SKपरोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते // १
SKभुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति / इत्यस्मिन्मालिनीवाक्ये प्रतिः सांमुख्यावाचकः // २
SKसांमुख्यं चास्य शिष्यस्य तत्कृपास्पदतात्मकम् / तमाराध्येति वचनं कृपाहेतूपलक्षणम् // ३
SKतत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते / इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः // ४
SKतत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम् / किंत्वेवमेव करुणानिघ्नस्तं गुरुरुद्धरेत् // ५
SKगुरुसेवाक्षीणतनोर्दीक्षामप्राप्य पञ्चताम् / गतस्याथ स्वयं मृत्युक्षणोदिततथारुचेः // ६
SKअथवाधरतन्त्रादिदीक्षासंस्कारभागिनः / प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः // ७
SKडिम्बाहतस्य योगेशीभक्षितस्याभिचारतः / मृतस्य गुरुणा यन्त्रतन्त्रादिनिहतस्य वा // ८
SKभ्रष्टस्वसमयस्याथ दीक्षां प्राप्तवतोप्यलम् / बन्धुभार्यासुहृत्पुत्रगाढाभ्यर्थनयोगतः // ९
SKस्वयं तद्विषयोत्पन्नकरुणाबलतोपि वा / विज्ञाततन्मुखायातशक्तिपातांशधर्मणः // १०
SKगुरुर्दीक्षां मृतोद्धारीं कुर्वीत शिवदायिनीम् / श्रीमृत्युञ्जयसिद्धादौ तदुक्तं परमेशिना // ११
SKअदीक्षिते नृपत्यादावलसे पतिते मृते / बालातुरस्त्रीवृद्धे च मृतोद्धारं प्रकल्पयेत् // १२
SKविधिः सर्वः पूर्वमुक्तः स तु संक्षिप्त इष्यते / गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः // १३
SKअधिवासचरुक्षेत्रं शय्यामण्डलकल्पने / नोपयोग्यत्र तच्छिष्यसंस्क्रियास्वप्नदृष्टये // १४
SKमन्त्रसंनिधिसंतृप्तियोगायात्र तु मण्डलम् / भूयोदिने च देवार्चा साक्षान्नास्योपकारि तत् // १५
SKक्रियोपकरणस्थानमण्डलाकृतिमन्त्रतः / ध्यानयोगैकतद्भक्तिज्ञानतन्मयभावतः // १६
SKतत्प्रविष्टस्य कस्यापि शिष्याणां च गुरोस्तथा / एकादशैते कथिताः संनिधानाय हेतवः // १७
SKउत्तरोत्तरमुत्कृष्टास्तथा व्यामिश्रणावशात् / क्रियातिभूयसी पुष्पाद्युत्तमं लक्षणान्वितम् // १८
SKएकलिङ्गादि च स्थानं यत्रात्मा संप्रसीदति / मण्डलं त्रित्रिशूलाब्जचक्रं यन्मन्त्रमण्डले // १९
SKअनाहूतेपि दृष्टं सत्समयित्वप्रसाधनम् / तदुक्तं मालिनीतन्त्रे सिद्धं समयमण्डलम् // २०
SKयेन संदृष्टमात्रेति सिद्धमात्रपदद्वयात् / आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः // २१
SKशिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः / कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ // २२
SKगोमयेनाकृतिं कुर्याच्छिष्यवत्तां निधापयेत् / ततस्तस्यां शोध्यमेकमध्वानं व्याप्तिभावनात् // २३
SKप्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधिं चरेत् / महाजालप्रयोगेण सर्वस्मादध्वमध्यतः // २४
SKचित्तमाकृष्य तत्रस्थं कुर्यात्तद्विधिरुच्यते / मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुमीष्टे / यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनमिति महाजालनामा प्रयोगः // २५
SKएतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वमादौ पञ्चादानीयते चेत्सकलमथ ततोप्यध्वमध्याद्यथेष्टम् / आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीयेथ जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः // २६
SKचिरविघटिते सेनायुग्मेयथामिलिते पुनर्हयगजनरं स्वां स्वां जातिं रसादभिधावति / करणपवनैर्नाडीचक्रैस्तथैव समागतैर्निजनिजरसादेकीभाव्यं स्वजालवशीकृतैः // २७
SKमहाजालसमाकृष्टो जीवो विज्ञानशालिना / स्वःप्रेततिर्यङ्निरयांस्तदैवैष विमुञ्चति // २८
SKतज्ज्ञानमन्त्रयोगाप्तः पुरुषश्चैष कृत्रिमम् / योगीव साध्यहृदयात्तदा तादात्म्यमुज्झति // २९
SKस्थावरादिदशाश्चित्रास्तत्सलोकसमीपताः / त्यजेच्चेति न चित्रं स एवं यः कर्मणापि वा // ३०
SKअधिकारिशरीरत्वान्मानुष्ये तु शरीरगः / न तदा मुच्यते देहाद्देहान्ते तु शिवं व्रजेत् // ३१
SKतस्मिन्देहे तु काप्यस्य जायते शाङ्करी परा / भक्तिरूहाच्च विज्ञानादाचार्याद्वाप्यसेवितात् // ३२
SKतद्देहसंस्थितोप्येष जीवो जालबलादिमम् / दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन् // ३३
SKयोगमन्त्रक्रियाज्ञानभूयोबलवशात्पुनः / मनुष्यदेहमप्येष तदैवाशु विमुञ्चति // ३४
SKसुप्तकल्पोप्यदेहोपि यो जीवः सोपि जालतः / आकृष्टो दार्भमायाति देहं फलमयं च वा // ३५
SKजातीफलादि यत्किंचित्तेन वा देहकल्पना / अन्तर्बहिर्द्वयौचित्यात्तदत्रोत्कृष्टमुच्यते // ३६
SKततो जालक्रमानीतः स जीवः सुप्तवत्स्थितः / मनोविशिष्टदेहादिसामग्रीप्राप्त्यभावतः // ३७
SKन स्पन्दते न जानाति न वक्ति न किलेच्छति / तादृशस्यैव संस्कारान् सर्वान् प्राग्वत्प्रकल्पयेत् // ३८
SKनिर्बीजदीक्षायोगेन सर्वं कृत्वा पुरोदितम् / विधिं योजनिकां पूर्णाहुत्या साकं क्षिपेच्च तम् // ३९
SKदार्भादिदेहे मन्त्राग्नावर्पिते पूर्णया सह / मुक्तपाशः शिवं याति पुनरावृत्तिवर्जितः // ४०
SKसप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः / तत्र प्राणमनोमन्त्रार्पणयोगात्तथा भवेत् // ४१
SKसाभ्यासस्य तदप्युक्तं बलाश्वासि न तत्कृते / मृतोद्धारोदितैरेव यथासंभूति हेतुभिः // ४२
SKजीवत्परोक्षदीक्षापि कार्या निर्बीजिका तु सा / तस्यां दर्भाकृतिप्रायकल्पने जालयोगतः // ४३
SKसंकल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः / शिष्टं प्राग्वत्कुशाद्युत्थाकारविप्लोषवर्जितम् // ४४
SKपारिमित्यादनैश्वर्यात्साध्ये नियतियन्त्रणात् / जालाकृष्टिर्विनाभ्यासं रागद्वेषान्न जायते // ४५
SKपरोक्ष एवातुल्याभिर्दीक्षाभिर्यदि दीक्षितः / तत्रोत्तरं स्याद्बलवत्संस्काराय त्वधस्तनम् // ४६
SKभुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा / कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः // ४७
SKपरोक्षदीक्षणे मायोत्तीर्णे भोगाय योजयेत् / भोगानीप्सा दुर्लभा हि सती वा भोगहानये // ४८
SKउक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा / बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा // ४९
SKश्रीमान् धर्मशिवोप्याह पारोक्ष्यां कर्मपद्धतौ / परोक्षदीक्षणे सम्यक् पूर्णाहुतिविधौ यदि // ५०
SKअग्निश्चिटिचिटाशब्दं सधूमं प्रतिमुञ्चति / धत्ते नीलाम्बुदच्छायां मुहुर्ज्वलति शाम्यति // ५१
SKविस्तरो घोररूपश्च महीं धावति चाप्यधः / ध्वांक्षाद्यश्रव्यशब्दो वा तदा तं लक्षयेद्गुरुः // ५२
SKब्रह्महत्यादिभिः पापैस्तत्सङ्गैश्चोपपातकैः / तदा तस्य न कर्तव्या दीक्षास्मिन्नकृते विधौ // ५३
SKनवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः / अमुकस्येति पापानि दहाम्यनु फडष्टकम् // ५४
SKइति साहस्रिको होमः कर्तव्यस्तिलतण्डुलैः / अन्ते पूर्णा च दातव्या ततोस्मै दीक्षया गुरुः // ५५
SKपरयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम् / प्रत्यक्षेपि स्थितस्याणोः पापिनो भगवन्मयीम् // ५६
SKशक्तिं प्राप्तवतो ज्येष्ठामेवमेव विधिं चरेत् / यदि वा दैशिकः सम्यङ् न दीप्तस्तस्य तत्पुरा // ५७
SKप्रायश्चित्तैस्तथा दानैः प्राणायामैश्च शोधनम् / कृत्वा विधिमिमां चापि दीक्षां कुर्यादशङ्कितः // ५८
SKसर्वथा वर्तमानोपि तत्त्वविन्मोचयेत्पशून् / इच्छयैव शिवः साक्षात्तस्मात्तं पूजयेत्सदा // ५९
SKशाठ्यं तत्र न कार्यं च तत्कृत्वाधो व्रजेच्छिशुः / न पुनः कीर्तयेत्तस्य पापं कीर्तयिता व्रजेत् // ६०
SKनिरयं वर्जयेत्तस्मादिति दीक्षोत्तरे विधिः / एषा परोक्षदीक्षा द्विधोदिता जीवदितरभेदेन // ६१