SKअथ दीक्षां ब्रुवे मूढजनाश्वासप्रदायिनीम् // १
SKत्रिकोणे वह्निसदने वह्निवर्णोज्ज्वलेभितः / वायव्यपुरनिर्धूते करे सव्ये सुजाज्वले // २
SKबीजं किंचिद्गृहीत्वैतत्तथैव हृदयान्तरे / करे च दह्यमानं सच्चिन्तयेत्तज्जपैकयुक् // ३
SKवह्निदीपितफट्कारधोरणीदाहपीडितम् / बीजं निर्बीजतामेति स्वसूतिकरणाक्षमम् // ४
SKतप्तं नैतत्प्ररोहाय तेनैव प्रत्ययेन तु / मलमायाख्यकर्माणि मन्त्रध्यानक्रियाबलात् // ५
SKदग्धानि न स्वकार्याय निर्बीजप्रत्ययं त्विमम् / स श्रीमान्सुप्रसन्नो मे शंभुनाथो न्यरूपयत् // ६
SKबीजस्याप्यत्र कार्या च योजना कृपया गुरोः / यतो दीक्षा सुदीप्तत्वात्स्थावराण्यपि मोचयेत् // ७
SKयो गुरुर्जपहोमार्चाध्यानसिद्धत्वमात्मनि / ज्ञात्वा दीक्षां चरेत्तस्य दीक्षा सप्रत्यया स्मृता // ८
SKअवधूते निराचारे तत्त्वज्ञे नत्वयं विधिः / साचारैः क्रियते दीक्षा या दृष्टप्रत्ययान्विता // ९
SKनिराचारेण दीक्षायां प्रत्ययस्तु न गद्यते / ज्ञानं स्वप्रत्ययं यस्मान्न फलान्तरमर्हति // १०
SKध्यानादि तु फलात्साध्यमिति सिद्धामतोदितम् / तुलाशुद्धिपरीक्षां वा कुर्यात्प्रत्यययोगिनीम् // ११
SKयथा श्रीतन्त्रसद्भावे कथिता परमेशिना / श्रीपूर्वशास्त्रेप्येषा च सूचिता परमेशिना // १२
SKआनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी / इत्येवंवदता शक्तितारतम्याभिधायिना // १३
SKउद्भवो लघुभावेन देहग्रहतिरोहितेः / देहो हि पार्थिवो मुख्यस्तदा मुख्यत्वमुज्झति // १४
SKभाविलाघवमन्त्रेण शिष्यं ध्यात्वा समुत्प्लुतम् / कर्माणि तत्राशेषाणि पूर्वोक्तान्याचरेद्गुरुः // १५
SKउक्ता सेयं तुलाशुद्धिदीक्षा प्रत्ययदायिनी /