Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 1: prathamamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः / तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम सस्फुरतात् // १
SK
नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम् / मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् // २
SK
नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते / प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम् // ३
SK
दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् / स्ताज्ज्ञानशूलं सत्पक्षविपक्षोत्कर्तनक्षमम् // ४
SK
स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः / तदेव देवीत्रयमन्तरास्तामनुत्तरं मे प्रथयत्स्वरूपम् // ५
SK
तद्देवताविभवभाविमहामरीचिचक्रेश्वरायितनिजस्थितिरेक एव / देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम् // ६
SK
रागारुणां ग्रन्थिबिलावकीर्ण यो जालमातानवितानवृत्ति / कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः // ७
SK
त्रैयम्बकाभिहितसन्ततिताम्रपर्णीसन्मौक्तिकप्रकरकान्तिविशेषभाजः / पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धुकल्लोलकेलिकलनामलकर्णधाराः // ८
SK
जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः / तदपरमूर्तिर्भगवान् महेश्वरो भूतिराजश्च // ९
SK
श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः / जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः // १०
SK
तदास्वादभरावेशबृंहितां मतिषट्पदीम् / गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः // ११
SK
यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः / स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः // १२
SK
जयताज्जगदुद्धृतिक्षमोसौ भगवत्या सह शंभुनाथ एकः / यदुदीरितशासनांशुभिर्मे प्रकटोयं गहनोपि शास्त्रमार्गः // १३
SK
सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा / अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते // १४
SK
इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः / अर्थितो रचये स्पष्टां पूर्णार्था प्रक्रियामिमाम् // १५
SK
श्रीभट्टनाथचरणाब्जयुगात्तथा श्रीभट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या / बोधान्यपाशविषनुत्तदुपासनोत्थबोधोज्ज्वलोभिनवगुप्त इदं करोति // १६
SK
न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे / देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः // १७
SK
दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः / तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम् // १८
SK
अतोत्रान्तर्गतं सर्व संप्रदायोज्झितैर्बुधैः / अदृष्ट प्रकटीकुर्मो गुरुनाथाज्ञया वयम् // १९
SK
अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या / त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति // २०
SK
श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसंकोचम् / अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः // २१
SK
आदिवाक्यं
SK
इह तावत्समस्तेषु शास्त्रेषु परिगीयते / अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम् // २२
SK
मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् / इति प्रोक्तं तथा व श्रीमलिनीविजयोत्तरे // २३
SK
विशेषणेन बुद्धिस्थे संसारोत्तरकालिके / संभावनां निरस्यैतदभावे मोक्षमब्रवीत् // २४
SK
अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः / स हि लोष्टादिकेप्यस्ति न च तस्यास्ति संसृतिः // २५
SK
अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् / ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम् // २६
SK
चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः / संश्लेषेतरयोगाश्यामयमर्थः प्रदर्शितः // २७
SK
चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् / अनाक्षिप्रविशेषं सदाह सूत्रे पुरातने // २८
SK
द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा / ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते // २९
SK
द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते / तत एव समुच्छेद्यमित्यावृत्त्यानिरूपितम् // ३०
SK
स्वतन्त्रात्मातिरिक्तस्तु तुच्छो तुच्छोपि कश्चन / न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते // ३१
SK
यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम् / तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् // ३२
SK
रागाद्यकलुषोस्म्यन्तःशून्योहं कर्तृतोज्झितः / इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः // ३३
SK
तस्मान्मुक्तोप्यवच्छेदादवच्छेदान्तरस्थितेः / अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः // ३४
SK
यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् / अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् // ३५
SK
ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः / द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने // ३६
SK
तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यय / स्वपूर्णचित्क्रियारूपशिवतावरणात्मकम् // ३७
SK
संकोचिदृक्क्रियारूपं तत्पशोरविकल्पितम् / तदज्ञानं न बुद्घ्यंशोध्यवसायाद्यभावतः // ३८
SK
अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी / षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा // ३९
SK
धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् / बौद्धं तस्य च तत्पौंस्नं पोषणीयं च पोष्टृच // ४०
SK
क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः / विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् // ४१
SK
विकस्वराविकल्पात्मज्ञानौचित्येन यावसा / तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च // ४२
SK
तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि / तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् // ४३
SK
बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् / विलीयते तदा जीवन्मुक्तिः करतले स्थिता // ४४
SK
दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका / तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता // ४५
SK
ज्ञानाज्ञानागतं चैतद्द्वित्वं स्वायम्भुवे रुरौ / मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः // ४६
SK
तथाविधावसायात्मबौद्धविज्ञानसम्पदे / शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम् // ४७
SK
दीक्षया गलितेप्यन्तरज्ञाने पौरुषात्मनि / धीगतस्यानिवृत्तत्वाद्विकल्पोपि हि संभवेत // ४८
SK
देहसद्भावपर्यन्तमात्मभावो यतो धियि / देहान्तेपि न मोक्षः स्यात्पौरुषाज्ञानहानितः // ४९
SK
बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम् / तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने // ५०
SK
विकल्पयुक्तचितस्तु पिण्डपाताच्छिवं ब्रजेत् / इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः // ५१
SK
ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः / नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा // ५२
SK
अवस्तुतापि भावानां चमत्कारैकगोचरा / यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि // ५३
SK
प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते / अनपह्नवनीयत्वात् किं तस्मिन्मानकल्पनैः // ५४
SK
प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते / तेषामपि परो जीवः स एव परमेश्वरः // ५५
SK
सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते / ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते // ५६
SK
अपह्नुतौ साधने वा वस्तूनामाद्यमीदृशम् / यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते // ५७
SK
[५८ मिस्सिन्ग्]//
SK
कामिके तत एवोक्तं हेतुवादविवर्जितम् / तस्य देवातिदेवस्य परापेक्षा न विद्यते // ५९
SK
परस्य तदपेक्षत्वात्स्वतन्त्रोयमतः स्थितः / अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः // ६०
SK
नियता नेति स विभुर्नित्यो विश्वाकृतिः शिवः / विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः // ६१
SK
विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः / ततोस्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके // ६२
SK
भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च / बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते // ६३
SK
यो यदात्मकतानिष्ठस्तद्भावं स प्रपद्यते / व्योमादिशब्दविज्ञानात्परो मोक्षो न संशयः // ६४
SK
विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम् / अनवच्छिन्नतारूढाववच्छेदलयेस्य च // ६५
SK
उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः / जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम् // ६६
SK
न चास्य विमुताद्योयं धर्मोन्योन्यं विभिद्यते / एक एवास्य धर्मोसौ सर्वाक्षेपेण वर्तते // ६७
SK
तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः / बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता // ६८
SK
शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् / तेनाद्वयः स एवापि शक्तिमत्परिकल्पने // ६९
SK
मातृक्लृप्ते हि देवस्य तत्र तत्र वपुष्यलम् / को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव // ७०
SK
न वासौ परमार्थेन न किंचिद्भासनादृते / नह्यस्ति किंचित्तच्छक्तितद्वद्भेदोपि वास्तवः // ७१
SK
स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि यत् / शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी // ७२
SK
शिवश्चालुप्तविभवस्तथा सृष्टोवभासते / स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु // ७३
SK
तस्माद्येन मुखेनैष भात्यनंशोपि तत्तथा / शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः // ७४
SK
श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम् / अनुभावो विकल्पोपि मानसो न मनः शिवे // ७५
SK
अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम् / क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः // ७६
SK
रसाद्यनध्यक्षत्वेपि रूपादेव यथा तरुम् / विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम् // ७७
SK
बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान् / कलातत्त्वपुरार्णाणुपदादिर्भेदविस्तरः // ७८
SK
सृष्टिस्थितितिरोधानसंहारानुग्रहादि च / तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम् // ७९
SK
जाग्रत्स्वप्नसुषुप्तान्यतदतीतानि यान्यपि / तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः // ८०
SK
महामन्त्रेशमन्त्रेशमन्त्राः शिवपुरोगमाः / अकलौ सकलश्चेति शिवस्यैव विभूतयः // ८१
SK
तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान् / आत्मैव हि स्वभावात्मेत्युक्तं श्रीत्रिशिरोमते // ८२
SK
हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् / सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् // ८३
SK
आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः / प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः // ८४
SK
स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति / विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः // ८५
SK
ग्रामधर्मवृत्तिरुक्तस्तस्य सर्वं प्रसिद्ध्यति / ऊर्ध्व त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः // ८६
SK
गतिः स्थानं स्वप्नजाग्रदुन्मेषणनिमेषणे / धावनं प्लवनं चैव आयासः शक्तिवेदनम् // ८७
SK
बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः / एष रामो व्यापकोत्र शिवः परमकारणम् // ८८
SK
कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् / ध्यायते परमं ध्येयं गमागमपदे स्थितम् // ८९
SK
परं शिवं तु व्रजति भैरवाख्यं जपादपि / तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः // ९०
SK
तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः / दूरासन्नादिको भेदश्चित्स्वातन्त्र्यव्यपेक्षया // ९१
SK
एवं स्वातन्त्र्यपूर्णत्वादतिदुर्घटकार्ययम् / केन नाम न रूपेण भासते परमेश्वरः // ९२
SK
निरावरणमाभाति भात्याबृतनिजात्मकः / आवृतानावृतो भाति बहुधा भेदसंगमात् // ९३
SK
इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम् / इच्छादिभिरभिख्याभिर्गुरुभिः प्रकटीकृतम् // ९४
SK
देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते / महाभैरवदेवोयं पतिर्यः परमः शिवः // ९५
SK
विश्वं बिभर्ति पूरणधारणयोगेन तेन च श्रियते / सविमर्शतया रव रूपतश्च संसारभीरुहितकृच्च // ९६
SK
संसारभीतिजनिताद्रवात्परामर्शतोपि हृदि जातः / प्रकटीभूतं भवभयविमर्शनं शक्तिपाततो येन // ९७
SK
नक्षत्रप्रेरककालतत्त्वसंशोषकारिणो ये च / कालग्राससमाधानरसिकमनःसु तेषु च प्रकटः // ९८
SK
संकोचिपशुजनभिये यासां रवणं स्वकरणदेवीनाम् / अन्तर्बहिश्चतुर्विधखेचर्यादिकगणस्यापि // ९९
SK
तस्य स्वामी संसारवृत्तिविघटनमहाभीमः / भैरव इति गुरुभिरिमैरन्वर्थैः संस्तुतः शास्त्रे // १००
SK
हेयोपादेयकथाविरहे स्वानन्दघनतयोच्छलनम् / क्रीडा सर्वोत्कर्षेणवर्तनेच्छा तथा स्वतन्त्रत्वम् // १०१
SK
व्यवहरणमभिन्नेपि स्वात्मनि भेदेन संजल्पः / निखिलावभासनाच्च द्योतनमस्य स्तुतिर्यतः सकलम् // १०२
SK
तत्प्रवणमात्मलाभात्प्रभृति समस्तेपि कर्तव्ये / बोधात्मकः समस्तक्रियामयो दृक्क्रियागुणश्च गतिः // १०३
SK
इति निर्वचनैः शिवतनुशास्त्रे गुरुभिः स्मृतो देवः / शासनरोधनपालनपाचनयोगात्स सर्वमुपकुरुते / तेन पतिः श्रेयोमय एव शिवो नाशिवं किमपि तत्र // १०४
SK
ईदृग्रूपं कियदपि रुद्रोपेन्द्रादिषु स्फुरेद्येन / तेनावच्छेदनुदे परममहत्पदविशेषणमुपात्तम् // १०५
SK
इति यज्ज्ञेयसतत्त्वं दर्श्यते तच्छिवाज्ञया / मया स्वसंवित्सत्तर्कपतिशास्त्रत्रिकक्रमात् // १०६
SK
तस्य शक्तय एवैतास्तिस्रो भान्ति परादिकाः / सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः // १०७
SK
तावान्पूर्णस्वभावोसौ परमः शिव उच्यते / तेनात्रोपासकाः साक्षात्तत्रैव परिनिष्ठिताः // १०८
SK
तासामपि च भेदांशन्यूनाधिक्यादियोजनम् / तत्स्वातन्त्र्यबलादेव शास्त्रेषु परिभाषितम् // १०९
SK
एकवीरो यामलोथ त्रिशक्तिश्चतुरात्मकः / पञ्चमूर्तिः षडात्मायं सप्तकोष्टकभूषितः // ११०
SK
नवात्मा दशदिक्छक्तिरेकादशकलात्मकः / द्वादशारमहाचक्रनायको भैरवस्त्विति // १११
SK
एवं यावत्सहस्रारे निःसंख्यारेपि वा प्रभुः / विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते // ११२
SK
तेषामपि च चक्राणा स्ववर्गानुगमात्मना / ऐक्येन चक्रगो भेदस्तत्र तत्र निरूपितः // ११३
SK
चतुष्षड्द्विर्द्विगणनायोगात्त्रैशिरसे मते / षट्चक्रेश्वरता नाथस्योक्ता चित्रनिजाकृतेः // ११४
SK
नामानि चक्रदेवीनां तत्र कृत्यविभेदतः / सौम्यरौद्राकृतिध्यानयोगीन्यन्वर्थकल्पनात् // ११५
SK
एकस्य संविन्नाथस्य ह्यान्तरी प्रतिभा तनुः / सौम्यं वान्यन्मितं संविदूर्मिचक्रमुपास्यते // ११६
SK
अस्य स्यात्पुष्टिरित्येषा संविद्देवी तथोदितात् / ध्यानात्संजल्पसंमिश्राद् व्यापाराच्चापि बाह्यतः // ११७
SK
स्फुटीभूता सती भाति तस्य तादृक्फलप्रदा / पुष्टिः शुष्कस्य सरसीभावो जलमतः सितम् // ११८
SK
अनुगम्य ततो ध्यानं तत्प्रधानं प्रतन्यते / ये च स्वभावतो वर्णा रसनिःष्यन्दिनो यथा // ११९
SK
दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वर्णैः कृताः सह / तं बीजभावमागत्य संविदं स्फुटयन्ति ताम् // १२०
SK
पुष्टिं कुरु रसेनैनमाप्यायय तरामिति / संजल्पोपि विकल्पात्मा किं तामेव न पूरयेत् // १२१
SK
अमृतेयमिदं क्षीरमिदं सर्पिर्बलावहम् / तेनास्य बीजं पुष्णीयामित्येनां पूरयेत्क्रियाम् // १२२
SK
तस्माद्विश्वेश्वरो बोधभैरवः समुपास्यते / अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिर्जनैः // १२३
SK
येप्यन्यदेवताभक्ता इत्यतो गुरुरादिशत् / ये बोधाद्व्यतिरिक्तं हि किंचिद्याज्यतया विदुः // १२४
SK
तेपि वेद्यं विविञ्चाना बोधाभेदेन मन्वते / तेनाविच्छिन्नतामर्शरूपाहन्ताप्रथात्मनः // १२५
SK
स्वयं-प्रथस्य न विधिः सृष्ट्यात्मास्य च पूर्वगः / वेद्या हि देवतासृष्टिः शक्तेर्हेतोः समुत्थिता // १२६
SK
अहंरूपा तु संवित्तिर्नित्या स्वप्रथनात्मिका / विधिर्नियोगस्त्र्यंशा च भावना चोदनात्मिका // १२७
SK
तदेकसिद्धा इन्द्राद्या विधिपूर्वा हि देवताः / अहंबोधस्तु न तथा ते तु संवेद्यरूपताम् // १२८
SK
उन्मग्नामेव पश्यन्तस्तं विदन्तोपि नो विदुः / तदुक्तं न विदुर्मां तु तत्त्वेनातश्चलन्ति ते // १२९
SK
चलनं तु व्यवच्छिन्नरूपतापत्तिरेव या / देवान्देवयजो यान्तीत्यादि तेन न्यरूप्यत // १३०
SK
निमज्ज्य वेद्यतां ये तु तत्र संविन्मयीं स्थितिम् / विदुस्ते ह्यनवच्छिन्नं तद्भक्ता अपि यान्ति माम् // १३१
SK
सर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः / स भोक्तृप्रभुशब्दाभ्यां याज्ययष्ट्टतयोदितः // १३२
SK
याजमानी संविदेव याज्या नान्येति चोदितम् / न त्वाकृतिः कुतोप्यन्या देवता न हि सोचिता // १३३
SK
विधिश्च नोक्तः कोप्यत्र मन्त्रादि वृत्तिधाम वा / सोयमात्मानमावृत्य स्थितो जडपदं गतः // १३४
SK
आवृतानावृतात्मा तु देवादिस्थावरान्तगः / जडाजडस्याप्येतस्य द्वैरूप्यस्यास्ति चित्रता // १३५
SK
तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत् / तदुक्तं त्रिशिरःशास्त्रे संबुद्ध इति वेत्ति यः // १३६ ज्ञेयभावो हि चिद्धर्मस्तच्छायाच्छादयेन्न ताम् // १३६च् /
SK
तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः / अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् // १३७
SK
संविद्रूपे न भेदोस्ति वास्तवो यद्यपि ध्रुवे / तथाप्यावृतिनिर्हासतारतम्यात्स लक्ष्यते // १३८
SK
तद्विस्तरेण वक्ष्यामः शक्तिपातविनिर्णये / समाप्य परतां स्थौल्यप्रसंगे चर्चयिष्यते // १३९
SK
अतः कंचित्प्रमातारं प्रति प्रथयते विभुः / पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् // १४०
SK
विश्वभावैकभावात्मस्वरूपप्रथनं हि यत् / अणूनां तत्परं ज्ञानं तदन्यदपरं बहु // १४१
SK
तच्च साक्षादुपायेन तदुपायादिनापि च / प्रथमानं विचित्राभिर्भंगीभिरिह भिद्यते // १४२
SK
तत्रापि स्वपरद्वारद्वारित्वात्सर्वश्ॐशशः / व्यवधानाव्यवधिना भूयान्भेदः प्रवर्तते // १४३
SK
ज्ञानस्य चाभ्युपायो यो न तदज्ञानमुच्यते / ज्ञानमेव तु तत्सूक्ष्मं परं त्विच्छात्मकं मतम् // १४४
SK
उपायोपेयभावस्तु ज्ञानस्य स्थौल्यविश्रमः / एषैव च क्रियाशक्तिर्बन्धमोक्षैककारणम् // १४५
SK
तत्राद्ये स्वपरामर्शे निर्विकल्पैकधामनि / यत्स्फुरेत्प्रकटं साक्षात्तदिच्छाख्यं प्रकीर्तितम् // १४६
SK
यथा विस्फुरितदृशामनुसन्धिं विनाप्यलम् / भाति भावः स्फुटस्तद्वत्केषामपि शिवात्मता // १४७
SK
भूयो भूयो विकल्पांशनिश्चयक्रमचर्चनात् / यत्परामर्शमभ्येति ज्ञानोपायं तु तद्विदुः // १४८
SK
यत्तु तत्कल्पनाक्लृप्तबहिर्भूतार्थसाधनम् / क्रियोपायं तदाम्नातं भेदो नात्रापवर्गगः // १४९
SK
यतो नान्या क्रिया नाम ज्ञानमेव हि तत्तथा / रूढेर्योगान्ततां प्राप्तमिति श्रीगमशासने // १५०
SK
योगो नान्यः क्रिया नान्या तत्त्वारूढा हि या मतिः / स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते // १५१
SK
स्वचित्ते वासनाः कर्ममलमायाप्रसूतयः / तासां शान्तिनिमित्तं या मतिः संवित्स्वभाविका // १५२
SK
सा देहारम्भिबाह्यस्थतत्त्वब्राताधिशायिनी / क्रिया सैव च योगः स्यात्तत्त्वानां चिल्लयीकृतौ // १५३
SK
लोकेपि किल गच्छामीत्येवमन्तः स्फुरैव या / सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया // १५४
SK
तस्मात्क्रियापि या नाम ज्ञानमेव हि सा ततः / ज्ञानमेव विमोक्षाय युक्तं चैतदुदाहृतम् // १५५
SK
मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः / स्वरूपं चात्मनः संविन्नान्यत्तत्र तु याः पुनः // १५६
SK
क्रियादिकाः शक्तयस्ताः संविद्रूपाधिका नहि / असंविद्रूपतायोगाद्धर्मिणश्चानिरूपणात् // १५७
SK
परमेश्वरशास्त्रे हि न च काणाददृष्टिवत् / शक्तीनां धर्मरूपाणामाश्रयः कोपि कथ्यते // १५८
SK
ततश्च दृक्क्रियेच्छाद्या भिन्नाश्चेच्छक्तयस्तथा / एकः शिव इतीयं वाग्वस्तुशून्यैव जायते // १५९
SK
तस्मात्संवित्त्वमेवैतत्स्वातन्त्र्यं यत्तदप्यलम् / विविच्यमानं बह्वीषु पर्यवस्यति शक्तिषु // १६०
SK
यतश्चात्मप्रथा मोक्षस्तन्नेहाशङ्क्यमीदृशम् / नावश्यं कारणात्कार्य तज्ज्ञान्यपि न मुच्यते // १६१
SK
यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता / न सा मुख्या ततो नायं प्रसंग इति निश्चितम् // १६२
SK
एवं ज्ञानस्वभावैव क्रिया स्थूलत्वमात्मनि / यतो वहति तेनास्यां चित्रता दृश्यतां किल // १६३
SK
क्रियोपायेभ्युपायानां ग्राह्यबाह्यविभेदिनाम् / भेदोपभेदवैविध्यान्निःसंख्यत्वमवान्तरात् // १६४
SK
अनेन चैतत्प्रध्वस्तं यत्केचन शशङ्किरे / उपायभेदान्मोक्षेपि भेदः स्यादिति सूरयः // १६५
SK
मलतच्छक्तिविध्वंसतिरोभूच्युतिमध्यतः / हेतुभेदेपि नो भिन्ना घटध्वंसादिवृत्तिवत् // १६६
SK
तदेतत्त्रिविधत्वं हि शास्त्रे श्रीपूर्वनामनि / आदेशि परमेशित्रा समावेशविनिर्णये // १६७
SK
अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः / उत्पद्यते य आवेशः शाम्भवोसाविदीरितः // १६८
SK
उच्चाररहितं वस्तु चेतसैव विचिन्तयन् / यं समावेशमाप्नोति शाक्तः सोत्राभिधीयते // १६९
SK
उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः / यो भवेत्स समावेशः सम्यगाणव उच्यते // १७०
SK
अकिंचिच्चिन्तकस्येति विकल्पानुपयोगिता / तया च झटिति ज्ञेयसमापत्तिर्निरूप्यते // १७१
SK
सा कथं भवतीत्याह गुरुणातिगरीयसा / ज्ञेयाभिमुखबोधेन द्राक्प्ररूढत्वशालिना // १७२
SK
तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः / आवेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् // १७३
SK
परतद्रूपता शम्भोराद्याच्छक्त्यविभागिनः / तेनायमत्र वाक्यार्थो विज्ञेयं प्रोन्मिषत्स्वयम् // १७४
SK
विनापि निश्चयेन द्राक् मातृदर्पणबिम्बितम् / मातारमधरीकुर्वत् स्वां विभूतिं प्रदर्शयत् // १७५
SK
आस्ते हृदयनैर्मल्यातिशये तारतम्यतः / ज्ञेयं द्विधा च चिन्मात्रं जडं चाद्यं च कल्पितम् // १७६
SK
इतरत्तु तथा सत्यं तद्विभागोयमीदृशः / जडेन यः समावेशः सप्रतिच्छन्दकाकृतिः // १७७
SK
चैतन्येन समावेशस्तादात्म्यं नापरं किल / तेनाविकल्पा संवित्तिर्भावनाद्यनपेक्षिणी // १७८
SK
शिवतादात्म्यमापन्ना समावेशोत्र शांभवः / तत्प्रसादात्पुनः पश्चाद्भाविनोत्र विनिश्चयाः // १७९
SK
सन्तु तादात्म्यमापन्ना न तु तेषामुपायता / विकल्पापेक्षया मानमविकल्पमिति ब्रुवन् // १८०
SK
प्रत्युक्त एव सिद्धं हि विकल्पेनानुगम्यते / गृहीतमिति सुस्पष्टा निश्चयस्य यतः प्रथा // १८१
SK
गृह्णामीत्यविकल्पैक्यबलात्तु प्रतिपद्यते / अविकल्पात्मसंवित्तौ या स्फुरत्तैव वस्तुनः // १८२
SK
सा सिद्धिर्न विकल्पात्तु वस्त्वपेक्षाविवर्जितात् / केवलं संविदः सोयं नैर्मल्येतरविश्रमः // १८३
SK
यद्विकल्पानपेक्षत्वसापेक्षत्वे निजात्मनि / निशीथेपि मणिज्ञानी विद्युत्कालप्रदर्शितान् // १८४
SK
तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि / नैर्मल्यं संविदश्चेदं पूर्वाभ्यासवशादथो // १८५
SK
अनियन्त्रेश्वरेच्छात इत्येतच्चर्चयिष्यते / पञ्चाशद्विधता चास्य समावेशस्य वर्णिता // १८६
SK
तत्त्वषट्त्रिंशकैतत्स्थस्फुटभेदाभिसन्धितः / एतत्तत्त्वान्तरे यत्पुंविद्याशक्त्यात्मकं त्रयम् // १८७
SK
अम्भोधिकाष्ठाज्वलनसंख्यैर्भेदैर्यतः क्रमात् / पुंविद्याशक्तिसंज्ञं यत्तत्सर्वव्यापकं यतः // १८८
SK
अव्यापकेभ्यस्तेनेदं भेदेन गणितं किल / अशुद्धिशुद्ध्यमानत्वशुद्धितस्तु मिथोपि तत् // १८९
SK
भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः / तत्त्ववर्गात्पृथग्भूतसमाख्यान्यत एव हि // १९०
SK
सर्वप्रतीतिसद्भावगोचरं भूतमेव हि / विदुश्चतुष्टये चात्र सावकाशे तदास्थितिम् // १९१
SK
रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते / कोवकाशो भवेत्तत्र भौतावेशादिवर्णने // १९२
SK
प्रसंगादेतदितिचेत्समाधिः संभवन्नयम् / नास्माकं मानसावर्जी लोको भिन्नरुचिर्यतः // १९३
SK
उच्यते द्वैतशास्त्रेषु परमेशाद्विभेदिता / भूतादीनां यथा सात्र न तथा द्वयवर्जिते // १९४
SK
यावान्षट्त्रिंशकः सोयं यदन्यदपि किंचन / एतावती महादेवी रुद्रशक्तिरनर्गला // १९५
SK
तत एव द्वितीयेस्मिन्नधिकारे न्यरूप्यत / धरादेर्विश्वरूपत्वं पाञ्चदश्यादिभेदतः // १९६
SK
तस्माद्यथा पुरस्थेर्थे गुणाद्यंशांशिकामुखात् / निरंशभावसंबोधस्तथैवात्रापि बुध्यताम् // १९७
SK
अत एवाविकल्पत्वध्रौव्यप्राभववैभवैः / अन्यैर्वा शक्तिरूपत्वाद्धर्मैः स्वसमवायिभिः // १९८
SK
सर्वशोप्यथ वांशेन तं विभुं परमेश्वरम् / उपासते विकल्पौघसंस्काराद्ये श्रुतोत्थितात् // १९९
SK
ते तत्तत्स्वविकल्पान्तःस्फुरत्तद्धर्मपाटवात् / धर्मिणं पूर्णधर्मौघमभेदेनाधिशेरते // २००
SK
ऊचिवानत एव श्रीविद्याधिपतिरादरात् / त्वत्स्वरूपमविकल्पमक्षजा कल्पने न विषयीकरोति चेत् / अन्तरुल्लिखितचित्रसंविदो नो भवेयुरनुभूतयः स्फुटाः // २०१
SK
तदुक्तं श्रीमतङ्गादौ स्वशक्तिकिरणात्मकम् / अथ पत्युरधिष्ठानमित्याद्युक्तं विशेषणैः // २०२
SK
तस्यां दिवि सुदीप्तात्मा निष्कम्पोचलमूर्तिमान् / काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका // २०३
SK
प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा / आद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते // २०४
SK
तथोपचारस्यात्रैतन्निमितं सप्रयोजनम् / तन्मुखा स्फुटता धर्मिण्याशु तन्मयतास्थितिः // २०५
SK
त एव धर्माः शक्त्याख्यास्तैस्तैरुचितरूपकैः / आकारैः पर्युपास्यन्ते तन्मयीभावसिद्धये // २०६
SK
तत्र काचित्पुनः शक्तिरनन्ता वा मिताश्च वा / आक्षिपेद्धवतासत्त्वन्यायाद्दूरान्तिकत्वतः // २०७
SK
तेन पूर्णस्वभावत्वं प्रकाशत्वं चिदात्मता / भैरवत्वं विश्वशक्तीराक्षिपेद्व्यापकत्वतः // २०८
SK
सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधोजुषः / शक्तीः समाक्षिपेयुस्तदुपासान्तिकदूरतः // २०९
SK
इत्थं-भावे च शाक्ताख्यो वैकल्पिकपथक्रमः / इह तूक्तो यतस्तस्मात् प्रतियोग्यविकल्पकम् // २१०
SK
अविकल्पपथारूढो येन येन पथा विशेत् / धरासदाशिवान्तेन तेन तेन शिवीभवेत् // २११
SK
निर्मले हृदये प्राग्र्यस्फुरद्भूम्यंशभासिनि / प्रकाशे तन्मुखेनैव संवित्परशिवात्मता // २१२
SK
एवं परेच्छाशक्त्यंशसदुपायमिमं विदुः / शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः // २१३
SK
शाक्तोथ भण्यते चेतोधी-मनोहंकृति स्फुटम् / सविकल्पतया मायामयमिच्छादि वस्तुतः // २१४
SK
अभिमानेन संकल्पाध्यवसायक्रमेण यः / शाक्तः स मायोपायोपि तदन्ते निर्विकल्पकः // २१५
SK
पशोर्वै याविकल्पा भूर्दशा सा शाम्भवी परम् / अपूर्णा मातृदौरात्म्यात्तदपाये विकस्वरा // २१६
SK
एवं वैकल्पिकी भूमिः शाक्ते कर्तृत्ववेदने / यस्यां स्फुटे परं त्वस्यां संकोचः पूर्वनीतितः // २१७
SK
तथा संकोचसंभारविलायनपरस्य तु / सा यथेष्टान्तराभासकारिणी शक्तिरुज्ज्वला // २१८
SK
ननु वैकल्पिकी किं धीराणवे नास्ति तत्र सा / अन्योपायात्र तूच्चाररहितत्वं न्यरूपयत् // २१९
SK
उच्चारशब्देनात्रोक्ता बह्वन्तेन तदादयः / शक्त्युपाये न सन्त्येते भेदाभेदौ हि शक्तिता // २२०
SK
अणुर्नाम स्फुटो भेदस्तदुपाय इहाणवः / विकल्पनिश्चयात्मैव पर्यन्ते निर्विकल्पकः // २२१
SK
ननु धी-मानसाहंकृत्पुमांसो व्याप्नुयुः शिवम् / नाधोवर्तितया तेन कथितं कथमीदृशम् // २२२
SK
उच्यते वस्तुतोस्माकं शिव एव तथाविधः / स्वरूपगोपनं कृत्वा स्वप्रकाशः पुनस्तथा // २२३
SK
द्वैतशास्त्रे मतङ्गादौ चाप्येतत्सुनिरूपितम् / अधोव्याप्तुः शिवस्यैव स प्रकाशो व्यवस्थितः // २२४
SK
येन बुद्धि-मनोभूमावपि भाति परं पदम् // २२५
SK
द्वावप्येतौ समावेशौ निर्विकल्पार्णवं प्रति / प्रयात एव तद्रूढिं विना नैव हि किंचन // २२६
SK
संवित्तिफलभिच्चात्र न प्रकल्प्येत्यतोब्रवीत् / कल्पनायाश्च मुख्यत्वमत्रैव किल सूचितम् // २२७
SK
विकल्पापेक्षया योपि प्रामाण्यं प्राह तन्मते / तद्विकल्पक्रमोपात्तनिर्विकल्पप्रमाणता // २२८
SK
रत्नतत्त्वमविद्वान्प्राङ्निश्चयोपायचर्चनात् / अनुपायाविकल्पाप्तौ रत्नज्ञ इति भण्यते // २२९
SK
अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते / भेदाभेदात्मकोपायं भेदोपायं तदाणवम् // २३०
SK
अन्ते ज्ञानेत्र सोपाये समस्तः कर्मविस्तरः / प्रस्फुटेनैव रूपेण भावी सोन्तर्भविष्यति // २३१
SK
क्रिया हि नाम विज्ञानान्नान्यद्वस्तु क्रमात्मताम् / उपायवशतः प्राप्तं तत्क्रियेति पुरोदितम् // २३२
SK
सम्यग्ज्ञानं च मुक्त्येककारणं स्वपरस्थितम् / यतो हि कल्पनामात्रं स्वपरादिविभूतयः // २३३
SK
तुल्ये काल्पनिकत्वे च यदैक्यस्फुरणात्मकः / गुरुः स तावदेकात्मा सिद्धो मुक्तश्च भण्यते // २३४
SK
यावानस्य हि संतानो गुरुस्तावत्स कीर्तितः / सम्यग्ज्ञानमयश्चेति स्वात्मना मुच्यते ततः // २३५
SK
तत एव स्वसंतानं ज्ञानी तारयतीत्यदः / युक्त्यागमाभ्यां संसिद्धं तावानेको यतो मुनिः // २३६
SK
तेनात्र ये चोदयन्ति ननु ज्ञानाद्विमुक्तता / दीक्षादिका क्रिया चेयं सा कथं मुक्तये भवेत् // २३७
SK
ज्ञानात्मा सेति चेज्ज्ञानं यत्रस्थं तं विमोचयेत् / अन्यस्य मोचने वापि भवेत्किं नासमञ्जसम् / इति ते मूलतः क्षिप्ता यत्त्वत्रान्यैः समर्थितम् // २३८
SK
मलो नाम किल द्रव्यं चक्षुःस्थपटलादिवत् / तद्विहन्त्री क्रिया दीक्षा त्वञ्जनादिककर्मवत् // २३९
SK
तत्पुरस्तान्निषेत्स्यामो युक्त्यागमविगर्हितम् / मलमायाकर्मणां च दर्शयिष्यामहे स्थितिम् // २४०
SK
एवं शक्तित्रयोपायं यज्ज्ञानं तत्र पश्चिमम् / मूलं तदुत्तरं मध्यमुत्तरोत्तरमादिमम् // २४१
SK
ततोपि परमं ज्ञानमुपायादिविवर्जितम् / आनन्दशक्तिविश्रान्तमनुत्तरमिहोच्यते // २४२
SK
तत्स्वप्रकाशं विज्ञानं विद्याविद्येश्वरादिभिः / अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते // २४३
SK
मालिन्यां सूचितं चैतत्पटलेष्टादशे स्फुटम् / न चैतदप्रसन्नेन शंकरेणेति वाक्यतः // २४४
SK
इत्यनेनैव पाठेन मालिनीविजयोत्तरे / इति ज्ञानचतुष्कं यत्सिद्धिमुक्तिमहोदयम् / तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने // २४५
SK
तत्रेह यद्यदन्तर्वा बहिर्वा परिमृश्यते / अनुद्घाटितरूपं तत्पूर्वमेव प्रकाशते // २४६
SK
तथानुद्घाटिताकारा निर्वाच्येनात्मना प्रथा / संशयः कुत्रचिद्रूपे निश्चिते सति नान्यथा // २४७
SK
एतत्किमिति मुख्येस्मिन्नेतदंशः सुनिश्चितः / संशयोस्तित्वनास्त्यादिधर्मानुद्घाटितात्मकः // २४८
SK
किमित्येतस्य शब्दस्य नाधिकोर्थः प्रकाशते / किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् // २४९
SK
स्थाणुर्वा पुरुषो वेति न मुख्योस्त्येष संशयः / भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि // २५०
SK
आमर्शनीयद्वैरूप्यानुद्घाटनवशात्पुनः / संशयः स किमित्यंशे विकल्पस्त्वन्यथा स्फुटः // २५१
SK
तेनानुद्घाटितात्मत्वभावप्रथनमेव यत् / प्रथमं स इहोद्देशः प्रश्नः संशय एव च // २५२
SK
तथानुद्घाटिताकारभावप्रसरवर्त्मना / प्रसरन्ती स्वसंवित्तिः प्रष्ट्री शिष्यात्मतां गता // २५३
SK
तथान्तरपरामर्शनिश्चयात्मतिरोहितेः / प्रसरानन्तरोद्भूतसंहारोदयभागपि // २५४
SK
यावत्येव भवेद्बाह्यप्रसरे प्रस्फुटात्मनि / अनुन्मीलितरूपा सा प्रष्ट्री तावति भण्यते // २५५
SK
स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः / गुरुशिष्यपदेप्येष देहभेदो ह्यतात्त्विकः // २५६
SK
बोधो हि बोधरूपत्वादन्तर्नानाकृतीः स्थिताः / बहिराभासयत्येव द्राक्सामान्यविशेषतः // २५७
SK
स्रक्ष्यमाणविशेषांशाकांक्षायोग्यस्य कस्यचित् / धर्मस्य सृष्टिः सामान्यसृष्टिः सा संशयात्मिका // २५८
SK
स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा / निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः // २५९
SK
तस्याथ वस्तुनः स्वात्मवीर्याक्रमणपाटवात् / उन्मुद्रणं तयाकृत्या लक्षणोत्तरनिर्णयाः // २६०
SK
निर्णीततावद्धर्मांशपृष्ठपातितया पुनः / भूयो भूयः समुद्देशलक्षणात्मपरीक्षणम् // २६१
SK
दृष्टानुमानौपम्याप्तवचनादिषु सर्वतः / उद्देशलक्षणावेक्षात्रितयं प्राणिनां स्फुरेत् // २६२
SK
निर्विकल्पितमुद्देशो विकल्पो लक्षणं पुनः / परीक्षणं तथाध्यक्षे विकल्पानां परम्परा // २६३
SK
नगोयमिति चोद्देशो धूमित्वादग्निमानिति / लक्ष्यं व्याप्त्यादिविज्ञानजालं त्वत्र परीक्षणम् // २६४
SK
उद्देशोयमिति प्राच्यो गोतुल्यो गवयाभिधः / इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् // २६५
SK
स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम् / अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी // २६६
SK
विकल्पस्रक्ष्यमाणान्यरुचितांशसहिष्णुनः / वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता // २६७
SK
तदैव संविच्चिनुते यावतः स्रक्ष्यमाणता / यतो ह्यकालकलिता संधत्ते सार्वकालिकम् // २६८
SK
स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहृतिः / अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते // २६९
SK
तत्पृष्ठपातिभूय्ॐशसृष्टिसंहारविश्रमाः / परीक्षा कथ्यते मातृरुचिता कल्पितावधिः // २७०
SK
प्राक्पश्यन्त्यथ मध्यान्या वैखरी चेति ता इमाः / परा परापरा देवी चरमा त्वपरात्मिका // २७१
SK
इच्छादि शक्तित्रितयमिदमेव निगद्यते / एतत्प्राणित एवायं व्यवहारः प्रतायते // २७२
SK
एतत्प्रश्नोत्तरात्मत्वे पारमेश्वरशासने / परसंबन्धरूपत्वमभिसंबन्धपञ्चके // २७३
SK
यथोक्तं रत्नमालायां सर्वः परकलात्मकः / महानवान्तरो दिव्यो मिश्रोन्योन्यस्तु पञ्चमः // २७४
SK
भिन्नयोः प्रष्टृतद्वक्त्रोश्चैकात्म्यं यत्स उच्यते / संबन्धः परता चास्य पूर्णैकात्म्यप्रथामयी // २७५
SK
अनेनैव नयेन स्यात्संबन्धान्तरमप्यलम् / शास्त्रवाच्यं फलादीनां परिपूर्णत्वयोगतः // २७६
SK
इत्थं संविदियं देवी स्वभावादेव सर्वदा / उद्देशादित्रयप्राणा सर्वशास्त्रस्वरूपिणी // २७७
SK
तत्रोच्यते पुरोद्देशः पूर्वजानुजभेदवान् / विज्ञानभिद्गतोपायः परोपायस्तृतीयकः // २७८
SK
शाक्तोपायो नरोपायः कालोपायोथ सप्तमः / चक्रोदयोथ देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् // २७९
SK
कलाद्यध्वाध्वोपयोगः शक्तिपाततिरोहिती / दीक्षोपक्रमणं दीक्षा सामयी पौत्रिके विधौ // २८०
SK
प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः / तुलादीक्षाथ पारोक्षी लिङ्गोद्धारोभिषेचनम् // २८१
SK
अन्त्येष्टिः श्राद्धक्लृप्तिश्च शेषवृत्तिनिरूपणम् / लिङ्गार्चा बहुभित्पर्वपवित्रादि निमित्तजम् // २८२
SK
रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः / एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् // २८३
SK
आयातिकथनं शास्त्रोपादेयत्वनिरूपणम् / इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः // २८४
SK
आह्निकानां समभ्यस्येत् स साक्षाद्भैरवो भवेत् / सप्तत्रिंशत्सु संपूर्णबोधो यद्भैरवो भवेत् // २८५
SK
किं चित्रमणवोप्यस्य दृशा भैरवतामियुः / इत्येष पूर्वजोद्देशः कथ्यते त्वनुजोधुना // २८६
SK
विज्ञानभित्प्रकरणे भर्वस्योद्देशनं क्रमात् / द्वितीयस्मिन्प्रकरणे गतोपायत्वभेदिता // २८७
SK
विश्वचित्प्रतिबिन्बत्वं परामर्शोदयक्रमः / मन्त्राद्यभिन्नरूपत्वं परोपाये विविच्यते // २८८
SK
विकल्पसंस्क्रिया तर्कतत्त्वं गुरुसतत्त्वकम् / योगाङ्गानुपयोगित्वं कल्पितार्चाद्यनादरः // २८९
SK
संविच्चक्रोदयो मन्त्रवीर्य जप्यादि वास्तवम् / निषेधविधितुल्यत्वं शाक्तोपायेत्र चर्च्यते // २९०
SK
बुद्धिध्यानं प्राणतत्त्वसमुच्चारश्चिदात्मता / उच्चारः परतत्त्वान्तःप्रवेशपथलक्षणम् // २९१
SK
करणं वर्णतत्त्वं चेत्याणवे तु निरूप्यते / चारमानमहोरात्रसंक्रान्त्यादिविकल्पनम् // २९२
SK
संहारचित्रता वर्णोदयः कालाध्वकल्पने / चक्रभिन्मन्त्रविद्याभिदेतच्चक्रोदये भवेत् // २९३
SK
परिमाणं पुराणां च संग्रहस्तत्त्वयोजनम् / एतद्देशाध्वनिर्देशे द्वयं तत्त्वाध्वनिर्णये // २९४
SK
कार्यकारणभावश्च तत्त्वक्रमनिरूपणम् / वस्तुधर्मस्तत्त्वविधिर्जाग्रदादिनिरूपणम् // २९५
SK
प्रमातृभेद इत्येतत् तत्त्वभेदे विचार्यते / कलास्वरूपमेकत्रिपञ्चाद्यैस्तत्त्वकल्पनम् // २९६
SK
वर्णभेदक्रमः सर्वाधारशक्तिनिरूपणम् / कलाद्यध्वविचारान्तरेतावत्प्रविविच्यते // २९७
SK
अभेदभावनाकम्पहासौ त्वध्वोपयोजने / संख्याधिक्यं मलादीनां तत्त्वं शक्तिविचित्रता // २९८
SK
अनपेक्षित्वसिद्धिश्च तिरोभावविचित्रता / शक्तिपातपरीक्षायामेतावान्वाच्यसंग्रहः // २९९
SK
तिरोभावव्यपगमो ज्ञानेन परिपूर्णता / उत्क्रान्त्यनुपयोगित्वं दीक्षोपक्रमणे स्थितम् // ३००
SK
शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम् / सामान्यन्यासभेदोर्घपात्रं चैतत्प्रयोजनम् // ३०१
SK
द्रव्ययोग्यत्वमर्चा च बहिर्द्वारार्चनं क्रमात् / प्रवेशो दिक्स्वरूपं च देहप्राणादिशोधनम् // ३०२
SK
विशेषन्यासवैचित्र्यं सविशेषार्घभाजनम् / देहपूजा प्राणबुद्धिचित्स्वध्वन्यासपूजने // ३०३
SK
अन्यशास्त्रगणोत्कर्षः पूजा चक्रस्य सर्वतः / क्षेत्रग्रहः पञ्चगव्यं पूजनं भूगणेशयोः // ३०४
SK
अस्त्रार्चा वह्निकार्यं चाप्यधिवासनमग्निगम् / तर्पणं चरुसंसिद्धिर्दन्तकाष्ठान्तसंस्क्रिया // ३०५
SK
शिवहस्तविधिश्चापि शय्याक्लृप्तिविचारणम् / स्वप्नस्य सामयं कर्म समयाश्चेति संग्रहः // ३०६
SK
समयित्वविधावस्मिन्स्यात्पञ्चदश आह्निके / मण्डलात्मानुसन्धानं निवेद्यपशुविस्तरः // ३०७
SK
अग्नितृप्तिः स्वस्वभावदीपनं शिष्यदेहगः / अध्वन्यासविधिः शोध्यशोधकादिविचित्रता // ३०८
SK
दीक्षाभेदः परो न्यासो मन्त्रसत्ताप्रयोजनम् / भेदो योजनिकादेश्च षोडशे स्यादिहाह्निके // ३०९
SK
सूत्रक्लृप्तिस्तत्त्वशुद्धिः पाशदाहोथ योजनम् / अध्वभेदस्तथेत्येवं कथितं पौत्रिके विधौ // ३१०
SK
जननादिविहीनत्वं मन्त्रभेदोथ सुस्फुटः / इति संक्षिप्तदीक्षाख्ये स्यादष्टादश आह्निके // ३११
SK
कलावेक्षा कृपाण्यादिन्यासश्चारः शरीरगः / ब्रह्मविद्याविधिश्चैवमुक्तं सद्यःसमुत्क्रमे // ३१२
SK
अधिकारपरीक्षान्तःसंस्कारोथ तुलाविधिः / इत्येतद्वाच्यसर्वस्वं स्याद्विंशतितमाह्निके // ३१३
SK
मृतजीवद्विधिर्जालो पदेशः संस्क्रियागणः / बलाबलविचारश्चेत्येकविंशाह्निके विधिः // ३१४
SK
श्रवणं चाभ्यनुज्ञानं शोधनं पातकच्युतिः / शङ्काच्छेद इति स्पष्टं वाच्यं लिङ्गोद्धृतिक्रमे // ३१५
SK
परीक्षाचार्यकरणं तद्व्रतं हरणं मतेः / तद्विभागः साधकत्वमभिषेकविधौ त्वियत् // ३१६
SK
अधिकार्यथ संस्कारस्तत्प्रयोजनमित्यदः / चतुर्विंशेन्त्ययागाख्ये वक्तव्यं परिचर्च्यते // ३१७
SK
प्रयोजनं भोगमोक्षदानेनात्र विधिः स्फुटः / पञ्चविंशाह्निके श्राद्धप्रकाशे वस्तुसंग्रहः // ३१८
SK
प्रयोजनं शेषवृत्तेर्नित्यार्चा स्थण्डिले परा / लिङ्गस्वरूपं बहुधा चाक्षसूत्रनिरूपणम् // ३१९
SK
पूजाभेद इति वाच्यं लिङ्गार्चासंप्रकाशने / नैमित्तिकविभागस्तत्प्रयोजनविधिस्ततः // ३२०
SK
पर्वभेदास्तद्विशेषश्चक्रचर्चा तदर्चनम् / गुर्वाद्यन्तदिनाद्यर्चाप्रयोजननिरूपणम् // ३२१
SK
मृतेः परीक्षा योगीशीमेलकादिविधिस्तथा / व्याख्याविधिः श्रुतविधिर्गुरुपूजाविधिस्त्वियत् // ३२२
SK
नैमित्तिकप्रकाशाख्ये प्यष्टाविंशाह्निके स्थितम् / अधिकार्यात्मनो भेदः सिद्धपत्नीकुलक्रमः // ३२३
SK
अर्चाविधिर्दौतविधी रहस्योपनिषत्क्रमः / दीक्षाभिषेकौ बोधश्चेत्येकोनत्रिंश आह्निके // ३२४
SK
मन्त्रस्वरूपं तद्वीर्यमिति त्रिंशे निरूपितम् / शूलाब्जभेदो व्योमशस्वस्तिकादिनिरूपणम् // ३२५
SK
विस्तरेणाभिधातव्यमित्येकत्रिंश आह्निके / गुणप्रधानताभेदाः स्वरूपं वीर्यचर्चनम् // ३२६
SK
कलाभेद इति प्रोक्तं मुद्राणां संप्रकाशने / द्वात्रिंशतत्त्वादीशाख्यात्प्रभृति प्रस्फुटो यतः // ३२७
SK
न भेदोस्ति ततो नोक्तमुद्देशान्तरमत्र तत् / मुख्यत्वेन च वेद्यत्वादधिकारान्तरक्रमः // ३२८
SK
इत्युद्देशविधिः प्रोक्तः सुखसंग्रहहेतवे / अथास्य लक्षणावेक्षे निरूप्येते यथाक्रमम् // ३२९
SK
आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं स च निज महसश्छादनाद्बद्धरूपः / आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह यत्संग्रहेणार्थ एषः // ३३०
SK
मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम / यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का // ३३१
SK
भावव्रात? हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे / यस्त्वामाह जडं जडः सहृदयंमन्यत्वदुःशिक्षितो मन्येमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् // ३३२
SK
इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते / गुरवः प्रविचारणे यतस्तद्विफला द्वेषकलंकहानियाच्ञा // ३३३
SK
:E तन्त्रालोकेभिनवरचितेमुत्र विज्ञानसत्ताभेदोद्गारप्रकटनपटावाह्निकेस्मिन्समाप्तिः /

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya