मनि / प्रविशेत् प्रथमं यावत् स्वबलाक्रमणक्रमात् //
SK
भवेन् निद्रास्य सा देहावेशशैथिल्यदायिनी / कम्प्ररूपैव यावन् नो रूढिर् जाता परात्मनि //
SK
एतद् अव्यक्तलिङ्गं तन्नरशक्तिशिवात्मकम् / यत्र विश्वम् इदं लीनं यद् अन्तःस्थं च गम्यते //
SK
किं चाध्वजातम् एतद् देहस्थतयैव पूर्वनिर्णीतम् / तस्योन्मेषवशेन स्फुटतां यायात् समावेशः //
SK
चित्तत्त्वस्य विशेषस्पन्ददशाशालिनश् चिदानन्दः / शाक्तसमुल्लासभराद् अन्तःकृतमन्त्रवीर्यपरसारः //
SK
नरशक्तिमयम् इदं तद्व्यक्ताव्यक्तं भवेल् लिङ्गं / सिद्धिफलप्रसवरसप्रसूनम् इति कथ्यते शास्त्रे //
SK
व्यक्तलिङ्गं तद् उक्तं तु यत् केवलनरात्मकम् / एकस्य स्पन्दनस्येयं त्रिधा भेदव्यवस्थितिः //
SK
एतल्लिङ्गज्ञानप्रवियुक्तहृदा वृथैव हि भजन्ते / बाह्यस्थलिङ्गपूजां प्रयासमात्रं फलाय न हि तत् स्यात् //
SK
यद् व्यक्तम् आत्मलिङ्गाख्यं नररूपसमाश्रयि / देहाभेदमये बाह्ये विश्वस्मिन् भरिते सति //
SK
समुदेति महानन्दभूमौ लीनस्य योगिनः / तेनाद्यं लिङ्गम् अभ्येति संमुखीनत्वम् अञ्जसा //
SK
अत्र लिङ्गे सदा तिष्ठेत् पूजाविश्रान्तितत्परः / यद्योगिनीनां हृदयं परमानन्दमन्दिरम् //
SK
पूर्वोक्तबीजयोन्यंशविसर्गानन्दमन्दिराः / यत्र कामपि तादात्म्यसम्पत्तिं चिन्वते बुधाः //
SK
यत्र प्रयासविरहात् सर्वो ऽसौ देवतागणः / आनन्दपूर्णे धाम्न्य् आस्ते नित्योदितचिदात्मकः //
SK
यत्तद्भैरवनाथस्य संकोचेतरभासनम् / अविद्यमानसंकोचविकासस्यापि भासते //
SK
यत्तत्समाप्तिसंघट्टसमुत्थानन्दधारया / अवसिक्तम् इदं विश्वम् अपोज्झति पुराणताम् //
SK
तत्र प्रवेशने यत्नः कार्यत्वेन प्रयासकृत् / यतः सदोदितो भानुः किं दीपेन विचार्यते //
SK
यदि स्वात्मस्थितो योगी शिवचित्स्पन्दभूमिगः / यदि वा बाह्यभावौघविशेषयोगिनीकुलनन्दनः //
SK
घटाभावे ऽपि सामान्यस्पन्दाभासमयीं स्थितिम् / परभैरवमुद्रां ताम् अन्तर्लक्षबहिर्दृशम् //
SK
यद् आश्रयति शैवी सा परा देवी ततः पुनः / स्वातन्त्र्यहेलानिर्मेये तत्तदर्थक्रियामये //
SK
भावौघे सोत्सुकौन्मुख्यविमर्शरसयोगतः / विशेषस्पन्दसद्भूमिं शक्तिं संस्पृश्य वर्तते //
SK
एतेनाधिष्ठिता धाम्ना स्वमन्त्रास्तत्प्रकाशने / यान्ति स्वातन्त्रयोगित्वं विचित्रास्वपि सिद्धिषु //
SK
हानादानतिरस्कारवृत्तौ रूढिम् उपागतः / सर्वभासनयोगेन भासमानं चिदात्मना //
SK
अभेदवृत्तितः पश्यन् दृश्यं चितिचमत्कृतेः / अर्थक्रियार्थितादैन्यकारितां कातरां स्थित्म् //
SK
विहाय यावद् आसीत तावच् छांभवभूमिकाम् / भैरवीम् आविशत्य् एव परां भूमिम् अयत्नतः //
SK
एतदाविष्टसंवित्ति सर्वम् एव निरीक्ष्यते / प्रकाशरूपताक्रान्तं चैतन्यं हि प्रकाशते //
SK
न चाप्रकाशं प्राकाश्ययोगाद् एति प्रकाशताम् / इति विस्तरतः पूर्वं प्रकाशितम् इदं यतः //
SK
महासाहससंयोगविलीनाखिलवृत्तिकः / पुञ्जीभूतस्वरश्म्योघनिर्भरीभूतमानसः //
SK
अकिंचिच्चिन्तकः स्पष्टदृष्टभेदोज्झितस्थितिः / यावद् आसीत तावत् तु पूर्वोक्ता एव भूमयः //
SK
सांमुख्यं यान्ति संसारसद्मदाहैकहेतवः / यश् च दिव्यो ऽक्षसंघातो भेदरूढितिरोहितः //
SK
स्वातन्त्र्यपोषकक्रीडामात्रोपकरणात्मकः / यदा निमीलनावन्ध्यस् तिष्ठत्य् एकं क्षणं तदा //
SK
तद्द्वारोदितसंबोधमहाज्वालाविलापितम् / विश्वम् अभ्येति परमानन्दसागरशायिताम् //
SK
तद्रसापानविश्रान्तः संविद्देवीः प्रतर्पयन् / अचिराद् एति मरणजन्मत्रासविहीनताम् //
SK
आश्यानभावं हि गता स्वसंविद्देहेन्द्रियज्ञेयमयत्वम् आप्ता / युक्त्या तु सा प्राप्तविलीनभावात् संविद्घनं स्वं वपुर् एव याति //
SK
युक्त्या ययैव बाह्यार्थविवशीकृतचेतसाम् / व्युत्थितिर् जायते सैव भैरवानन्दसंविदः //
SK
तयैव योगिनीवक्त्रसंप्रदायक्रमाप्तया / विधूतकल्मषावेशा तिष्ठते चिन्मयी स्थितिः //
SK
वक्त्रम् ईषद् यदा योगी विकासयति संविदः / सर्वा इन्द्रियनाड्यन्तश्चक्राक्रमणसंश्रयाः //
SK
तदा विकासं ग्राह्यार्थभेदाभावमयं हठात् / प्रयान्ति चिदुन्मुखत्वात् नीलपीतादिभेदवान् //
SK
ग्राह्यग्राहकसंबन्धभेदः सपदि भिद्यते / योगिनीवक्त्रसंरूढसंप्रदायक्रमाप्तया //
SK
सद्यो ऽनुभवदायिन्या मुद्रया मुद्रिताखिलः / सर्वाधिष्ठातृचिद्रूपसाक्षाद्भैरवतन्द्रितः //
SK
स योगी विस्मयाविष्टो लभते स्वात्मसंविदम् / तत्तद्दृश्योदयापाययोगे ऽप्य् अनपयत्स्थिति //
SK
तडागवर्तिनिम्नाम्बु तन्नान्यत्र प्रवर्तते / प्रयत्नेनापि तन्मात्रपूरणाय यद् अक्षमम् //
SK
यदा त्वन्तःद्वारवारिधारसंपूरितं रसात् / भवेद् भवेयुस्तत्पूर्णाः प्रवाहाः सर्वतोमुखाः //
SK
एवं स्वोल्लासरभसाच् चैतन्यं प्रोन्मिषत्स्वयं / अविभागेन भावांशान् स्वात्माभेदेन भासयन् //
SK
मीलनाविषयीभावं श्रयेद् यदि मुहूर्तकं / मायाविगलनाद् भूमिर् भैरवीया विराजते //
SK
वैकल्पिको ऽह्यवच्छेदः पश्चाद् यां दर्शयेद् भिदाम् / सैव माया स्वतन्त्रस्य भेददृष्टिप्रकाशिनी //
SK
उन्मेषमात्ररूढस्य सा निर्मूला न संभवेत् / इत्थं किं बहुनोक्तेन नये ऽनुत्तरात्मनि //
SK
वस्तुतो ऽस्ति न कस्यापि योगाङ्गस्याभ्युपायता / स्वरूपं ह्यस्य नीरूपम् अवच्छेदविवर्जनात् //
SK
उपाय ऽप्यनुपायो ऽस्यायागवृत्तिनिरोधतः / रेचनपूरणैर् एषा रहिता तनुवातनौः //
SK
तारयत्य् एवम् आत्मानं भेदसागरगोचरात् / निमज्जमानम् अप्य् एतन् मनो वैषयिके रसे //
SK
नान्तरार्द्रत्वम् अभ्येति निश्छिद्रं तुम्बकं यथा / स्वं पन्थानं हयस्येव मनसो ये निरुन्धते //
SK
तेषां तत्खण्डनयोगाद् धवत्य् उन्मार्गकोटिभिः / किंस्विद् एतद् इति प्रायो दुःखे ऽप्य् उत्कण्ठते मनः //
SK
सुखाद् अपि विरज्येत ज्ञानाद् एतद् इदं [त्व् इति] / तथाहि गुरुर् आदिक्षद् बहुधा स्वकशासने //
SK
अनादरविरक्त्यैव गलन्तीन्द्रियवृत्तयः / यावत् तु विनियम्यन्ते तावत् तावद् विकुर्वते //
SK
प्रत्याहारो ऽपि नामायं यो ऽक्षजाले प्रवर्त्यते / बन्धस्यारूढवृत्तेस् तद् वज्रलेपेन बन्धनम् //
SK
अर्थेषु तद्भोगविधौ तदुत्थे \ \ दुःखे सुखे वा गलिताभिशङ्कम् / अनाविशन्तो ऽपि निमग्नचित्ता \ \ जानन्ति वृत्तिक्षयसौख्यम् अन्तः //
SK
सत्य् एवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्रियां तस्मै कुर्वति तत्प्रचारचतुरे सत्य् अक्षवर्गे ऽपि च / सत्स्व् अर्थेषु रसादिषु स्फुटतरं यद् भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिखचितस् तत् तत्त्वम् आदीयताम् //
SK
अविवेक एव परम् इह संसार इति प्रवादमात्रम् / अविवेक एव हि परं निःश्रेयसलाभसोपानम् //
SK
त्यजावधानानि ननु क्व नाम धत्से ऽवधानं विचिनु स्वयं तत् / पूर्णे ऽवधानं नहि नाम युक्तं नापूर्णम् अभ्येति च सत्यभावम् //
SK
यत्रैवानन्दयोगः क्वचन ननु भवेत् तत्र पूर्णः स्वभावः --- --- ते वेति तत्र प्रशमपदम् इयाद् यद्य् अयं भेदमोहः / तज्ज्ञाने जाग्रदादाव् अपि निखिलपदे चिन्महाचक्रनाथो योगी जायेत नानाव्यवहृतपथगो ऽप्युल्लसन् मन्त्रवीर्यः //
SK
यथा हि कूपं प्रचिकीर्षुर् एव प्राप्ते जले याति कृतित्वम् एकः / कश्चित् पुनर् हस्तगतादि[वारि]मात्राद् इत्थं परप्राप्तिविधिर् विचित्रः //
SK
अनुपायम् इदं तस्माद् उपायोपेययोगतः / भेदबन्धाद् विमुच्येत कथं वेतरथा जनः //
SK
अनुपाये ऽपि चैतस्मिन् किंचित् सांबन्ध्यवृत्तितः / उपायस्योपदेशो ऽयं शास्त्रे ऽत्र बहुधा कृतः //
SK
यथा लिप्यक्षरैर् बालाः सत्ये वर्णात्मनि स्फुटम् / प्रवेश्यन्ते तथा मूढैस् तैर् औपायिकैः क्रमात् //
SK
तदर्थम् एव चाद्वैते परतत्त्वे ऽपि सादरम् / पूजाध्यानादि शास्त्रे ऽस्मिन्न् उचितं किंचिद् उच्यते //
SK
यत् किंचिन् मनसाह्लादि यत्र क्वापीन्द्रियस्थितौ / योज्यते बोधसद्ब्रह्मधाम्नि ब्रह्मबिलात्मनि //
SK
आत्मानुसारिसद्भावसमावेशदशाश्रयात्
SK
तत्तत्परकुलेशानशक्तिचक्रार्चनाक्रमे / प्रयात्य् एवाप्रयत्नेन करणत्वं स्वभावतः //
SK
कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालिताम् आत्तैर् मानसतः स्वभावकुसुमैः स्वामोदसंदोहिभिः / आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चये ऽहर्निशम् //
SK
एवं यत्र क्वचित् तिष्ठेत् स्वविमर्शस्वभावतः / तत्र शक्तित्रयावेशस् त्रिधा तावत् प्रकाशते //
SK
नवधा भासमानस्य प्रोक्तद्वादशचक्रतः / विश्रान्तिर् एकक्षणगा साष्टोत्तरशतस्थितिः //
SK
एकैव शतसंख्या च सा स्थितिः प्रविभाव्यते / इत्थं यत् किंचनैतस्य वचनं योगिनो भवेत् //
SK
तद् एव जपयोगाय जायते ऽनुत्तरे पथि / अन्तरिन्धनसद्भावम् अनपेक्ष्यैव नित्यशः //
SK
यो ज्वलत्य् अखिलाक्षौघप्रसृताग्रशिखाशतः / तत्रैव सर्वभावानां प्रवेशश् चेद् विमृश्यते //
SK
नूनं झटिति संप्लुष्टस्थूलरूपतया हठात् / यान्ति बोधमहाज्वालाप्रकाशैक्यं स्वरूपतः / स एष परमो होमो भैरवीयक्रमे मतः //
SK
निजबोधजठरहुतभुजि भावाः सम्यग्समर्पिता युक्त्या / जहति भेदविभागं निजशक्त्या तं समिन्धते यस्मात् //
SK
यद् एव स्वेच्छया सृष्टिस्वाभाव्यवशतः पुरः / निर्मिमीते ऽक्षविषयं तद्ध्यानायावकल्पते //
SK
निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति / फलार्थिनां काचिद् एव ध्येयत्वेनाकृतिः स्थिता //
SK
यथा ह्य् अभेदसंपूर्णे भावे ऽप्य् उदकम् आहरन् / अन्याकृत्यपहानेन घटम् अर्थयते रसात् //
SK
तथैव परमेशाननियतिप्रविजृम्भणात् / काचिद् एवाकृतिः कांचित् सूते फलविकल्पनम् //
SK
यस् तु संपूर्णचिद्वृत्तिर् न फलं नाम वाञ्छति / तस्य विश्वाकृति ध्यानं सर्वदैव विजृम्भते //
SK
कुलयोगिन उद्रिक्तभैरवीयरसासवात् / घूर्णमानस्य यः कश्चित् को ऽप्य् उदेति यथा तथा //
SK
शरीरगः समावेशो मोदनद्रावणात्मकः / सा स्वीकृतजगन्मुद्रा मुद्रा नैरुत्तरे मते //
SK
एष योगविधिः को ऽपि कस्यापि हृदि वर्तते / यस्य प्रसीदेच् चिच्चक्रं द्राग् अपश्चिमजन्मनः //
SK
लोकेनालोक्यमानो ऽपि देहबन्धविधौ स्थितः / अभ्येति योगे रूढे न क्षणात् काम् अपि संविदम् //
SK
अत्रैव त्व् अस्मत्पूर्वाचार्याणां धिषणा भृशम् / अभ्यमंस्त भवाभोगविभ्रमाणाम् असंनिधिम् //
SK
वेदसांख्यभवेद्वादन्यायसौगतलौकिकैः / पञ्चरात्रक्रियाशास्त्रसिद्धान्तादिभिर् अलम् //
SK
उचितोचितविज्ञानक्रियांशपरिभावकैः / सर्वैः स्वप्रक्रियारूढैस् तैस् तैर् औचित्ययोगतः //
SK
यत्र बीजसमावापखननादिक्रियाक्रमः / अकारि शाम्भवानेकशाखाभिर् यो ऽतिविस्तृतः //
SK
तस्य चिद्भैरवतरोः फलम् एतद् अनुत्तरम् / आश्रमस्थितचर्याद्यैर् जटाजालाञ्जनान्तकैः //
SK
कृतैर् अप्य् अकृतैर् वापि यत्र नो लभ्यते भिदा / तत्रैव योगे विश्रान्तिं कुर्वतां भवडम्बरः //
SK
हिमानीव महाग्रीष्मे स्वयम् एव प्रलीयते / अलं हि चर्व्यमाणे ऽस्मिन् सरसे संविदासवे //
SK
निस्सरन्ति महोल्लासाः संख्या येषु न विद्यते / तेषां च प्रकटीकाराः कृताः प्राग् एव विस्तरात् / अत्राभिनवगुप्ते तु तत्त्वे के ऽप्य् एव निश्चिताः //
SK
केतकीकुसुमसौरभे भृशं \ \ भृङ्ग एव रसिको न मक्षिका / भैरवीयपरमाद्वयार्चने \ \ को ऽपि रज्यति न भेदमोहितः //
SK
नात्र रूढस्य कार्या स्याच् छुद्धिः काचन कुत्रचित् / अशुद्धं हि जगत्य् एव भैरवात्मनि किं भवेत् //
SK
अशुद्धे ऽपि च भूतौघे केन शुद्धिः प्रतायताम् / अनवस्था भवेद् इत्थं व्यर्थान्योन्याश्रितिस् तथा //
SK
अशुद्धस्य तिरोधाने शुद्धं नाम प्रलीयते / प्रतियोगिकृतं तद् धि न स्वभावेन नीलवत् //
SK
अत एव न कश्चिद् आग्रहो \ \ विषयाणां ग्रहणे ऽप्य् अपोहने / परभैरवसंविदात्मनः \ \ स्वयम् एवोच्छलिता हि भोक्तृता //
SK
सर्वम् अत्र विहितं यतो ऽमुना \ \ वर्त्मना सकलम् एव युज्यते / मार्गम् एवम् अपहस्त्य किंचन \ \ कापि नैव ननु याति युक्तताम् //
SK
तथाहि दीक्षा नामेयं या मलानां निकर्तनी / स भेदवादिनां पक्षे कथं नामोपपद्यते //
SK
तथाहि यो मलो नाम स कथं चित्स्वभावकम् / आत्मानम् आवृणीते क्व विभोर् आवरणक्रिया //
SK
न च प्रकाशस् तमसा जातु संव्रियते यतः / प्रकाशोदय एवायं ध्वान्तध्वंसक्रियात्मकः //
SK
किं चावरणम् उक्तं हि रश्म्यादेर् गतिधर्मिणः / प्रतीघातात्मकं तत् किं विभोर् अगतिधर्मिणः //
SK
अपि वा ज्ञेयतामात्रतिरोधानं हि संवृतेः / पटादिना घटादेः स्यान् न स्वरूपान्यथास्थितिः //
SK
न चात्मानश् चिदात्मत्वाज् ज्ञेयत्वम् अधिशेरते / तदावरणम् एषां तु शब्देष्व् अपि न शोभते //
SK
नन्व् ईश्वरस्य ते ज्ञेया अणवः कथम् ईदृशम् / चिदात्मकं हि न ज्ञेयं चिदात्मत्वतिरोहितेः //
SK
संविज् ज्ञेयेति शब्दो ऽयं वन्ध्या मे जननीत्यदः / वाक्यं स्मरयतीव स्वं स्वात्मसब्रह्मचारि यत् //
SK
किंचेश्वरस्य सार्वज्ञ्यं तावता प्रतिहन्यते / आवृतान् वेत्ति नाणून् यन् न त्व् एषां काचन क्षतिः //
SK
नन्व् अनावरणे नीले ज्ञातुर् आवरणे सति / न दर्शनं तथा बाधा न सर्वज्ञो मलावृतः //
SK
मैवं तत्र हि दृग्रश्मीन् गच्छतः प्रतिहन्ति तत् / पटादि न तु विज्ञातुर् अस्त्य् आवरणसंभवः //
SK
मलश् चाव्यापको व्याप्तुर् आवारक इति स्फुटम् / घटे ऽपि व्योम्नि संदध्याद् अशून्यत्वं स्वरूपतः //
SK
आत्मनश् चाधिकार्यत्वान् मलः किंचित्करो न चेत् / कथम् आवरणायैष शक्तो ननु च भोः किमु //
SK
मलसद्भावमात्रं हि तस्यावरणम् उच्यते / मलेन सद्वितीयो ऽणुर् आवृतः परिभाष्यते //
SK
हन्तानेन नयेनैष शिवम् उक्तात्मनाम् अपि / स्थितम् आवरणं सत्यं मलसद्भावमात्रतः //
SK
किंचावृतो मलेनात्मा मलम् एव न वेत्ति किम् / तदसंवेदने तस्य किं मलान्तरम् उच्यते //
SK
नन्व् अतः किं मलं वेत्तु तर्हि विद्याकले विना / सर्वज्ञत्वं भवेत् तच् च मलं विदितम् एव सत् //
SK
जहात्व् आत्माभ्युपायैस् तैस् तैर् विचित्रैः प्रकल्पितैः / किंचावरणम् एतेन यस्यात्मनि भवेत् ततः //
SK
घटादौ ज्ञातृकर्तृत्वे कथम् अस्य भविष्यतः / ननु विद्याकले किंचिज्ज्ञत्वकर्तृत्वपदे स्मृते //
SK
इत्थं विमूढमतयो वञ्च्यन्ते न तु पण्डिताः / जडस्वभावा मायैषा तत्सूतिश् च कलादिकः //
SK
अचिदात्मा कथंकारं चिदभिव्यञ्जनक्षमः / अभिव्यक्ता च चिद्विभ्वी किंचित्त्वादिविशेषणैः //
SK
विशेष्यतां कथं नाम सांशवस्तूचितं हि तत् / ननु देवः कलाविद्याकरणो व्यञ्जयेच् चितम् //
SK
व्यनक्तु सर्वतो हन्त नास्याशक्तिर् अथाग्रहः / मले सदातने चास्य कथं मुक्तिर् भविष्यति //
SK
रोद्ध्री शक्तिर् मलस्यास्ति सा च क्वापि निवर्तते / क्वापि प्रवर्तते चेति धिग् इदं मूढभाषितम् //
SK
जडानां को ऽनुसन्धिः स्यात् तं विनैतत् कथं भवेत् / अथ तत्रापि देवस्य हेतुताभ्युपगम्यते //
SK
किं निमित्तम् असौ देवस् तां शक्तिं संप्रवर्तयेत् / प्रवर्तितां वा किं नाम तां निवर्तयते पुनः //
SK
स्वातन्त्र्याद् इति चेत् पूर्णं तद् एवाश्रीयते न किम् / मलस्य ध्वान्तरूपस्य न च पाको ऽपि कश्चन //
SK
स ह्य् अन्यतादानयोगाद् धन्त्य् अमुष्य ध्रुवात्मताम् / एतेन मलसंबन्धाद् ईश्वरेच्छाप्रचोदितः //
SK
भोगलोभकथाविष्टः पशुः सृष्ट्यानुगृह्यते / इति यद् भण्यते मूलहतं तज्, जनितं ततः //
SK
स्वात्मप्रच्छादनक्रीडामात्रम् एव मलं विदुः / स्वतन्त्रो हि विभुः किंचित् किं न स्वात्मनि भासयेत् //
SK
यच् च कर्मापि नामेष्टं तत्तावत् प्रविचार्यताम् / तथाहि कर्मसंबन्धे स्थिते ऽपि कथम् ईदृशः //
SK
महाप्रलय उच्यते महासृष्टिश् च वा कथम् / नन्व् ईश्वरेच्छया तत्र कर्मायाति निरुद्धताम् //
SK
कर्मौदासीन्ययोगेन कर्मान्तरम् अपेक्षताम् / ईश्वरो ऽथ नवा पूर्वपक्षे संभव एव च //
SK
नसंभवे स कुत्रांशे चैश्वर्यम् अधिगच्छतु / कर्मतः सर्वम् एवेदं स्यात् सृष्टिप्रलयादिकम् //
SK
अथ कर्मानपेक्षो वा कर्मणां रोधनं ततः / सदा निरुद्धान्य् एवेशः कर्माणि कुरुतां विभुः //
SK
ननु तेषां स्वभावो ऽयं यद्भोगप्रसवात्मता / कथं स्वभाव एष स्याद् यः परोपाधितां गतः //
SK
अनपेक्षो हि भावानां स्वभावः कर्मणां ततः / ईशैषणानपेक्षाणां यद्रूपं तत्स्वकं वपुः //
SK
किं च प्रलयलीनानि कर्माणि स्थितिभाञ्ज्य् अपि / किं प्रबोधयते देवः किं नु दृ[सृ]ष्टैर् हि तैः कृतम् //
SK
मलपाकाय चेत् सो ऽपि सुदूरम् अपसारितः / किं चात्मा विभुर् एवैष स किं नाम करोति हि //
SK
इति पूर्वं विचारश् च विस्तरेण प्रपञ्चितः / मृद्दण्डचक्रसूत्रेषु धीमान् कर्तेश्वरः स्थितः //
SK
कुम्भकारस्य कर्तृत्वं कुत्रांशे न्व् अवतिष्ठताम् / अकृष्टपच्यबीजेषु प्ररोहप्रसवादिके //
SK
पूर्वं करोतु हेतुत्वं न सस्येष्व् इति को नयः / इदं दुष्कृतम् एतच् च सुकृतं फलभेदतः //
SK
इति यत् प्रविभक्तं किं तत्रास्येच्छैव जृम्भते / स्वतन्त्रो यद्य् असौ कस्मात् परपीडाकारीं निजाम् //
SK
इच्छां गृह्णाति यो नित्यं करुणारसनिर्भरः / ननु स्वभावात्तत्तादृक् कर्मातः फलदायकम् //
SK
प्रायश्चित्तादिकरणाच् छाम्येच् चेति विचारयन् / देवस् तथैव तनुते शास्त्रं चित्रोपदेशकम् //
SK
शैवं, स्वभाव एदादृक् कर्मणाम् इति को नयः / बीजम् अङ्कुरसंसूतिस्वभावम् इति मादृशः //
SK
पूर्ववृद्धव्यवहृतेर् विज्ञातुं प्रभविष्णवः / ईश्वरस् तु निजेच्छया विना न हि कदाचन //
SK
अवलोकितवान् कर्मफलवैचित्र्यचातुरीम् /
SK
तस्माद् देवः सर्वकर्ता यदि स्यात् कर्तारः स्युर् नात्मवर्गाः कथंचिद् / नो कर्तारस् ते ऽपि चेत् कर्मवन्ध्यान् उद्दिश्यैनान् सर्वकर्ता न देवः //
SK
इत्थं च भेददृष्ट्येदं कर्म नाम न मु[यु]क्तिमत् / एतावान् अत्र संक्षोपो व्यासो ऽन्यत्र तु दर्शितः //
SK
संवेदनात्मको देव एकस् तस्मात् स्वतः खलु / सर्वकर्ता स वैचित्र्यात् कर्मयोगीति भण्यते //
SK
माया च नाम विश्वस्य या कारणम् इति स्थिता / सा धरण्यन्ततत्त्वांशगर्भा नित्या यदि स्फुटम् //
SK
प्रलयो न कदाचित् स्यान् ननु स व्यक्तिभावतः / व्यक्तिं नाम न जानीमो विज्ञानं ग्राह्यता यतः //
SK
तदीश्वरपरज्ञानग्राह्यतास्ति सदातनी / तस्याम् अविद्यमानायाम् ईश्वरः कारणं कुतः //
SK
स्फुटं प्रकुरुते कुम्भं तद्वद् ईशे भविष्यति / मैवम् अन्तर्बहीरूपकरणप्रविभेदतः //
SK
स्फुटास्फुटादिविज्ञानं युक्तं कुम्भकृति स्फुटम् / ईश्वरस्य स्फुटोदारपूर्वविज्ञानशालिनः //
SK
को न ज्ञातो भवेद् भागो यत्रापि व्यक्त्यपेक्षिता / सत्कार्यवादिनां देशे कारणे ऽपि स्फुटं स्थितम् //
SK
विश्वम् इत्यपि मायायां स्फुटं स्याद् असमञ्जसम् / व्यापकाश् च शिवात्मानस् तत्त्वैः साकं परस्परम् //
SK
कथं च नाम विद्यन्तां व्यापकत्वतिरोहितेः / विकासः परमो व्याप्तिः संविदो भेद उच्यते //
SK
मायीयं कञ्चुकव्रातं यथा करणसंचयः / विचारितः पूर्वम् एव कार्यवर्गश् च चर्चितः //
SK
यावच् छिवपदाध्यासवन्ध्यं विश्वं न विस्फुरेत् / तत्स्वातन्त्र्यकथामात्रम् एतद् इत्य् अवधार्यताम् //
SK
एवं मलाद्यभावे हि का दीक्षा को हि दीक्षकः / दीक्षापात्रं च को वा स्याद् इति किंचिन् न युज्यते //
SK
शिष्ये ऽध्वन्य् अनले कुम्भे मण्डले स्रुक्करादिके / समस्ताध्वकृतो न्यासः कथं वाप्य् उपपद्यताम् //
SK
नहि तावन्त एव स्युर् ननु संकल्पनावशात् / शोध्यशोधकभावो ऽयं सर्व एवोदितो ननु //
SK
कल्पितं चेत् फलेत् सत्यं मनोराज्यार्जितश्रियः / जयन्ति नाकसाम्राज्यलाभविश्रान्तियोगतः //
SK
किं नाम बलवद्रूपसंकल्पपथवर्तिनः / फलन्ति न तथा भावा ध्यानादिविषनाशवत् //
SK
संकल्पदार्ढ्यम् इत्य् एव ध्यानं संशयरूषितम् / ध्यानं च न फलेद् एव स्वयं पक्षद्वयाग्रहात् //
SK
हन्त संकल्पनायोगाद् यदि जायेत तत्फलम् / किम् असंविन्मयान् भावान् बाह्यान् कांश्चित् अभीप्ससि //
SK
संकल्पेनैव संस्कारः कुण्डाग्निगुरुशिष्यगः / स एव च फलाभासी तत्संविद् अवशिष्यते //
SK
संविदश् च स्वतन्त्रायास् तथारूपावभासनम् / दीक्षेति किल मन्तव्यं मुञ्च्यन्ते जन्तवो यया //
SK
अत एव तिलाज्यादेः स्वरूपे ग्रहणे मितौ / क्रमो वा नियमो नेह कश्चिच् छास्त्रे निरूपितः //
SK
ननु मन्त्रेषु किं नाम नियमः सर्ववर्णभाक् / रूपं परं हि कथितं दीक्षापि न तथा कथम् //
SK
एवम् एवार्णदाहस्य यद्भवत्संमतं हितम् / किं तु तावति ये रूढिं न प्राप्तास् तान् प्रति ध्रुवम् //
SK
मान्त्रो ऽयं नियमः प्रोक्त उपयोगं च गच्छति / प्रतिबुद्धा हि ते मन्त्रा विमर्शपथवर्तिनः //
SK
स्वतन्त्रस्यैव चिद्धाम्न स्वातन्त्र्यात् कर्तृतामयाः / मन्त्रा विशन्त्य् एवाचार्यं तं तादात्म्यनियोगतः //
SK
स्वतन्त्रीकुर्वते यान्ति करणान्य् अपि कर्तृताम् / इत्थं दीक्षादिविधये ये ऽप्य् अन्ये विधयो मताः //
SK
किं नाम कुर्वतां कृत्यं निषेधं त्व् अपि वा कथम् / ते ऽप्य् अत्रैवोपपद्यन्ते तत् सर्वं विहितं त्व् इह //
SK
सर्वं चैतद् अमुत्रैव प्रतिषिद्धं यतः स्फुटम् / प्रतिषेधे दर्शिते ऽस्य किं चाद्वैतपथाश्रितः //
SK
प्रतिषेधो ऽपि विहितः सो ऽपि च प्रतिषिध्यते / इत्थं स्वसंविदम्भोधिः स्वात्मनि प्रोच्छलत्य् अलम् //
SK
इत्थं च विश्वम् एवेदं जगदानन्दसुन्दरम् / तद्विपक्षं च भेदांशम् इत्थं क्षपयतेतराम् //
SK
परमेशमुखोद्भूतज्ञानचन्द्रस्य सर्वतः / तावता स्वप्रभाभारभास्वराः सुमरीचयः //
SK
शिवचन्द्रांशुसंघातपातमात्रविलापितः / समस्तभावशीतांशुकालकूटो रसायते //
SK
तत्रानिशं निमज्जन्तस् तद्रसापानघूर्णिताः / तद्रसीभूय तिष्ठामः शुद्धास् तापत्रयोज्झिताः //
SK
परमेशमुखं तु शक्तिर् उक्ता भवतीच्छा ननु सोद्भवं गता / प्रतिपद्यत ईश्वरादिभिन्नस्थितिविज्ञानशशाङ्कशक्तिवृत्तम् //
SK
शशिनः किल तस्य सर्वतो यः परिपूर्णः प्रसृतो मरीचिपुञ्जः / इयम् एव हि सा क्रियात्मिकोक्ता परमेशस्य जगन्मयी स्वशक्तिः //
SK
तद् इदं त्रिकशक्तिनिर्भरं परमं भैरवम् एव जृम्भते / न तु तद्व्यतिरेकि संभवेत् स्वविजृम्भा विजयो ऽस्य कीर्तितः //
SK
तत एव जगज् जयन्त्य् अमी स्फुटम् अर्थः प्रकटो ऽपि युज्यते नः / बहुवाचकयोग ईदृशं तत् परिपूर्णत्वम् अमुष्य वाक्यभेदम् //
SK
इत्य् एक एव श्लोको ऽयं चिदात्मा भैरवः स्वयम् / समस्तभावसंदर्भनिर्भरो व्याकृतः स्फुटम् //
SK
संसारगरनाशाय तार्क्ष्याधिष्ठितदृष्टयः / विषम् एवोपयुञ्जानाः प्राप्नुवन्त्य् अमृतीं स्थितिम् //
SK
इति दर्शितम् एतावत् स्वप्रकाशस्वसंविदा / सिद्धं तद्व्यतिरेकेण न किंचिद् एव कल्पते //
SK
यावत्स्वसंविद्विश्रान्तं यत् तावत् तत् सद् एव हि / कालान्तरव्यपेक्षे हि सत्यत्वं स्यान् न कुत्रचित् //
SK
संविदः कालयोगश् च विस्तरेण निवारितः / तत् स्वसंविद् यथा देशं वितरेद् वर्तते तथा //
SK
तथा संविद्य् अक्षमय्यां निकषाश्मनि रोपितम् / न यत् तत् संशयायैव शास्त्रे ऽप्य् उक्तम् अवस्तु तत् //
SK
स्वसंविद् अनुपारोहि प्रलापान् न विशिष्यते / तच् च्छास्त्रं प्रक्रिया सा च यत् संविदि विवर्तते //
SK
हृदयाज् जगतो जाताः सर्वस्यैते क्षयोदयाः / स्वप्नस्येव सुषुप्ताख्यात् स्वसंविच्छास्त्रचर्चिताः //
SK
रूपालोकमनस्कारसामग्री संहृतिः स्थितिः / सृष्टिर् निमेषोन्मेषौ च सतां संकोचकल्पनम् //
SK
इत्यादिका मातृमेयमानरूपा स्थितिः सदा / स्वसंविदः सुपूर्णायाः प्रपञ्चरचना स्वयम् //
SK
सर्वसर्वात्मदिग्देशकालाकारा स्वयं हि सा / सत्यमिथ्यात्वनिर्णीतिस् तत एव हि जायते //
SK
आचार्योत्पलदेवो ऽपि तदेतदुपदिष्टवान् / बहिः सदसदात्मापि स्वसंविदि मदीयदृक् //
SK
पश्यत्व् इति स्वतन्त्रस्य नियतिः सेन्द्रियाभिधा / सैव रूधा शिवाद् आ च क्रिमेः स्वां संविदं श्रिता //
SK
तद् एव देवे संसारः स शिवः परमेईŭवरः / तत्र विश्रान्तिम् आपन्नो मुक्त इत्य् अभिधीयते //
SK
एतत्प्रसादाज् जीवन्ति ब्रह्माद्याः स्थावरान्तकाः / अविलुप्ता सदा सेयं संवित्तिर् इति गृह्यताम् //
SK
विभान्त्य् अपि हि सा देवी न तया रहितं क्वचित् / आत्मानं साधयेत् क्वापि क्वापि दूषयते क्वचित् //
SK
अन्यथैव स्थापयते न च याति विकारिताम् / साधन्दूषणान्यत्ववन्ध्यापि परमेश्वरी //
SK
भासते च तथात्वेन तत् स्वतन्त्रा स्फुटा हि सा / श्रीमान् महेश्वरो देवः पूर्वेषाम् अपि यो गुरुः //
SK
स एतद् एव प्रोवाच लोकानुग्रहहेतुतः /
SK
मूढाः किं निःसारे वायसविरटितकल्पे तिष्टथ वचसि वृथैवं स्वां संविदम् आवर्ज्य / संविद्देवतयैव यद् आदिष्टं निकटे ऽप्य् अथ सर्व आद्रियमाणास् तत्तद्देशे जीवन्मुक्ता भवन्ति //
SK
तद् अत्र नीतौ संवित्तिर् एवासौ गुरुर् उच्यते / गिरत्य् एव यतो विश्वं सृष्टिसंहृतियोगतः //
SK
तद् अत्र मुख्या या रूढिः संबन्धः पर उच्यते / एनया यद् यद् आदिष्टं ज्ञानं सांसिद्धिकं तु तत् //
SK
यत्रास्मद्गुरुवर्गस्य स्थिता नित्यावस्थितिः / त्रैयम्बकादिसंतानभेदो यस्मात् प्रवर्तते //
SK
यत्रोक्तं पूर्वम् अज्ञानतादात्म्यं नश्यतीत्यपि / स्वसंविदस् तु वैचित्र्यं गृह्णत्या भात्य् अयं ततः //
SK
अन्तरालमहद्दिव्यादिव्यादि शास्त्रसंगमः / तत्त्ववन्निजवागंशून् गुरोर् आत्मविनिर्मितान् //
SK
प्राधान्यं प्रकटं स्वसंविदः / गुरुतः किल शास्त्रतः स्वतः / तद् अयं मुख्यतया कृतः श्रमः //
SK
शास्त्रवृत्तिपरतन्त्रितो गुरुः स्वात्मसंविदि च तत्प्रतिष्ठितम् / तेन सर्वम् इदम् आत्मसंविदा सिद्धिम् एति नहि जात्व् असह्यताम् //
SK
एतच् छास्त्रं प्रयत्नेन चर्च्यतां हे मुमुक्षवः / मा वृथैवायुर् आयस्तम् अन्यशास्त्रेषु नीयताम् //
SK
अभेददृष्टिर् या काचिद् भेददृष्टिर् अथापि वा / सात्रैवायाति निर्वाहं तेनैतत् प्रविचार्यताम् //
SK
स्वप्नकालपरिज्ञानवी[तनिद्रो] यथा तथा / एतच्छास्त्रसमभ्यासप्रबुद्धहृदयः सदा //
SK
स्वसंविद् एव तच् छास्त्रं सा चापेक्षाविवर्जिता / तथा यद्य् अभिधीयेत स्वतः प्रामाण्यम् उच्यताम् //
SK
शासनं शासितव्यं च शासकं चेति यत् किल / तत्तत्राकालकलितं स्वातन्त्र्याद्वैतसुन्दरम् //
SK
ताम् अवस्थितिम् आत्मीयां गर्भीकृत्यानपायिनीम् / श्रीकण्ठनाथः प्रोवाच श्रीमत्किरणशासने //
SK
सर्वम् एतत् प्रवृत्त्यर्थं श्रोत्\र्र् णां तु विभेदतः / अर्थभेदात् तु भेदो ऽयम् उपचारात् प्रकल्पते //
SK
फलभेदो न कल्प्यो ऽत्र कल्प्यश् चेद् अयथातथम् / दशकाष्टादशाष्टाष्टभेदभिन्नम् इदं विभोः //
SK
शिवसद्भावलाभैकफलं तल्लाभप्रोत्सुके / अधिकारिण्य् अणौ जातिकुलवर्णाद्यनादरात् //
SK
प्रवृत्तम् एकवाक्यत्वं यावद् आसाद्य वर्तते / अङ्गाङ्गिवृत्तवैचित्र्यात् तावद् एकम् इदं विदुः //
SK
त्रिकशास्त्रं तथाभूतो गुरुर् अत्राद्वयात्मकः / तदनन्तरवाक्यांशपुञ्जः प्रकरणानि च //
SK
मायीयभेदवृत्तान्तस्फुटभावे भवन्ति च / तथापि शिवसंप्राप्तिर् मुख्यम् अन्ते फलं स्थितम् //
SK
अधिकारी चैक एव शिवतावाप्तिभाजनम् / तथापि तावन्मात्रे च जाते प्रकरणात्मनि //
SK
यादृक् फलं स्फुतं मुख्यं पर्यन्तफलम् अङ्गि वा / तदङ्गं वा तद्विपक्षे परपक्षे परं च वा //
SK
अपि तत्तद्विपक्षांशसमुद्भावनभाजनम् / तथोचितशरीरादेस् तथा संस्कारभागिनः //
SK
गुरोः शिष्यस्य चाप्य् उक्तस् तादृशो ऽधिक्रियाक्रमः / तथा च मृत्युविध्वंसिरसायनविधिं श्रितः //
SK
पूर्वं संस्कारलाभाय क्वाथवान्तिविरेचनैः / दीक्षया या च विकृतिः नोत्तरत्र क्रियाविधौ //
SK
तेनाधिकारिनियमस् तद्देहविदशादिजः / तेनोच्यते वैष्णवाद्याः पशुशासनसंश्रिताः //
SK
न शैवे ऽधिकृतास् तन्त्रे न शैवा वामगोचरे / ते ऽपि नो दक्षिणे ते ऽपि न स्युः कुलमते त्रिके //
SK
उक्तं श्रीभैरवकुले पञ्चदीक्षाक्रियोचितः / गुरुर् उल्लङ्घिताधस्त्यस्रोता वा त्रिकशास्त्रगः //
SK
इत्थम् एकाधिकारित्वम् आत्मतत्त्वसमाश्रयात् / संस्काराश्रय .... भेदाद् भिन्नाधिकारिता //
SK
स्वच्छन्दतन्त्रे तेनोक्तं सर्वशास्त्रे शिवः फलम् / यतः शिवोद्भवाः सर्वे शिवधामफला इति //
SK
तत्रैव च पुनः प्रोक्तम् ऊर्ध्वतत्त्वविवेचने / यन् न सांख्यैर् न योगीन्द्रैर् न प्रिये पाञ्चरात्रिकैः //
SK
इयादि यावद् आक्षिप्तं वादिनां तु शतत्रयम् / त्रिषष्ट्या चाधिकं ते हि तावन्मात्रविवेचकाः //
SK
कथं स्युर् अपरिच्छिन्नशिवतत्त्वविदात्मकाः / अथ तत्रांशमात्रे ऽपि शिवसद्भावम् एव ते //
SK
आरोपयेयुस् तत् तावन् नैव सुस्पष्टसंगति / देवदत्तादिवाक्ये हि सर्वतः पूर्णविग्रहे //
SK
देवदत्तपदश्रोता तावन्मात्रपदे कथम् / समग्रपूर्ववाक्यानां समारोपं करिष्यति //
SK
कथं चाधिगमस् तस्य तावतो ऽर्थस्य वाक्यतः / तस्माद् एवेति चेत् तर्हि न पदश्रोतृता न च //
SK
तावन्मात्रस्य सो ऽस्त्य् अर्थ इत्थं प्रकृतिगोचरे / समग्रशिवशास्त्रार्थज्ञप्त्या संपूर्णरूपया //
SK
योगसांख्यार्हतन्यायपाञ्चरात्रश्रुतिस्मृतीः / यद्य् एव शिवतत्त्वेन संपूर्णं परिकल्पयेत् //
SK
तावद् अस्तु न तु स्फारस् तावांस् तत्रेति चर्चितम् / ज्ञप्तिश् च शिवतत्त्वस्य तत्संस्कारपुरःसरा //
SK
अन्यथा प्रत्यवायः स्याद् उपदेष्ट्रुपदेश्ययोः / तत्संस्कारग्रहश् चेत् स्यात् कामं शास्त्रार्थ ईदृशः //
SK
न तु वैष्णवता तस्य सांख्यता श्रौततापि वा / अन्यसंस्कारम् ऊर्ध्वोर्धं गृहीत्वाप्य् अनुतिष्ठति //
SK
वैष्णवाद्य् एव तर्ह्य् अस्य प्रत्यवायो महत्तरः / नन्व् अद्वयपदे ऽमुष्मिन् केयं मुख्या प्रकल्पना //
SK
किं ब्रूषे स्वयम् एव त्वं भेदोपहतवृत्तिकः / एतद् एव परं द्वैतं भवान् एव संश्रितः //
SK
यद् अहं वैष्णवो भूष्णुः शैवे किं नाधिकारवान् / तत् स्वयं भेदमूढस् त्वं भेदे च नियतेर् बलात् //
SK
ततस् तैः प्रत्यवायः स्याद् योग इत्य् उपपादितम् / किं च तादात्म्ययोगेन देवता पूज्यते ततः //
SK
विष्णुतादात्म्यम् आपन्नः कथं रुद्रं प्रपूजयेत् / गीतासु च ततो गीतं यो यच् छ्रद्धः स एव सः //
SK
तादात्म्यभावना योगाः फलं मन्त्राः स्व }} / दद्युस् तद्भावितात्मातः फलकामस्य सिद्धिदः //
SK
मोक्षकामस्य तच् छास्त्रमोक्षलिप्सोर् अपि स्फुटम् / तद्दोषभावनाक्रान्तः क्षमस् तावति योजने //
SK
मुख्यस् तावद् अयं कल्पो यो यत्रैव प्रतिष्ठितः / नित्यं तादात्म्यम् आपन्नः स तत्राधिकृतस् त्व् इति //
SK
अत एव ततो ग्राह्यं ज्ञानम् इत्य् अभिधीयते / स हि तादात्म्यम् आपन्नस् तद्भावनविधिक्रमात् //
SK
शिष्यस् तदैव शास्त्रं तु गृह्णन् पूर्वापरक्रमात् / कथं स्वबुद्ध्या संधत्तां तावद् यत् तेन संहितम् //
SK
यस् तु संधातुम् ईहेत स साक्षात् परमेश्वरः / तस्य किं वा गुरुः कुर्यात् सो ऽन्येषां गुरुर् उच्यते //
SK
नान्यतो वेदविद्भ्यश् चेत्यत एव हि मन्वते / तस्मात् तादात्म्यम् आपन्नो गुरुर् इत्य् अभिधीयते //
SK
स च यावति यत्रैव तत्र तावति नान्यथा / ननु वैष्णवशास्त्रार्थस् तत्कालं शिवभावनात् //
SK
तादात्म्यं गुरुतां हन्ति पूर्णधीः प्रलपत्य् अयम् / रामरावणनाट्येषु नह्य् एता नटभूमिकाः //
SK
नेपथ्यादिपरावृत्त्या येनान्यत्वं प्रपद्यते / वैष्णवो विष्णुर् एवाहं तद्दासो वेति चर्चयन् //
SK
इदानीं न तथास्मीति किम् एतत् सुसमञ्जसम् / अत्र ह्य् एकतमा संविन् मिथ्याज्ञानत्वम् अश्नुते //
SK
यया स एव पतितः शिष्यो वा पतितो भवेत् / तस्मान् मुख्यो ह्य् अयं कल्पः प्रतिशास्त्रं गुरुर् गुरुः //
SK
उक्तं स्वतन्त्रशास्त्रेषु नासौ सिद्धिफलप्रदः / अन्यशास्त्ररतो यः स्यात् तच्छास्त्रनिरतो ऽपि वा //
SK
लोके ऽपि यावद् ईदृक्षः प्रवादो ज्योतिरादिके /
SK
विष्णोर् भागवता मगाश् च सवितुः शांभोर् जटाभस्मिनो मात्-ऋणाम् अथ मातृमण्डलविदो विप्रास् त्व् अथ ब्रह्मणः / शाक्याः सत्त्वहितस्य बुद्धवपुषो नग्नास् तथैवार्हतो यो यैर् देव उपास्यते स्वविधिना तैस् तस्य कार्या क्रिया //
SK
अत एवाधिकज्ञानशाली संनिहितो यदि / देशे तत्र भवेन् नाना नाधिकारस्य भाजनम् //
SK
यस् त्व् अस्मिन् पूर्णसंबोधे रूढो वास्तवशासने / उत्तरोत्तररूढ्यर्थं शिशोः करणमानसम् (?) //
SK
फलसंपत्तये वापि भावांशवशशालिनः / अनुग्रहं स वै कुर्यात् पूर्णत्वाद् ऊर्ध्ववृत्तितः //
SK
नन्व् अद्वये किम् ऊर्ध्वं स्यान् न किंचिद् भेदमोहिताः / भवतस् त्व् अधरावस्था भेद एवधरो यतः //
SK
तस्माद् ये केचनान्ये स्युः पशुशासनवर्तिनः / वैष्णवाः सौगताः श्रौतास् तथा श्रुत्यन्तवादिनः //
SK
इत्यादयो नाधिकृता जातुचित् पतिशासने / उक्तवान् यत्र शास्त्रेष्व् अप्य् अधिकारिविवेचने //
SK
यो वैष्णवो मनुं दद्याच् छैवं मूढमतिः शिशोः / तं पापं वञ्चकं त्यक्त्वा शिशुर् न्याय्यं समाचरेत् //
SK
इहाप्य् उक्तं मोक्षदः स्यात् स्वभ्यस्तज्ञानवान् इति / अभ्यस्तं च परं ज्ञानं यतो नास्त्य् एव विच्युतिः //
SK
परमाद्वयविज्ञानान् न खल्व् अप्य् अस्ति विच्युतिः / स्वात्मपक्षस्थिताशेषज्ञाननिर्भरवृत्तिकः //
SK
कथं को वा कुतो वापि च्यवतां तिष्ठतु क्व वा / इत्थं य एष शास्त्रार्थः स्थितः शक्तिप्रभावतः //
SK
अन्तःकृताशेषतत्त्ववर्णादिभरनिर्भरः / सर्वाभिधो भैरवात्मा सो ऽयम् एव स्वरूपभाक् //
SK
शास्त्रे ऽस्मिन् परमेशेन ज्ञानचन्द्राख्यया कृतः /
SK
तद्व्याख्यातम् इदं प्रसन्नगहनं वाक्यं मया स्वागम- प्रामाण्यप्रतिपादनक्रमवशात् तत्तत्प्रसङ्गाद् अपि / अत्रारूढधियां प्रमाणमहिमा विश्वाद्वयोद्दामितो भातीति स्वयम् एव सत्यहृदया ज्ञास्यन्ति किं श्लाघितैः //
SK
ये सम्यक् प्रविचारिणो ननु शिवाः कस् तान् प्रति प्रोद्यमः किं तैर् ये प्रविमर्शदूरशिखरारोहक्रमे पङ्गवः / पाषाणायितवृत्तयः पुनर् अमी ये शास्त्रवन्ध्या नराः संरम्भः प्रलयम्बुधेर् इव ततः स्वात्मन्य् अयं घूर्णते //
SK
संशाम्य स्वयम् आत्मनि त्यज जवाज् ज्वालाजटाडम्बरान् भोः कल्पानल दाह्यम् अस्ति भवतो नाद्यापि किञ्चिद् यतः / त्वत्प्रोल्लासविघूर्णनाघनघुरद्घोरस्फुलिङ्गशतैर् विश्वं व्याप्य विलीनतां गतम् इदं द्राक् त्वत्प्रकाशात्मकम् //
SK
प्रवरपुरनामधेये पुरे पूर्वे काश्मीरिको ऽभिनवगुप्तः / मालिन्यादिमवाक्ये वार्त्तिकम् एतद् रचयति स्म //

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Mālinīślokavārttika: Input by Jürgen Hanneder.

Source