Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 5: atha śrītantrāloke pañcamamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
आणवेन विधिना परधाम प्रेप्सतामथ निरूप्यत एतत् // १ब्
SK
विकल्पस्यैव संस्कारे जाते निष्प्रतियोगिनि / अभीष्टे वस्तुनि प्राप्तिर्निश्चिता भोगमोक्षयोः // २
SK
विकल्पः कस्यचित्स्वात्मस्वातन्त्र्यादेव सुस्थिरः / उपायान्तरसापेक्ष्यवियोगेनैव जायते // ३
SK
कस्यचित्तु विकल्पोसौ स्वात्मसंस्करणं प्रति / उपायान्तरसापेक्षस्तत्रोक्तः पूर्वको विधिः // ४
SK
विकल्पो नाम चिन्मात्रस्वभावो यद्यपि स्थितः / तथापि निश्चयात्मासावणोः स्वातन्त्र्ययोजकः // ५
SK
निश्चयो बहुधा चैष तत्रोपायाश्च भेदिनः / अणुशब्देन ते चोक्ता दूरान्तिकविभेदतः // ६
SK
तत्र बुद्धौ तथा प्राणे देहे चापि प्रमातरि / अपारमार्थिकेप्यस्मिन् परमार्थः प्रकाशते // ७
SK
यतः प्रकाशाच्चिन्मात्रात् प्राणाद्यव्यतिरेकवत् / तस्यैव तु स्वतन्त्रत्वाद्द्विगुणं जडचिद्वपुः // ८
SK
उक्तं त्रैशिरसे चैतद्देव्यै चन्द्रार्धमौलिना / जीवः शक्तिः शिवस्यैव सर्वत्रैव स्थितापि सा // ९
SK
स्वरूपप्रत्यये रूढा ज्ञानस्योन्मीलनात्परा / तस्य चिद्रूपतां सत्यां स्वातन्त्र्योल्लासकल्पनात् // १०
SK
पश्यञ्जडात्मताभागं तिरोधायाद्वयो भवेत् / तत्र स्वातन्त्र्यदृष्ट्या वा दर्पणे मुखबिम्बवत् // ११
SK
विशुद्धं निजचैतन्यं निश्चिनोत्यतदात्मकम् / बुद्धिप्राणादितो भिन्नं चैतन्यं निश्चितं बलात् // १२
SK
सत्यतस्तदभिन्नं स्यात्तस्यान्योन्यविभेदतः / विश्वरूपाविभेदित्वं शुद्धत्वादेव जायते // १३
SK
निष्ठितैकस्फुरन्मूर्तेर्मूर्त्यन्तरविरोधतः / अन्तः संविदि सत्सर्वं यद्यप्यपरथा धियि // १४
SK
प्राणे देहेथवा कस्मात्संक्रामेत्केन वा कथम् / तथापि निर्विकल्पेस्मिन्विकल्पो नास्ति तं विना // १५
SK
दृष्टेप्यदृष्टकल्पत्वं विकल्पेन तु निश्चयः / बुद्धिप्राणशरीरेषु पारमेश्वर्यमञ्जसा // १६
SK
विकल्प्यं शून्यरूपे न प्रमातरि विकल्पनम् / बुद्धिर्ध्यानमयी तत्र प्राण उच्चारणात्मकः // १७
SK
उच्चारणं च प्राणाद्या व्यानान्ताः पञ्च वृत्तयः / आद्या तु प्राणनाभिख्यापरोच्चारात्मिका भवेत् // १८
SK
शरीरस्याक्षविषयैतत्पिण्डत्वेन संस्थितिः / तत्र ध्यानमयं तावदनुत्तरमिहोच्यते // १९
SK
यः प्रकाशः स्वतन्त्रोयं चित्स्वभावो हृदि स्थितः / सर्वतत्त्वमयः प्रोक्तमेतच्च त्रिशिरोमते // २०
SK
कदलीसंपुटाकारं सबाह्याभ्यन्तरान्तरम् / ईक्षते हृदयान्तःस्थं तत्पुष्पमिव तत्त्ववित् // २१
SK
सोमसूर्याग्निसंघट्टं तत्र ध्यायेदनन्यधीः / तद्ध्यानारणिसंक्षोभान्महाभैरवहव्यभुक् // २२
SK
हृदयाख्ये महाकुण्डे जाज्वलन् स्फीततां व्रजेत् / तस्य शक्तिमतः स्फीतशक्तेर्भैरवतेजसः // २३
SK
मातृमानप्रमेयाख्यं धामाभेदेन भावयेत् / वह्न्यर्कसोमशक्तीनां तदेव त्रितयं भवेत् // २४
SK
परा परापरा चेयमपरा च सदोदिता / सृष्टिसंस्थितिसंहारैस्तासां प्रत्येकतस्त्रिधा // २५
SK
चतुर्थं चानवच्छिन्नं रूपमासामकल्पितम् / एवं द्वादश ता देव्यः सूर्यबिम्बवदास्थिताः // २६
SK
एकैकमासां वह्न्यर्कसोमतच्छान्तिभासनम् / एतदानुत्तरं चक्रं हृदयाच्चक्षुरादिभिः // २७
SK
व्योमभिर्निःसरत्येव तत्तद्विषयगोचरे / तच्चक्रभाभिस्तत्रार्थे सृष्टिस्थितिलयक्रमात् // २८
SK
सोमसूर्याग्निभासात्म रूपं समवतिष्ठते / एवं शब्दादिविषये श्रोत्रादिव्योमवर्त्मना // २९
SK
चक्रेणानेन पतता तादात्म्यं परिभावयेत् / अनेन क्रमयोगेन यत्र यत्र पतत्यदः // ३०
SK
चक्रं सर्वात्मकं तत्तत्सार्वभौममहीशवत् / इत्थं विश्वाध्वपटलमयत्नेनैव लीयते // ३१
SK
भैरवीयमहाचक्रे संवित्तिपरिवारिते / ततः संस्कारमात्रेण विश्वस्यापि परिक्षये // ३२
SK
स्वात्मोच्छलत्तया भ्राम्यच्चक्रं संचिन्तयेन्महत् / ततस्तद्दाह्यविलयात् तत्संस्कारपरिक्षयात् // ३३
SK
प्रशाम्यद्भावयेच्चक्रं ततः शान्तं ततः शमम् / अनेन ध्यानयोगेन विश्वं चक्रे विलीयते // ३४
SK
तत्संविदि ततः संविद्विलीनार्थैव भासते / चित्स्वाभाव्यात् ततो भूयः सृष्टिर्यच्चिन्महेश्वरी // ३५
SK
एवं प्रतिक्षणं विश्वं स्वसंविदि विलापयन् / विसृजंश्च ततो भूयः शश्वद्भैरवतां व्रजेत् // ३६
SK
एवं त्रिशूलात् प्रभृति चतुष्पञ्चारकक्रमात् / पञ्चाशदरपर्यन्तं चक्रं योगी विभावयेत् // ३७
SK
चतुष्षष्टिशतारं वा सहस्रारमथापि वा / असंख्यारसहस्रं वा चक्रं ध्यायेदनन्यधीः // ३८
SK
संविन्नाथस्य महतो देवस्योल्लासिसंविदः / नैवास्ति काचित्कलना विश्वशक्तेर्महेशितुः // ३९
SK
शक्तयोस्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः / इति माङ्गलशास्त्रे तु श्रीश्रीकण्ठो न्यरूपयत् // ४०
SK
इत्येतत् प्रथमोपायरूपं ध्यानं न्यरूपयत् / श्रीशंभुनाथो मे तुष्टस्तस्मै श्रीसुमतिप्रभुः // ४१
SK
अनयैव दिशान्यानि ध्यानान्यपि समाश्रयेत् / अनुत्तरोपायधुरां यान्यायान्ति क्रमं विना // ४२
SK
अथ प्राणस्य या वृत्तिः प्राणनाद्या निरूपिता / तदुपायतया ब्रूमोनुत्तरप्रविकासनम् // ४३
SK
निजानन्दे प्रमात्रंशमात्रे हृदि पुरा स्थितः / शून्यतामात्रविश्रान्तेर्निरानन्दं विभावयेत् // ४४
SK
प्राणोदये प्रमेये तु परानन्दं विभावयेत् / तत्रानन्तप्रमेयांशपूरणापाननिर्वृतः // ४५
SK
परानन्दगतस्तिष्ठेदपानशशिशोभितः / ततोनन्तस्फुरन्मेयसंघट्टैकान्तनिर्वृतः // ४६
SK
समानभूमिमागत्य ब्रह्मानन्दमयो भवेत् / ततोपि मानमेयौघकलनाग्रासतत्परः // ४७
SK
उदानवह्नौ विश्रान्तो महानन्दं विभावयत् / तत्र विश्रान्तिमभ्येत्य शाम्यत्यस्मिन्महार्चिषि // ४८
SK
निरुपाधिर्महाव्याप्तिर्व्यानाख्योपाधिवर्जिता / तदा खलु चिदानन्दो यो जडानुपबृंहितः // ४९
SK
नह्यत्र संस्थितिः कापि विभक्ता जडरूपिणः / यत्र कोपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् // ५०
SK
यदनाहतसंवित्ति परमामृतबृंहितम् / यत्रास्ति भावनादीनां न मुख्या कापि संगतिः // ५१
SK
तदेव जगदानन्दमस्मभ्यं शंभुरूचिवान् / तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः // ५२
SK
या तत्र सम्यग्विश्रान्तिः सानुत्तरमयी स्थितिः / इत्येतद्धृदयाद्येकस्वभावेपि स्वधामनि // ५३
SK
षट्प्राणोच्चारजं रूपमथ व्याप्त्या तदुच्यते / प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः // ५४
SK
चतुष्किकाम्बुजालम्बिलम्बिकासौधमाश्रयेत् / त्रिशूलभूमिं क्रान्त्वातो नाडित्रितयसङ्गताम् // ५५
SK
इच्छाज्ञानक्रियाशक्तिसमत्वे प्रविशेत् सुधीः / एकां विकासिनीं भूयस्त्वसंकोचां विकस्वराम् // ५६
SK
श्रयेद्भ्रूबिन्दुनादान्तशक्तिसोपानमालिकाम् / तत्रोर्ध्वकुण्डलीभूमौ स्पन्दनोदरसुन्दरः // ५७
SK
विसर्गस्तत्र विश्राम्येन्मत्स्योदरदशाजुषि / रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् // ५८
SK
विकाससंकोचमयं प्रविश्य हृदि हृष्यति / तद्वन्मुहुर्लीनसृष्टभावव्रातसुनिर्भराम् // ५९
SK
श्रयेद्विकाससंकोचरूढभैरवयामलाम् / एकीकृतमहामूलशूलवैसर्गिके हृदि // ६०
SK
परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः / अत्र तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् // ६१
SK
प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम् / अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते // ६२
SK
चिद्विमर्शपराहंकृत् प्रथमोल्लासिनी स्फुरेत् / तत उद्योगसक्तेन स द्वादशकलात्मना // ६३
SK
सूर्येणाभासयेद्भावं पूरयेदथ चर्चयेत् / अथेन्दुः षोडशकलो विसर्गग्रासमन्थरः // ६४
SK
संजीवन्यमृतं बोधवह्नौ विसृजति स्फुरन् / इच्छाज्ञानक्रियाशक्तिसूक्ष्मरन्ध्रस्रुगग्रगम् // ६५
SK
तदेवम[तद]मृतं दिव्यं संविद्देवीषु तर्पकम् / विसर्गामृतमेतावद् बोधाख्ये हुतभोजिनि // ६६
SK
विसृष्टं चेद्भवेत्सर्वं हुतं षोढाध्वमण्डलम् / यतोनुत्तरनाथस्य विसर्गः कुलनायिका / तत्क्षोभः कादिहान्तं तत्प्रसरस्तत्त्वपद्धतिः // ६७
SK
अंअ इति कुलेश्वर्या सहितो हि कुलेशिता / परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते // ६८
SK
वित्प्राणगुणदेहान्तर्बहिर्द्रव्यमयीमिमाम् / अर्चयेज्जुहुयाद्ध्यायेदित्थं संजीवनीं कलाम् // ६९
SK
आनन्दनाडीयुगलस्पन्दनावहितौ स्थितः / एनां विसर्गनिःष्यन्दसौधभूमिं प्रपद्यते // ७०
SK
शाक्ते क्षोभे कुलावेशे सर्वनाड्यग्रगोचरे / व्याप्तौ सर्वात्मसंकोचे हृदयं प्रविशेत्सुधीः // ७१
SK
सोमसूर्यकलाजालपरस्परनिघर्षतः / अग्नीषोमात्मके धाम्नि विसर्गानन्द उन्मिषेत् // ७२
SK
अलं रहस्यकथया गुप्तमेतत्स्वभावतः / योगिनीहृदयं तत्र विश्रान्तः स्यात्कृती बुधः // ७३
SK
हानादानतिरस्कारवृत्तौ रूढिमुपागतः / अभेदवृत्तितः पश्येद्विश्वं चितिचमत्कृतेः // ७४
SK
अर्थक्रियार्थितादैन्यं त्यक्त्वा बाह्यान्तरात्मनि / खरूपे निर्वृतिं प्राप्य फुल्लां नाददशां श्रयेत् // ७५
SK
वक्त्रमन्तस्तया सम्यक् संविदः प्रविकासयेत् / संविदक्षमरुच्चक्रं ज्ञेयाभिन्नं ततो भवेत् // ७६
SK
तज्ज्ञेयं संविदाख्येन वह्निना प्रविलीयते / विलीनं तत् त्रिकोणेस्मिञ्शक्तिवह्नौ विलीयते // ७७
SK
तत्र संवेदनोदारबिन्दुसत्तासुनिर्वृतः / संहारबीजविश्रान्तो योगी परमयो भवेत् // ७८
SK
अन्तर्बाह्ये द्वये वापि सामान्येतरसुन्दरः / संवित्स्पन्दस्त्रिशक्त्यात्मा संकोचप्रविकासवान् // ७९
SK
असंकोचविकासोपि तदाभासनतस्तथा / अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते // ८०
SK
ततः स्वातन्त्र्यनिर्मेये विचित्रार्थक्रियाकृति / विमर्शनं विशेषाख्यः स्पन्द औन्मुख्यसंज्ञितः // ८१
SK
तत्र विश्रान्तिमागच्छेद्यद्वीर्यं मन्त्रमण्डले / शान्त्यादिसिद्धयस्तत्तद्रूपतादात्म्यतो यतः // ८२
SK
दिव्यो यश्चाक्षसंघोयं बोधस्वातन्त्र्यसंज्ञकः / सोनिमीलित एवैतत् कुर्यात्स्वात्ममयं जगत् // ८३
SK
महासाहससंयोगविलीनाखिलवृत्तिकः / पुञ्जीभूते स्वरश्म्योघे निर्भरीभूय तिष्ठति // ८४
SK
अकिचिच्चिन्तकस्तत्र स्पष्टदृग्याति संविदम् / यद्विस्फुलिङ्गाः संसारभस्मदाहैकहेतवः // ८५
SK
तदुक्तं परमेशेन त्रिशिरोभैरवागमे / शृणु देवि प्रवक्ष्यामि मन्त्रभूम्यां प्रवेशनम् // ८६
SK
मध्यनाड्योर्ध्वगमनं तद्धर्मप्राप्तिलक्षणम् / विसर्गान्तपदातीतं प्रान्तकोटिनिरूपितम् // ८७
SK
अधःप्रवाहसंरोधादूर्ध्वक्षेपविवर्जनात् / महाप्रकाशमुदयज्ञानव्यक्तिप्रदायकम् // ८८
SK
अनुभूय परे धाम्नि मात्रावृत्त्या पुरं विशेत् / निस्तरङ्गावतीर्णा सा वृत्तिरेका शिवात्मिका // ८९
SK
चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला / तत्स्थं [त्स्थो] विचारयेत् खं खं खस्थं खस्थेन संविशेत् // ९०
SK
खं खं त्यक्त्वा खमारुह्य खस्थं खं चोच्चरेदिति / खमध्यास्याधिकारेण पदस्थाश्चिन्मरीचयः // ९१
SK
भावयेद्भावमन्तःस्थं भावस्थो भावनिःस्पृहः / भावाभावगती रुद्ध्वा भावाभावावरोधदृक् // ९२
SK
आत्माणुकुलमूलानि शक्तिर्भूतिश्चिती रतिः / शक्तित्रयं द्रष्टृदृश्योपरक्तं तद्विवर्जितम् // ९३
SK
एतत्खं दशधा प्रोक्तमुच्चारोच्चारलक्षणम् / धामस्थं धाममध्यस्थं धामोदरपुटीकृतम् // ९४
SK
धाम्ना तु बोधयेद्धाम धाम धामान्तगं कुरु / तद्धाम धामगत्या तु भेद्यं धामान्तमान्तरम् // ९५
SK
भेदोपभेदभेदेन भेदः कार्यस्तु मध्यतः / इति प्रवेशोपायोयमाणवः परिकीर्तितः // ९६
SK
श्रीमहेश्वरनाथेन यो हृत्स्थेन ममोदितः / श्रीब्रह्मयामले चोक्तं श्रीमान् रावो दशात्मकः // ९७
SK
स्थूलः सूक्ष्मः परो हृद्यः कण्ठ्यस्तालव्य एव च / सर्वतश्च विभुर्योसौ विभुत्वपददायकः // ९८
SK
जितरावो महायोगी संक्रामेत्परदेहगः / परां च विन्दति व्याप्तिं प्रत्यहं ह्यभ्यसेत तम् // ९९
SK
तावद्यावदरावे सा रावाल्लीयेत राविणी / अत्र भावनया देहगतोपायैः परे पथि // १००
SK
विविक्षोः पूर्णतास्पर्शात्प्रागानन्दः प्रजायते / ततोपि विद्युदापातसदृशे देहवर्जिते // १०१
SK
धाम्नि क्षणं समावेशादुद्भवः प्रस्फुटं प्लुतिः / जलपांसुवदभ्यस्तसंविद्देहैक्यहानितः // १०२
SK
स्वबलाक्रमणाद्देहशैथिल्यात् कम्पमाप्नुयात् / गलिते देहतादात्म्यनिश्चयेन्तर्भुखत्वतः // १०३
SK
निद्रायते पुरा यावन्न रूढः संविदात्मनि / ततः सत्यपदे रूढो विश्वात्मत्वेन संविदम् // १०४
SK
संविदन् घूर्णते घूर्णिर्महाव्याप्तिर्यतः स्मृता / आत्मन्यनात्माभिमतौ सत्यामेव ह्यनात्मनि // १०५
SK
आत्माभिमानो देहादौ बन्धो मुक्तिस्तु तल्लयः / आदावनात्मन्यात्मत्वे लीने लब्धे निजात्मनि // १०६
SK
आत्मन्यनात्मतानाशे महाव्याप्तिः प्रवर्तते / आनन्द उद्भवः कम्पो निन्द्रा घूर्णिश्च पञ्चकम् // १०७
SK
इत्युक्तमत एव श्रीमालिनीविजयोत्तरे / प्रदर्शितेस्मिन्नानन्दप्रभृतौ पञ्चके यदा // १०८
SK
योगी विशेत्तदा तत्तच्चक्रेशत्वं हठाद्व्रजेत् / यथा सर्वेशिना बोधेनाक्रान्तापि तनुः क्वचित् // १०९
SK
किंचित्कर्तुं प्रभवति चक्षुषा रूपसंविदम् / तथैव चक्रे कुत्रापि प्रवेशात्कोपि संभवेत् // ११०
SK
आनन्दचक्रं वह्न्यश्रि कन्द उद्भव उच्यते / कम्पो हृत्तालु निद्रा च घूर्णिः स्यादूर्ध्वकुण्डली // १११
SK
एतच्च स्फुटमेवोक्तं श्रीमन्त्रैशिरसे मते / एवं प्रदर्शितोच्चारविश्रान्तिहृदयं परम् // ११२
SK
यत्तदव्यक्तलिङ्गं नृशिवशक्त्यविभागवत् / अत्र विश्वमिदं लीनमत्रान्तःस्थं च गम्यते // ११३
SK
इदं तल्लक्षणं पूर्णशक्तिभैरवसंविदः / देहगाध्वसमुन्मेषे समावेशस्तु यः स्फुटः // ११४
SK
अहन्ताच्छादितोन्मेषिभावेदंभावयुक् स च / व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् // ११५
SK
नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम् / यन्न्यक्कृतशिवाहन्तासमावेशं विभेदवत् // ११६
SK
विशेषस्पन्दरूपं तद् व्यक्तं लिङ्गं चिदात्मकम् / व्यक्तात्सिद्धिप्रसवो व्यक्ताव्यक्ताद्द्वयं विमोक्षश्च / अव्यक्ताद्बलमाद्यं परस्य नानुत्तरे त्वियं चर्चा // ११७
SK
आत्माख्यं यद्व्यक्तं नरलिङ्गं तत्र विश्वमर्पयतः / व्यक्ताव्यक्तं तस्माद्गलिते तस्मिंस्तदव्यक्तम् // ११८
SK
तेनात्मलिङ्गमेतत् परमे शिवशक्त्यणुस्वभावमये / अव्यक्ते विश्राम्यति नानुत्तरधामगा त्वियं चर्चा // ११९
SK
एकस्य स्पन्दनस्यैषा त्रैधं भेदव्यवस्थितिः / अत्र लिङ्गे सदा तिष्ठेत् पूजाविश्रान्तितत्परः // १२०
SK
योगिनीहृदयं लिङ्गमिदमानन्दसुन्दरम् / बीजयोनिसमापत्त्या सूते कामपि संविदम् // १२१
SK
अत्र प्रयासविरहात्सर्वोसौ देवतागणः / आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः // १२२
SK
अत्र भैरवनाथस्य ससंकोचविकासिका / भासते दुर्घटा शक्तिरसंकोचविकासिनः // १२३
SK
एतल्लिङ्गसमापत्तिविसर्गानन्दधारया / सिक्तं तदेव सद्विश्वं शश्वन्नवनवायते // १२४
SK
अनुत्तरेभ्युपायोत्र ताद्रूप्यादेव वर्णितः / ज्वलितेष्वपि दीपेषु घर्मांशुः किं न भासते // १२५
SK
अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् / अनाविशन्तोपि निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः // १२६
SK
सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्तियां तस्मै कुर्वति तत्प्रचारविवशे सत्यक्षवर्गेपि च / सत्स्वर्थेषु सुखादिषु स्फुटतरं यद्भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिविभवस्तत्तत्त्वमाचीयताम् // १२७
SK
इत्युच्चारविधिः प्रोक्तः करणं प्रविविच्यते / तच्चेत्थं त्रिशिरःशास्त्रे परमेशेन भाषितम् // १२८
SK
ग्राह्यग्राहकचिद्व्याप्तित्यागाक्षेपनिवेशनैः / करणं सप्तधा प्राहुरभ्यासं बोधपूर्वकम् // १२९
SK
तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता / गुरुवक्त्राच्च बोद्धव्यं करणं यद्यपि स्फुटम् // १३०
SK
तथाप्यागमरक्षार्थं तदग्रे वर्णयिष्यते / उक्तो य एष उच्चारस्तत्र योसौ स्फुरन् स्थितः // १३१
SK
अव्यक्तानुकृतिप्रायो ध्वनिर्वर्णः स कथ्यते / सृष्टिसंहारबीजं च तस्य मुख्यं वपुर्विदुः // १३२
SK
तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम् / तथा ह्यनच्के साच्के वा कादौ सान्ते पुनःपुनः // १३३
SK
स्मृते प्रोच्चारिते वापि सा सा संवित्प्रसूयाते / बाह्यार्थसमयापेक्षा घटाद्या ध्वनयोपि ये // १३४
SK
तेप्यर्थभावनां कुर्युर्मनोराज्यवदात्मनि / तदुक्तं परमेशेन भैरवो व्यापकोखिले // १३५
SK
इति भैरवशब्दस्य संततोच्चारणाच्छिवः / श्रीमत्त्रैशिरसेप्युक्तं मन्त्रोद्धारस्य पूर्वतः // १३६
SK
स्मृतिश्च स्मरणं पूर्वं सर्वभावेषु वस्तुतः / मन्त्रस्वरूपं तद्भाव्यस्वरूपापत्तियोजकम् // १३७
SK
स्मृतिः स्वरूपजनिका सर्वभावेषु रञ्जिका / अनेकाकाररूपेण सर्वत्रावस्थितेन तु // १३८
SK
स्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः / व्यक्तिनिष्ठा ततो विद्धि सत्ता सा कीर्तिता परा // १३९
SK
किं पुनः समयापेक्षां विना ये बीजपिण्डकाः / संविदं स्पन्दपन्त्येते नेयुः संविदुपायताम् // १४०
SK
वाच्याभावादुदासीनसंवित्स्पन्दात्स्वधामतः / प्राणोल्लासनिरोधाभ्यां बीजपिण्डेषु पूर्णता // १४१
SK
सुखसीत्कारसत्सम्यक्साम्यप्रथमसंविदः / संवेदनं हि प्रथमं स्पर्शोनुत्तरसंविदः // १४२
SK
हृत्कण्ठ्योष्ठ्यत्रिधामान्तर्नितरां प्रविकासिनि / चतुर्दशः प्रवेशो य एकीकृततदात्मकः // १४३
SK
ततो विसर्गोच्चारांशे द्वादशान्तपथावुभौ / हृदयेन सहैकध्यं नयते जपतत्परः // १४४
SK
कन्दहृत्कण्ठताल्वग्रकौण्डिलीप्रक्रियान्ततः / आनन्दमध्यनाड्यन्तः स्पन्दनं बीजमावहेत् // १४५
SK
संहारबीजं खं हृत्स्थमोष्ठ्यं फुल्लं स्वमूर्धनि / तेजस्त्र्यश्रं तालुकण्ठे बिन्दुरूर्ध्वपदे स्थितः // १४६
SK
इत्येनया बुधो युक्त्या वर्णजप्यपरायणः / अनुत्तरं परं धाम प्रविशेदचिरात् सुधीः // १४७
SK
वर्णशब्देन नीलादि यद्वा दीक्षोत्तरे यथा / संहारन्रग्निमरुतो रुद्रबिन्दुयुतान्स्मरेत् // १४८
SK
हृदये तन्मयो लक्ष्यं पश्येत्सप्तदिनादथ / विस्फुलिङ्गाग्निवन्नीलपीतरक्तादिचित्रितम् // १४९
SK
जाज्वलीति हृदम्भोजे बीजदीपप्रबोधितम् / दीपवज्ज्वलितो बिन्दुर्भासते विघनार्कवत् // १५०
SK
स्वयंभासात्मनानेन तादात्म्यं यात्यनन्यधीः / शिवेन हेमतां यद्वत्ताम्रं सूतेन वेधितम् // १५१
SK
उपलक्षणमेतच्च सर्वमन्त्रेषु लक्षयेत् / यद्यत्संकल्पसंभूतं वर्णजालं हि भौतिकम् // १५२
SK
तत् संविदाधिक्यवशादभौतिकमिव स्थितम् / अतस्तथाविधे रूपे रूढो रोहति संविदि // १५३
SK
अनाच्छादितरूपायामनुपाधौ प्रसन्नधीः / नीले पीते सुखे दुःखे संविद्रूपमखण्डितम् // १५४
SK
गुरुभिर्भाषितं तस्मादुपायेषु विचित्रता / उच्चारकरणध्यानवर्णैरेभिः प्रदर्शितः // १५५
SK
अनुत्तरपदप्राप्तावभ्युपायविधिक्रमः / अकिंचिच्चिन्तनं वीर्यं भावनायां च सा पुनः // १५६
SK
ध्याने तदपि चोच्चारे करणे सोपि तद्ध्वनौ / स स्थानकल्पने बाह्यमिति क्रममुपाश्रयेत् // १५७
SK
लङ्घनेन परो योगी मन्दबुद्धिः क्रमेण तु / वीर्यं विना यथा षण्ठस्तस्याप्यस्त्यथ वा बलम् / मृतदेह इवेयं स्याद्बाह्यान्तःपरिकल्पना // १५८
SK
इत्याणवेनुत्तरताभ्युपायः प्रोक्तो नयः स्पष्टपथेन बाह्यः // १५९अ

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source