Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 24: atha śrītantrāloke caturviṃśatitamamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
अथ शाम्भवशासनोदितां सरहस्यां शृणुतान्त्यसंस्क्रियाम् // १ब्
SK
सर्वेषामधरस्थानां गुर्वन्तानामपि स्फुटम् / शक्तिपातात्पुराप्रोक्तात्कुर्यादन्त्येष्टिदीक्षणम् // २
SK
ऊर्ध्वशासनगानां च समयोपहतात्मनाम् / अन्त्येष्टिदीक्षा कर्तव्या गुरुणा तत्त्ववेदिना // ३
SK
समयाचारदोषेषु प्रमादात्स्खलितस्य हि / अन्त्येष्टिदीक्षा कार्येति श्रीदीक्षोत्तरशासने // ४
SK
यत्किंचित्कथितं पूर्वं मृतोद्धाराभिधे विधौ / प्रतिमायां तदेवात्र सर्वं शवतनौ चरेत् // ५
SK
श्रीसिद्धातन्त्रकथितो विधिरेष निरूप्यते / अन्तिमं यद्भवेत्पूर्वं तत्कृत्वान्तिममादिमम् // ६
SK
संहृत्यैकैकमिष्टिर्या सान्त्येष्टिर्द्वितयी मता / पूजाध्यानजपाप्लुष्टसमये नतु साधके // ७
SK
पिण्डपातादयं मुक्तः खेचरो वा भवेत्प्रिये / आचार्ये तत्त्वसंपन्ने यत्र तत्र मृते सति // ८
SK
अन्त्येष्टिर्नैव विद्येत शुद्धचेतस्यमूर्धनि / मन्त्रयोगादिभिर्ये च मारिता नरके तु ते // ९
SK
कार्या तेषामिहान्त्येष्टिर्गुरुणातिकृपालुना / न मण्डलादिकं त्वत्र भवेच्छमाशानिके विधौ // १०
SK
केचित्तदपि कर्तव्यमूचिरे प्रेतसद्मनि / पूजयित्वा विभुं सर्वं न्यासं पूर्ववदाचरेत् // ११
SK
संहारक्रमयोगेन चरणान्मूर्धपश्चिमम् / तथैव बोधयेदेनं क्रियाज्ञानसमाधिभिः // १२
SK
बिन्दुना रोधयेत्तत्त्वं शक्तिबीजेन वेधयेत् / घट्टयेन्नाददेशे तु त्रिशूलेन तु ताडयेत् // १३
SK
सुषुम्नान्तर्गतेनैव विसर्गेण पुनः पुनः / ताडयेत कलाः सर्वाः कम्पतेसौ ततः पशुः // १४
SK
उत्क्षिपेद्वामहस्तं वा ततस्तं योजयेत्परे / प्रत्ययेन विना मोक्षो ह्यश्रद्धेयो विमोहितैः // १५
SK
तदर्थमेतदुदितं नतु मोक्षोपयोग्यदः / इत्यूचे परमेशः श्रीकुलगह्वरशासने // १६
SK
साध्योनुमेयो मोक्षादिः प्रत्ययैर्यदतीन्द्रियः / दीक्षोत्तरे च पुर्यष्टवर्गार्पणमिहोदितम् // १७
SK
तद्विधिः श्रुतिपत्रेब्जे मध्ये देवं सदाशिवम् / ईशरुद्रहरिब्रह्मचतुष्कं प्राग्दिगादितः // १८
SK
पूजयित्वा श्रुतिस्पर्शौ रसं गन्धं वपुर्द्वयम् / ध्यहंकृती मनश्चेति ब्रह्मादिष्वर्पयेत्क्रमात् // १९
SK
एतेषां तर्पणं कृत्वा शतहोमेन दैशिकः / एषा सांन्यासिकी दीक्षा पुर्यष्टकविशोधनी // २०
SK
पुर्यष्टकस्याभावे च न स्वर्गनरकादयः / तथा कृत्वा न कर्तव्यं लौकिकं किंचनापि हि // २१
SK
उक्तं श्रीमाधवकुले शासनस्थो मृतेष्वपि / पिण्डपातोदकास्र्वादि लौकिकं परिवर्जयेत् // २२
SK
शिवं संपूज्य चक्रार्चां यथाशक्ति समाचरेत् / क्रमात्त्रिदशमत्रिंशत्रिंशवत्सरवासरे // २३
SK
इत्युक्तोन्त्येष्टियागोयं परमेश्वरभाषितः // २४

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya