Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 26: atha śrītantrāloke ṣaḍviṃśamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथोच्यते शेषवृत्तिर्जीवतामुपयोगिनी // १ब्
SK
दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता / सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा // २
SK
तत्र संस्कारसिद्ध्यै या दीक्षा साक्षान्न मोचनी / अनुसंधिवशाद्या च साक्षान्मोक्त्री सबीजिका // ३
SK
तयोभय्या दीक्षिता ये तेषामाजीववर्तनम् / वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये // ४
SK
बुभुक्षोर्वा मुमुक्षोर्वा स्वसंविद्गुरुशास्त्रतः / प्रमाणाद्या संस्क्रियायै दीक्षा हि गुरुणा कृता // ५
SK
ततः स संस्कृतं योग्यं ज्ञात्वात्मानं स्वशासने / तदुक्तवस्त्वनुष्ठानं भुक्त्यै मुक्त्यै च सेवते // ६
SK
आचार्यप्रत्ययादेव योपि स्याद्भुक्तिमुक्तिभाक् / तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम् // ७
SK
स्वसंविद्गुरुसंवित्त्योस्तुल्यप्रत्ययभागपि / शेषवृत्त्या समादेश्यस्तद्विघ्नादिप्रशान्तये // ८
SK
यः सर्वथा परापेक्षामुज्झित्वा तु स्थितो निजात् / प्रत्ययाद्योपि चाचार्यप्रत्ययादेव केवलात् // ९
SK
तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये / क्रमात्तन्मयतोपायगुर्वर्चनरतौ तु तौ // १०
SK
तत्रैषां शेषवृत्त्यर्थं नित्यनैमित्तिके ध्रुवे / काम्यवर्जं यतः कामाश्चित्राश्चित्राभ्युपायकाः // ११
SK
तत्र नित्यो विधिः सन्ध्यानुष्ठानं देवताव्रजे / गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम् // १२
SK
नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः / विशेषवशतः किंच पवित्रकविधिक्रमः // १३
SK
आचार्यस्य च दीक्षेयं बहुभेदा विवेचिता / व्याख्यादिकं च तत्तस्याधिकं नैमित्तिकं ध्रुवम् // १४
SK
तत्रादौ शिशवे व्रूयाद्गुरुर्नित्यविधिं स्फुटम् / तद्योग्यतां समालोक्य वितताविततात्मनाम् // १५
SK
मुख्येतरादिमन्त्राणां वीर्यव्याप्त्यादियोग्यताम् / दृष्ट्वा शिष्ये तमेवास्मै मूलमन्त्रं समर्पयेत् // १६
SK
तच्छास्त्रदीक्षितो ह्येष निर्यन्त्राचारशङ्कितः / न मुख्ये योग्य इत्यन्यसेवातः स्यात्तु योग्यता // १७
SK
साधकस्य बुभुक्षोस्तु साधकीभाविनोपिवा / पुष्पपातवशात्सिद्धो मन्त्रोर्प्यः साध्यसिद्धये // १८
SK
वितते गुणभूते वा विधौ दिष्टे पुनर्गुरुः / ज्ञात्वास्मै योग्यतां सारं संक्षिप्तं विधिमाचरेत् // १९
SK
तत्रैष नियमो यद्यन्मान्त्रं रूपं न तद्गुरुः / लिखित्वा प्रथयेच्छिष्ये विशेषादूर्ध्वशासने // २०
SK
मन्त्रा वर्णात्मकास्ते च परामर्शात्मकाः सच / गुरुसंविदभिन्नश्वेत्संक्रामेत्सा ततः शिशौ // २१
SK
लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोत्र कल्पितः / संकेतबलतो नास्य पुस्तकात्प्रथते महः // २२
SK
पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते ततः / ये तु पुस्तकलब्धेपि मन्त्रे वीर्यं प्रजानते // २३
SK
ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति / इति ज्ञात्वा गुरुः सम्यक् परमानन्दघूर्णितः // २४
SK
तादृशे तादृशे धाम्नि पूजयित्वा विधिं चरेत् / यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते // २५
SK
तथा कुर्याद्गुरुर्गुप्तिहानिर्दोषवती यतः / देवीनां त्रितयं शुद्धं यद्वा यामलयोगतः // २६
SK
देवीमेकामथो शुद्धां वदेद्वा यामलात्मिकाम् / तत्र मन्त्रं स्फुटं वक्त्राद्गुरुणोपांशु चोदितम् // २७
SK
अवधार्या प्रवृत्तेस्तमभ्यस्येन्मनसा स्वयम् / ततः सुशिक्षितां स्थानदेहान्तःशोधनत्रयीम् // २८
SK
न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः / तत्र प्रभाते संबुध्य स्वेष्टां प्राग्देवतां स्मरेत् // २९
SK
कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम् / आश्रित्योत्तरदिग्वक्त्रः स्थानदेहान्तरत्रये // ३०
SK
शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम् / मुद्राप्रदर्शनं ध्यानं भेदाभेदस्वरूपतः // ३१
SK
देहासुधीव्योमभूषु मनसा तत्र चार्चनम् / जपं चात्र यथाशक्ति देवायैतन्निवेदनम् // ३२
SK
तन्मयीभावसिद्ध्यर्थं प्रतिसन्ध्यं समाचरेत् / अन्ये तु प्रागुदक्पश्चाद्दशदिक्षु चतुष्टयीम् // ३३
SK
सन्ध्यानामाहुरेतच्च तान्त्रिकीयं न नो मतम् / यासौ कालाधिकारे प्राक् सन्ध्या प्रोक्ता चतुष्टयी // ३४
SK
तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत् / सन्ध्याचतुष्टयीकृत्यमेकस्यामथवा शिशुः // ३५
SK
कुर्यात्स्वाध्यायविज्ञानगुरुकृत्यादितत्परः / सन्ध्याध्यानोदितानन्ततन्मयीभावयुक्तितः // ३६
SK
तत्संस्कारवशात्सर्वं कालं स्यात्तन्मयो ह्यसौ / ततो यथेष्टकालेसौ पूजां पुष्पासवादिभिः // ३७
SK
स्थण्डिलादौ शिशुः कुर्याद्विभवाद्यनुरूपतः / सुशुद्धः सन्विधिं सर्वं कृत्वान्तरजपान्तकम् // ३८
SK
अर्घपात्रं पुरा यद्वद्विधाय स्वेष्टमन्त्रतः / तेन स्थण्डिलपुष्पादि सर्वं संप्रोक्षयेद्बुधः // ३९
SK
ततस्तत्रैव संकल्प्य द्वारासनगुरुक्रमम् / पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम् // ४०
SK
ततस्तत्स्थण्डिलं वीध्रव्योमस्फटिकनिर्मलम् / बोधात्मकं समालोक्य तत्र स्वं देवतागणम् // ४१
SK
प्रतिबिम्बतया पश्येद्बिम्बत्वेन च बोधतः / एतदावाहनं मुख्यं व्यजनान्मरुतामिव // ४२
SK
सर्वगोपि मरुद्यद्वद्व्यजनेनोपजीवितः / अर्थकृत्सर्वगं मन्त्रचक्रं रूढेस्तथा भवेत् // ४३
SK
चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते / श्रीनिर्मर्यादशास्त्रे च तदेतद्विभुनोदितम् // ४४
SK
देवः सर्वगतो देव निर्मर्यादः कथं शिवः / आवाह्यते क्षम्यते वेत्येवंपृष्टोब्रवीद्विभुः // ४५
SK
वासनावाह्यते देवि वासना च विसृज्यते / परमार्थेन देवस्य नावाहनविसर्जने // ४६
SK
आवाहितो मया देवः स्थण्डिले च प्रतिष्ठितः / पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत् // ४७
SK
प्राणिनामप्रबुद्धानां सन्तोषजननाय वै / आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा // ४८
SK
कालेन तु विजानन्ति प्रवृत्ताः पतिशासने / अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम् // ४९
SK
ज्ञानदीपद्युतिध्वस्तसमस्ताज्ञानसञ्चयाः / कुतो वानीयते देवः कुत्र वा नीयतेपि सः // ५०
SK
स्थूलसूक्ष्मादिभेदेन स हि सर्वत्र संस्थितः / आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः // ५१
SK
धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोचितैः / दीप्तानां शक्तिनादादिमन्त्राणामासवैः पलैः // ५२
SK
रक्तैः प्राक् तर्पण पश्चात् पुष्पधूपादिविस्तरैः / आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि // ५३
SK
हरत्यर्धशरीरं स इत्युक्तं किल शम्भुना / यद्यदेवास्य मनसि विकासित्वं प्रयच्छति // ५४
SK
तेनैव कुर्यात्पूजां स इति शम्भोर्विनिश्चयः / साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः // ५५
SK
मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः / कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत् // ५६
SK
रक्तकर्पासतूलेच्छुस्तुल्यतद्बीजपुञ्जवत् / सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः // ५७
SK
देशकालानुसन्धानगुणद्रव्यक्रियादिभिः / स्वल्पा क्रिया भूयसी वा हृदयाह्लाददायिभिः // ५८
SK
बाह्यैः संकल्पजैर्वापि कारकैः परिकल्पिता / मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति // ५९
SK
नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः / चितः स्वातन्त्र्यसारत्वात् तस्यानन्दघनत्वतः // ६०
SK
क्रिया स्यात्तन्मयीभूत्यै हृदयाह्लाददायिभिः / शिवाभेदभराद्भाववर्गः श्च्योतति यं रसम् // ६१
SK
तमेव परमे धाम्नि पूजनायार्पयेद्बुधः / स्तोत्रेषु बहुधा चैतन्मया प्रोक्तं निजाह्निके // ६२
SK
अधिशय्य पारमार्थिकभावप्रसरप्रकाशमुल्लसति / या परमामृतदृक् त्वां तयार्चयन्ते रहस्यविदः // ६३
SK
कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः / आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेहर्निशम् // ६४
SK
नानास्वादरसामिमां त्रिजगतीं हृच्चक्रयन्त्रार्पितामूर्ध्वाध्यस्तविवेकगौरवभरान्निष्पीड्य निःष्यन्दितम् / यत्संवित्परमामृतं मृतिजराजन्मापहं जृम्भते तेन त्वां हविषा परेण परमे संतर्पयेहर्निशम् // ६५
SK
इति श्लोकत्रयोपात्तमर्थमन्तर्विभावयन् / येन केनापि भावेन तर्पयेद्देवतागणम् // ६६
SK
मुद्रां प्रदर्शयेत्पश्चान्मनसा वापि योगतः / वचसा मन्त्रयोगेन वपुषा संनिवेशतः // ६७
SK
कृत्वा जपं ततः सर्वं देवतायै समर्पयेत् / तच्चोक्तं कर्तृतातत्त्वनिरूपणविधौ पुरा // ६८
SK
ततो विसर्जनं कार्यं बोधैकात्म्यप्रयोगतः / कृत्वा वा वह्निगां मन्त्रतृप्तिं प्रोक्तविधानतः // ६९
SK
द्वारपीठगुरुव्रातसमर्पितनिवेदनात् / ऋतेन्यत्स्वयमश्नीयादगाधेम्भस्यथ क्षिपेत् // ७०
SK
प्राणिनो जलजाः पूर्वदीक्षिताः शम्भुना स्वयम् / विधिना भाविना श्रीमन्मीननाथावतारिणा // ७१
SK
मार्जारमूषिकाद्यैर्यददीक्षैश्चापि भक्षितम् / तच्छङ्कातङ्कदानेन व्याधये नरकाय च // ७२
SK
अतस्तत्त्वविदा ध्वस्तशङ्कातङ्कोपि पण्डितः / प्रकटं नेदृशं कुर्याल्लोकानुग्रहवाञ्छया // ७३
SK
श्रीमन्मतमहाशास्त्रे तदुक्तं विभुना स्वयम् / स्वयं तु शङ्कासङ्कोचनिष्कासनपरायणः // ७४
SK
भवेत्तथा यथान्येषां शङ्का नो मनसि स्फुरेत् / मार्जयित्वा ततः स्नानं पुष्पेणाथ प्रपूजयेत् // ७५
SK
पुष्पादि सर्वं तत्स्थं तदगाधाम्भसि निक्षिपेत् / उक्तः स्थण्डिलयागोयं नित्यकर्मणि शम्भुना // ७६

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source