Sutraya

Tantrāloka

Light on the Tantras · तन्त्रालोकः

Āhnika 22: atha śrītantrāloke dvāviṃśatitamamāhnikam

Light on the Tantras

तन्त्रालोकः

SK
लिङ्गोद्धाराख्यामथ वच्मः शिवशासनैकनिर्दिष्टाम् // १
SK
उक्तं श्रीमालिनीतन्त्रे किल पार्थिवधारणाम् / उक्त्वा यो योजितो यत्र स तस्मान्न निवर्तते // २
SK
योग्यतावशसंजाता यस्य यत्रैव शासना / स तत्रैव नियोक्तव्यो दीक्षाकाले ततस्त्वसौ // ३
SK
फलं सर्वं समासाद्य शिवे युक्तोपवृज्यते / अयुक्तोप्यूर्ध्वसंशुद्धिं संप्राप्य भुवनेशतः // ४
SK
शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः / उक्त्वा पुंधारणां चोक्तमेतद्वैदान्तिकं मया // ५
SK
कपिलाय पुरा प्रोक्तं प्रथमे पटले तथा / अनेन क्रमयोगेन संप्राप्तः परमं पदम् // ६
SK
न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति / अतो हि ध्वन्यतेर्थोयं शिवतत्त्वाधरेष्वपि // ७
SK
तत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता / समस्तशास्त्रकथितवस्तुवैविक्त्यदायिनः // ८
SK
शिवागमस्य सर्वेभ्योप्यागमेभ्यो विशिष्टता / शिवज्ञानेन च विना भूयोपि पशुतोद्भवः // ९
SK
क्रमश्च शक्तिसंपातो मलहानिर्यियासुता / दीक्षा बोधो हेयहानिरुपादेयलयात्मता // १०
SK
भोग्यत्वपाशवत्यागः पतिकर्तृत्वसंक्षयः / स्वात्मस्थितिश्चेत्येवं हि दर्शनान्तरसंस्थितेः // ११
SK
प्रोक्तमुद्धरणीयत्वं शिवशक्तीरितस्य हि / अथ वैष्णवबौद्धादितन्त्रान्ताधरवर्तिनाम् // १२
SK
यदा शिवार्करश्म्योघैर्विकासि हृदयाम्बुजम् / लिङ्गोद्धृतिस्तदा पूर्वं दीक्षाकर्म ततः परम् // १३
SK
प्राग्लिङ्गान्तरसंस्थोपि दीक्षातः शिवतां व्रजेत् / तत्रोपवास्य तं चान्यदिने साधारमन्त्रतः // १४
SK
स्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम् / एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया // १५
SK
प्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम् / स्वलिङ्गत्यागशङ्कोत्थं प्रायश्चित्तं च मास्य भूत् // १६
SK
अचिरात्त्वन्मयीभूय भोगं मोक्षं प्रपद्यताम् / एवमस्त्वित्यथाज्ञां च गृहीर्वा व्रतमस्य तत् // १७
SK
अपास्याम्भसि निक्षिप्य स्नपयेदनुरूपतः / स्नातं संप्रोक्षयेदर्घपात्राम्भोभिरनन्तरम् // १८
SK
पञ्चगव्यं दन्तकाष्ठं ततस्तस्मै समर्पयेत् / ततस्तं बद्धनेत्रं च प्रवेश्य प्रणिपातयेत् // १९
SK
प्रणवो मातृका माया व्योमव्यापी षडक्षरः / बहुरूपोथ नेत्राख्यः सप्त साधारणा अमी // २०
SK
तेषां मध्यादेकतमं मन्त्रमस्मै समर्पयेत् / सोप्यहोरात्रमेवैनं जपेदल्पभुगप्यभुक् // २१
SK
मन्त्रमस्मै समर्प्याथ साधारविधिसंस्कृते / वह्नौ तर्पिततन्मन्त्रे व्रतशुद्धिं समाचरेत् // २२
SK
पूजितेनैव मन्त्रेण कृत्वा नामास्य संपुटम् / प्रायश्चित्तं शोधयामि फट्स्वाहेत्यूहयोगतः // २३
SK
शतं सहस्रं वा हुत्वा पुनः पूर्णाहुतिं तथा / प्रयोगाद्वौषडन्तां च क्षिप्त्वाहूय व्रतेश्वरम् // २४
SK
तारो व्रतेश्वरायेति नमश्चेत्येनमर्चयेत् / श्रावयेच्च त्वया नास्य कार्यं किंचिच्छिवाज्ञया // २५
SK
ततो व्रतेश्वरस्तर्प्यः स्वाहान्तेन ततश्च सः / क्षमयित्वा विसृज्यः स्यात्ततोग्नेश्च विसर्जनम् // २६
SK
तच्छ्रावणं च देवाय क्षमस्वेति विसर्जनम् / ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः // २७
SK
अधिवासादिकः स्वेष्टदीक्षाकर्मावसानकः / प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता // २८
SK
साधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः / पुनर्भुवोपि ज्ञानेद्धा भवन्ति गुरुतास्पदम् // २९
SK
मोक्षायैव न भोगाय भोगायाप्यभ्युपायतः / इत्युक्तवान्स्वपद्धत्यामीशानशिवदैशिकः // ३०
SK
श्रीदेव्या यामलीयोक्तितत्त्वसम्यक्प्रवेदकः / गुर्वन्तस्याप्यधोदृष्टिशायिनः संस्क्रियामिमाम् // ३१
SK
कृत्वा रहस्यं कथयेन्नान्यथा कामिके किल / अन्यतन्त्राभिषिक्तेपि रहस्यं न प्रकाशयेत् // ३२
SK
स्वतन्त्रस्थोपि गुर्वन्तो गुरुमज्ञमुपाश्रितः / तत्र पश्चादनाश्वस्तस्तत्रापि विधिमाचरेत् // ३३
SK
अज्ञाचार्यमुखायातं निर्वीर्यं मन्त्रमेष यत् / जप्तवान्स गुरुश्चात्र नाधिकार्युक्तदूषणात् // ३४
SK
ततोस्य शुद्धिं प्राक्कृत्वा ततो दीक्षां समाचरेत् / अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा // ३५
SK
तीव्रशक्तिवशात्पश्चाद्यदा गच्छेत्स सद्गुरुम् / तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा स सद्गुरुः // ३६
SK
दीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः / प्राप्तोपि सद्गुरुर्योग्यभावमस्य न वेत्ति चेत् // ३७
SK
विज्ञानदाने तच्छिष्यो योग्यतां दर्शयेन्निजाम् / सर्वथा त्वब्रुवन्नेष ब्रुवाणो वा विपर्ययम् // ३८
SK
अज्ञो वस्तुत एवेति तत्त्यक्त्वेत्थं विधिं चरेत् / न तिरोभावशङ्कात्र कर्तव्या बुद्धिशालिना // ३९
SK
अधःस्पृक्त्वं तिरोभूतिर्नोर्ध्वोपायविवेचनम् / सिद्धान्ते दीक्षितास्तन्त्रे दशाष्टादशभेदिनि // ४०
SK
भैरवीये चतुःषष्टौ तान्पशून्दीक्षयेत्त्रिके / सिद्धवीरावलीसारे भैरवीये कुलेपि च // ४१
SK
पञ्चदीक्षाक्रमोपात्ता दीक्षानुत्तरसंज्ञिता / तेन सर्वोधरस्थोपि लिङ्गोद्धृत्यानुगृह्यते // ४२
SK
योपि हृत्स्थमहेशानचोदनातः सुविस्तृतम् / शास्त्रज्ञानं समन्विच्छेत्सोपि यायाद्बहून्गुरून् // ४३
SK
तद्दीक्षाश्चापि गृह्णीयादभिषेचनपश्चिमाः / ज्ञानोपोद्बलिकास्ता हि तत्तज्ज्ञानवता कृताः // ४४
SK
उक्तं च श्रीमते शास्त्रे तत्र तत्र च भूयसा / आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् // ४५
SK
विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं त्विति / गुरूणां भूयसां मध्ये यतो विज्ञानमुत्तमम् // ४६
SK
प्राप्तं सोस्य गुरुर्दीक्षा नात्र मुख्या हि संविदि / सर्वज्ञाननिधानं तु गुरुं संप्राप्य सुस्थितः // ४७
SK
तमेवाराधयेद्धीमांस्तत्तज्जिज्ञासनोन्मुखः / इति दीक्षाविधिः प्रोक्तो लिङ्गोद्धरणपश्चिमः // ४८

Sanskrit e-text from GRETIL (Göttingen Register of Electronic Texts in Indian Languages), CC BY-NC-SA 4.0. Tantrāloka: Encoded under the guidance of Jun Takashima from the Kashmir Series of Texts and Studies edition.

Source
Tantrāloka — Reader · Sutraya