SKअथोच्यते समस्तानां शास्त्राणामिह मेलनम् / इह तावत्सम स्तोयं व्यवहारः पुरातनः // १
SKप्रसिद्धिमनुसन्धाय सैव चागम उच्यते / अन्वयव्यतिरेकौ हि प्रसिद्धेरुपजीवकौ // २
SKस्वायत्तत्वे तयोर्व्यक्तिपूगे किं स्यात्तयोर्गतिः / प्रत्यक्षमपि नेत्रात्मदीपार्थादिविशेषजम् // ३
SKअपेक्षते तत्र मूले प्रसिद्धिं तां तथात्मिकाम् / अभितःसंवृते जात एकाकी क्षुधितः शिशुः // ४
SKकिं करोतु किमादत्तां केन पश्यतु किं व्रजेत् / ननु वस्तुशताकीर्णे स्थानेप्यस्य यदेव हि // ५
SKपश्यतो जिघ्रतो वापि स्पृशतः संप्रसीदति / चेतस्तदेवादाय द्राक् सोन्वयव्यतिरेकभाक् // ६
SKहन्त चेतःप्रसादोपि योसावर्थविशेषगः / सोपि प्राग्वासनारूपविमर्शपरिकल्पितः // ७
SKन प्रत्यक्षानुमानादिबाह्यमानप्रसादजः / प्राग्वासनोपजीव्येतत् प्रतिभामात्रमेव न // ८
SKन मृदभ्यवहारेच्छा पुंसो बालस्य जायते / प्राग्वासनोपजीवी चेद्विमर्शः सा च वासना // ९
SKप्राच्या चेदागता सेयं प्रसिद्धिः पौर्वकालिकी / नच चेतःप्रसत्त्यैव सर्वो व्यवहृतिक्रमः // १०
SKमूलं प्रसिद्धिस्तन्मानं सर्वत्रैवेति गृह्यताम् / पूर्वपूर्वोपजीवित्वमार्गणे सा क्वचित्स्वयम् // ११
SKसर्वज्ञरूपे ह्येकस्मिन्निःशङ्कं भासत पुरा / व्यवहारो हि नैकत्र समस्तः कोपि मातरि // १२
SKतेनासर्वज्ञपूर्वत्वमात्रेणैषा न सिद्ध्यति / बहुसर्वज्ञपूर्वत्वे न मानं चास्ति किंचन // १३
SKभोगापवर्गतद्धेतुप्रसिद्धिशतशोभितः / तद्विमर्शस्वभावोसौ भैरवः परमेश्वरः // १४
SKततश्चांशांशिकायोगात्सा प्रसिद्धिः परम्पराम् / शास्त्रं वाश्रित्य वितता लोकान्संव्यवहारयेत् // १५
SKतयैवाशैशवात्सर्वे व्यवहारधराजुषः / सन्तः समुपजीवन्ति शैवमेवाद्यमागमम् // १६
SKअपूर्णास्तु परे तेन न मोक्षफलभागिनः / उपजीवन्ति यावत्तु तावत्तत्फलभागिनः // १७
SKबाल्यापायेपि यद्भोक्तुमन्नमेष प्रवर्तते / तत्प्रसिद्ध्यैव नाध्यक्षान्नानुमानादसम्भवात् // १८
SKनच काप्यत्र दोषाशाशङ्कायाश्च निवृत्तितः / प्रसिद्धिश्चाविगानोत्था प्रतीतिः शब्दनात्मिका // १९
SKमातुः स्वभावो यत्तस्यां शङ्कते नैष जातुचित् / स्वकृतत्ववशादेव सर्ववित्स हि शङ्करः // २०
SKयावत्तु शिवता नास्य तावत्स्वात्मानुसारिणीम् / तावतीमेव तामेष प्रसिद्धिं नाभिशङ्कते // २१
SKअन्यस्यामभिशङ्की स्याद्भूयस्तां बहु मन्यते / एवं भाविशिवत्वोमूं प्रसिद्धिं मन्यते ध्रुवम् // २२
SKएक एवागमश्चायं विभुना सर्वदर्शिना / दर्शितो यः प्रवृत्ते च निवृत्ते च पथि स्थितः // २३
SKधर्मार्थकाममोक्षेषु पूर्णापूर्णादिभेदतः / विचित्रेषु फलेष्वेक उपायः शाम्भवागमः // २४
SKतस्मिन्विषयवैविक्त्याद्विचित्रफलदायिनि / चित्रोपायोपदेशोपि न विरोधावहो भवेत् // २५
SKलौकिकं वैदिकं साङ्ख्यं योगादि पाञ्चरात्रकम् / बौद्धार्हतन्यायशास्त्रं पदार्थक्रमतन्त्रणम् // २६
SKसिद्धान्ततन्त्रशाक्तादि सर्वं ब्रह्मोद्भवं यतः / श्रीस्वच्छन्दादिषु प्रोक्तं सद्योजातादिभेदतः // २७
SKयथैकत्रापि वेदादौ तत्तदाश्रमगामिनः / संस्कारान्तरमत्रापि तथा लिङ्गोद्धृतादिकम् // २८
SKयथाच तत्र पूर्वस्मिन्नाश्रमे नोत्तराश्रमात् / फलमेति तथा पाञ्चरात्रादौ न शिवात्मताम् // २९
SKएक एवागमस्तस्मात्तत्र लौकिकशास्त्रतः / प्रभृत्यावैष्णवाद्बौद्धाच्छैवात्सर्वं हि निष्ठितम् // ३०
SKतस्य यत्तत् परं प्राप्यं धाम तत् त्रिकशब्दितम् / सर्वाविभेदानुच्छेदात् तदेव कुलमुच्यते // ३१
SKयथोर्ध्वाधरताभाक्सु देहाङ्गेषु विभेदिषु / एकं प्राणितमेवं स्यात् त्रिकं सर्वेषु शास्त्रतः // ३२
SKश्रीमत्कालीकुले चोक्तं पञ्चस्रोतोविवर्जितम् / दशाष्टादशभेदस्य सारमेतत्प्रकीर्तितम् // ३३
SKपुष्पे गन्धस्तिले तैलं देहे जीवो जलेमृतम् / यथा तथैव शास्त्राणां कुलमन्तः प्रतिष्ठितम् // ३४
SKतदेक एवागमोयं चित्रश्चित्रेधिकारिणि / तथैव सा प्रसिद्धिर्हि स्वयूथ्यपरयूथ्यगा // ३५
SKसांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् / यतः शिवोद्भवाः सर्व इति स्वच्छन्दशासने // ३६
SKएकस्मादागमाच्चैते खण्डखण्डा व्यपोद्धृताः / लोके स्युरागमास्तैश्च जनो भ्राम्यति मोहितः // ३७
SKअनेकागमपक्षेपि वाच्या विषयभेदिता / अवश्यमूर्ध्वाधरतास्थित्या प्रामाण्यसिद्धये // ३८
SKअन्यथा नैव कस्यापि प्रामाण्यं सिद्ध्यति ध्रुवम् / नित्यत्वमविसंवाद इति नो मानकारणम् // ३९
SKअस्मिन्नंशेप्यमुष्यैव प्रामाण्यं स्यात्तथोदितेः / अन्यथाव्याकृतौ कॢप्तावसत्यत्वे प्ररोचने // ४०
SKअतिप्रसङ्ग सर्वस्याप्यागमस्यापबाधकः / अवश्योपेत्य इत्यस्मिन्मान आगमनामनि // ४१
SKअवश्योपेत्यमेवैतच्छास्त्रनिष्ठानिरूपणम् / प्रधानेङ्गे कृतो यत्नः फलवान्वस्तुतो यतः // ४२
SKअतोस्मिन् यत्नवान् कोपि भवेच्छंभुप्रचोदितः / तत्र तत्र च शास्त्रेषु न्यरूप्यत महेशिना // ४३
SKएतावत्यधिकारी यः स दुर्लभ इति स्फुटम् / इत्थं श्रीशम्भुनाथेन ममोक्तं शास्त्रमेलनम् // ४४