Sutraya

Tantrasāra

Essence of the Tantras · तन्त्रसारः

Āhnika 10

Essence of the Tantras

तन्त्रसारः

SK
उक्तस् तावत् तत्त्वाध्वा
SK
कलाद्यध्वा तु निरूप्यते तत्र यथा भुवनेषु अनुगामि किंचिद् रूपं तत्त्वम् इत्य् उक्तम् तथा तत्त्वेषु वर्गशो यत् अनुगामि रूपं तत् कला एकरूपकलनासहिष्णुत्वात्
SK
तद् यथा पृथिव्यां निवृत्तिः निवर्तते यतस् तत्त्वसर्ग इति
SK
जलादिप्रधानान्ते वर्गे प्रतिष्ठा कारणतयाप्यायनपूरणकारित्वात्
SK
पुमादिमायान्ते विद्या वेद्यतिरोभावे संविदाधिक्यात्
SK
शुद्धविद्यादिशक्त्यन्ते शान्ता कञ्चुकतरंगोपशमात्
SK
एतद् एव अण्डचतुष्टयं पार्थिवप्राकृतमायीयशाक्ताभिधम्
SK
पृथिव्यादिशक्तीनाम् अत्र अवस्थानेन शक्तितत्त्वे यावत् परस्पर्शो विद्यते स्पर्शस्य च सप्रतिघत्वम् इति तावति युक्तम् अण्डत्वम्
SK
शिवतत्त्वे शान्तातीता तस्योपदेशभावनार्चादौ कल्यमानत्वात्
SK
स्वतन्त्रं तु परं तत्त्वं तत्रापि यत् अप्रमेयं तत् कलातीतम्
SK
एवं पञ्चैव कलाः षट्त्रिंशत्तत्त्वानि
SK
तथाहि प्रमेयत्वं द्विधा स्थूलसूक्ष्मत्वेन इति दश
SK
करणत्वं द्विधा शुद्धं कर्तृतास्पर्शि च इति दश
SK
करणतोपसर्जनकर्तृभावस्फुटत्वात् पञ्च शुद्धकर्तृभावात् पञ्च विगलितविभागतया विकासोन्मुखत्वे पञ्च सर्वावच्छेदशून्यं शिवतत्त्वं षट्त्रिंशम्
SK
तद् यदा उपदिश्यते भाव्यते वा यत् तत्प्रतिष्ठापदम् तत् सप्तत्रिंशम् तस्मिन्न् अपि भाव्यमाने अष्टात्रिंशम् न च अनवस्था तस्य भाव्यमानस्य अनवच्छिन्नस्वातन्त्र्ययोगिनो वेद्यीकरणे सप्तत्रिंश एव पर्यवसानात् षट्त्रिंशं तु सर्वतत्त्वोत्तीर्णतया संभाव्यावच्छेदम् इति पञ्चकलाविधिः
SK
विज्ञानाकलपर्यन्तम् आत्मकला ईशान्तं विद्याकला शिष्टं शिवकला इति त्रितत्त्वविधिः
SK
एवं नवतत्त्वाद्य् अपि ऊहयेत् इति
SK
मेयांशगामी स्थूलसूक्ष्मपररूपत्वात् त्रिविधो भुवनतत्त्वकलात्माध्वभेदः मातृविश्रान्त्या तथैव त्रिविधः तत्र प्रमाणतायां पदाध्वा प्रमाणस्यैव क्षोभतरंगशाम्यत्तायां मन्त्राध्वा तत्प्रशमे पूर्णप्रमातृतायां वर्णाध्वा स एव च असौ तावति विश्रान्त्या लब्धस्वरूपो भवति इति एकस्यैव षड्विधत्वं युक्तम्

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.

Source
Tantrasāra — Reader · Sutraya