Sutraya

Tantrasāra

Essence of the Tantras · तन्त्रसारः

Āhnika 16

Essence of the Tantras

तन्त्रसारः

SK
अथ परोक्षस्य दीक्षा द्विविधश् च सः मृतो जीवंश् च
SK
तत्र कृतगुरुसेव एव मृत उद्वासितो वा अभिचारादिहतो डिम्बाहतो मृत्युक्षणोदिततथारुचिः मुखान्तरायातशक्तिपातो वा तथा दीक्ष्य इत्य् आज्ञा
SK
अत्र च मृतदीक्षायाम् अधिवासादि न उपयुज्यते
SK
मण्डले मन्त्रविशेषसंनिधये यत्र बहुला क्रिया उत्तमम् उपकरणं पुष्पादि स्थानं पीठादि मण्डलं त्रिशूलाब्जादि आकृतिः ध्येयविशेषः मन्त्रः स्वयं दीप्तश् च ध्यानपरस्य योगिनः तदेकभक्तिसमावेशशालिनो ज्ञानिनश् च सम्बन्धः इत्य् एते संनिधानहेतवो यथोत्तरम् उक्ताः
SK
समुदितत्वे तु का कथा स्यात् इति परमेश्वरेण उक्तम्
SK
ततो देवं पूजयित्वा तदाकृतिं कुशादिमयीम् अग्रे स्थापयित्वा गुर्वासादितज्ञानोपदेशक्रमेण तां पश्येत् स च मूलाधाराद् उदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुम् ईष्टे
SK
यावद् धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनम् इति महाञ् जालनामा प्रयोगः
SK
एतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वम् आदौ पश्चाद् आनीयते चेत् सकलम् अथ ततो ऽप्य् अध्वमध्याद् यथेष्टम्
SK
आकृष्टाव् उद्धतौ वा मृतजनविषये कर्षणीये ऽथ जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः
SK
बहिर् अपि इत्थं कथं न भवति आकर्षणादौ विनाभ्यासात् इति चेत् रागद्वेषादियोगवशेन तत्प्रवृत्तौ ऐश्वर्यावेशायोगात्
SK
ततो नियतिनियन्त्रितत्वात् अभ्यासाद्यपेक्षा स्याद् एव
SK
इह तु अनुग्रहात्मकपरमेश्वरतावेशात् तथाभावः
SK
परमेश्वर एव हि गुरुशरीराधिष्ठानद्वारेण अनुग्राह्यान् अनुगृह्णाति
SK
स च अचिन्त्यमहिमा इति उक्तप्रायम्
SK
एवं जालप्रयोगाकृष्टो जीवो दार्भं जातीफलादि वा शरीरं समाविष्टो भवति न च स्पन्दते मनःप्रणादिसामग्र्यभावात् तदनुध्यानबलात् तु स्पन्दते ऽपि तादृशे ऽपि तस्मिन् पूर्ववत् प्रोक्षणादिसंस्कारः पूर्णाहुतियोजनिकान्तः
SK
अत्र परं पूर्णाहुत्या तस्य दार्भाद्याकारस्य परतेजसि लयः कर्तव्यः
SK
एवम् उद्धृतो ऽसौ पूर्णाहुत्यैव अपवृज्यते यदि स्वर्नरकप्रेततिर्यक्षु स्थितः
SK
मनुष्यस् तु तदैव ज्ञानं योगं दीक्षां विवेकं वा लभते
SK
अधिकारिशरीरत्वात् इति मृतोद्धरणम्
SK
जीवतो ऽपि परोक्षस्य उत्पन्ने शक्तिपाते ऽयम् एव क्रमः दार्भाकृतिकल्पनजीवाकृष्टिवर्जम्
SK
ध्यानमात्रोपस्थापितस्यैव अस्य संस्कारः
SK
दीक्षा च भोगभोक्षोभयदायिनी
SK
स्ववासनाबलीयस्त्वात् भोगवासनाविच्छेदस्य च असंभाव्यमानत्वात् बहुभिः दीक्षायाम् ऊर्ध्वशासनसंस्कारो बलवान् अन्यस् तु तत्संस्काराय स्यात्
SK
परोषस्यापि दीक्षितस्य तथैव ज्ञानाद्याविर्भावः इति

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.

Source
Tantrasāra — Reader · Sutraya