SKदीक्षादिकं वक्तव्यम् इति उक्तम् अतो दीक्षास्वरूपनिरूपणार्थं प्राक् कर्तव्यं स्नानम् उपदिश्यते
SKस्नानं च शुद्धता उच्यते शुद्धता च परमेश्वरस्वरूपसमावेशः
SKकालुष्यापगमो हि शुद्धिः कालुष्यं च तदेकरूपे ऽपि अतत्स्वभावरूपान्तरसंवलनाभिमानः
SKतद् इह स्वतन्त्रानन्दचिन्मात्रसारे स्वात्मनि विश्वत्रापि वा तदन्यरूपसंवलनाभिमानः अशुद्धिः सा च महाभैरवसमावेशेन व्यपोह्यते सो ऽपि कस्यचित् झटिति भवेत् कस्यापि उपायान्तरमुखप्रेक्षी
SKतत्रापि च एकद्वित्र्यादिभेदेन समस्तव्यस्ततया क्वचित् कस्यचित् कदाचित् च तथा आश्वासोपलब्धेः विचित्रो भेदः
SKस च अष्टधा क्षितिजलपवनहुताशनाकाशसोमसूर्यात्मरूपासु अष्टासु मूर्तिषु मन्त्रन्यासमहिम्ना परमेश्वररूपतया भावितासु तादात्म्येन च देहे परमेश्वरसमाविष्टे शरीरादिविभागवृत्तेः चैतन्यस्यापि परमेश्वरसमावेशप्राप्तिः कस्यापि तु स्नानवस्त्रादितुष्टिजनकत्वात् परमेशोपायताम् एतीति उक्तं च श्रीमदानन्दादौ धृतिः आप्यायो वीर्यं मलदाहो व्याप्तिः सृष्टिसामर्थ्यं स्थितिसामर्थ्यम् अभेदश् च इत्य् एतानि तेषु मुख्यफलानि तेषु तेषु उपाहितस्य मन्त्रस्य तत्तद्रूपधारित्वात्
SKवीरोद्देशेन तु विशेषः तद् यथा रणरेणुः वीराम्भः महामरुत् वीरभस्म श्मशाननभः तदुपहितौ चन्द्रार्कौ आत्मा निर्विकल्पकः
SKपुनर् अपि बाह्याभ्यन्तरतया द्वित्वम् बहिरुपास्यमन्त्रतादात्म्येन तन्मयीकृते तत्र तत्र निमज्जनम् इत्य् उक्तम्
SKविशेषस् तु आनन्दद्रव्यं वीराधारगतं निरीक्षणेन शिवमयीकृत्य तत्रैव मन्त्रचक्रपूजनम् ततः तेनैव देहप्राणोभयाश्रितदेवताचक्रतर्पणम् इति मुख्यं स्नानम्
SKआभ्यन्तरं यथा तत्तद्धरादिरूपधारणया तत्र तत्र पार्थिवादौ चक्रे तन्मयीभावः