Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 18: atha śrītantrāloke aṣṭādaśamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथ संक्षिप्तदीक्षेयं शिवतापत्तिदोच्यते / न रजो नाधिवासोत्र न भूक्षेत्रपरिग्रहः / यत्र तत्र प्रदेशे तु पूजयित्वा गुरुः शिवम् // १
SK
अध्वानं मनसा ध्यात्वा दीक्षयेत्तत्त्वपारगः / जननादिविहीनां तु येन येनाध्वना गुरुः // २
SK
कुर्यात्स एकतत्त्वान्तां शिवभावैकभावितः / परामन्त्रस्ततोस्येति तत्त्वं संशोधयाम्यथ // ३
SK
स्वाहेति प्रतितत्त्वं स्याच्छुद्धे पूर्णाहुतिं क्षिपेत् / एवं मन्त्रान्तरैः कुर्यात्समस्तैरथवोक्तवत् // ४
SK
परासंपुटितं नाम स्वाहान्तं प्रथमान्तकम् / शतं सहस्रं साष्टं वा तेन शक्त्यैव होमयेत् // ५
SK
ततः पूर्णेति संशोध्यहीनमुत्तममीदृशम् / दीक्षाकर्मोदितं तत्र तत्र शास्त्रे महेशिना // ६
SK
प्रत्येकं मातृकायुग्मवर्णैस्तत्त्वानि शोधयेत् / यदि वा पिण्डमन्त्रेण सर्वमन्त्रेष्वयं विधिः // ७
SK
यथा यथा च स्वभ्यस्तज्ञानस्तन्मयतात्मकः / गुरुस्तथा तथा कुर्यात् संक्षिप्तं कर्म नान्यथा // ८
SK
श्रीब्रह्मयामले चोक्तं संक्षिप्तेपि हि भावयेत् / व्याप्तिं सर्वाध्वसामान्यां किंतु यागे न विस्तरः // ९
SK
अतन्मयीभूतमिति विक्षिप्तं कर्म सन्दधत् / क्रमात्तादात्म्यमेतीति विक्षिप्तं विधिमाचरेत् // १०
SK
संक्षिप्तो विधिरुक्तोयं कृपया यः शिवोदितः / दीक्षोत्तरे कैरणे च तत्र तत्रापि शासने // ११

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source