SKस्वभ्यस्तज्ञानिनं साधकत्वे गुरुत्वे वा अभिषिञ्चेत् यतः सर्वलक्षणहीनो ऽपि ज्ञानवान् एव साधकत्वे अनुग्रहकरणे च अधिकृतः न अन्यः अभिषिक्तो ऽपि
SKस्वाधिकारसमर्पणे गुरुः दीक्षादि अकुर्वन् अपि न प्रत्यवैति पूर्वं तु प्रत्यवायेन अधिकारबन्धेन विद्येशपददायिना बन्ध एव अस्य दीक्षाद्यकरणम् सो ऽभिषिक्तो मन्त्रदेवतातादात्म्यसिद्धये षाण्मासिकं प्रत्यहं जपहोमविशेषपूजाचरणेन विद्याव्रतं कुर्यात् तदनन्तरं लब्धतन्मयीभावो दीक्षादौ अधिकृतः तत्र न अयोग्यान् दीक्षेत न च योग्यं परिहरेत् दीक्षितम् अपि ज्ञानदाने परीक्षेत छद्मगृहीतज्ञानम् अपि ज्ञात्वा उपेक्षेत अत्र च अभिषेकविभवेन देवपूजादिकम्