Sutraya

Tantrasāra

Essence of the Tantras · तन्त्रसारः

Āhnika 22

Essence of the Tantras

तन्त्रसारः

SK
अथ समस्ता इयम् उपासा समुन्मिषत्तादृशदृढवासनारूढान् अधिकारिणः प्रति श्रीमत्कौलिकप्रक्रियया निरूप्यते तत्र उक्तं योगसंचारादौ आनन्दं ब्रह्म तद्देहे त्रिधौष्ट्यान्त्यव्यवस्थितम्
SK
अब्रह्मचारिणस् तस्य त्यागाद् आनन्दवर्जिताः
SK
आनन्दकृत्रिमाहारवर्जं चक्रस्य याजकाः
SK
द्वये ऽपि नरके घोरे तस्माद् एनां स्थितिं भजेत्
SK
तद् अनया स्थित्या कुलयागः स च षोढा बाह्ये शक्तौ स्वदेहे यामले प्राणे संविदि च इति
SK
तत्र च उत्तर उत्तर उत्कृष्टः पूर्वः पूर्वस् तद्रुच्यर्थम्
SK
सिद्धिकामस्य द्वितीयतुर्यपञ्चमाः सर्वथा निर्वर्त्याः षष्ठस् तु मुमुक्षोः मुख्यः तस्यापि द्वितीयाद्या नैमित्तिके यथासम्भवम् अनुष्ठेया एव विधिपूरणार्थं च
SK
तत्र बाह्यं स्थण्डिलम् आनन्दपूर्णं वीरपात्रम् अरुणः पटः पूर्वोक्तम् अपि वा लिङ्गादि
SK
तत्र स्नानादिकर्तव्यानपेक्षयैव पूर्णानन्दविश्रान्त्यैव लब्धशुद्धिः प्रथमं प्राणसंविद्देहैकीभावं भावयित्वा संविदश् च परमशिवरूपत्वात् सप्तविंशतिवारं मन्त्रम् उच्चार्य मूर्धवक्त्रहृद्गुह्यमूर्तिषु अनुलोमविलोमाभ्यां विश्वाध्वपरिपूर्णता परमेश्वरे अपरत्वे परापरत्वे परत्वे ऽपि च
SK
तथाहि मायापुंप्रकृतिगुणधीप्रभृति धरान्तं सप्तविंशतितत्त्वानि कलादीनां तत्रैव अन्तर्भावात् विद्याशक्ताव् अपि परापरत्वे ब्रह्मपञ्चकस्य सद्यस्त्वाजातत्वभवोद्भवत्वादीनां धर्माणां सप्तविंशतिरूपत्वम् एव उक्तं श्रीमल्लकुलेशादिपादैः
SK
परत्वे ऽपि पञ्चशक्तिः हि परमेश्वरः प्रतिशक्ति च पञ्चरूपता एवं पञ्चविंशतिः शक्तयः ताश् च अन्योन्यम् अनुद्भिन्नविभागा इत्य् एका शक्तिः सा चानुद्भिन्नविभागा इत्य् एवं सप्तविंशतिरूपया व्याप्त्या संविदग्नेः शिखां बुद्धिप्राणरूपां सकृदुच्चारमात्रेणैव बद्धां कुर्यात् येन परमशिव एव प्रतिबद्धा तन्त्रातिरिक्तं न किंचिद् अभिधावति तथाविधबुद्ध्यधिष्ठितकरणचक्रानुवेधेन पुरोवर्तिनो यागद्रव्यगृहदिगाधारादीन् अपि तन्मयीभूतान् कुर्यात् ततो ऽर्घपात्रम् अपि शिखाबन्धव्याप्त्यैव पूरयेत् पूजयेच् च तद्विप्रुड्भिः स्थण्डिलान्य् अपि तद्रसेन वामानामाङ्गुष्ठयोगात् देहचक्रेषु मन्त्रचक्रं पूजयेत् तर्पयेत् च ततः प्राणान्तः ततः स्थण्डिले त्रिशूलात्मकं शक्तित्रयान्तम् आसनं कल्पयेत् मायान्तं हि सार्णे औकारे च शक्तित्रयान्तम् आसनं कल्पयेत् मायान्तं हि सार्णे औकारे च शक्तित्रयान्तं तदुपरि याज्या विमर्शरूपा शक्तिः इत्य् एवं सकृद् उच्चारेणैव आधाराधेयन्यासं कृत्वा तत्रैव आधेयभूतायाम् अपि संविदि विश्वं पश्येत् तद् अपि च संविन्मयम् इत्य् एवं विश्वस्य संविदा तेन च तस्याः संपुटीभावो भवति संविद उदितं तत्रैव पर्यवसितं यतो विश्वं वेद्याच् च संवित् उदेति तत्रैव च विश्राम्यति इति एतावत्त्वं संवित्तत्त्वं संपुटीभावद्वयात् लभ्यते
SK
तद् उक्तम् सृष्टिं तु संपुटीकृत्य इति
SK
ततो गन्धधूपासवकुसुमादीन् आत्मप्रह्वीभावान्तान् अर्पयित्वा स्वविश्रान्त्या जप्त्वा उपसंहृत्य जले निक्षिपेत्
SK
इति बाह्ययागः
SK
अथ शक्तौ तत्र अन्योन्यं शक्तितालासावीराणाम् उभयेषाम् उभयात्मकत्वेन प्रोल्लासप्रारम्भसृष्ट्यन्तशिवशक्तिप्रबोधे परस्परं व्यापारात् परमेशनियत्या च शुद्धरूपतया तत्र प्राधान्यम् एतेन च विशिष्टचक्रस्यापि शक्तित्वं व्याख्यातम् तत्र शिखाबन्धव्याप्त्यैव पूजनं शक्तित्रयान्तम् आसनं कोणत्रये मध्ये विसर्गशक्तिः इति तु व्याप्तौ विशेषः
SK
एवं स्वदेहे तत्रैव चक्रे ततो ब्रह्मरन्ध्राद्यनुचक्रेषु
SK
अथ यामले शक्तेर् लक्षणम् एतत् तद्वद् अभेदस् ततो ऽनपेक्ष्य वयः / जात्यादींश् चासङ्गात् लोकेतरयुगलजं हि तादात्म्यम्
SK
कार्यहेतुसहोत्थत्वात् त्रैधं साक्षाद् अथान्यथा / कॢप्तावतो मिथो ऽभ्यर्च्य तर्प्यानन्दान्तिकत्वतः //
SK
चक्रम् अर्चेत् तदौचित्याद् अनुचक्रं तथानुगम् / बहिः पुष्पादिनान्तश् च गन्धभुक्त्यासवादिभिः //
SK
एवम् आनन्दसंदोहिततच्चेष्टोच्छलत्स्थितिः / अनुचक्रगणश् चक्रतादात्म्याद् अभिलीयते //
SK
निजनिजभोगाभोगप्रविकासमयस्वरूपपरिमर्शे / क्रमशो ऽनुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति //
SK
अनुचक्रदेवतात्मकमरीचिगणपूरणाधिगतवीर्यम् / तच्छक्तितद्वदात्मकम् अन्योन्यसमुन्मुखं भवति //
SK
तद्युगलमूर्ध्वधामप्रवेशसस्पन्दजातसंक्षोभम् / क्षुभ्नात्य् अनुचक्राण्य् अपि तानि तदा तन्मयानि न पृथक् तु //
SK
इत्थं यामलम् एतद् गलितभिदासंकथं यदैव तदा / क्रमतारतम्ययोगात् सैव हि संविद्विसर्गसंघट्टः //
SK
तद्ध्रुवधामानुत्तरम् उभयात्मकजगद् उदारम् आनन्दम् / नो शान्तं नाप्य् उदितं शान्तोदितसूतिकारणं परं कौलम् //
SK
अनवच्छिन्नपदेप्सुस् तां संविदम् आत्मसात्कुर्यात् / शान्तोदितात्मकद्वयम् अथ युगपद् उदेति शक्तिशक्तिमतोः //
SK
स्वात्मान्योन्यावेशात् शान्तान्यत्वे द्वयोर् द्वयात्मत्वात् / शक्तिस् तु तद्वद् उदितां सृष्टिं पुष्णाति नो तद्वान् //
SK
तस्यां चार्यं कुलम् अथ तया नृषु प्रोक्तयोगसंघट्टान् / अथ सृष्टे द्वितये ऽस्मिन् शान्तोदितधाम्नि ये ऽनुसंदधते //
SK
प्राच्यां विसर्गसत्ताम् अनवच्छिदिते पदे रूढाः / उदितं च मिथो वक्त्रान् मुख्याद् वक्त्रे प्रगृह्यते च बहिः //
SK
तृप्तं देवीचक्रं सिद्धिज्ञानापवर्गदं भवति / शान्ताभ्यासे शान्तं शिवम् एति यद् अत्र देवताचक्रम् //
SK
शून्यं निरानन्दमयं निर्वृतिनिजधामतो ऽर्घं च / रणरणकरसान् निजरसभरितबहिर्भावचर्वणरसेन //
SK
आन्तरपूर्णसमुच्छलदनुचक्रं याति चक्रम् अथ तद् अपि / उच्छलति प्राग्वद् इति त्रिविधो ऽन्वर्थो विसर्गो ऽयम् //
SK
एतद् विसर्गधामनि परिमर्शनतस् त्रिधैव मनुवीर्यम् / तत्तत्संविद्गर्भे मन्त्रस् तत्तत्फलं सूते //
SK
कोणत्रयान्तराश्रितनित्योदितमङ्गलच्छदे कमले / नित्यावियुतं नालं षोडशदलकमलसन्मूलम् //
SK
मध्यस्थनालगुम्फितसरोजयुगघट्टनक्रमादग्नौ / मध्यस्थशशधरसुन्दरदिनकरकरौघसंघट्टात् //
SK
त्रिदलारुणवीर्यकलासङ्गान् मध्ये ऽङ्कुरसृष्टिः / इति शशधरवासरपतिचित्रगुषंघट्टमुद्रया झटिति //
SK
सृष्ट्यादिक्रमम् अन्तः कुर्वंस् तुर्ये स्थितिं लभते / एतत् खेचरमुद्रावेशे ऽन्योन्यं स्वशक्तिशक्तिमतोः //
SK
पानोपभोगलीलाहासादिषु यो भवेद् विमर्शमयः / अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः //
SK
अव्युच्छिन्नानाहतपरमार्थैर् मन्त्रवीर्यं तत् / गमनागमविश्रान्तिषु कर्णे नयने द्विलक्ष्यसम्पर्के //
SK
तत्सम्मीलनयोगे देहान्ताख्ये च यामले चक्रे / कुचमध्यहृदयदेशाद् ओष्ठान्ते कण्ठगं यद् अव्यक्तम् //
SK
तच् चक्रद्वयमध्यगम् आकर्ण्य क्षोभविगमसमये यत् / निर्वान्ति तत्र चैवं यो ऽष्टविधो नादभैरवः परमः //
SK
ज्योतिर् ध्वनिश् च यस्मात् सा मान्त्री व्याप्तिर् उच्यते परमा / कर्मणि कर्मणि विदुषः स्याज् जीवतो मुक्तिः //
SK
तज्ज्ञः शास्त्रे मुक्तः परकुलविज्ञानभाजनं गर्भः / शून्याशून्यालयं कुर्याद् एकदण्डे ऽनलानिलौ //
SK
शूलं समरसीकृत्य रसे रसम् इव स्थितम् / त्यक्ताशङ्को निराचारो नाहम् अस्मीति भावयन् //
SK
देहस्था देवताः पश्यन् ह्लादोद्वेगादि चिद्धने / कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् //
SK
श्वभ्रे सुदूरे झटिति स्वदेहं संपातयन् वासम् असाहसेन / आकुञ्च्य हस्तद्वितयं प्रपश्यन् मुद्राम् इमां व्योमचरीं भजेत //

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.

Source