Sutraya

Tantrasāra

Essence of the Tantras · तन्त्रसारः

Āhnika 11

Essence of the Tantras

तन्त्रसारः

SK
तत्र यावत् इदम् उक्तम् तत् साक्षात् कस्यचित् अपवर्गाप्तये यथोक्तसंग्रहनीत्या भवति कस्यचित् वक्ष्यमाणदीक्षायाम् उपयोगगमनात् इति दीक्षादिकं वक्तव्यम्
SK
तत्र कः अधिकारी इति निरूपणार्थं शक्तिपातो विचार्यते
SK
तत्र केचित् आहुः ज्ञानाभावात् अज्ञानमूलः संसारः तदपगमे ज्ञानोदयात् शक्तिपात इति तेषां सम्यक् ज्ञानोदय एव विकृत इति वाच्यम् कर्मजन्यत्वे कर्मफलवत् भोगत्वप्रसङ्गे भोगिनि च शक्तिपाताभ्युपगतौ अतिप्रसङ्गः ईश्वरेच्छानिमित्तत्वे तु ज्ञानोदयस्य अन्योन्याश्रयता वैयर्थ्यं च ईश्वरे रागादिप्रसङ्गः विरुद्धयोः कर्मणोः समबलयोः अन्योन्यप्रतिबन्धे कर्मसाम्यं ततः शक्तिपात इति चेत् न क्रमिकत्वे विरोधायोगात् विरोधे ऽपि अन्यस्य अविरुद्धस्य कर्मणो भोगदानप्रसङ्गात् अविरुद्धकर्माप्रवृत्तौ तदैव देहपातप्रसङ्गात् जात्यायुष्प्रदं कर्म न प्रतिबध्यते भोगप्रदम् एव तु प्रतिबध्यते इति चेत् कुतः तत्कर्मसद्भावे यदि शक्तिः पतेत् तर्हि सा भोगप्रदात् किं बिभियात्
SK
अथ मलपरिपाके शक्तिपातः सो ऽपि किंस्वरूपः किं च तस्य निमित्तम् इति एतेन वैराग्यं धर्मविशेषो विवेकः सत्सेवा सत्प्राप्तिः देवपूजा इत्यादिहेतुः प्रत्युक्त इति भेदवादिनां सर्वम् असमञ्जसम्
SK
स्वतन्त्रपरमेशाद्वयवादे तु उपपद्यते एतत् यथाहि परमेश्वरः स्वरूपाच्छादनक्रीडया पशुः पुद्गलो ऽणुः सम्पन्नः न च तस्य देशकालस्वरूपभेदविरोधः तद्वत् स्वरूपस्थगनविनिवृत्त्या स्वरूपप्रत्यापत्तिं झटिति वा क्रमेण वा समाश्रयन् शक्तिपातपात्रम् अणुः उच्यते स्वातन्त्र्यमात्रसारश् च असौ परमशिवः शक्तेः पातयिता इति निरपेक्ष एव शक्तिपातो यः स्वरूपप्रथाफलः यस् तु भोगोत्सुकस्य स कर्मापेक्षः लोकोत्तररूपभोगोत्सुकस्य तु स एव शक्तिपातः परमेश्वरेच्छाप्रेरितमायागर्भाधिकारीयरुद्रविष्णुब्रह्मादिद्वारेण मन्त्रादिरूपत्वं मायापुंविवेकं पुंस्कलाविवेकं पुंप्रकृतिविवेकं पुंबुद्धिविवेकम् अन्यच् च फलं प्रस्नुवानः तदधरतत्त्वभोगं प्रतिबध्नाति भोगमोक्षोभयोत्सुकस्य भोगे कर्मापेक्षो मोक्षे तु तन्निरपेक्षः इति सापेक्षनिरपेक्षः
SK
न च वाच्यं कस्मात् कस्मिंश्चिद् एव पुंसि शक्तिपात इति स एव परमेश्वरः तथा भाति इति सतत्त्वे को ऽसौ पुमान् नाम यदुद्देशेन विषयकृता चोदना इयम्
SK
स चायं शक्तिपातो नवधा तीव्रमध्यमन्दस्य उत्कर्षमाध्यस्थ्यनिकर्षैः पुनस् त्रैविध्यात् तत्र उत्कृष्टतीव्रात् तदैव देहपाते परमेशता मध्यतीव्रात् शास्त्राचार्यानपेक्षिणः स्वप्रत्ययस्य प्रातिभज्ञानोदयः यदुदये बाह्यसंस्कारं विनैव भोगापवर्गप्रदः प्रातिभो गुरुर् इत्य् उच्यते तस्य हि न समय्यादिकल्पना काचित् अत्रापि तारतम्यसद्भावः इच्छावैचित्र्यात् इति सत्य् अपि प्रातिभत्वे शास्त्राद्यपेक्षा संवादाय स्याद् अपि इति निर्भित्तिसभित्त्यादिबहुभेदत्वम् आचार्यस्य प्रातिभस्यागमेषु उक्तम् सर्वथा प्रतिभांशो बलीयान् तत्संनिधौ अन्येषाम् अनधिकारात्
SK
भेददर्शन इव अनादिशिवसंनिधौ मुक्तशिवानां सृष्टिलयादिकृत्येषु मन्दतीव्रात् शक्तिपातात् सद्गुरुविषया यियासा भवति असद्गुरुविषयायां तु तिरोभाव एव असद्गुरुतस् तु सद्गुरुगमनं शक्तिपाताद् एव
SK
सद्गुरुस् तु समस्तैतच्छास्त्रतत्त्वज्ञानपूर्णः साक्षात् भगवद्भैरवभट्टारक एव योगिनो ऽपि स्वभ्यस्तज्ञानतयैव मोचकत्वे तत्र योग्यत्वस्य सौभाग्यलावण्यादिमत्त्वस्येवानुपयोगात्
SK
असद्गुरुस् तु अन्यः सर्व एव
SK
एवं यियासुः गुरोः ज्ञानलक्षणां दीक्षां प्राप्नोति यया सद्य एव मुक्तो भवति जीवन्न् अपि अत्र अवलोकनात् कथनात् शास्त्रसम्बोधनात् चर्यादर्शनात् चरुदानात् इत्यादयो भेदाः
SK
अभ्यासवतो वा तदानीं सद्य एव प्राणवियोजिकां दीक्षां लभते सा तु मरणक्षण एव कार्या इति वक्ष्याम इति
SK
तीव्रास् त्रिधा उत्कृष्टमध्यात् शक्तिपातात् कृतदीक्षाको ऽपि स्वात्मनः शिवतायां न तथा दृढप्रतिपत्तिः भवति प्रतिपत्तिपरिपाकक्रमेण तु देहान्ते शिव एव मध्यमध्यात् तु शिवतोत्सुको ऽपि भोगप्रेप्सुः भवति इति तथैव दीक्षायां ज्ञानभाजनम् स च योगाभ्यासलब्धम् अनेनैव देहेन भोगं भुक्त्वा देहान्ते शिव एव
SK
निकृष्टमध्यात् तु देहान्तरेण भोगं भुक्त्वा शिवत्वम् एति इति
SK
मध्यस् तु त्रिधा भोगोत्सुकता यदा प्रधानभूता तदा मन्दत्वं पारमेश्वरमन्त्रयोगोपायतया यतस् तत्र औत्सुक्यम् पारमेशमन्त्रयोगादेश् च यतो मोक्षपर्यन्तत्वम् अतः शक्तिपातरूपता
SK
तत्रापि तारतम्यात् त्रैविध्यम् इत्य् एष मुख्यः शक्तिपातः
SK
वैष्णवादीनां तु राजानुग्रहवत् न मोक्षान्तता इति न इह विवेचनम्
SK
शिवशक्त्यधिष्ठानं तु सर्वत्र इति उक्तम् सा परं ज्येष्ठा न भवति अपि तु घोरा घोरतरा वा स एष शक्तिपातो विचित्रो ऽपि तारतम्यवैचित्र्यात् भिद्यते कश्चिद् वैष्णवादिस्थः समय्यादिक्रमेण स्रोतःपञ्चके च प्राप्तपरिपाकः सर्वोत्तीर्णभगवत्षडर्धशास्त्रपरमाधिकारिताम् एति अन्यस् तु उल्लङ्घनक्रमेण अनन्तभेदेन को ऽपि अक्रमम् इति अत एव अधराधरशासनस्था गुरवो ऽपि इह मण्डलमात्रदर्शने ऽपि अनधिकारिणः ऊर्ध्वशासनस्थस् तु गुरुः अधराधरशासनं प्रत्युत प्राणयति पूर्णत्वात् इति सर्वाधिकारी
SK
स च दैशिको गुरुः आचार्यो दीक्षकः चुम्बकः स चायं पूर्णज्ञान एव सर्वोत्तमः तेन विना दीक्षाद्यसम्पत्तेः
SK
योगी तु फलोत्सुकस्य युक्तो यदि उपायोपदेशेन अव्यवहितम् एव फलं दातुं शक्तः उपायोपदेशेन तु ज्ञाने एव युक्तो मोक्षे ऽपि अभ्युपायात् ज्ञानपूर्णताकाङ्क्षी च बहून् अपि गुरून् कुर्यात्
SK
उत्तमोत्तमादिज्ञानभेदापेक्षया तेषु वर्तेत सम्पूर्णज्ञानगुरुत्यागे तु प्रायश्चित्तम् एव
SK
ननु सो ऽपि अब्रुवन् विपरीतं वा ब्रुवन् किं न त्याज्यः नैव इति ब्रूमः तस्य हि पूर्णज्ञानत्वात् एव रागाद्यभाव इति अवचनादिकं शिष्यगतेनैव केनचित् अयोग्यत्वानाश्वस्तत्वादिना निमित्तेन स्यात् इति तदुपासने यतनीयं शिष्येण न तत्त्यागे
SK
एवम् अनुग्रहनिमित्तं शक्तिपातो निरपेक्ष एव कर्मादिनियत्यपेक्षणात्
SK
तिरोभाव इति तिरोभावो हि कर्माद्यपेक्षगाढदुःखमोहभागित्वफलः यथाहि प्रकाशस्वातन्त्र्यात् प्रबुद्धो ऽपि मूढवत् चेष्टते हृदयेन च मूढचेष्टां निन्दति तथा मूढो ऽपि प्रबुद्धचेष्टां मन्त्राराधनादिकां कुर्यात् निन्देच् च यथा च अस्य मूढचेष्टा क्रियमाणापि प्रबुद्धस्य ध्वंसम् एति तथा अस्य प्रबुद्धचेष्टा सा तु निन्द्यमाना निषिद्धाचरणरूपत्वात् स्वयं च तयैव विशङ्कमानत्वात् एनं दुःखमोहपङ्के निमज्जयति न तु उत्पन्नशक्तिपातस्य तिरोभावो ऽस्ति अत्रापि च कर्माद्यपेक्षा पूर्ववत् निषेध्या तत्रापि च इच्छावैचित्र्यात् एतद् देहमात्रोपभोग्यदुःखफलत्वं वा दीक्षासमयचर्यागुरुदेवाग्न्यादौ सेवानिन्दनोभयप्रसक्तानाम् इव प्राक् शिवशासनस्थानां तत्त्यागिनाम् इव
SK
तत्रापि इच्छावैचित्र्यात् तिरोभूतो ऽपि स्वयं वा शक्तिपातेन युज्यते मृतो वा बन्धुगुर्वादिकृपामुखेन इत्य् एवं कृत्यभागित्वं स्वात्मनि अनुसंदधत् परमेश्वर एव इति न खण्डितम् आत्मानं पश्येत्

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrasāra: Based on the Nirnaya Sagara / KSTS 17 edition; input by Oliver Hellwig.

Source