Sutraya

Tantrasāra

Essence of the Tantras · तन्त्रसारः

Āhnika 9

Essence of the Tantras

तन्त्रसारः

SK
स च सप्तधा षडर्धशास्त्र एव परं परमेशेन उक्तः
SK
तत्र शिवाः मन्त्रमहेशाः मन्त्रेशाः मन्त्राः विज्ञानाकलाः प्रलयाकलाः सकला इति सप्त शक्तिमन्तः
SK
एषां सप्तैव शक्तयः तद्भेदात् पृथिव्यादिप्रधानतत्त्वान्तं चतुर्दशभिर् भेदैः प्रत्येकं स्वं रूपं पञ्चदशम्
SK
तत्र स्वं रूपं प्रमेयतायोग्यं स्वात्मनिष्ठम् अपराभट्टारिकानुग्रहात् प्रमातृषु उद्रिक्तशक्तिषु यत् विश्रान्तिभाजनं तत् तस्यैव शाक्तं रूपं श्रीमत्परापरानुग्रहात् तच् च सप्तविधं शक्तीनां तावत्त्वात्
SK
शक्तिमद्रूपप्रधाने तु प्रमातृवर्गे यत् विश्रान्तं तच् छक्तिमच् छिवरूपं श्रीमत्पराभट्टारिकानुग्रहात् तद् अपि सप्तविधम्
SK
प्रमातॄणां शिवात् प्रभृति सकलान्तानां तावताम् उक्तत्वात्
SK
तत्र शक्तिभेदाद् एव प्रमातॄणां भेदः स च स्फुटीकरणार्थं सकलादिक्रमेण भण्यते तत्र सकलस्य विद्याकले शक्तिः तद्विशेषरूपत्वात् बुद्धिकर्माक्षशक्तीनां प्रलयाकलस्य तु ते एव निर्विषयत्वात् अस्फुटे
SK
विज्ञानाकलस्य ते एव विगलत्कल्पे तत्संस्कारसचिवा प्रबुध्यमाना शुद्धविद्या मन्त्रस्य
SK
तत्संस्कारहीना सैव प्रबुद्धा मन्त्रेशस्य
SK
सैव इच्छाशक्तिरूपतां स्वातन्त्र्यस्वभावां जिघृक्षन्ती मन्त्रमहेश्वरस्य
SK
इच्छात्मिका स्फुटस्वातन्त्र्यात्मिका शिवस्य इति शक्तिभेदाः सप्त मुख्याः
SK
तदुपरागकृतश् च शक्तिमत्सु प्रमातृषु भेदः करणभेदस्य कर्तृभेदपर्यवसानात् शक्तेर् एव च अव्यतिरिक्तायाः करणीकर्तुं शक्यत्वात् न अन्यस्य अनवस्थाद्यापत्तेः
SK
वस्तुतः पुनर् एक एव चित्स्वातन्त्र्यानन्दविश्रान्तः प्रमाता तत्र पृथिवी स्वरूपमात्रविश्रान्ता यदा वेद्यते तदा स्वरूपम् अस्याः केवलं भाति चैत्रचक्षुर्दृष्टं चैत्रविदितं जानामीति तत्र सकलशक्तिकृतं सकलशक्तिमद्रूपकृतं स्वरूपान्तरं भात्य् एव एवं शिवान्तम् अपि वाच्यं शिवशक्तिनिष्ठं शिवस्वभावविश्रान्तं च विश्वं जानामि इति प्रत्ययस्य विलक्षणस्य भावात्
SK
ननु भावस्य चेत् वेद्यता स्वं वपुः तत् सर्वान् प्रति वेद्यत्वं वेद्यत्वम् अपि वेद्यम् इत्य् अनवस्था तया च जगतो ऽन्धसुप्तत्वं सुप्रकाशम् एव तया च वेद्यत्वावेद्यत्वे विरुद्धधर्मयोग इति दोषः अत्र उच्यते
SK
न तत् स्वं वपुः स्वरूपस्य पृथगुक्तत्वात् किं तर्हि तत् प्रमातृशक्तौ प्रमातरि च यत् विश्रान्तिभाजनं यत् रूपं तत् खलु तत् तत् स्वप्रकाशम् एव तत् प्रकाशते न तु किंचिद् अपि प्रति इति सर्वज्ञत्वम् अनवस्थाविरुद्धधर्मयोगश् च इति दूरापास्तम्
SK
अनन्तप्रमातृसंवेद्यम् अपि एकम् एव तत् तस्य रूपं तावति तेषाम् एकाभासरूपत्वात् इति न प्रमात्रन्तरसंवेदनानुमानविघ्नः कश्चित् तच् च तस्य रूपं सत्यम् अर्थक्रियाकारित्वात् तथैव परदृश्यमानां कान्तां दृष्ट्वा तस्यै समीर्ष्यति शिवस्वभावं विश्रान्तिकुम्भं पश्यन् समाविशति समस्तानन्तप्रमातृविश्रान्तं वस्तु पश्यन् पूर्णीभवति नर्तकीप्रेक्षणवत् तस्यैव नीलस्य तद्रूपं प्रमातरि यत् विश्रान्तं तथैव स्वप्रकाशस्य विमर्शस्योदयात् इति पञ्चदशात्मकत्वं पृथिव्याः प्रभृति प्रधानतत्त्वपर्यन्तम्
SK
तावत्य् उद्रिक्तरागादिकञ्चुकस्य सकलस्य प्रमातृत्वात् सकलस्यापि एवं पाञ्चदश्यं तस्यापि तावद् वेद्यत्वात्
SK
वितत्य चैतत् निर्णीतं तन्त्रालोके
SK
पुंसः प्रभृति कलातत्त्वान्तं त्रयोदशधा
SK
सकलस्य तत्र प्रमातृतायोगेन तच्छक्तिशक्तिमदात्मनो भेदद्वयस्य प्रत्यस्तमयात् तथा च सकलस्य स्वरूपत्वम् एव केवलं प्रलयाकलस्य स्वरूपत्वे पञ्चानां प्रमातृत्वे एकादश भेदाः
SK
विज्ञानाकलस्य स्वरूपत्वे चतुर्णां प्रमातृत्वे नव भेदाः
SK
मन्त्रस्य स्वरूपत्वे त्रयाणां प्रमातृत्वे सप्त
SK
मन्त्रेशस्य स्वरूपत्वे द्वयोः प्रमातृत्वे पञ्च
SK
मन्त्रमहेशस्य स्वरूपत्वे भगवत एकस्यैव प्रमातृत्वे शक्तिशक्तिमद्भेदात् त्रयः
SK
शिवस्य तु प्रकाशैकचित्स्वातन्त्र्यनिर्भरस्य न को ऽपि भेदः परिपूर्णत्वात्
SK
एवम् अयं तत्त्वभेद एव परमेश्वरानुत्तरनयैकाख्ये निरूपितः भुवनभेदवैचित्र्यं करोति नरकस्वर्गरुद्रभुवनानां पार्थिवत्वे समाने ऽपि दूरतरस्य स्वभावभेदस्य उक्तत्वात्
SK
अत्र च परस्परं भेदकलनया अवान्तरभेदज्ञानकुतूहली तन्त्रालोकम् एव अवधारयेत्
SK
एवम् एकैकघटाद्यनुसारेणापि पृथिव्यादीनां तत्त्वानां भेदो निरूपितः
SK
अधुना समस्तं पृथिवीतत्त्वं प्रमातृप्रमेयरूपम् उद्दिश्य निरूप्यते यो धरातत्त्वाभेदेन प्रकाशः स शिवः
SK
यथा श्रुतिः पृथिव्य् एवेदं ब्रह्म इति
SK
धरातत्त्वसिद्धिप्रदान् प्रेरयति स धरामन्त्रमहेश्वरः प्रेर्यो धरामन्त्रेशः तस्यैवाभिमानिकविग्रहतात्मको वाचको मन्त्रः सांख्यादिपाशवविद्योत्तीर्णशिवविद्याक्रमेण अभ्यस्तपार्थिवयोगो ऽप्राप्तध्रुवपदः धराविज्ञानाकलः
SK
पाशवविद्याक्रमेण अभ्यस्तपार्थिवयोगः कल्पान्ते मरणे वा धराप्रलयकेवलः
SK
सौषुप्ते हि तत्त्वावेशवशाद् एव चित्रस्य स्वप्नस्य उदयः स्यात् गृहीतधराभिमानस् तु धरासकलः
SK
अत्रापि शक्त्युद्रेकन्यग्भावाभ्यां चतुर्दशत्वम् इति प्रमातृतापन्नस्य धरातत्त्वस्य भेदाः स्वरूपं तु शुद्धं प्रमेयम् इति एवम् अपरत्रापि
SK
अथ एकस्मिन् प्रमातरि प्राणप्रतिष्ठिततया भेदनिरूपणम् इह नीलं गृह्णतः प्राणः तुटिषोडशकात्मा वेद्यावेशपर्यन्तम् उदेति तत्र आद्या तुटिर् अविभागैकरूपा द्वितीया ग्राहकोल्लासरूपा अन्त्या तु ग्राह्याभिन्ना तन्मयी उपान्त्या तु स्फुटीभूतग्राहकरूपा मध्ये तु यत् तुटिद्वादशक तन्मध्यात् आद्यं षट्कं निर्विकल्पस्वभावं विकल्पाच् छादकं षट्त्वं च अस्य स्वरूपेण एका तुटिः आच्छादनीये च विकल्पे पञ्चरूपत्वम् उन्मिमिषा उन्मिषत्ता सा च इयं स्फुटक्रियारूपत्वात् तुटिद्वयात्मिका स्पन्दनस्य एकक्षणरूपत्वाभावात् उन्मिषितता स्वकार्यकर्तृत्वं च इत्य् एवम् आच्छादनीयविकल्पपाञ्चविध्यात् स्वरूपाच् च षट् क्षणा निर्विकल्पकाः ततो ऽपि निर्विकल्पस्य ध्वंसमानता ध्वंसो विकल्पस्य उन्मिमिषा उन्मिषत्ता तुटिद्वयात्मिका उन्मिषितता च इति षट् तुटयः
SK
स्वकार्यकर्तृता तु ग्राहकरूपता इति उक्तं न सा भूयो गण्यते इत्य् एवं विवेकधना गुरूपवेशानुशीलिनः सर्वत्र पाञ्चदश्यं प्रविभागेन विविञ्चते
SK
विकल्पन्यूनत्वे तु तुटिन्यूनता सुखादिसंवित्ताव् इव यावत् अविकल्पतैव
SK
लोकास् तु विकल्पविश्रान्त्या ताम् अहंतामयीम् अहंताच्छादितेदंभावविकल्पप्रसरां निर्विकल्पां विमर्शभुवम् अप्रकाशिताम् इव मन्यन्ते दुःखावस्थां सुखविश्रान्ता इव विकल्पनिर्ह्रासेन तु सा प्रकाशत एव इति इयम् असौ सम्बन्धे ग्राह्यग्राहकयोः सावधानता इति अभिनवगुप्तगुरवः
SK
एवं च पाञ्चदश्ये स्थिते यावत् स्फुटेदंतात्मनो भेदस्य न्यूनता तावत् द्वयं द्वयं ह्रसति यावत् द्वितुटिकः शिवावेशः तत्र आद्या तुटिः सर्वतः पूर्णा द्वितीया सर्वज्ञानकरणाविष्टाभ्यस्यमाना सर्वज्ञत्वसर्वकर्तृत्वाय कल्पते न तु आद्या
SK
यद् आह श्रीकल्लटः तुटिपात इति अत्र पातशब्दं सैव भगवती श्रीमत्काली मातृसद्भावो भैरवः प्रतिभा इत्य् अलं रहस्यारहस्यनेन
SK
एवं मन्त्रमहेशतुटेः प्रभृति तत्तदभ्यासात् तत्तत्सिद्धिः
SK
अथात्रैव जाग्रदाद्यवस्था निरूप्यन्ते तत्र वेद्यस्य तद्विषयायाश् च संविदो यत् वैचित्र्यम् अन्योन्यापेक्षं सत् सा अवस्था न वेद्यस्य केवलस्य न चापि केवलायाः संविदो न चापि पृथक् पृथक् द्वे
SK
तत्र यदाधिष्ठेयतया बहीरूपतया भानं तदा जाग्रदवस्था मेये मातरि माने च
SK
यदा तु तत्रैव अधिष्ठानरूपतया भानं संकल्पः तदा स्वप्नावस्था
SK
यदा तु तत्रैव अधिष्ठातृरूपतया बीजात्मतयैव भानं तदा सुषुप्तावस्था
SK
इमा एव तिस्रः प्रमेयप्रमाणप्रमात्रवस्थाः प्रत्येकं जाग्रदादिभेदात् चतुर्विधा उक्ताः
SK
यदा तु तस्मिन्न् एव प्रमातृविश्रान्तिगते प्रमातुः पूर्णतौन्मुख्यात् तद्द्वारेण पूर्णतोन्मुखतया भानं तदा तुर्यावस्था सा च रूपं दृशाहम् इत्य् एवंविधम् अंशत्रयम् उत्तीर्य पश्यामीति अनुपायिका प्रमातृता स्वातन्त्र्यसारा नैकट्यमध्यत्वदूरत्वैः प्रमातृप्रमाणप्रमेयताभिषेकं ददती तदवस्थात्रयानुग्राहकत्वात् त्रिभेदा
SK
एतद् एव अवस्थाचतुष्टयं पिण्डस्थपदस्थरूपस्थरूपातीतशब्दैर् योगिनो व्यवहरन्ति प्रसंख्यानधनास् तु सर्वतोभद्रं व्याप्तिः महाव्याप्तिः प्रचय इति शब्दैः
SK
अन्वर्थं चात्र दर्शितं तन्त्रालोके श्लोकवार्त्तिके च
SK
यच् च सर्वान्तर्भूतं पूर्णरूपं तत् तुर्यातीतं सर्वातीतं महाप्रचयं च निरूपयन्ति
SK
किं च यस्य यद् यदा रूपं स्फुटं स्थिरम् अनुबन्धि तत् जाग्रत् तस्यैव तद्विपर्ययः स्वप्नः यः लयाकलस्य भोगः सर्वावेदनं सुषुप्तं यो विज्ञानाकलस्य भोगः भोग्याभिन्नीकरणं तुर्यं मन्त्रादीनां स भोगः भावानां शिवाभेदस् तुर्यातीतं सर्वातीतम्
SK
तत्र स्वरूपसकलौ १ प्रलयाकलः २ विज्ञानाकलः ३ मन्त्रतदीशतन्महेशवर्गः ४ शिवः ५ इति पञ्चदशभेदे पञ्च अवस्थाः
SK
स्वरूपं प्रलयाकल इत्यादिक्रमेण त्रयोदशभेदे स्वरूपं विज्ञानाकलशक्तिः विज्ञानाकल इत्य् एकादशभेदे स्वरूपं मन्त्राः तदीशाः महेशाः शिवः इति नवभेदे स्वरूपं मन्त्रेशाः महेशः शक्तिः शिव इति सप्तभेदे स्वरूपं महेशशक्तिः महेशः शक्तिः शिव इति पञ्चभेदे स्वरूपं क्रियाशक्तिः ज्ञानशक्तिः इच्छाशक्तिः शिव इति त्रिभेदे अभिन्ने ऽपि शिवतत्त्वे क्रियाज्ञानेच्छानन्दचिद्रूपकॢप्त्या प्रसंख्यानयोगधनाः पञ्चपदत्वम् आहुः

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.

Source