SKतत्र समस्त एव अयं मूर्तिवैचित्र्याभासनशक्तिजो देशाध्वा संविदि विश्रान्तः तद्द्वारेण शून्ये बुद्धौ प्राणे नाडीचक्रानुचक्रेषु बहिः शरीरे यावल् लिङ्गस्थण्डिलप्रतिमादौ समस्तो ऽध्वा परिनिष्ठितः तं समस्तम् अध्वानं देहे विलाप्य देहं च प्राणे तं धियि तां शून्ये तत्संवेदने निर्भरपरिपूर्णसंवित् सम्पद्यते षट्त्रिंशत्तत्त्वस्वरूपज्ञः तदुत्तीर्णां संविदं परमशिवरूपां पश्यन् विश्वमयीम् अपि संवेदयेत अपरथा वेद्यभागम् एव कंचित् परत्वेन गृह्णीयान् मायागर्भाधिकारिणं विष्णुब्रह्मादिकं वा तस्माद् अवश्यं प्रक्रियाज्ञानपरेण भवितव्यम्
SKतद् उक्तं न प्रक्रियापरं ज्ञानम् इति
SKतत्र पृथिवीतत्त्वं शतकोटिप्रविस्तीर्णं ब्रह्माण्डगोलकरूपम्
SKतस्य अन्तः कालाग्निर् नरकाः पातालानि पृथिवी स्वर्गो यावद् ब्रह्मलोक इति
SKब्रह्माण्डबाह्ये रुद्राणां शतम्
SKन च ब्रह्माण्डानां संख्या विद्यते
SKततो धरातत्त्वाद् दशगुणं जलतत्त्वम्
SKतत उत्तरोत्तरं दशगुणम् अहंकारान्तम्
SKतद् यथा जलं तेजो वायुर् नभः तन्मात्रपञ्चकाक्षैकादशगर्भो ऽहंकारश् चेति
SKअहंकारात् शतगुणं बुद्धितत्त्वम्
SKततः सहस्रधा प्रकृतितत्त्वम् एतावत् प्रकृत्यण्डम्
SKतच् च ब्रह्माण्डवद् असंख्यम्
SKप्रकृतितत्त्वात् पुरुषतत्त्वं च दशसहस्रधा
SKपुरुषान् नियतिः लक्षधा
SKनियतेर् उत्तरोत्तरं दशलक्षधा कलातत्त्वान्तम्
SKतद् यथा नियतिः रागो ऽशुद्धविद्या कालः कला चेति
SKकलातत्त्वात् कोटिधा माया एतावत् मायाण्डम्
SKमायातत्त्वात् शुद्धविद्या दशकोटिगुणिता
SKविद्यातत्त्वाद् ईश्वरतत्त्वं शतकोटिधा
SKईश्वरतत्त्वात् सादाख्यं सहस्रकोटिधा
SKसादाख्यात् वृन्दगुणितं शक्तितत्त्वम् इति शक्त्यण्डम्
SKसा शक्तिर् व्याप्य यतो विश्वम् अध्वानम् अन्तर्बहिर् आस्ते तस्माद् व्यापिनी
SKएवम् एतानि उत्तरोत्तरम् आवरणतया वर्तमानानि तत्त्वान्य् उत्तरं व्यापकं पूर्वं व्याप्यम् इति स्थित्या वर्तन्ते
SKयावद् अशेषशक्तितत्त्वान्तो ऽध्वा शिवतत्त्वेन व्याप्तः
SKशिवतत्त्वं पुनर् अपरिमेयं सर्वाध्वोत्तीर्णं सर्वाध्वव्यापकं च
SKएतत् तत्त्वान्तरालवर्तीनि यानि भुवनानि तत्पतय एव अत्र पृथिव्यां स्थिता इति
SKतेष्व् आयतनेषु ये म्रियन्ते तेषां तत्र तत्र गतिं ते वितरन्ति
SKक्रमाच् च ऊर्ध्वोर्ध्वं प्रेरयन्ति दीक्षाक्रमेण