SKअथोच्यते लिङ्गपूजा सूचिता मालिनीमते // १ब्
SKएतेषामूर्ध्वशास्त्रोक्तमन्त्राणां न प्रतिष्ठितम् / बहिष्कुर्यात्ततो ह्येते रहस्यत्वेन सिद्धिदाः // २
SKस्ववीर्यानन्दमाहात्म्यप्रवेशवशशालिनीम् / ये सिद्धिं ददते तेषां बाह्यत्वं रूपविच्युतिः // ३
SKकिंच चोक्तं समावेशपूर्णो भोक्त्रात्मकः शिवः / भोगलाम्पट्यभाग्भोगविच्छेदे निग्रहात्मकः // ४
SKशान्तत्वन्यक्क्रियोद्भूतजिघत्सावृंहितं वपुः / स्वयं प्रतिष्ठितं येन सोस्याभोगे विनश्यति // ५
SKउक्तं ज्ञानोत्तरायां च तदेतत्परमेशिना / शिवो यागप्रियो यस्माद्विशेषान्मातृमध्यगः // ६
SKतस्माद्रहस्यशास्त्रेषु ये मन्त्रास्तान्बुधो बहिः / न प्रतिष्ठापयेज्जातु विशेषाद्व्यक्तरूपिणः // ७
SKअत एव मृतस्यार्थे प्रतिष्ठान्यत्र योदिता / सात्र शास्त्रेषु नो कार्या कार्या साधारणी पुनः // ८
SKआ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात् / पुत्रकः साधको व्यक्तमव्यक्तं वा समाश्रयेत् // ९
SKपुत्रकैर्गुरुरभ्यर्थ्यः साधकस्तु स्वयं विदन् / यदि तत्स्थापयेन्नो चेत्तेनाप्यर्थ्यो गुरुर्भवेत् // १०
SKगुरुश्चात्र निरोधाख्ये काल इत्थं विभौ वदेत् / जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा // ११
SKलिङ्गं च बाणलिङ्गं वा रत्नजं वाथ मौक्तिकम् / पौष्पमान्नमथो वास्त्रं गन्धद्रव्यकृतं च वा // १२
SKनतु पाषाणजं लिङ्गं शिल्प्युत्थं परिकल्पयेत् / धातूत्थं च सुवर्णोत्थवर्जमन्यद्विवर्जयेत् // १३
SKन चात्र लिङ्गमानादि क्वचिदप्युपयुज्यते / उदारवीर्यैर्मन्त्रैर्यद्भासितं फलदं हि तत् // १४
SKतस्यापि स्थण्डिलाद्युक्तविधिना शुद्धिमाचरेत् / मन्त्रार्पणं तथैव स्यान्निरोधस्तूक्तयुक्तितः // १५
SKअग्नौ च तर्पणं भूरिविशेषाद्दक्षिणा गुरोः / दीनादितृप्तिर्विभवाद्याग इत्यधिको विधिः // १६
SKसर्वेष्वव्यक्तलिङ्गेषु प्रधानं स्यादकल्पितम् / तथा च तत्र तत्रोक्तं लक्षणे पारमेश्वरे // १७
SKसूत्रे पात्रे ध्वजे वस्त्रे स्वयम्भूबाणपूजिते / नदीप्रस्रवणोत्थे च नाह्वानं नापि कल्पना // १८
SKपीठप्रसादमन्त्रांशवेलादिनियमो नच / व्यक्तं वा चित्रपुस्तादौ देवदारुसुवर्णजम् // १९
SKअथ दीक्षितसच्छिल्पिकृतं स्थापयते गुरुः / अथवा लक्षणोपेतमूर्धतत्कर्पराश्रितम् // २०
SKपङ्क्तिचक्रकशूलाब्जविधिना तूरमाश्रयेत् / तल्लक्षणं ब्रुवे श्रीमत्पिचुशास्त्रे निरूपितम् // २१
SKतूरे योगः सदा शस्तः सिद्धिदो दोषवर्जिते / जालकैर्जर्जरै रन्ध्रैर्दन्तैरूनाधिकै रुजा // २२
SKयुक्ते च तूरे हानिः स्यात् तद्धीने याग उत्तमः / काम्य एव भवेत्तूरमिति केचित्प्रपेदिरे // २३
SKगुरवस्तु विधौ काम्ये यत्नाद्दोषांस्त्यजेदिति / व्याचक्षते पिचुप्रोक्तं न नित्ये कर्मणीत्यदः // २४
SKश्रीसिद्धातन्त्र उक्तं च तूरलक्षणमुत्तमम् / एकादिकचतुष्खण्डे गोमुखे पूर्णचन्द्रके // २५
SKपद्मगोरोचनामुक्तानीरस्फटिकसंनिभे / एकादिपञ्चसद्रन्ध्रविद्यारेखान्विते शुभे // २६
SKन रूक्षवक्रशकलदीर्घनिम्नसबिन्दुके / श्लक्ष्णया वज्रसूच्यात्र स्फुटं देवीगणान्वितम् // २७
SKसर्वं समालिखेत्पूज्यं सर्वावयवसुन्दरम् / एतदेवानुसर्तव्यमर्घपात्रेपि लक्षणम् // २८
SKश्रीब्रह्मयामलेप्युक्तं पात्रं गोमुखमुत्तमम् / गजकूर्मतलं कुम्भवृत्तशक्तिकजाकृति // २९
SKअक्षसूत्रमथो कुर्यात्तत्रैवाभ्यर्चयेत्क्रमम् / वीरधातुजलोद्भूतमुक्तारत्नसुवर्णजम् // ३०
SKअक्षसूत्रं क्रमोत्कृष्टं रौद्राक्षं वा विशेषतः / शतं तिथ्युत्तरं यद्वा साष्टं यद्वा तदर्धकम् // ३१
SKतदर्धं वाथ पञ्चाशद्युक्तं तत्परिकल्पयेत् / वक्त्राणि पञ्च चित्स्पन्दज्ञानेच्छाकृतिसंगतेः // ३२
SKपञ्चधाद्यन्तगं चैक्यमित्युपान्त्याक्षगो विधिः / शक्तितद्वत्प्रभेदेन तत्र द्वैरूप्यमुच्यते // ३३
SKततो द्विगुणमाने तु द्विरूपं न्यासमाचरेत् / ततोपि द्विगुणे सृष्टिसंहृतिद्वितयेन तम् // ३४
SKमातृकां मालिनीं वाथ न्यस्येत्खशरसंमिते / उत्तमे तु द्वयीं न्यस्येन्न्यस्य पूर्वं प्रचोदितान् // ३५
SKदीक्षायां मुख्यतो मन्त्रांस्तान्पञ्चदश दैशिकः / यदि वा तत्त्वभुवनकलामन्त्रपदार्णजैः // ३६
SKसंख्याभेदैः कृते सूत्रे तं तं न्यासं गुरुश्चरेत् / कृत्वाक्षसूत्रं तस्यापि सर्वं स्थण्डिलवद्भवेत् // ३७
SKपूजितेन च तेनैव जपं कुर्यादतन्द्रितः / विधिरुक्तस्त्वयं श्रीमन्मालिनीविजयोत्तरे // ३८
SKचक्रवद्भ्रमयन्नेतद्यद्वक्ति स जपो भवेत् / यदीक्षते जुहोत्येतद्बोधाग्नौ संप्रवेशनात् // ३९
SKअथवार्घमहापात्रं कुर्यात्तच्चोत्तरं परम् / नारिकेलमथो बैल्वं सौवर्णं राजतं च वा // ४०
SKतस्याप्येष विधिः सर्वः प्रतिष्ठादौ प्रकीर्तितः / तन्निष्कम्परसैः पूर्णं कृत्वास्मिन्पूजयेत्क्रमम् // ४१
SKअधोमुखं सदा स्थाप्यं पूजितं पूजने पुनः / तत्पात्रमुन्मुखं तच्च रिक्तं कुर्यान्न तादृशम् // ४२
SKपूजान्ते तद्रसापूर्णमात्मानं प्रविधाय तत् / अधोमुखं च संपूज्य स्थापयेत् विचक्षणः // ४३
SKखङ्गं कृपाणिकां यद्वा कर्तरीं मकुरं च वा / विमलं तत्तथा कुर्याच्छ्रीमत्कालीमुखोदितम् // ४४
SKश्रीभैरवकुलेप्युक्तं कुलपर्वप्रपूजने / स्थण्डिलेग्नौ पटे लिङ्गे पात्रे पद्मेथ मण्डले // ४५
SKमूर्तौ घटेस्त्रसंघाते धटे सूत्रेथ पूजयेत् / स्वेन स्वेनोपचारेण सङ्करं वर्जयेदिति // ४६
SKयथाप्सु शान्तये मन्त्रास्तद्वदस्त्रादिषु ध्रुवम् / शत्रुच्छेदादिकर्तारः काम्योतः सङ्करोज्झितः // ४७
SKअकामस्य तु ते तत्तत्स्थानोपाधिवशाद्ध्रुवम् / पाशकर्तनसंशुद्धतत्त्वाप्यायादिकारिणः // ४८
SKअथवा पुस्तकं तादृग्रहःशास्त्रक्रमोम्भितम् / सुशुद्धं दीक्षितकृतं तत्राप्येष विधिः स्मृतः // ४९
SKइत्थं स्वयंप्रतिष्ठेषु यावद्यावत्स्थितिर्भवेत् / विभवैस्तर्पणं शुद्धिस्तावद्विच्छेदवर्जनम् // ५०
SKअत एव यदा भूरिदिनं मण्डलकल्पनम् / तदा दिने दिने कुर्याद्विभवैस्तर्पणं बहु // ५१
SKप्रतिष्ठायां च सर्वत्र गुरुः पूर्वोदितं परम् / सतत्त्वमनुसन्धाय संनिधिं स्फुटमाचरेत् // ५२
SKसिद्धे तु तन्मयीभावे फले पुत्रकसाधकैः / अन्यस्मै तद्द्वयादन्यतरस्मै तत्समर्प्यते // ५३
SKतस्याप्येष विधिः सर्वस्तदलाभे तु सर्वथा / अगाधेम्भसि तत्क्षेप्यं क्षमयित्वा विसृज्य च // ५४
SKइत्येष स्वप्रतिष्ठानविधिः शिवनिरूपितः / परप्रतिष्ठिते लिङ्गे बाणीयेथ स्वयंभुवि // ५५
SKसर्वमासनपक्षे प्राङ्न्यस्य संपूजयेत्क्रमम् / शुद्धाशुद्धाध्वजाः सर्वे मन्त्राः सर्वः शिवान्तकः // ५६
SKअध्वा चेहासने प्रोक्तस्तत्सर्वत्रार्चयेदिदम् / आवाहनविसृष्टी तु तत्र प्राग्वत्समाचरेत् // ५७
SKउक्तं तन्त्रेप्यघोरेशे स्वच्छन्दे विभुना तथा / अथवा प्रत्यहं प्रोक्तमानार्धार्धनियोगतः // ५८
SKकृत्वेष्टं मण्डलं तत्र समस्तं क्रममर्चयेत् / बहुप्रकारभिन्नस्य लिङ्गस्यार्चा निरूपिता // ५९