SKअथ पुत्रकदीक्षाविधिः
SKस च विस्तीर्णः तन्त्रालोकात् अवधार्यः
SKसंक्षिप्तस् तु उच्यते
SKसमय्यन्तं विधिं कृत्वा तृतीये ऽह्नि त्रिशूलाब्जे मण्डले सामुदायिकं यागं पूजयेत् तत्र बाह्यपरिवारं द्वारदेवताचक्रं च बहिः पूजयेत् ततो मण्डलपूर्वभागे ऐशकोणात् आरभ्य आग्नेयान्तं पङ्क्तिक्रमेण गणपतिं गुरुं परमगुरुं परमेष्ठिनं पूर्वाचार्यान् योगिनीचक्रं वागीश्वरीं क्षेत्रपालं च पूजयेत्
SKतत आज्ञां समुचिताम् आदाय शूलमूलात् प्रभृति सितकमलान्तं समस्तम् अध्वानं न्यस्य अर्चयेत् ततो मध्यमे त्रिशूले मध्यारायां भगवती श्रीपराभट्टारिका भैरवनाथेन सह वामारायां तथैव श्रीमदपरा दक्षिणारायां श्रीपरापरा दक्षिणे त्रिशूले मध्ये श्रीपरापरा वामे त्रिशूले मध्ये श्रीमदपरा द्वे तु यथास्वम्
SKएवं सर्वस्थानाधिष्ठातृत्वे भगवत्याः सर्वं पूर्णं तदधिष्ठानात् भवति इति
SKततो मध्यशूलमध्यारायां समस्तं देवताचक्रं लोकपालास्त्रपर्यन्तम् अभिन्नतयैव पूजयेत् तदधिष्ठानात् सर्वत्र पूजितम्
SKततः कुम्भे कलशे मण्डले अग्नौ स्वात्मनि च अभेदभावनया पञ्चाधिकरणम् अनुसंधिं कुर्यात् ततः परमेश्वराद्वयरसबृंहितेन पुष्पादिना विशेषपूजां कुर्यात्
SKकिं बहुना तर्पणनैवेद्यपरिपूर्णं वित्तशाठ्यविरहितो यागस्थानं कुर्यात्
SKअसति वित्ते तु महामण्डलयागो न कर्तव्य एव
SKपशूंश् च जीवतो निवेदयेत्
SKते ऽपि हि एवम् अनुगृहीता भवन्ति इति कारुणिकतया पशुविधौ न विचिकित्सेत्
SKततो ऽग्नौ परमेश्वरं तिलाज्यादिभिः संतर्प्य तदग्रे ऽन्यं पशुं वपाहोमार्थं कुर्यात् देवताचक्रं तद्वपया तर्पयेत् पुनर् मण्डलं पूजयेत् ततः परमेश्वरं विज्ञप्य सर्वाभिन्नसमस्तषडध्वपरिपूर्णम् आत्मानं भावयित्वा शिष्यं पुरो ऽवस्थितं कुर्यात्
SKपरोक्षदीक्षायां जीवन्मृतरूपायाम् अग्रे तं ध्यायेत् तदीयां वा प्रतिकृतिं दर्भगोमयादिमयीम् अग्रे स्थापयेत्
SKतथाविधं शिष्यम् अर्घपात्रविप्रुट्प्रोक्षितं पुष्पादिभिश् च पूजितं कृत्वा समस्तम् अध्वानं तद्देहे न्यसेत्
SKतत इत्थं विचारयेत् भोगेच्छोः शुभं न शोधयेत्
SKमुमुक्षोस् तु शुभाशुभम् उभयम् अपि
SKनिर्बीजायां तु समयपाशान् अपि शोधयेत् सा च आसन्नमरणस्य अत्यन्तमूर्खस्यापि कर्तव्या इति परमेश्वराज्ञा तस्यापि तु गुरुदेवताग्निभक्तिनिष्ठत्वमात्रात् सिद्धिः
SKअत्र च सर्वत्र वासनाग्रहणम् एव भेदकम् मन्त्राणां वासनानुगुण्येन तत्तत्कार्यकारित्वात्
SKएवं वासनाभेदम् अनुसंधाय मुख्यमन्त्रपरामर्शविशेषेण समस्तम् अध्वानं स्वदेहगतं शिवाद्वयभावनया शोधयेत्
SKएवं क्रमेण पादाङ्गुष्ठात् प्रभृति द्वादशान्तपर्यन्तं स्वात्मदेहस्वात्मचैतन्याभिन्नीकृतदेहचैतन्यस्य शिष्यस्य आसाद्य तत्रैव अनन्तानन्दसरसि स्वातन्त्र्यैश्वर्यसारे समस्तेच्छाज्ञानक्रियाशक्तिनिर्भरसमस्तदेवताचक्रेश्वरे समस्ताध्वभरिते चिन्मात्रावशेषविश्वभावमण्डले तथाविधरूपैकीकारेण शिष्यात्मना सह एकीभूतो विश्रान्तिम् आसादयेत् इत्य् एवं परमेश्वराभिन्नो ऽसौ भवति
SKततो यदि भोगेच्छुः स्यात् ततो यत्रैव तत्त्वे भोगेच्छा अस्य भवति तत्रैव समस्तव्यस्ततया योजयेत्
SKतदनन्तरं शेषवृत्तये परमेश्वरस्वभावात् झटिति प्रसृतं शुद्धतत्त्वमयं देहम् अस्मै चिन्तयेत् इत्य् एषा समस्तपाशवियोजिका दीक्षा
SKततः शिष्यो गुरुं दक्षिणाभिः पूर्ववत् पूजयेत्
SKततो ऽग्नौ शिष्यस्य विधिं कुर्यात् श्रीपरामन्त्रः अमुकस्यामुकं तत्त्वं शोधयामि इति स्वाहान्तं प्रतितत्त्वं तिस्र आहुतयः अन्ते पूर्णा वौषडन्ता
SKएवं शिवान्ततत्त्वशुद्धिः ततो योजनिकोक्तक्रमेण पूर्णाहुतिः
SKभोगेच्छोः भोगस्थाने योजनिकार्थम् अपरा शुद्धतत्त्वसृष्ट्यर्थम् अन्या
SKततो गुरोः दक्षिणाभिः पूजनम् इत्य् एषा पुत्रकदीक्षा
SKयत्र वर्तमानम् एकं वर्जयित्वा भूतं भविष्यच् च कर्म शुध्यति