SKअथाध्वनोस्य प्रकृत उपयोगः प्रकाश्यते // १ब्
SKइत्थमध्वा समस्तोयं यथा संविदि संस्थितः / तद्द्वारा शून्यधीप्राणनाडीचक्रतनुष्वथो // २
SKबहिश्च लिङ्गमूर्त्यग्निस्थण्डिलादिषु सर्वतः / तथा स्थितः समस्तश्च व्यस्तश्चैष क्रमाक्रमात् // ३
SKआसंवित्तत्त्वमाबाह्यं योयमध्वा व्यवस्थितः / तत्र तत्रोचितं रूपं स्वं स्वातन्त्र्येण भासयेत् // ४
SKसर्वं सर्वत्र रूपं च तस्यापि न न भासते / नह्यवच्छेदितां क्वापि स्वप्नेपि विषहामहे // ५
SKएवं विश्वाध्वसंपूर्णं कालव्यापारचित्रितम् / देशकालमयस्पन्दसद्म देहं विलोकयेत् // ६
SKतथा विलोक्यमानोसौ विश्वान्तर्देवतामयः / ध्येयः पूज्यश्च तर्प्यश्च तदाविष्टो विमुच्यते // ७
SKइत्थं घटं पटं लिङ्गं स्थण्डिलं पुस्तकं जलम् / यद्वा किंचित्क्वचित्पश्येत्तत्र तन्मयतां व्रजेत् // ८
SKतत्रार्पणं हि वस्तूनामभेदेनार्चनं मतम् / तथा संपूर्णरूपत्वानुसंधिर्ध्यानमुच्यते // ९
SKसंपूर्णत्वानुसंधानमकम्पं दार्ढ्यमानयन् / तथान्तर्जल्पयोगेन विमृशञ्जपभाजनम् // १०
SKतत्रार्पितानां भावानां स्वकभेदविलापनम् / कुर्वंस्तद्रश्मिसद्भावं दद्याद्धोमक्रियापरः // ११
SKतथैवंकुर्वतः सर्वं समभावेन पश्यतः / निष्कम्पता व्रतं शुद्धं साम्यं नन्दिशिखोदितम् // १२
SKतथार्चनजपध्यानहोमव्रतविधिक्रमात् / परिपूर्णां स्थितिं प्राहुः समाधिं गुरवः पुरा // १३
SKअत्र पूजाजपाद्येषु बहिरन्तर्द्वयस्थितौ / द्रव्यौघे न विधिः कोपि न कापि प्रतिषिद्धता // १४
SKकल्पनाशुद्धिसंध्यादेर्नोपयोगोत्र कश्चन / उक्तं श्रीत्रिकसूत्रे च जायते यजनं प्रति // १५
SKअविधिज्ञो विधिज्ञश्चेत्येवमादि सुविस्तरम् / यदा यथा येन यत्र स्वा सम्वित्तिः प्रसीदति // १६
SKतदा तथा तेन तत्र तत्तद्भोग्यं विधिश्च सः / लौकिकालौकिकं सर्वं तेनात्र विनियोजयेत् // १७
SKनिष्कम्पत्वे सकम्पस्तु कम्पं निर्ह्रासयेद्बलात् / यथा येनाभ्युपायेन क्रमादक्रमतोपि वा // १८
SKविचिकित्सा गलत्यन्तस्तथासौ यत्नवान्भवेत् / धीकर्माक्षगता देवीर्निषिद्धैरेव तर्पयेत् // १९
SKवीरव्रतं चाभिनन्देदिति भर्गशिखावचः / तथाहि शङ्का मालिन्यं ग्लानिः संकोच इत्यदः // २०
SKसंसारकारागारान्तः स्थूलस्थूणाघटायते / मन्त्रा वर्णस्वभावा ये द्रव्यं यत्पाञ्चभौतिकम् // २१
SKयच्चिदात्म प्राणिजातं तत्र कः संकरः कथम् / संकराभावतः केयं शङ्का तस्यामपि स्फुटम् // २२
SKन शङ्केत तथा शङ्का विलीयेतावहेलया / श्रीसर्वाचारवीरालीनिशाचरक्रमादिषु // २३
SKशास्त्रेषु विततं चैतत्तत्र तत्रोच्यते यतः / शङ्कया जायते ग्लानिः शङ्कया विघ्नभाजनम् // २४
SKउवाचोत्पलदेवश्च श्रीमानस्मद्गुरोर्गुरुः / सर्वाशङ्काशनिं मार्गं नुमो माहेश्वरं त्विति // २५
SKअनुत्तरपदाप्तये तदिदमाणवं दर्शिताभ्युपायमतिविस्तरान्ननु विदांकुरुध्वं बुधाः /