Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 33: atha śrītantrāloke trayastriṃśamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथावसरसंप्राप्त एकीकारो निगद्यते / ०ब् यदुक्तं चक्रभेदेन सार्धं पूज्यमिति त्रिकम् / तत्रैष चक्रभेदानामेकीकारो दिशानया // १
SK
विश्वा तदीशा हारौद्री वीरनेत्र्यम्बिका तथा / गुर्वीति षडरे देव्यः श्रीसिद्धावीरदर्शिताः // २
SK
माहेशी ब्राह्मणी स्कान्दी वैष्णव्यैन्द्री यमात्मिका / चामुण्डा चैव योगीशीत्यष्टाघोर्यादयोथवा // ३
SK
अग्निनिरृतिवाय्वीशमातृभिर्द्वादशान्विताः / नन्दा भद्रा जया काली कराली विकृतानना // ४
SK
क्रोष्टुकी भीममुद्रा च वायुवेगा हयानना / गम्भीरा घोषणी चेति चतुर्विंशत्यरे विधिः // ५
SK
सिद्धिर्वृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा धृतिः / दीप्तिः पुष्टिर्मतिः कीर्तिः सुस्थितिः सुगतिः स्मृतिः // ६
SK
सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः / बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः // ७
SK
माधवः षडरे चक्रे द्वादशारे त्वमी स्मृताः / दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ // ८
SK
शकुनिः सुमतिर्नन्दो गोपालश्च पितामहः / श्रीकण्ठोनन्तसूक्ष्मौ च त्रिमूर्तिः शंबरेश्वरः // ९
SK
अर्घीशो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा / झण्ठिभौतिकसद्योजानुग्रहक्रूरसैनिकाः // १०
SK
द्व्यष्टौ यद्वामृतस्तेन युक्ताः पूर्णाभतद्द्रवाः / ओघोर्मिस्यन्दनाङ्गाश्च वपुरुद्गारवक्त्रकाः // ११
SK
तनुसेचनमूर्तीशाः सर्वामृतधरोपरः / श्रीपाठाच्छक्तयश्चैताः षोडशैव प्रकीर्तिताः // १२
SK
संवर्तलकुलिभृगुसितबकखङ्गिपिनाकिभुजगबलिकालाः / द्विश्छगलाण्डौ शिखिशोणमेषमीनत्रिदण्डि साषाढि // १३
SK
देवीकान्ततदर्धौ दारुकहलिसोमनाथशर्माणः / जयविजयजयन्ताजितसुजयजयरुद्रकीर्तनावहकाः // १४
SK
तन्मूर्त्युत्साहदवर्धनाश्च बलसुबलभद्रदावहकाः / तद्वान्दाता चेशो नन्दनसमभद्रतन्मूर्तिः // १५
SK
शिवदसुमनःस्पृहणका दुर्गो भद्राख्यकालश्च / चेतोनुगकौशिककालविश्वसुशिवास्तथापरः कोपः // १६
SK
श्रुत्यग्न्यरे स्युरेते स्त्रीपाठाच्छक्तयस्त्वेताः / जुंकारोथाग्निपत्नीति षडरे षण्ठवर्जिताः // १७
SK
द्वादशारे तत्सहिताः षोडशारे स्वराः क्रमात् / हलस्तद्द्विगुणेष्टारे याद्यं हान्तं तु तत्त्रिके // १८
SK
द्वात्रिंशदरके सान्तं बिन्दुः सर्वेषु मूर्धनि / एवमन्यान्बहूंश्चक्रभेदानस्मात्प्रकल्पयेत् // १९
SK
एक एव चिदात्मैष विश्वामर्शनसारकः / शक्तिस्तद्वानतो माता शब्दराशिः प्रकीर्तितौ // २०
SK
तयोरेव विभागे तु शक्तितद्वत्प्रकल्पने / शब्दराशिर्मालिनी च क्षोभात्म वपुरीदृशम् // २१
SK
तथान्तःस्थपरामर्शभेदने वस्तुतस्त्रिकम् / अनुत्तरेच्छोन्मेषाख्यं यतो विश्वं विमर्शनम् // २२
SK
आनन्देशोर्मियोगे तु तत्षट्कं समुदाहृतम् / अन्तःस्थोष्मसमायोगात्तदष्टकमुदाहृतम् // २३
SK
तदामृतचतुष्कोनभावे द्वादशकं भवेत् / तद्योगे षोडशाख्यं स्यादेवं यावदसंख्यता // २४
SK
विश्वमेकपरामर्शसहत्वात्प्रभृति स्फुटम् / अंशांशिकापरामर्शान् पर्यन्ते सहते यतः // २५
SK
अतः पञ्चाशदैकात्म्यं स्वरव्यक्तिविरूपता / वर्गाष्टकं वर्णभेद एकाशीतिकलोदयः // २६
SK
इति प्रदर्शितं पूर्वम् अर्धमात्रासहत्वतः / स्वरार्धमप्यस्ति यतः स्वरितस्यार्धमात्रकम् // २७
SK
तस्यादित उदात्तं तत्कथितं पदवेदिना / इत्थं संविदियं याज्यस्वरूपामर्शरूपिणी // २८
SK
अभिन्नं संविदश्चैतच्चक्राणां चक्रवालकम् / स्वाम्यावरणभेदेन बहुधा तत्प्रयोजयेत् // २९
SK
परापरा परा चान्या सृष्टिस्थितितिरोधयः / मातृसद्भावरूपा तु तुर्या विश्रान्तिरुच्यते // ३०
SK
तच्च प्रकाशं वक्त्रस्थं सूचितं तु पदे पदे / तुर्ये विश्रान्तिराधेया मातृसद्भावसारिणि // ३१
SK
तथास्य विश्वमाभाति स्वात्मतन्मयतां गतम् / इत्येष शास्त्रार्थस्योक्त एकीकारो गुरूदितः // ३२

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya